५ स्तुतिब्राह्मणावदानम्
Technical Details
५ स्तुतिब्राह्मणावदानम्।
अथ भगवान् हस्तिनापुरमनुप्राप्तः। अन्यतमो ब्राह्मणो भगवन्तं दूरादेव द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव पर्वतं समन्ततो भद्रकं दृष्ट्वा च पुनर्भगवन्तमभिगम्य गाथाभिः स्तोतुमारब्धः -
सुवर्णवर्णो नयनाभिरामः
प्रीत्याकरः सर्वगुणैरुपेतः।
देवातिदेवो नरदम्यसारथिः
तीर्णोऽसि पारं भवसागरस्य॥१॥ इति॥
ततो भगवता स्मितमुपदर्शितम्। धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, पूर्ववद् यावद् भगवत ऊर्णायामन्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ -
नानाविधो रङ्गसहस्रचित्रो
वक्त्रान्तरान्निष्क्रमितः कलापः।
अवभासिता येन दिशः समन्ता -
द्दिवाकरेणोदयता यथैव॥२॥
गाथां च भाषते -
विगतोद्भवा दैन्यमदप्रहीणा
बुद्धा जगत्युत्तमहेतुभूताः।
नाकारणं शङ्खमृणालगौरं
स्मितमुपदर्शयन्ति जिना जितारयः॥३॥
तत्कालं स्वयमधिगम्य धीर बुद्ध्या
श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्।
धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-
रुत्पन्नं व्यपनय संशयं शुभाभिः॥४॥
नाकस्माल्लवणजलाद्रिराजधैर्याः
संबुद्धाः स्मितमुपदर्शयन्ति नाथाः।
यस्यार्थे स्मितमुपदर्शयन्ति धीरा-
स्तं श्रोतुं समभिलषन्ति ते जनौघाः॥५॥ इति॥
भगवानाह - एवमेतदानन्द, एवमेतत्। नाहेतुप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति। दृष्टस्ते आनन्द ब्राह्मणो येन तथागतो गाथया अभिष्टुतः? दुष्टो भदन्त। असौ अनेन कुशलमूलेन विंशतिकल्पं विनिपातं न गमिष्यति। किं तु देवांश्च मनुष्यांश्च गत्वा संसृत्य पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे स्तवार्हो नाम प्रत्येकबुद्धो भविष्यति। भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति- पश्य भदन्त अनेन ब्राह्मणेन भगवानेकया गाथया स्तुतो भगवता च प्रत्येकायां बोधौ व्याकृत इति। भगवानाह - न भिक्षव एतर्हि, यथा अतीतेऽध्वनि अनेनाहमेकया गाथया स्तुतः, मया च पञ्चसु ग्रामवरेषु प्रतिष्ठापितः। तच्छृणु (त), साधु च सुष्ठु च मनसि कुरु(त), भाषिष्ये॥
भूतपूर्वं भिक्षवोऽतीतेऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च। स चातीव कविप्रियः। वाराणस्यामन्यतमो ब्राह्मणः कविः। स ब्राह्मण्योच्यते-ब्राह्मण शीतकालो वर्तते। गच्छ, अस्य राज्ञः कच्चिदनुकूलं भाषितं कृत्वा कदाचित् किंचित् शीतत्राणं संपद्यत इति। स संप्रस्थितः। यावद्राजा हस्तिस्कन्धारूढो निर्गच्छति। स ब्राह्मणः संलक्षयति- किं तावद्राजानं स्तुनोमि आहोस्विद् हस्तिनागमिति। तस्यैतदभवत्-अयं हस्तिनागः सर्वलोकस्य प्रियो मनापश्च। तिष्ठतु तावद्राजा, हस्तिनागं तावदभिष्टौमीति। गाथां च भाषते-
ऐरावणस्याकृतितुल्यदेहो
रूपोपपन्नो वरलक्षणैश्च।
लक्षे प्रशस्तोऽसि महागजेन्द्र
वर्णप्रमाणेन सुरूपरूप॥ ६॥ इति॥
ततो राजा अभिप्रसन्नो गाथां भाषते-
यो मे गजेन्द्रो दयितो मनापः
प्रीतिप्रदो दृष्टिहरो नराणाम्।
त्वं भाषसे वर्णपदानि तस्य
ददामि ते ग्रामवराणि पञ्च॥७॥ इति॥
किं मन्यध्वे भिक्षवो योऽसौ हस्तिनागः, अहमेव तेन कालेन तेन समयेन। तदाप्यहमनेनैकया गाथया स्तुतः, मया चायं पञ्चग्रामवरेषु प्रतिष्ठापितः। एतर्हि अनेनैकगाथया स्तुतः, मयापि चायं प्रत्येकबोधौ व्याकृत इति॥
इदमवोचद्भगवान्। आत्तमनसः ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
इति श्रीदिव्यावदाने स्तुतिब्राह्मणावदानं पञ्चमम्॥