अशोकावदानं
Technical Details
अशोकावदानं
यदा राज्ञाऽशोकेन भगवच्छासने श्रद्धा प्रतिलब्धा स भिक्षून् उवाच। केन भगवच्छासने प्रभूतं दानं दत्तं। भिक्षव ऊचुः। अनाथपिण्डदेन गृहपतिना। राजाऽह। कियत्तेन भगवच्छासने दानं दत्तं। भिक्षव ऊचुः। कोटिशतं तेन भगवच्छासने दानं दत्तं। श्रुत्वा च राजाऽशोकश्चिन्तयति। तेन गृहपतिना भूत्वा कोटिशतं भगवच्छासने दानं दत्तं। तेनाभिहितं। अहमपि कोटीशतं भगच्छासने दानं दास्यामि।
तेन यावच् चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं। सर्वत्र च शतसहस्राणि दत्तानि। जातौ बोधौ धर्मचक्रे परिनिर्वाणे च सर्वत्र शतसहस्रं दत्तं। पञ्चवार्षिकं कृतं। तत्र च चत्वारि शतसहस्राणि दत्तानि। त्रीणि शतसहस्राणि भिक्षूणां भोजितानि। यत्रैकमर्हतां द्वे शैक्षाणां पृथग्जनकल्याणकानां च। कोषं स्थापयित्वा महापृथिवीमन्तःपुरामात्यगणमात्मानं कुनालं चार्यसङ्घे निर्यातयित्वा चत्वारि शतसहस्राणि दत्त्वा निष्क्रीतवान्। षण्णवतिकोट्यो भगवच्छासने दानं दत्तं। स यावद् ग्लानीभूतः। अथ राजा इदानीं न भविष्यामीति विक्लवीभूतः।
तस्य राधगुप्तो नामामात्यो येन सह पांशुदानं दत्तं। तदा स राजानमशोकं विक्लवीभूतमवेक्ष्य पादयोर्निपत्य कृताञ्जलिरुवाच।
यच्छत्रुसङ्घैः प्रबलैः समेत्य
नोद्वीक्षितं चण्डदिवाकराभं।
पद्माननश्रीशतसंप्रपीतं
कस्मात् सवाष्पं तव देव वक्त्रं॥
राजाऽह। राधगुप्त, नाहं द्रव्यविनाशं न राज्यनाशनं न चाश्रयवियोगं शोचामि। किन्तु शोचामि, आर्यैर्यद्, विप्रयोक्ष्यामि।
नाहं पुनः सर्वगुणोपपन्नं
सङ्घं समक्षं नरदेवपूजितं।
संपूजयिष्यामि वरान्नपानैर्
एतद् विचिन्त्याश्रुविमोक्षणं मे॥
अपि च राधगुप्त, अयं मे मनोरथो बभूव, कोटीशतं भगवच्छासने दानं दास्यामीति। स च मेऽभिप्रायो न परिपूर्णः।
ततो राज्ञाऽशोकेन चतस्रः कोटीः परिपुरयिष्यामीति हिरण्यसुवर्णं कुक्कुटारामं प्रेषयितुमारब्धः।
तस्मिंश्च समये कुनालस्य संपदी नाम पुत्रो युवराज्ये प्रवर्तते। तस्यामात्यैर् अभिहितं। कुमार अशोको राजा स्वल्पकालवस्थायी। इदं च द्रव्यं कुक्कुटारामं प्रेष्यते। कोशबलिनश्च राजानः। निवारयितव्यः।
यावत्कुमारेण भाण्डागारिकः प्रतिषिद्धः। यदा राज्ञोऽशोकस्याप्रतिषिद्धा [सम्पत्] तस्य सुवर्णभाजने आहारमुपनाम्यते। भुक्त्वा तानि सुवर्णभाजनानि कुक्कुटारामं प्रेषयति।
तस्य सुवर्णभाजनं प्रतिषिद्धं। रूप्यभाजने आहारमुपनाम्यते। तान्यपि कुक्कुटारामं प्रेषयति। ततो रूप्यभाजनमपि प्रतिषिद्धं। तस्य यावन् मृभ्दाजन आहारमुपनाम्यते।
तस्मिंश्च समये राज्ञोऽशोकस्यार्धामलकं करान्तरगतं। अथ राजाऽशोकः संविग्नः अमात्यान् पौरांश्च संनिपात्य कथयति। कः साम्प्रतं पृथिव्यामीश्वरः।
ततोऽमात्या उत्थायासनाद् येन राजाऽशोकस्तेनाञ्जलिं प्रणम्य ऊचुः। देव पृथिव्यामीश्वरः। अथ राजा अशोकः साश्रुदुर्दिननयनवदनोऽमात्यान् उवाच।
दाक्षिण्यादनृतं हि किं कथयथ भ्रष्टाधिराज्या वयं
शेषं त्वामलकार्धमित्यवसितं यत्र प्रभुत्वं मम।
ऐश्वर्यं धिगनार्यमुद्धतनदीतोयप्रवेशोपमं
मर्त्येन्द्रस्य ममापि यत् प्रतिभयं दारिद्र्यमभ्यागतं॥
अथवा को भगवतो वाक्यमन्यथा करिष्यति। सम्पत्तयो हि सर्वा विपत्तिनिदाना इति प्रतिज्ञातं यदवितथवादिना गौतमेन न हि तद् विसंवदति। प्रतिशिष्यतेऽस्मन्नचिराऽज्ञा मम यावतिथा मनसा साऽद्य महाद्रिशिलातले विहतावन् नदी प्रतिनिवृत्ता।
आज्ञाप्य व्यवधूतडिम्बडमराम् एकातपत्रां महीं
उत्पाट्य प्रतिगर्वितानरिगणान् आश्वास्य दीनातुरान्।
भ्रष्टाऽस्थाऽयतनो न भाटि कृपणः संप्रत्यशोको नृपश्
छिन्नम्लानविशीर्णपत्रकुसुमः शुष्यत्यशोको यथा॥
ततो राजाऽशोकः समीपगतं पुरुषमाहूयोवाच। भद्रमुख पूर्वगुणानुरागाद् भ्रष्टैश्वर्यस्यापि मम इमं तावद् अपश्चिमं व्यापारं कुरु। इदं ममार्धामलकं ग्रहाय कुक्कुटारामं गत्वा सङ्घे निर्यातय। मद्वचनाच्च सङ्घस्य पादाभिवन्दनं कृत्वा वक्तव्यं।
जम्बुद्वीपैश्वर्यस्य राज्ञ एष साम्प्रतं विभव इति। इदं तावद् अपश्चिमं दानं तथा परिभोक्तव्यं यथा मे सङ्घगता दक्षिणा विस्तीर्णा स्यादिति। आह च।
इदं प्रदानं चरमं ममाद्य
राज्यं च तच्चैव गतं स्वभावं।
आरोग्यवैद्योषधिवर्जितस्य
त्राता न मेऽस्त्यार्यगणाद् बहिर्धा॥
तत्तथा भुज्यतां येन प्रदानं मम पश्चिमं।
यथा सङ्घगता मेऽद्य विस्तीर्णा दक्षिणा भवेत्॥
एवं देवेति स पुरुषो राज्ञोऽशोकस्य प्रतिश्रुत्य तदर्धामलकं गृह्य कुक्कुटारामं गत्वा वृद्धान्ते स्थित्वा कृताञ्जलिस्तदर्धामलकं सङ्घे निर्यातयन्नुवाच।
एकच्छत्रसमुच्छ्रयां वसुमतीमाज्ञापयन् यः पुरा
लोकं तापयति स्म मध्यदिवसप्राप्तो दिवा भास्करः।
भाग्यच्छिद्रमवेक्ष्य सोऽद्य नृपतिः स्वैः कर्मभिर्वञ्चितः
संप्राप्ते दिवसक्षये रविरिव भ्रष्टप्रभावः स्थितः॥
भक्त्यावनतेन शिरसा प्रणम्य सङ्घाय तेन खलु दत्तमिदमामलकस्यार्धं लक्ष्मीचापल्यचिन्हितं। ततः सङ्घस्थविरो भिक्षूनुवाच। भदन्ता भवभ्दिः शक्यमिदानीं संवेगमुत्पादयितुं। कुतः। एवं ह्युक्तं भगवता-परविपत्तिः संवेजनीयं स्थानमिति। कस्येदानीं सहृदयस्य संवेगो नोत्पाद्यते। कुतः।
त्यागशूरो नरेन्द्रोऽसौ अशोको मोर्यकुञ्जरः।
जन्बुद्विपेश्वरो भूत्वा जातोऽर्धामलकेश्वरः॥
भृत्यैः स भूमिपतिरद्य हृताधिकारो
दानं प्रयच्छति किलामलकार्धमेतत्।
श्रीभोगविस्तरमदैरतिगर्वितानां
प्रत्यादिशन्निव मनांसि पृथग्जनानां॥
यावद् तदर्धामलकं चुर्णयित्वा यूषे प्रक्षिप्य सङ्घे चारितं।
ततो राजाऽशोको राधगुप्तमुवाच। कथय राधगुप्त कः साम्प्रतं पृथिव्यामीश्वरः।
अथ राधगुप्तोऽशोकस्य पादयोर्निपत्य कृताञ्जलिर् उवाच। देवः पृथिव्यामीश्वरः।
अथ राजाऽशोकः कथंचिदुत्थाय चतुर्दिशमवलोक्य सङ्घायाञ्जलिं कृत्वोवाच।
एष इदानीं महत् कोशं स्थापयित्वा इमां समुद्रपर्यन्तां महापृथिवीं भगवच्छ्रावकसङ्घे निर्यातयामि।
आह च।
इमां समुद्रोत्तमनीलकञ्चुका-
मनेकरत्नाकरभूषिताननां।
ददाम्यहं भुतधरां समन्दरां
सङ्घाय तस्मै ह्युपभुज्यतां फलं॥
अपि च।
दानेनाहमनेन नेन्द्रभवनं न ब्रह्मलोके फलं
काङ्क्षामि द्रुतवारिवेगचपलां प्रागेव राजश्रियं।
दानस्यास्य फलं तु भक्तिमहितं यन्मेऽस्ति तेनाप्नुयां
चित्तैश्वर्यमहर्यमार्यमहितं नायाति यद् विक्रियां॥
यावत् पत्राभिलिखितं कृत्वा दन्तमुद्रया मुद्रितं। ततो राजा महापृथिवीं सङ्घे दत्त्वा कालगतः। यावदमात्यैर्नीलपीताभिः शिविकाभिर्निर्हरित्वा शरीरपूजां कृत्वा ध्मापयित्वा राजानं प्रतिष्ठापयिष्याम इति [उक्तम्]। यावद् राधगुप्तेनाभिहितं। राज्ञाऽशोकेन महापृथिवी सङ्घे निर्यातिता इति। ततोऽमात्यैरभिहितं किमर्थमिति।
राधगुप्त उवाच। एष राज्ञोऽशोकस्य मनोरथो बभूव कोटीशतं भगवच्छासने दानं दास्यामीति। तेन षण्ण्वतिकोट्यो दत्ताः। यावद् आज्ञा प्रतिषिद्धा। तदभिप्रायेण राज्ञा महापृथिवी सङ्घे दत्ता।
यावदमात्यैश्चतस्रः कोटीर् भगवच्छासने दत्त्वा पृथिवीं निष्क्रीय संपदी राज्ये प्रतिष्ठापितः।
संपदिनो बृहस्पति पुत्रो बृहस्पतेऽर्वृषसेनो वृषसेनस्य पुष्यधर्मा पुष्यधर्मणः पुष्यमित्रः। सोऽमात्यानामन्त्रयते। क उपायः स्याद् यदस्माकं नाम चिरं तिष्ठेद्।
तैरभिहितं। देवस्य च वंशाद् अशोको नाम्ना राजा बभूवेति। तेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं यावद् भगवच्छासनं प्राप्यते तावत् तस्य यशः स्थास्यति। देवोऽपि चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयतु।
राजाऽह। महेशाख्यो राजाऽशोको बभूव। अन्यः कश्चिदुपाय इति। तस्य ब्राह्मणपुरोहितः पृथग्जनोऽश्राद्धः। तेनाभिहितं। देव, द्वाभ्यां कारणाभ्यां नाम चिरं स्थास्यति। राज्ञाशोकेन चतुरशीतिधर्मराजिकासहस्रं स्थापितमतस्तस्य नाम चिरं तिष्ठति। भवांश्चेत् तानि नाशयेद् भवतो नाम चिरतरं स्थास्यतीति।
यावद् राजा पुष्यमित्रश्चतुरङ्गबलकायं संनाहयित्वा भगवच्छासनं विनाशयिष्यामीति कुक्कुटारामं निर्गतः। द्वारे च सिंहनादो मुक्तः। यावत् स राजा भीतः पाटलिपुत्रं प्रविष्टः। एवं द्विरपि त्रिरपि। यावद् भिक्षूंश्च सङ्घमाहूय कथयति। भगवच्छासनं नाशयिष्यामीति। किम् इच्छथ स्तूपं सङ्घारामान् वा। स्तूपाः भिक्षुभिः परिगृहीताः। यावत् पुष्यमित्रो यावत् सङ्घारामं [नाशयन्] भिक्षूंश्च प्रघातयन् प्रस्थितः।
स यावच् छाकलमनुप्राप्तः। तेनाभिहितं। यो मे श्रमणशिरो दास्यति तस्याहं दीनारशतं दास्यामि। [तत्र एकः] धर्मराजिकावास्यऽर्हद् ऋद्ध्या शिरो दातुमारब्धः। श्रुत्वा च राजाऽर्हन्तं प्रघातयितुमारब्धः। स च निरोधं समापन्नः। तस्य परोपक्रमो न क्रमते। स तं समुत्सृज्य यावत् कोष्ठकं गतः।
दंष्ट्रानिवासी यक्षश्चिन्तयति। इदं भगवच्छासनं विनश्यति। अहं च शिक्षां धारयानि। न मया शक्यं कस्यचिदप्रियं कर्तुं। तस्य दुहिता कृमिशेन यक्षेण याच्यते। न चानुप्रयच्छति त्वं पापकर्मकारीति। यावत् सा दुहिता तेन कृमिशस्य दत्ता। भगवच्छासनपरित्राणार्थं परिग्रहपरिपालनार्थं च।
पुष्यमित्रस्य राज्ञः पृष्ठतो यक्षो महाप्रमाणोऽनुबद्धः। तस्यानुभावात् स राजा न प्रतिहन्यते। यावद् दंष्ट्रानिवासी यक्षस्तं पुष्यमित्रानुबद्धं यक्षं ग्रहाय पर्वतचर्येऽचरत्। यावद् दक्षिणं महासमुद्रं गतः। कृमिशेन च यक्षेण महान्तं पर्वतमानयित्वा पुष्यमित्रो राजा सबलवाहनोऽवष्टब्धः। तस्य सुनिहित इति संज्ञा व्यवस्थापिता। यदा पुष्यमित्रो राजा प्रघाततस्तदा मौर्यवंशः समुच्छिन्नः।
इति श्रीदिव्यावदानेऽशोकावदानं समाप्तं॥