१६ शुकपोतकावदानम्
Technical Details
१६ शुकपोतकावदानम्।
श्रावस्त्यां निदानम्। तेन खलु समयेन अनाथपिण्डदेन गृहपतिना द्वौ शुकशावकौ प्रतिलब्धौ। तेन निवेशनं नीत्वा आलापितौ पोषितौ संवर्धितौ मानुषालापं च शिक्षापितौ। तयोश्चायुष्मानानन्दोऽभीक्ष्णमागत्य चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां करोति-यदुत इदं दुःखम्, अयं दुःखसमुदयः, अयं दुःखनिरोधः, इयं दुःखनिरोधगामिनी प्रतिपदिति। स्थविरस्थविरा अपि भिक्षवोऽनाथपिण्डदस्य गृहपतेर्निवेशनमुपसंक्रामन्ति शारिपुत्रमौद्गल्यायनकाश्यपानन्दरैवतप्रभृतयः। तेषां कालानुकालमुपसंक्रामतां ताभ्यां शुकशावकाभ्यां नामानि परिज्ञातानि। यावदपरेण समयेनायुष्मान् शारिपुत्रोऽनाथपिण्डदस्य गृहपतेर्निवेशनमनुप्राप्तः। अद्राष्टां तौ शुकशावकौ आयुष्मन्तं शारिपुत्रम्। दृष्ट्वा अन्तर्जनमामन्त्रयतः-एष भदन्तः स्थविरः शारिपुत्र आगच्छति, आसनमस्य प्रज्ञापयतेति। एवमायुष्मन्तं महामौद्गल्यायनं काश्यपं रैवतमायुष्मन्तमानन्दं दृष्ट्वा कथयतः-एषोऽस्माकमाचार्यानन्द आगच्छति, आसनमस्य प्रज्ञापयतेति। यावदपरेण समयेन भगवाननाथपिण्डदस्य गृहपतेर्निवेशनमनुप्राप्तः। अद्राष्टां तौ शुकशावकौ भगवन्तं दूरादेवागच्छन्तं प्रासादिकं प्रसादनीयं शान्तेन्द्रियं शान्तमानसं परमेण चित्तमत्युपशमेन समन्वागतं सुवर्णयूपमिव श्रिया ज्वलन्तम्। दृष्ट्वा च पुनस्त्वरितत्वरितमन्तर्जनमामन्त्रयतः-एष भदन्तो भगवानागच्छति, आसनमस्य प्रज्ञापयतेति हृष्टमधुरस्वरेण निकूजतः। अथ भगवांस्तयोरनुग्रहार्थं प्रविश्य प्रज्ञप्त एवासने निषण्णः। निषद्य भगवता शुकशावकौ चतुरार्यसत्यसंप्रतिवेधिकया धर्मदेशनया शरणगमनशिक्षापदेषु प्रतिष्ठापितौ। अथ भगवान् शुकशावकौ अन्तर्जनं च धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः। तौ चान्तर्जनस्य विहरतः प्रमादविहारिणौ बिडालेन प्राणिना गृहीतौ। विह्वलवदनौ छिद्यमानेषु मर्मसु मुच्यमानेषु संधिषु नमो बुद्धाय, नमो धर्माय, नमः संघायेत्युक्त्वा कालगतौ चातुर्महाराजकायिकेषु देवेषूपपन्नौ॥
अथ भगवानन्यतमस्मिन् प्रदेशे स्मितमकार्षीत्। अद्राक्षीदायुष्मानानन्दो भगवन्तं स्मितं प्राविष्कुर्वन्तम्। दृष्ट्वा च पुनर्भगवन्तमिदमवोचत्-नाहेतुप्रत्ययं भदन्त तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति। को भदन्त हेतुः कः प्रत्ययः स्मितस्य प्राविष्करणे ? एवमेतदानन्द, एवमेतत्। नाहेतुप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति। दृष्टौ त्वया आनन्द तौ शुकशावकौ ? दृष्टौ भदन्त। तौ आनन्द शुकशावकौ मम समनन्तरप्रक्रान्तस्य बिडालेन प्राणिना जीविताद् व्यपरोपितौ। तौ बुद्धधर्मसंघावलम्बनया स्मृत्या कालगतौ चातुर्महाराजकायिकेषु देवेषूपपन्नौ॥
अथ संबहुला भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षन्। अश्रौषुः संबहुला भिक्षवः श्रावस्तीं पिण्डाय प्रचरन्तोऽनाथपिण्डदस्य गृहपतेर्निवेशने शुकशावकौ-नमो बुद्धाय, नमो धर्माय, नमः संघायेति कुर्वाणौ बिडालेन प्राणिना व्यपरोपितौ इति। श्रुत्वा च पुनः श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्याः पश्चाद्भक्तपिण्डपातप्रतिक्रान्ताः पात्रचीवरं प्रतिसामय्य पादौ प्रक्षाल्य येन भगवांस्तेनोपसंक्रान्ताः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः। एकान्तनिषण्णाः संबहुला भिक्षवो भगवन्तमिदमवोचन्-इह वयं भदन्त संबहुला भिक्षवः पूर्ववद् यावदनाथपिण्डदस्य गृहपतेर्निवेशने द्वौ शुकशावकौ-नमो बुद्धाय, नमो धर्माय, नमः संघायेति कुर्वाणौ बिडालेन प्राणिना जीविताद्व्यपरोपितौ इति। तयोर्भदन्त का गतिः, कोपपत्तिः, कोऽभिसंपरायः ? भगवानाह-तौ भिक्षवः शुकशावकौ तस्य शरणगमनस्य विपाकेन षट्त्रिंशत्कृत्वश्चातुर्महाराजकायिकेषु देवेषूपपत्स्येते, षट्त्रिंशत्कृत्वस्त्रायस्त्रिंशेषु, यामेषु, तुषितेषु, निर्माणरतिषु, परनिर्मितवशवर्तिषु देवेषूपपत्स्येते। ततस्तावत् षट्सु कामावचरेषु देवेषु सत्त्वा व्यपसंसृत्य पश्चिमे भवे पश्चिमे निकेते पश्चिम आत्मभावप्रतिलम्भे मनुष्यप्रतिलाभं लब्ध्वा प्रत्येकां बोधिमभिसंभोत्स्येते, धर्मश्च सुधर्मश्च प्रत्येकबुद्धौ भविष्यतः। एवं हि भिक्षवो महाफलं धर्मश्रवणं महानुशंसकम्, कः पुनर्वादो धर्मदेशना धर्माभिसमयो वा। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यन्नो धर्मश्रवणाभिरता भविष्यामः। इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
इति श्रीदिव्यावदाने शुकपोतकावदानं षोडशम्॥