पांशुप्रदानावदानं
Technical Details
अशोकावदानं
पांशुप्रदानावदानं
योऽसौ स्वमांसतनुभिर्यजनानि कृत्वा-
तप्यच् चिरं करुणया जगतो हिताय।
तस्य श्रमस्य सफलीकरणाय सन्तः
सावर्जितं शृणुत सांप्रतभाष्यमाणं॥
एवं मया श्रुतमेकस्मिन् समये भगवान् श्रावस्त्यां विहरति। इति सूत्रं वक्तव्यं। अत्र तावद् भगवत्तथागतवदनाम्भोधरविवरप्रत्युद्गतवचनसरत्सलिलधारासम्पाताऽपनीतरागद्वेषमोहमदमानमायाशाठ्यपङ्कपटलानां शब्दन्यायादितर्कशास्त्रार्थावलोकनोत्पन्नप्रज्ञाप्रदीपप्रोत्सारितकुशास्त्रदर्शनान्धकाराणां संसारतृष्णाछेदिप्रवरसद्धर्मपयःपानशौण्डानां गुरूणां संनिघौ सर्वाववादकश्रेष्ठं शक्रब्रह्मेशानयमवरूणकुवेरवा[व]सवसोमादित्यादिभिरप्यप्रतिहतशासनं कन्दर्पदर्पापमर्दनशूरं महात्मानम् अतिमहर्द्धिकं स्थविरोपगुप्तमारभ्य काञ्चिदेव विबुधजनमनः प्रसादकारीं धर्म्यां कथां समनुस्मरिष्यामः। तत्र तावद् गुरुभिरवहितश्रोत्रैर्भवितव्यं।
एवमनुश्रूयते। यदा भगवान् परिनिर्वाणकालसमयेऽपलालनागं विनीय कुम्भकारीं चण्डालीं गोपालीं च तेषां मथुरामनुप्राप्तः। तत्र भगवान् आयुष्मन्तमानन्दमामन्त्रयते स्म। अस्यामानन्द मथुरायां मम वर्षशतपरिनिर्वृतस्य गुप्तो नाम गान्धिको भविष्यति। तस्य पुत्रो भविष्यति उपगुप्तनामाऽलक्षणको बुद्धो यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्य करिष्यति। तस्याववादेन बहवो भिक्षवः सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्करिष्यन्ति। तेऽष्टादशहस्तामायामेनं द्वादशहस्तां विस्तारेण चतुरङ्गुलमात्राभिः शलाकाभिर् गुहां पूरयिष्यन्ति। एषोऽग्रो मे आनन्द श्रावकाणां भविष्यति अववादकानां यदुत उपगुप्तो भिक्षुः।
पश्यसि त्वमानन्द दूरत एव नीलनीलाम्बरराजिं। एवं भदन्त। एष आनन्द उरूमुण्डो नाम पर्वतः। अत्र वर्षशतपरिनिर्वृतस्य तथागतस्य शाणकवासी नाम भिक्षुर्भविष्यति। सोऽत्र उरूमुण्डपर्वते विहारं प्रतिष्ठापयिष्यति। उपगुप्तं च प्रव्राजयिष्यति।
मथुरायामानन्द नटो भटश्च द्वौ भ्रातरौ श्रेष्ठिनौ भविष्यतः। तौ उरुमुण्डपर्वते विहारं प्रतिष्ठापयिष्यतः। तस्य नटभटिकेति संज्ञा भविष्यति। एतदग्रं मे आनन्द भविष्यति शमथानुकूलानां शय्यासनानां यदिदं नटभटिकारण्यायतनं।
अथायुष्मान आनन्दो भगवन्तमिदमवोचत्। आश्चर्य भदन्त यद् ईदृशमायुष्मान् उपगुप्तो बहुजनहितं करिष्यति। भगवान् आह। नानन्द एतर्हि, यथातितेऽप्यध्वनि तेन विनिपतितशरीरेणाप्यत्रैव बहुजनहितं कृतं।
उरूमुण्डपर्वते त्रयः पार्श्वाः। एकत्र प्रदेशे पञ्च प्रत्येकबुद्धशातानि प्रतिवसन्ति। द्वितीये पञ्चर्षिशतानि। तृतीये पञ्चमर्कटशतानि। तत्र योऽसौ पञ्चानां मर्कटशतानां यूथपतिः स तं यूथमपहाय यत्र पार्श्वे पञ्च प्रत्येकबुद्धशतानि प्रतिवसन्ति तत्र गतः। तस्य तान् प्रत्येकबुद्धान् दृष्ट्वा प्रसादो जातः। स तेषां प्रत्येकबुद्धानां शीर्णपर्णानि मूल-फलानि चोपनामयति, यदा च ते पर्यङ्केणोपविष्टा भवन्ति स वृद्धान्ते कृत्वा यावन् नवान्तं गत्वा पर्यङ्केणोपविशति।
यावत् ते प्रत्येकबुद्धाः परिनिर्वृताः। स तेषां शीर्णपर्णानि मूल-फलानि चोपनामयति। ते न प्रतिगृण्हन्ति। स तेषां चीवरकर्णिकानि आकर्षयति। पादौ गृण्हाति। यावत् स मर्कटश्चिन्तयति। नियतमेते कालगता भविष्यन्ति। ततः स मर्कटः शोचित्वा परिदेवित्वा च द्वितीयं पार्श्वं गतो यत्र पञ्चर्षिशतानि प्रतिवसन्ति।
ते च ऋषयः केचित् कण्टकापाश्रयाः केचिद् भस्मापाश्रयाः केचिदूर्ध्वहस्ताः केचित् पञ्चातपावस्थिताः। स तेषां तेषाम् ईर्यापथान् विकोपयितुमारब्धः। ये कण्टकापाश्रयास्तेषां कण्टकान् उद्धरति। भस्मापाश्रयाणां भस्म विधुनोति। ऊर्ध्वहस्तानामधो हस्तं पातयति। पञ्चातपावस्थितानामग्निम् अवकिरति। यदा च तैरीर्यापथो विकोपितो भवति तदा स तेषामग्रतः पर्यङ्कं बध्नाति।
यावत् तैरृषिभिराचार्याय निवेदितं। तेनापि चोक्तं। पर्यङ्केण तावन् निषीदत। यावत्तानि पञ्चर्षिशतानि पर्यङ्केणोपविष्टानि। तेऽनाचार्यका अनुपदेशकाः सप्तत्रिंशद् बोधिपक्षान् धर्मानामुखीकृत्य प्रत्येकां बोधिं साक्षात्कृतवन्तः।
अथ तेषां प्रत्येकबुद्धानामेतदभवद्। यत् किञ्चदस्माभिः श्रेयोऽवाप्तं तत् सर्वमिमं मर्कटम् आगम्य। तैर्यावत् स मर्कटः फलमूलैः परिपालितः। कालगतस्य च तच्छरीरं गन्धकाष्ठैर्ध्मापितं।
तत् किं मन्यसे आनन्द योऽसौ पञ्चानां मर्कटशतानां यूथपतिः स एष उपगुप्तः। तदापि तेन विनिपतितशरीरेणाप्यत्रैवोरुमुण्डपर्वते बहुजनहितं कृतं। अनागतेऽप्यध्वनि वर्षशतपरिनिर्वृतस्य ममात्रैवोरुमुण्डपर्वते बहुजनहितं करिष्यति। तच्च यथैवं तथोपदर्शयिष्यामः।
शाणकवास्युपाख्यानं
यदा स्थविरेण शाणकवासिना उरुमुण्डे पर्वते विहारः प्रतिष्ठापितः, समन्वाहरति। किमसौ गन्धिक उत्पन्नः। अथाद्यापि नोत्पद्यत इति। पश्यत्युत्पन्नः। स यावत् समन्वाहरति। योऽसौ तस्य पुत्र उपगुप्तो नाम्नाऽलक्षणको बुद्धो निर्दिष्टो यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति, किमसावुत्पन्नः। अद्यापि नोत्पद्यत इति। पश्यत्यद्यापि नोत्पद्यते।
तेन यावदुपायेन गुप्तो गान्धिको भगवच्छासनेऽभिप्रसादितः। स यदाऽभिप्रसन्नस्तदा स्थविरः संबहुलैर्भिक्षुभिः सार्धमेकदिवसं तस्य गृहं प्रविष्टः अपरस्मिन्नहनि, आत्मद्वितीयः। अन्यस्मिन्नहनि, एकाकी। यावद् गुप्तो गान्धिकः स्थविरं शाणकवासिनमेकाकिनं दृष्ट्वा कथयति। न खल्वार्यस्य कश्चित् पश्चाच्छ्रमणं। स्थविर उवाच। जराधर्माणां कुतोऽस्माकं पश्चाच्छ्रमणो भवति। यदि केचिच्छ्रद्धापुरोगेण प्रव्रजन्ति, तेऽस्माकं पश्चाच्छ्रमणा भवन्ति। गुप्तो गान्धिक उवाच। आर्याहं तावद् गृहवासे परिगृद्धो विषयाऽभिरतश्च। न मया शक्यं प्रव्रजितुं। अपि तु योऽस्माकं पुत्रो भवति तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः। स्थविर उवाच। वत्स एवमस्तु। अपि तु दृढप्रतिज्ञां स्मरेथास्त्वमिति।
यावद् गुप्तस्य गान्धिकस्य पुत्रो जातः। तस्याश्वगुप्त इति नामधेय कृतं।
स यदा महान् संवृत्तस्तदा स्थविरशाणकवासी गुप्तं गान्धिकमधिगम्योवाच। वत्स त्वया प्रतिज्ञातं योऽस्माकं पुत्रो भविष्यति तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः। अयं च पुत्रो जातः। अनुजानीहि प्रव्राजयिष्यामीति। गान्धिक उवाच। आर्य अयमस्माकमेकपुत्रः। मर्षयान्यो योऽस्माकं द्वितीयः पुत्रो भविष्यति, तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः।
यावत् स्थविरशाणकवासी समन्वाहरति। किमयं स उपगुप्तः। पश्यति नेति। तेन स्थविरेणाभिहित एवमस्त्विति। तस्य यावद् द्वितीयः पुत्रो जातः। तस्य धनगुप्त इति नाम कृतं। सोपि यदा महान् संवृत्तस्तदा स्थविरशाणकवासी गुप्तं गान्धिकमुवाच। वत्स त्वया प्रतिज्ञातं योऽस्माकं पुत्रो भविष्यति तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः। अयं च ते पुत्रो जातः। अनुजानीहि प्रव्राजयिष्यामीति। गान्धिक उवाच। आर्य मर्षय एकोऽस्माकं बहिर्धा द्रव्यं संचयिष्यति, द्वितीयोऽन्तर्गृहे परिपालनं करिष्यतीति। अपि तु योऽस्माकं तृतीयः पुत्रो भविष्यति स आर्यस्य दत्तः।
यावत् स्थविरशाणकवासी समन्वाहरति। किमयं स उपगुप्तः। पश्यति नेति। ततः स्थविर उवाच। एवमस्त्विति। यावद् गुप्तस्य गान्धिकस्य तृतीयः पुत्रो जातः। अभिरूपो दर्शनीयः प्रासादिकोऽतिक्रान्तो मानुषवर्णमसंप्राप्तश्च दिव्यवर्णं। तस्य विस्तरेण जातौ जातिमहं कृत्वा उपगुप्त इति नाम कृतम्। सोऽपि यदा महान् संवृत्तो यावत् स्थविरशाणकवासी गुप्तं गान्धिकमभिगम्योवाच। वत्स त्वया प्रतिज्ञातं योऽस्माकं तृतीयः पुत्रो भविष्यति तं वयमार्यस्य दास्यामः पश्चाच्छ्रमणार्थे। अयं ते तृतीयः पुत्र उत्पन्नः। अनुजानीहि प्रव्राजयिष्यामीति। गुप्तो गान्धिक उवाच। आर्य समयतः। यदाऽलाभोऽनुच्छेदो भविष्यतीति तदाऽनुज्ञास्यामि।
यदा तेन समयः कृतस्तदा मारेण सर्वावती मथुरा गन्धाविष्टा। ते (मथुरावासिनः) सर्वे उपगुप्तसकाशाद् गन्धान् क्रीणन्ति। स प्रभूतान् ददाति।
यावत् स्थविरशाणकवासी उपगुप्तसकाशं गतः। उपगुप्तश्च गन्धापणे स्थितः। स धर्मेण व्यवहारं करोति। गन्धान् विक्रीणीते। स स्थविरेण शाणकवासिनाभिहितः। वत्स कीदृशास्ते चित्तचैतसिकाः प्रवर्तन्ते। क्लिष्टा वाऽक्लिष्टा वेति। उपगुप्त उवाच। आर्य नैव जानामि कीदृशाः क्लिष्टाश्चित्तचैतसिकाः कीदृशा अक्लिष्टा इति। स्थविरशाणकवासी उवाच। वत्स यदि केवलं चित्तं परिज्ञातुं शक्यसि प्रतिपक्षं मोचयितुं। तेन तस्य कृष्णिकपट्टिका दत्ता पाण्डुरिका च। यदि क्लिष्टं चित्तमुत्पद्यते कृष्णिकां पट्टिकां स्थापय। अथाऽक्लिष्टं चित्तमुत्पद्यते पाण्डुरां पट्टिकां स्थापय। अशुभां मनसि कुरु। बुद्धानुस्मृतिं च भावयस्वेति। तेनास्य व्यपदिष्टं।
तस्य यावदारब्धा अक्लिष्टाश्चित्तचैतसिकाः प्रवर्तितुं। स द्वौ भागौ कृष्णिकानां स्थापयति। एकं पाण्डुरिकाणां। यावदर्धं कृष्णिकानां स्थापयति। अर्धं पण्डुरिकाणां। यावद् द्वौ भागौ पाण्डुरिकाणां स्थापयति। एकं कृष्णिकानां।
यावदनुपूर्वेण सर्वाण्येव शुक्लानि चित्तान्युत्पद्यन्ते। स पाण्डुरिकाणामेव पट्टिकां स्थापयति। धर्मेण व्यवहारं करोति।
मथुरायां वासवदत्ता नाम गणिका। तस्या दासी उपगुप्तसकाशं गत्वा गन्धान् क्रीणाति। सा वासवदत्तया चोच्यते। दारिकेमुष्यते स गान्धिकस्त्वया, बहून् गन्धान् आनयसीति। दारिकोवाच। आर्यदुहित उपगुप्तो गान्धिकदारको रूपसम्पन्नश्चातुर्यमाधुर्यसम्पन्नश्च धर्मेण व्यवहारं करोति। श्रुत्वा च वासवदत्ताया उपगुप्तसकाशे सानुरागं चित्तमुत्पन्नं। तया यावद् दासी उपगुप्तसकाशं प्रेषिता। त्वत्सकाशमागमिष्यामि। इच्छामि त्वया सार्धं रतिमनुभवितुं। यावद् दास्या उपगुप्तस्य निवेदितं। उपगुप्त उवाच। अकालस्ते भगिनि मद्दर्शनायेति।
वासवदत्ता पञ्चभिः पुराणशतैः परिचार्यते। तस्य बुद्धिरुत्पन्ना। नियतं पञ्चपुराणशतानि नोत्सहते दातुं। तया यावद् दासी उपगुप्तसकाशं प्रेषिता। न ममार्यपुत्रसकाशात् कार्षापणेनापि प्रयोजनं। केवलमार्यपुत्रेण सह रतिमनुभवेयं। दास्य तथा निवेदितं। उपगुप्त उवाच। अकालस्ते भगिनि मद्दर्शनायेति।
यावदन्यतरः श्रेष्ठि-पुत्रो वासवदत्तायाः सकाशं प्रविष्टः। अन्यतरश्च सार्थवाह उत्तरापथात् पञ्चशतमश्वपण्यं गृहीत्वा मथुरामनुप्राप्तः। तेनाभिहितं। कतरा वेश्या सर्वप्रधाना, तेन श्रुतं वासवदत्तेति। स पञ्चपुराणशतानि गृहीत्वा बहून् च प्राभृतान् वासवदत्तायाः सकाशमभिगतः।
ततो वासवदत्तया लोभाकृष्टया तं श्रेष्ठिपुत्रं प्रघातयित्वाऽवस्करे प्रक्षिप्य सार्थवाहेन सह रतिरनुभूता। यावत् स श्रेष्ठिपुत्रो बन्धुभिरवस्कराद् उद्धृत्य राज्ञो निवेदितः। ततो राज्ञाऽभिहितं। गच्छन्तु भवन्तो वासवदत्तां हस्तपादौ कर्णनासे च छित्त्वा श्मशाने छोरयन्तु।
यावत्तैर्वासवदत्ता हस्तपादौ कर्णनासे च छित्त्वा श्मशाने छोरिता। यावद् उपगुप्तेन श्रुतं वासवदता हस्तपादौ कर्णनासे च छित्त्वा श्मशाने छोरिता। तस्य बुद्धिरुत्पन्ना। पूर्वं तया मम विषयनिमित्तं दर्शनमाकाङ्क्षितं। इदानिं तु तस्या हस्तपादौ कर्णनासे च विकर्तितौ। इदानीं तु तस्य दर्शनकाल इति। आह च।
यदा प्रशस्ताम्बरसंवृताङ्गी अभूद् विचित्राभरणैर्विभूषिता।
मोक्षार्थिनां जन्मपराङ्मुखाणां श्रेयस्तदाऽस्यास्तु न दर्शनं स्यात्॥
इदानीं तु कालोऽयं द्रष्टुं गतमानरागहर्षायाः।
निशिताऽसिविक्षतायाः स्वभावनियतस्य रूपस्य॥
यावदेकेन दारकेण उपस्थायकेन छत्रमादाय प्रशान्तेनेर्यापथेन श्मशानमनुप्राप्तः। तस्याश्च प्रेषिका पूर्वगुणानुरागात् समीपेऽवस्थिता काकादीन् निवारयति। तया च वासवदत्ताया निवेदितं। आर्युदुहितर्यस्य त्वयाऽहं सकाशं पुनः पुनरनुप्रेषिता अयं स उपगुप्तोऽभ्यागतः। नियतमेष कामरागार्त आगतो भविष्यति। श्रुत्वा च वासवदत्ता कथयति।
प्रनष्टशोभां दुःखार्ता भूमौ रुधिरपिञ्जरां।
मां दृष्ट्वा कथमेतस्य कामरागो भविष्यति॥
ततः प्रेषिकामुवाच। यौ हस्तपादौ कर्णानासे च मच्छरीराद् विकर्तितौ तौ श्लेषयेति। तया यावच् छ्लेषयित्वा पट्टकेन प्रच्छादिता। उपगुप्तश्चागत्य वासवदत्ताया अग्रतः स्थितः।
ततो वासवदत्ता उपगुप्तमग्रतः स्थितं दृष्ट्वा कथयति। आर्यपुत्र, यदा मच्छशरीरं स्वस्थभूतं विषयरत्यनुकूलं तदा मया आर्यपुत्रस्य पुनः पुनर् दूती विसर्जिता। आर्यपुत्रेणाभिहितं। आकालस्ते भगिनि मम दर्शनायेति। इदानीं मम हस्तपादौ कर्णनासे च विकर्तितौ। स्वरुधिरकर्दम एवावस्थिता। इदानीं किमागतोऽसि। आह च।
इदं यदा पङ्कजगर्भकोमलं महार्हवस्त्राभरणैर्विभूषितं।
बभूव गात्रं मम दर्शनक्षमं तदा न दृष्टोऽसि मयाल्पभाग्यया॥
एतर्हि किं द्राष्टुमिहागतोऽसि मे यदा शरीरं मम दर्शनाक्षमं।
निवृत्तलीलारतिहर्षविस्मयं भयावहं शोणितपङ्कलेपनं॥
उपगुप्त उवाच।
नाहं भगिनि कामार्तः संनिधावागतस्तव।
कामानामशुभानां तु स्वभावं द्रष्टुमागतः॥
प्रच्छादिता वस्त्रविभूषणाद्यैर्वाह्यैर्विचित्रैर्मदनानुकूलैः।
निरीक्ष्यमाणापि हि यत्नवभ्दिर्नाप्यत्र दृष्टाऽसि भवेद्यथा च॥
इदं तु रूपं तव दृष्यमेतत् स्थितं स्वभावे रचनाद् वियुक्तं।
तेऽपण्डितास्ते च विगर्हणीया ये प्राकृतेऽस्मिन् कृणपे रमन्ते॥
त्वचावनद्धे रुधिरावसक्ते चर्मावृते मांसघनावलिप्ते।
शिरासहस्रैश्च वृते समन्तात् को नाम रज्येत कुतः शरीरे॥
अपि च भगिनि।
बहिर्भद्राणि रूपाणि दृष्ट्वा बालोऽभिरज्यते।
अभ्यन्तरविदुष्टानि ज्ञात्वा धीरो विरज्यते॥
अवकृष्टाऽवकृष्टस्य कुणपस्य ह्यमेध्यता।
मेध्याः कामोपसंहाराः कामिनः शुभसंज्ञिनः॥
इह हि।
दौर्गन्ध्यं प्रतिवार्यते बहुविधैर्गन्धैरमेध्याकरैः
वैकृत्यं बहिराध्रियेत विविधैर्वस्त्रादिभिर्भूषणैः।
स्वेदक्लेदमलादयोऽप्यशुचयस्तान् निर्हरत्यम्भसा
येनाऽमेध्यकरङ्कमेतदशुभं कामात्मभिः सेव्यते॥
संबुद्धस्य तु ते वचः सुवचसः शृण्वन्ति कुर्वन्त्यपि
ते कामान् श्रमशोकदुःखजननान् सभ्दिः सदा गर्हितान्।
त्यक्त्वा कामनिमित्तमुक्तमनसः शान्ते वने निर्गताः
पारं यान्ति भवार्णवस्य महतः संश्रित्य मार्गप्लवं॥
श्रुत्वा वासवदत्ता संसारादुद्विग्ना बुद्धगुणानुस्मरणाच् चावर्जितहृदयोवाच।
एवमेतत् तथा सर्वं यथा वदति पण्डितः।
मे त्वां साधु समसाद्य बुद्धस्य वचनं श्रुतं॥
यावद् उपगुप्तेन वासवदत्ताया अनुपूर्विकां कथां कृत्वा सत्यानि संप्रकाशितानि। उपगुप्तश्च वासवदत्तायाः शरीरस्वभावमवगम्य कामधातुवैराग्यं गतः। तेन आत्मियया धर्मदेशनया सह सत्याभिसमयाद् अनागामिफलं वासवदत्तया च श्रोतापत्तिफलं प्राप्तं। ततो वासवदत्ता दृष्टसत्या उपगुप्तं संरागयन्ती उवाच।
तवानुभावात् पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।
अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥
अपि च। एषाऽहं तं भगवन्तं तथगतम् अर्हन्तं सम्यक्-संबुद्धं शरणं गच्छामि। धर्मं च भिक्षुसङ्घं चेत्याह।
एष व्रजामि शरणां विबुद्धनवकमलविमलधवलनेत्रं।
तममरबुधजनसहितं जिनं विरागं सङ्घं चेति॥
यावद् उपगुप्तो वासवदत्तां धर्म्यया कथया संदर्श्य प्रक्रान्तः। अचिरप्रक्रान्ते चोपगुप्ते वासवदत्ता कालगता देवेषूपपन्ना। दैवतैश्च मथुरायामारोचितं। वासवदत्तया उपगुप्तसकाशाद् धर्मदेशनां श्रुत्वा आर्यसत्यानि दृष्टानि। सा कालगता देवेषूपपन्नेति। श्रुत्वा च मथुरावास्तव्येन जनकायेन वासवदत्तायाः शरिरे पूजा कृता।
यावत् स्थविरशाणकवासी गुप्तं गान्धिकम् अभिगम्योवाच। अनुजानीहि उपगुप्तं प्रव्राजयिष्यामीति। गुप्तो गान्धिक उवाच। आर्य एष समयः। यदा न लाभो न छेदो भविष्यति तदाऽनुज्ञास्यामीति।
यावत् स्थविरशाणकवासिना ऋद्ध्या तथाऽधिष्ठितं यथा न लाभो न छेदः। ततो गुप्तो गान्धिको गणयति तुलयति मापयति। पश्यति न लाभो न छेदः।
ततः स्थविरशणकवासी गुप्तं गान्धिकम् उवाच। अयं हि भगवता बुद्धेन निर्दिष्टः, मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति। अनुजानीहि प्रव्राजयिष्यामीति।
यावद् गुप्तेन गान्धेकेन अभ्यनुज्ञातः। ततः स्थविरेण शाणकवासिना उपगुप्तो नटभटिकारण्यायतनं नीतं। उपसंपादितश्च ज्ञप्तिचतुर्थं च कर्म व्यवसितं। उपगुप्तेन च सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्कृतं।
ततः स्थविरेण शाणकवासिनाऽभिहितं। वत्स उपगुप्त त्वं भगवता निर्दिष्टो वर्षशतपरिनिर्वृतस्य मम उपगुप्तो नाम भिक्षुर्भविष्यति, अलक्षणक्तो बुद्धः। यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति। एषोऽग्रो मे आनन्द श्रावकाणामववादकानां यदुतोपगुप्तो भिक्षुः। इदानीं वत्स शासनहितं कुरुष्वेति। उपगुप्त उवाच। एवमस्त्विति।
ततः स धर्मश्रवणेऽधीष्टः। मथुरायां च शब्दो विसृतः। उपगुप्तो नामाऽलक्षणको बुद्धोऽद्य धर्मं देशयिष्यतीति। श्रुत्वा चानेकानि प्राणिशतसहस्राणि निर्गतानि।
यावत् स्थविरोपगुप्तः समापद्याऽवलोकयति। कथं तथागतस्य परिषन् निषण्णाः। पश्यति चार्धचन्द्रिकाऽकारेण पर्षद् अवस्थिता। यवद् अवलोकयति कथं तथागतेन धर्मदेशना कृता। पश्यति पूर्वकालकरणीयां कथां कृत्वा सत्यसंप्रकाशना कृता। सोऽपि पूर्वकालकरणीयां कथां कृत्वा सत्यसंप्रकाशनां कर्तुमारब्धः।
मारेण च तस्यां पर्षदि मुक्ताहारवर्षमुत्सृष्टं। वैनेयानां मनांसि व्याकुलीकृतानि। एकेनापि सत्यदर्शनं न कृतं।
यावत् स्थविरोपगुप्तो व्यवलोकयति। केनाऽयं व्याक्षेपः कृतः। पश्यति मारेण।
यावद् द्वितीये दिवसे बहुतरको जनकायो निर्गतः। उपगुप्तो धर्मं देशयति। मुक्ताहारं च वर्षोपवर्षितमिति। यावद् द्वितीयेऽपि दिवसे स्थविरोपगुप्तेन पूर्वकालकरणीयां कथां कृत्वा सत्यसंप्रकाशनायामारब्धायां मारेण चास्य पर्षदि सुवर्णवर्षमुत्सृष्टं। वैनेयानां मनांसि संक्षोभोतानि। एकेनापि सत्यदर्शनं न कृतं।
यावत् स्थविरोपगुप्तो व्यवलोकयति, केनायं व्याक्षेपः कृतः। पश्यति मारेण पापीयसेति।
यावत् तृतीये दिवसे बहुतरको जनकायो निर्गतः। उपगुप्तो धर्मं देशयति। मुक्तावर्षं सुवर्णवर्षं च पततीति। यावत् तृतीयेऽपि दिवसे स्थविरोपगुप्तः पूर्वकालकरणीयां कथां कृत्वा सत्यानि आरब्धः संप्रकाशयितुं। मारेण च नातीदूरे नाटकमारब्धं। दिव्यानि च वाद्यानि संप्रवादितानि। दिव्याश्चाप्सरसो नाटयितुं प्रवृत्ताः। यावद् वीतरागो जनकायो दिव्यानि रूपाणि दृष्ट्वा दिव्यांश्च शब्दान् श्रुत्वा मारेणाकृष्टः।
अतो मारेणोपगुप्तस्य पर्षद् आकृष्टा। प्रीतमनसा मारेण स्थविरोपगुप्तस्य शिरसि माला बद्धा। यावत् स्थविरोपगुप्तः समन्वाहरितुमारब्धः। कोऽयं। पश्यति मारः। तस्य बुद्धिरुत्पन्ना। अयं मारो भगवच्छासने महान्तं व्याक्षेपं करोति। किमर्थमयं भगवता न विनीतः। पश्यति ममायं विनेयः। तस्य च विनयात् सत्त्वानुग्रहादहं भगवता अलक्षणको बुद्धो निर्दिष्टः।
यावत् स्थविरोपगुप्तः समन्वाहरति। किमस्य विनेयकाल उपस्थित आहोस्विन् नेति। पश्यति विनेयकाल उपस्थितः। ततः स्थविरोपगुप्तेन त्रयः कुणपा गृहीताः। अहिकुणपं कुर्कुस्कुणपं मनुष्यकुणपं च। ऋद्ध्या च पुष्पमालामभिनिर्माय मारसकाशमभिगतः। दृष्ट्वा च मारस्य प्रीतिरुत्पन्ना। उपगुप्तोऽपि मयाऽकृष्ट इति।
ततो मारेण स्वशरीरमुपनामितं। स्थविरोपगुप्तः स्वयमेव बध्नाति। ततः स्थविरेणोपगुप्तेन अहिकुणपं मारस्य शिरसि बद्धं। कुर्कुरकुणपं ग्रीवायां कर्णावसक्तं मनुष्यकुणपं च। ततः समालभ्योवाच।
भिक्षुजनप्रतिकूला माला बद्धा यथैव मे भवता।
कामिजन-प्रतिकूलं तव कुणपमिदं मया बद्धं॥
यत् ते बलं भवति तत् प्रतिदर्शयस्व
बुद्धात्मजेन हि सहाद्य समागतोऽसि।
उग्दृत्तमप्यनिलभिन्नतरङ्गवक्त्रं
व्यावर्तते मलयकुक्षिषु सागराम्भः॥
अथ मारस्तं कुणपमपनेतुमारब्धः। परमपि च स्वयमनुप्रविश्य पिपीलिक इव अद्रिराजमपनेतुं न शशाक। सामर्षो वैहायसमुत्पत्य उवाच।
यदि मोक्तुं न शक्यामि कण्ठात् स्वकुणपं स्वयं।
अन्ये देवा हि मोक्ष्यन्ते मतोऽभ्यधिकतेजसः॥
स्थविर उवाच।
ब्रह्माणं वज्र शरणं शतक्रतुं वा
दीप्तं वा प्रविश हुताशमर्णवं वा।
न क्लेदं न च परिशोषणं न भेदं
कण्ठस्थं कुणपमिदं तु यास्यतीह॥
स महेन्द्ररुद्रोपेन्द्रद्रविणेश्वरयमवरुणकुवेरवसवादीनां देवानामभिगम्य अकृतार्थ एव ब्रह्माणमभिगतः।
तेन चोक्तं।
मर्षय वत्स।
शिष्येण दशबलस्य स्वयमृद्ध्या कृतान्तमर्यादा।
कस्तां भेत्तुं शक्तो वेलां वरुणालयस्येव॥
अपि पद्मनालसूत्रैर्बद्धवा हिमवन्तमुद्धरेत् क्वचित्।
न तु तव कण्ठासक्तं श्वकुणपमिदमुद्धरेयमहं॥
कामं ममापि महदस्ति बलं तथापि नाहं तथागतसुतस्य बलेन तुल्यः।
तेजस्विनां न खलु न ज्वलनेऽस्ति किन्तु नासौ द्युतिर्हुतवहे रविमण्डलेया॥
मारोऽब्रवीत्। किमिदानीमाज्ञापयसि। कं शरणं व्रजामीति।
ब्रह्माऽब्रवीत्।
शीघ्रं तमेव शरणं व्रज यं समेत्य भ्रष्टस्त्वमृद्धिविभवाद् यशसः सुखाच्च।
भ्रष्टो हि यः क्षितितले भवतीह जन्तुरुत्तिष्ठति क्षितिमसाववलम्ब्य भूयः॥
अथ मारस्तथागतशिष्यसामर्थ्यमुपलभ्य चिन्तयामास।
ब्रह्मणा पुज्यते यस्य शिष्याणामपि शासनं।
तस्य बुद्धस्य सामर्थ्यं प्रमातुं को नु शक्नुयात्॥
कर्तुकामोऽभविष्यत् कां शिष्टिं क्षमो न सुव्रतः।
यां नऽकरिष्यत् क्षान्त्यां तु तेनाहमनुरक्षितः॥
किं बहुना।
अद्यावैमि मुनेर्महाकरुणतां तस्यातिमैत्रात्मनः
सर्वोपद्रवविप्रमुक्तमनसश्चामीकराद्रिद्युतिः।
मोहान्धेन हि तत्र तत्र स मया तैस्तैर्नयैः खेदितः
तेनाहं च तथापि नाम बलिना नैवाप्रियं श्रावितः॥
अथ कामधात्वधिपतिर्मारो नास्त्यन्या गतिर् अन्यत्र उपगुप्तकादेवेति ज्ञात्वा सर्वमुत्सृज्य स्थविरोपगुप्तसमीपमुपेत्य पादयोर्निपत्योवाच। भदन्त किमविदितमेतद् भदन्तस्य यथा बोधिमूलमुपादाय मया भगवतो विप्रियशतानि कृतानि। कुतः।
शालायां ब्राह्मणग्रामे मामासाद्य स गौतमः।
भक्तच्छेदमपि प्राप्य नाकार्षीन् मम विप्रियं॥
गौर्भूत्वा सर्पवत् स्थित्वा कृत्वा शाकटिकाकृतिं।
स मयाऽयासितो नाथो न चाहं तेन हिंसितः॥
त्वया पुनरहं वीर त्यक्त्वा हि सहजां दयां।
सदेवासुरमध्येषु लोकेष्वद्य विडम्बितः॥
स्थविरोऽब्रवीत्। पापीयान् कथमपरीक्ष्यैव तथगतमाहात्म्येषु श्रावकमुपसंहरसि।
किं सर्षपेण समतां नयसीह मेरुं
खद्योतकेन रविमञ्जलिना समुद्रं।
अन्या हि सा दशबलस्य कृपा प्रजासु
न श्रावकस्य हि महाकरुणास्ति सौम्य॥
अपि च।
यदर्थं हि भगवता सापराधोऽपि मर्षितः।
इदं तत् कारणं साक्षाद् अस्माभिरुपलक्षितं॥
मार उवाच।
ब्रूहि ब्रूहि श्रीमतस्तस्य भावं
सङ्गं छेत्तुं क्षान्तिगुप्तव्रतस्य।
यौऽसौ मोहान्नित्यमायसितो मे
तेनाहं च प्रेक्षितो मैत्रचित्तैः॥
स्थविर उवाच। शृणु सौम्य त्वं हि भगवत्यसकृदसकृदवस्खलितः। न च बुद्धावरोपितानामकुशलानां धर्माणामन्यत् प्रक्षालनमन्यत्र तथागतप्रसादादेव।
तदेतत् कारणं तेन पश्यता दीर्घदर्शिना।
त्वं नाऽप्रियमिह प्रोक्तः प्रियाण्येव तु लम्भितः॥
न्यायेनानेन भक्तिस्तव हृदि जनिता तेनाग्रमतिना
स्वल्पापि ह्यत्र भक्तिर्भवति मतिमतां निर्वाणफलदा।
संक्षेपाद् यत् कृतं ते वृजिनमिह मुनेर्मोहान्धमनसा
सर्वं प्रक्षालितं तत् तवहृदयगतैः श्रद्धाम्बुविसरैः॥
अथ मारः कदम्बपुष्पवद् आहृष्टरोमकूपः सर्वाङ्गेण प्रणिपत्योवाच।
स्थाने मया बहुविधं परिखेदितोऽसौ
प्राक् सिद्धितश्च भुवि सिद्धिमनोरथेन।
सर्वं च मर्षितमृषिप्रवरेण तेन
पुत्रापराध इव सानुनयेन पित्रा॥
स बुद्धप्रसादाप्ययितमनाः सुचिरं बुद्धगुणाननुस्मृत्य स्थविरस्य पादयोर्निपत्योवाच।
अनुग्रहो मेऽद्य परः कृतस्त्वया निवेशितं यन् मयि बुद्धगौरवं।
इदं तु कण्ठव्यवलम्बि मैत्र्या महर्षिकोपाभरणं विसर्जय॥
स्थविर उवाच। समयतो विमोक्ष्यामीति। मार उवाच। कः समय इति। स्थविर उवाच। अद्यप्रभृति भिक्षवो न विहेठयितव्या इति। मारोऽब्रवीत्। न विहेठयिष्ये। किमपरमाज्ञापयसीति। स्थविर उवाच। एवं तावच्छासनकार्यं प्रति ममाज्ञा। स्वकार्यं प्रति विज्ञापयिष्यामि भवन्तं। मारः ससम्भ्रम उवाच। प्रसीद स्थविर किमाज्ञापयसीति। स्थविरोऽब्रवीत्। स्वयमवगच्छसि यदहं वर्षशतपरिनिर्वृते भगवति प्रव्रजितः। तद्
धर्मकायो मया तस्य दृष्टस्त्रैलोक्यनाथस्य।
काञ्चनाद्रिनिभस्तस्य न दृष्टो रूपकायो मे॥
तदनुपममनुग्रहं प्रति त्वमिह विदर्शय बुद्धविग्रहं।
प्रियमधिकमतो हि नास्ति मे दशबलरूपकुतूहलो ह्यहं॥
मार उवाच। तेन हि ममापि समयः श्रूयतां।
सहसा त्वमिहोद्विक्ष्य बुद्धनेपथ्यधारिणं।
न प्रणामस्त्वया कार्यः सर्वज्ञगुणगौरवात्॥
बुद्धानुस्मृतिपेशलेन मनसा पूजां यदि त्व मयि
स्वल्पामप्युपदर्शयिष्यसि विभो दग्धो भविष्याम्यहं।
का शक्तिर्मम वीतरागविहितां सोढुं प्रणामक्रियां
हस्तन्यासमिवोद्वहन्ति न गजस्यैरण्डवृक्षाङ्कुराः॥
स्थविरोप्याह। एवमस्तु। न भवन्तं प्रणमिष्यामीति। मारोऽब्रवीत्। तेन मुहूर्तमागमस्व यावदहं वनगहनमनुप्रविश्य
शूरं वञ्चयितुं पुरा व्यवसितेनोत्तप्तहेमप्रभं
बौद्धं रूपमचिन्त्यबुद्धविभवादासीन्मया यत्कृतं।
कृत्वा रूपमहं तदेव नयनप्रल्हादिकं देहिनां
एष्याम्यर्कमयूखजालममलं भामण्डलेनाक्षिपन्॥
अथ स्थविर एवमस्तु इत्युक्त्वा तं कुणपमपनीय तथागतरूपदर्शनोत्सुकोऽवस्थितः। मारश्च वनगहनमनुप्रविश्य बुद्धरूपं कृत्वा नट इव सरुचिरनेपथ्यस्तस्माद्वनगहनादारब्धोनिष्क्रमितुं। वक्ष्यते हि। ताथागतं वपुरथोत्तमलक्षणाढ्यमादर्शयन्नयनशान्तिकरं नराणां। प्रत्यग्ररङ्गमिव चित्रपटं महार्हमुद्घातयन् वनमसौ तदलंचकार॥
अथ व्यामप्रभामण्डलमण्डितमसेचनकदर्शनं भगवतो रूपमभिनिर्माय दक्षिणे पार्श्वे स्थविरशारद्वतीपुत्रं वामपार्श्वे स्थविरमहामौद्गल्यायनं पृष्ठश्चायुष्मन्तमानन्दं बुद्धपात्रव्यग्रहस्तं स्थविरमहाकाश्यपानिरुद्धसुभूतिप्रभृतीनां च महाश्रावकाणां रूपाण्यभिनिर्माय अर्धत्रयोदशभिर्भिक्षुशतैरर्धचन्द्रेणानुपरिवृतं बुद्धवेशमादर्शयित्वा मारः स्थविरोपगुप्तस्यान्तिकमाजगाम। स्थविरोपगुप्तस्य च भगवतो रूपमिदमिदृशमिति प्रामोद्यमुत्पन्नं।
स प्रमुदितमनास्त्वरितमासनादुत्थाय निरीक्षमाण उवाच।
धिगस्तु तां निष्करुणामनित्यतां
भिनत्ति रूपाणि यदीदृशान्यपि।
शरीरमीदृक् किल तन्महामुनेर्
अनित्यतां प्राप्य विनाशमागतं॥
स बुद्धावलम्बितया स्मृत्या तथाप्यासक्तमनाः संवृत्तो यथा बुद्धं भगवन्तमहं पश्यामीति व्यक्तमुपागतः। स पद्ममुकुलप्रतिममञ्जलिं कृत्वोवाच। अहो रूपशोभाः भगवतः। किं बहुना।
वक्त्रेणाभिभवत्ययं हि कमलं नीलोत्पलं चक्षुषा
कान्त्या पुष्पवनं मन प्रियतया चन्द्रं समाप्तद्युतिं।
गाम्भीर्येण महोदधिं स्थिरतया मेरुं रविं तेजसा
गत्या सिंहमवेक्षितेन वृषभं वर्णेन चामीकरं॥
स भूयसा मात्रया हर्षेणापूर्यमाणहृदयो व्यापिना स्वरेणोवाच।
अहो भवविशुद्धानां कर्मणां मधुरं फलं।
कर्मणेदं कृतं रूपं नैश्वर्येण यदुच्छया॥
यत्तत् कल्पसहस्र-कोटिनियुतैर्वाक्कायचित्तोभ्दवं
दानक्षान्तिसमाधिबुद्धिनियमैस्तेनार्हता शोधितं।
तेनेदं जननेत्रकान्तममलं रूपं समुत्थापितं
यं दृष्ट्वा रिपुरप्यभिप्रमुदितः स्यात् किं पुनर्मद्विधः॥
संबुद्धालम्बनैः संज्ञां विस्मृत्य बुद्धसंज्ञामधिष्ठाय मूलनिकृत्त इव द्रूमः सर्वशरीरेण मारस्य पादयोर्निपतितः। अथ मारः ससम्भ्रमोऽब्रवीत्। एवं त्वं भदन्त नार्हसि समयं व्यतिक्रमितुं। स्थविर उवाच। कः समय इति। मार उवाच। ननु प्रतिज्ञातं भदन्तेन नाहं भवन्तं प्रणमिष्यामीति।
ततः स्थविर उपगुप्तः पृथिवीतलादुत्थाय सगद्गदकण्ठोऽब्रवीत। पापीयान्।
न खलु न विदितं मे यत् स वादिप्रधानो
जलविहत इवाग्नि र्निर्वृतिं संप्रयातः।
अपि तु नयनकान्तिमाकृतिं तस्य दृष्ट्वा
तमृषिमभिनतोऽहं त्वां तु नाभ्यर्चयामि॥
मार उवाच। कथमिहाहं नार्चितो भवामि यदेवं मा प्रणमसीति।
स्थविरोऽब्रवीत्। श्रूयतां यथा त्वं नैव मयाऽभ्यर्चितो भवसि न च मया समयातिक्रमः कृत इति।
मृन्मयीषु प्रतिकृतिष्वमराणां यथा जनः।
मृत्संज्ञा[न्ता]मनादृत्य नमत्यमरसंज्ञया॥
तथाऽहं त्वामिहोद्वीक्ष्य लोकनाथवपुर्धरं।
मारसंज्ञामनादृत्य नतः सुगतसंज्ञया॥
अथ मारो बुद्धवेशमन्तर्धापयित्वा स्थविरोपगुप्तमभ्यर्च्य प्रक्रान्तः। यावच् चतुर्थे दिवसे मारः स्वयमेव मथुरायां घण्टावघोषित्तुमारब्धः। यो युष्माकं स्वर्गापवर्गसुखं प्रार्थयते स स्थविरोपगुप्तसकाशाद् धर्मं शृणोतु। यैश्च युष्माभिस्तथागतो न दृष्टस्ते स्थविरोपगुप्तं पश्यन्त्विति। आह च।
उत्सृज्य दारिद्रमनर्थमूलं यः स्फीतशोभां श्रियमिच्छतीह।
स्वर्गापवर्गाय च यस्य वाञ्छा स श्रद्धया धर्ममतः शृणोतु॥
दृष्टो न यैर्वा द्विपदप्रधानः शास्ता महाकारुणिकाः स्वयम्भूः।
ते शास्तृकल्पं स्थविरोपगुप्तं पश्यन्तु भास्वत् त्रिभवप्रदीपं॥
यावन् मथुरायां शब्दो विसृतः स्थविरोपगुप्तेन मारो विनीत इति। श्रुत्वा च यभ्दूयसा मथुरावास्तव्यो जनकायः स्थविरोपगुप्तसकाशं निर्गतः। ततः स्थविरोपगुप्तोऽनेकेषु ब्राह्मणशतसहस्रेषु संनिपतितेषु सिंह इव निर्भीः सिंहासनमभिरूढो वक्ष्यति च।
मां प्रति न तेन शक्यं सिंहासनमविदुषा समभिरोढुं।
यस् [तु] सिंहासनस्थो मृग इव स हि याति सङ्कोचं॥
सिंह इव यस्तु निर्भीर्निनदति परवादिदर्पनाशार्थं।
सिंहासनमभिरोढुं स कथिकसिंहो भवति योग्यः॥
यावत् स्थविरोपगुप्तेन पूर्वकालकरणीयां कथां कृत्वा सत्यानि संप्रकाशितानि। श्रुत्वा चानेकैः प्राणिशतसहस्रैर् मोक्षभागीयानि कुशलमूलान्याक्षिप्तानि। कैश्चिदनागामिफलं प्राप्तं। कैश्चित् सकृदागामिफलं। कैश्चिच् छ्रोतापत्तिफलं। यावदष्टादशसहस्राणि प्रव्रजितानि। सर्वैश्च युज्यमानैर्यावदर्हत्त्वं प्राप्तं।
तत्र चोरुमुण्डपर्वते गुहाऽष्टादशहस्ता दीर्घेण द्वादशहस्ता विस्तरेण। यदा तु कृतकरणीयाः। संवृत्तास्तदा स्थविरोपगुप्तेनाभिहितं। यो मदीयेनववादेन सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्करिष्यति तेन चतुरङ्गुलमात्रा शलाका गुहायां प्रक्षेप्तव्या।
यावदेकस्मिन् दिवसेष्टादशभिरर्हत्सहस्रैः शलाकाः प्रक्षिप्ताः। तस्य यावदासमुद्रायां शब्दो विसृतः। मथुरायमुपगुप्तनामा अववादकानामग्रो निर्दिष्टो भगवता। तद्यथा हि।
विनीतकामधात्वीश्वरे द्वितीयशास्तृकल्पे महात्मनि स्थविरोपगुप्ते सुरमनुजमहोरगासुरगरुडयक्षगन्धर्वविद्याधरार्चितपादयुग्मे [सति] पूर्वबुद्धाक्षेत्रावरोपितकुशलबीजसन्ततीनाम् अनेकेषां सत्त्वशतसहस्राणां सद्धर्मसलिलवर्षधारानिपातामोक्षाङ्कुरान् अभ्यवर्धयन्नुरुमुण्डे शैले।
कार्यानुरोधात् प्रणतसकलसामन्तचूडामणिमयूखोभ्दासितपादपीठस्याशोकस्य राज्ञः पूर्वं पांशुप्रदानं समनुस्मरिष्यामः। इत्येवमनुश्रूयते।
पांशुप्रदानं नाम प्रकरणं
भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे। अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो राजगृहं पिण्डाय प्राविक्षत्। वक्ष्यति च।
कनकाचलसन्निभाग्रदेहो द्विरदेन्दप्रतिमः सलीलगामी।
परिपूर्णशशाङ्कसौम्यवक्त्रौ भगवान् भिक्षुगणैर्वृतो जगाम॥
यावद् भगवता साभिसंस्कारं नगरद्वारे पादं प्रतिष्ठापितं। धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः साभिसंस्कारं नगरद्वारमिन्द्रकीले पादौ व्यवस्थापयन्ति। तदा चित्राणि अद्भूतानि प्रादुर्भवन्ति। अन्धाश्चक्षूंषि प्रतिलभन्ते। बधिराः श्रोत्रग्रहणसमर्था भवन्ति। पङ्गवो गमनसमर्था भवन्ति। हडिनिगडचारकावबद्धानां सत्त्वानां बन्धनानि शिथिलीभवन्ति। जन्मजन्मवैरानुबद्धाः सत्त्वास्तदनन्तरं मैत्रचित्ततां लभन्ते। वत्सा दामानि छित्त्वा मातृभिः सार्धं समागच्छन्ति। हस्तिनः क्रोशन्ति। अश्वा ह्रेषन्ते। ऋषभा गर्जन्ति। शुकशारिककोकिलजीवजीवबर्हिणो मधुरान् निकूजन्ति। पेडागतालङ्कारा मधुरशब्दं निश्चारयन्ति। अपराहतानि च वादित्रभाण्डानि मधुरं शब्दं निश्चारयन्ति। उन्नतोन्नता पृथिवीप्रदेशा अवनमन्ति। अवनताश्चोन्नमन्ति। अपगतपाषाणशर्करकपालाश्चावतिष्ठन्ते।
इयं च तस्मिन् समये पृथिवी षड्विकारं प्रकम्प्यते। तद्यथा पूर्वो दिग्भाग उन्नमति। पश्चिमोऽवनमति। अन्तोऽवनमति। मध्य उन्नमति। चलितः प्रचलितो वेधितः प्रवेधित इतीमे चान्ये चाद्भुतधर्माः प्रादुर्भवन्ति। भगवतो नगरप्रवेशे वक्ष्यति।
लवणजलनिवासिनी ततो वा नगरनिगममण्डिता सशैला।
मुनिचरणनिपीडिता च भूमी पवनबलहतं हि यानपात्रं॥
अथ बुद्धप्रवेशकालनियतैः प्रातिहार्यैरावर्जिताः स्त्रीमनुष्यास्, तन्नगरम् अनिबलचलितभिन्नविचितरङ्गक्षुभितमिव महासमुद्रं विमुक्तोच्चनादं बभूव। न हि बुद्धप्रवेशतुल्यं नाम जगत्यद्भुतमुपलभ्यते। पुरप्रवेशसमये हि भगवतश् चित्राण्यद्भूतानि दृश्यन्ते। वक्ष्यति हि।
निम्ना चोन्नमते नतावनमते बुद्धानुभावान् मही
स्थूणा शर्करकण्टकव्यपगता निर्दोषतां याति च।
अन्धा मूकजडेन्द्रियाश्च पुरुषा व्यक्तेन्द्रियास्तत्क्षणं
संवाद्यन्त्यनिघट्टिताश्च नगरे नन्दन्ति तूर्यस्वनाः॥
सर्वं च तन्नगरं सूर्यसहस्रातिरेकया कनकमरीचिवर्णया बुद्धप्रभया स्फुटं बभूव। आह च।
सूर्यप्रभां समवभर्त्स्य हि तस्य भाभिर्
व्याप्तं जगत् सकलमेव सकाननस्थं।
संप्राप च प्रवरधर्मकथाभिरामो
लोकं सुरासुरनरं हि समुक्तभावं॥
यावद् भगवान् राजमार्गं प्रतिपन्नः। तत्र द्वौ बालदारकौ। एकोऽग्रकुलिकपुत्रो द्वितीयः कुलिकपुत्रश्च। पांश्वागारैः क्रीडतः। एकस्य जयो नाम द्वितीयस्य विजयः। ताभ्यां भगवान् दृष्टो द्वात्रिंशमहापुरुषलक्षणालङ्कृतशरीरोऽसेचनकदर्शनश्च।
यावज् जयेन दारकेण शक्तुं दास्यामीति पांश्वञ्जलिर्भगवतः पात्रे प्रक्षिप्तः। विजयेन च कृताञ्जलिनाभ्यनुमोदितं। वक्ष्यति च।
दृष्ट्वा महाकारुणिकं स्वयम्भुवं व्यामप्रभोद्द्योतितसर्वगात्रं।
धीरेण वक्त्रेण कृतप्रसादः पांशुं ददौ जातिजरान्तकाय॥
स भगवते प्रतिपादयित्वा प्रणिधानं कर्तुमारब्धः। अनेनाहं कुशलमूलेन एकच्छत्रायां पृथिव्यां राजा स्याम्। अत्रैव च बुद्धे भगवति कारां कुर्यामिति।
ततो मुनिस्तस्य निशाम्य भावं बालस्य सम्यक् प्रणिधिं च बुद्ध्वा।
इष्टं फलं क्षेत्रवशेन दृष्ट्वा जग्राह पांशुं करुणायमानः॥
तेन यावद् राज्यवैपाक्यं कुशलमाक्षिप्तं। ततो भगवता स्मितं विदर्शितं।
धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं विदर्शयन्ति।
तस्मिन् समये नीलपीतलोहितावदातमञ्जिष्ठस्फटिकरजतवर्णा अर्चिषो मुखान् निश्चरन्ति। केचिदूर्ध्वतो गच्छन्ति केचिदधस्ताद् गच्छन्ति। येऽधो गच्छन्ति ते सञ्जीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिपर्यन्तेषु गत्वा ये शीतनरकास्तेषूष्णीभूत्वा निपतन्ति। ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति।
तेन तेषां सत्त्वानां कारणविशेषाः प्रतिप्रस्रभ्यन्ते। तेषामेवं भवति। किं नु भवन्तो वयमितश्च्युता आहोस्विदन्यत्रोपपन्ना इति। येनास्माकं कारणविशेषाः प्रतिप्रस्रब्धाः। तेषां भगवान् प्रसादसंजननार्थं निर्मितं विसर्जयति। तेषामेवं भवति। न वयं च्युता नाप्यन्यत्रोपपन्नाः। अपि तु अयमपूर्वदर्शनोऽस्यानुभावेनास्माकं कारणविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तानि प्रसादयित्वा नरकवेदनीयानि कर्माणि क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति। यत्र सत्यानां भाजनभूता भवन्ति। ये ऊर्ध्वतो गच्छन्ति ते चतुर्महाराजिकान् देवांस्त्रयस्त्रिंशान् यामांस्तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मान् परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभान् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठपर्यन्तेषु देवेषु गत्वा अनित्यं दुःखं शून्यम् अनात्मेति उद्घोषयन्ति। गाथाद्वयं च भाषन्ते।
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।
धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥
यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।
प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥
अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेवानुगच्छन्ति। यदि भगवानतीतं कर्म व्याकर्तुकामो भवति पृष्ठतोऽन्तर्धीयन्तेऽनागतं व्याकर्तुकामो भवति पुरतोऽन्तर्धीयन्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतलेऽन्तर्धीयन्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामन्तर्धीयन्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादांगुष्ठेऽन्तर्धीयन्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो[र]न्तर्धीयन्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतलेऽन्तर्धीयन्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतलेऽन्तर्धीयन्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामन्तर्धीयन्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्येऽन्तर्धीयन्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामन्तर्धीयन्ते। अनुत्तरां स्मयक्संबोधिं व्याकर्तुकामो भवति उष्णीषेऽन्तर्धीयन्ते।
अथ ता अर्चिषो भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतो वामे करतलेऽन्तर्हिताः।
अथायुष्मान् आनन्दः कृताञ्जलिपुटो गाथां भाषते। नाहेत्वप्रत्ययः।
गतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।
नाकारणं शङ्खमृणालगौरं स्मितं विदर्शेन्ति जिना जितारयः॥
तत्कालं स्वयमधिगम्य वीर बुद्ध्या श्रोतृणां श्रमण जिनेन्द्र कांक्षितानां।
धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः॥
मेघस्तनितनिर्घोष गोवृषेन्द्रनिभेक्षण।
फलं पांशुप्रदानस्य व्याकुरुष्व नरोत्तम॥
भगवानाह। एतदानन्द एवमेतद् आनन्द नाहेत्वप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितमुपदर्शयन्ति। अपि तु सहेतु सप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितमुपदर्शयन्ति।
पश्यसि त्वमानन्द दारकं येन तथागतस्य पात्रे पांश्वञ्जलिः प्रक्षिप्तः। एवं भदन्त। अयमानन्द दारकः अनेन कुशलमूलेन वर्षशतपरिनिर्वृतस्य तथागतस्य पाटलिपुत्रे नगरेऽशोको नाम्ना राजा भविष्यति। चतुर्भागचक्रवर्ती धार्मिको धर्मराजा। यो मे शरीरधातून् वैस्तारिकान् करिष्यति। चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयिष्यति। बहुजनहिताय प्रतिपत्स्यते। इति। आह च।
अस्तंगते मयि भविष्यति सैकराजा
योऽसौ ह्यशोक इति नाम विशालकीर्तिः।
मद्धातुगर्भपरिमण्डितजम्बुषण्डम्
एतत् करिष्यति नरामरपूजितं नु॥
अयमस्य देयधर्मो यत् तथागतस्य पांश्वञ्जलिः पात्रे प्रक्षिप्तः।
यावद् भगवता तेषां सर्व आयुष्मत आनन्दाय दत्ताः। गोमयेन मिश्रयित्वा यत्र चंक्रमे तथागतश्चंक्रम्यते तत्र गोमयकार्षी प्रयच्छेति। यावदायुष्मताऽनन्देन तेषां सगोमयेन मिश्रयित्वा यत्र चंक्रमति भगवान् तत्र गोमयकार्षी दत्ता।
तेन खलु पुनः समयेन राजगृहे नगरे बिम्बिसारो राजा राज्यं कारयति। राज्ञो बिम्बिसारस्य अजातशत्रुः पुत्रः। अजातशत्रोरुदायी। उदयिभद्रस्य मुण्डः। मुण्डस्य काकवर्णी। काकवर्णिनः सहली। सहलिनस्तुलकुचिः। तुलकुचेर्महामण्डलः। महामण्डलस्य प्रसेनजित्। प्रसेनजितो नन्दः। नन्दस्य बिन्दुसारः। पाटलिपुत्रे नगरे बिन्दुसारो नाम राजा राज्यं कारयति। बिन्दुसारस्य राज्ञः पुत्रो जातः। तस्य सुसीम इति नामधेयं कृतं।
तेन च समयेन चम्पायां नगर्यामन्यतमो ब्राह्मणः। तस्य दुहिता जाता। अभिरूपा दर्शनीया प्रासादिका जनपदकल्याणी। सा नैमित्तिकैर्व्याकृता। अस्या दारिकाया राजा भर्ता भविष्यति। द्वे पुत्ररत्ने जनयिष्यति। एकश्चतुर्भागचक्रवर्ती भविष्यति। द्वितीयः प्रव्रजित्वा सिद्धव्रतो भविष्यति। श्रुत्वा च ब्राह्मणस्य रोमहर्षो जातः। सम्पत्तिकामो लोकः।
स तां दुहितरं ग्रहाय पाटलिपुत्रं गतः। तेन सा सर्वालङ्कारैर्विभूषयित्वा राज्ञो बिन्दुसारस्य भार्यार्थमनुप्रदत्ता। इयं हि देवकन्याधन्या प्रशस्ता चेति।
यावद्राज्ञा बिन्दुसारेणान्तःपुरं प्रवेशिता। अन्तःपुरिकाणां बुद्धिरुत्पन्ना। इयमभिरूपा प्रासादिका जनपदकल्याणी। यदि राजाऽनया सार्धं परिचारयिष्यति अस्माकं भूयश्चक्षुःसंप्रेषणमपि न करिष्यति। ताभिः सा नापितकर्म शिक्षापिता। सा राज्ञः केशश्मश्रु प्रसाधयति। यावत् सुशिक्षिता संवृत्ता। यदारभते राज्ञः केशश्मश्रु प्रसाधयितुं तदा राजा शेते। यावद्राज्ञा प्रीतेन वरेण प्रवारिता। किं त्वं वरमिच्छसीति। तयाऽभिहितं। देवेन मे सह समागमः स्यात्। राजाह। त्वं नापिनी अहं राजा क्षत्रियो मूर्धाभिषिक्तः। कथं मया सार्धं समागमो भविष्यति। सा कथयति। देव नाहं नापिनी। अपि ब्राह्मणस्याहं दुहिता। तेन देवस्य पत्न्यर्थं दत्ता। राजा कथयति। केन त्वं नापितकर्म शिक्षापिता। सा कथयति। अन्तःपुरिकाभिः। राजाऽह। न भूयस्त्वया नापितकर्म कर्तव्यं।
यावद्राजाग्रमहिषी स्थापिता। तया सार्धं क्रीडति रमते परिचारयति। सा अपन्नसत्त्वा संवृत्ता। यावदष्टानां नवानां मासानामत्ययात् प्रसूता। तस्याः पुत्रो जातः।
तस्य विस्तरेण जातिमहं कृत्वा [पृच्छति] किं कुमारस्यभवतु नाम। सा कथयति। अस्य दारकस्य जातस्य अशोकाऽस्मि संवृत्ता। तस्याशोक इति नाम कृतम्।
यावद् द्वितीयः पुत्रो जातः। विगते शोके जातस् तस्य वीतशोक इति नाम कृतं।
अशोको दुःस्पर्शगात्रः। राज्ञो बिन्दुसारस्यानभिप्रेतः।
अथ राजा बिन्दुसारः कुमारं परीक्षितुकामः पिङ्गलवत्साजीवं परिव्राजकमामन्त्रयते। उपाध्याय कुमारांस्तावत् परीक्षयामः। कः शक्यते ममात्ययाद् राज्यं कारयितुं। पिङ्गलवत्साजीवः परिव्राजकः कथयति। तेन हि देव कुमारानादाय सुवर्णमण्डपमुद्यानं निर्गच्छ, परीक्षयामः। यावद्राजा कुमारानादाय सुवर्णमण्डपमुद्यानं निर्गतः।
यावदशोकः कुमारो मात्रा चोच्यते। वत्स राजा कुमारान् परीक्षितुकामः सुवर्णमण्डपमुद्यानं गतः। त्वमपि तत्र गच्छेति। अशोकः कथयति। राज्ञोऽहमनभिप्रेतो दर्शनेनापि। किमहं तत्र गमिष्यामि। सा कथयति। तथापि गच्छेति। अशोक उवाच। आहारं प्रेषय।
यावदशोकः पाटलिपुत्रन्निर्गच्छति। राधगुप्तेन चाग्रामात्यपुत्रेणोक्तः। अशोक क्व गमिष्यसीति। अशोकः कथयति। राजाद्य सुवर्णमण्डपे उद्याने कुमारान् परीक्षयति। तत्र राज्ञो महल्लको हस्तिनागस्तिष्ठति। यावदशोकस्तस्मिन् महल्लकेऽभिरुह्य सुवर्णमण्डपमुद्यानं गत्वा कुमाराणां मध्येऽत्र पृथिव्यां प्रस्तीर्य निषसाद।
यावत् कुमाराणामाहार उपनामितः। अशोकस्यापि मात्रा शाल्योदनं दधिसंमिश्रं मृद्भाजने प्रेषितं। ततो राज्ञा बिन्दुसारेण पिङ्गलवत्साजीवः परिव्राजकोऽभिहितः। उपाध्याय परीक्षस्व कुमारान्। कः शक्यते ममात्ययाद् राज्यं कर्तुमिति। पश्यति पिङ्गलवत्साजीवः परिव्राजकः। चिन्तयति च। अशोको राजा भविष्यति। अयं च राज्ञो नाभिप्रेतः। यदि कथयिष्यामि अशोको राजा भविष्यतीति, नास्ति मे जीवितं। स कथयति। देवाभेदेन व्याकरिष्यामि। राजाऽह। अभेदेन व्याकुरुष्व। आह। यस्य यानं शोभनं स राजा भविष्यति।
तेषामेकैकस्य बुद्धिरुत्पन्ना। मम यानं शोभनमहं राजा भविष्यामि। अशोकश्चिन्तयति। अहं हस्तिस्कन्धेनागतो मम यानं शोभनमहं राजा भविष्यामीति। राजाऽह। भूयस्तावद् उपाध्याय परीक्षस्व। पिङ्गलवत्साजीवः परिव्राजकः कथयति। देव यस्यासनमग्रं स राजा भविष्यति।
तेषामेकैकस्य बुद्धिरुत्पन्ना। ममासनमग्रं। अशोकश्चिन्तयति। मम पृथिवी आसनमहं राजा भविष्यामि। एवं भाजनं भोजनं पानं विस्तरेण कुमाराणां परीक्ष्य [पाटलिपुत्रं] प्रविष्टः।
यावदशोको मात्रोच्यते। को व्याकृतो राजा भविष्यतीति। अशोकः कथयति। अभेदेन व्याकृतं। यस्य यानमग्रमासनं पानं भाजनं भोजनं चेति स राजा भविष्यतीति। यथा पश्यामि अहं राजा भविष्यामि। मम हस्तिस्कन्धं यानं पृथिवी आसनं मृन्मयं भाजनं शाल्योदनं दधिव्यञ्जनं भोजनं पानीयं पानमिति।
ततः पिङ्गलवत्साजीवः परिव्राजकोऽशोको राजा भविष्यतीति तस्य मातरमारब्ध सेवितुं। यावत् तयोच्यते। उपाध्याय कतरः कुमारो राज्ञो बिन्दुसारस्यात्ययाद् राजा भविष्यतीति। आह। अशोकः। तयोच्यते। कदाचित् त्वां राजा निर्बन्धेन पृच्छेत। गच्छ त्वं प्रत्यन्तं समाश्रय। यदा श्रृणोषि अशोको राजा संवृत्तस्तदाऽगन्तव्यं। यावत्स प्रयन्तेषु जनपदेषु संश्रितः।
अथ राज्ञो बिन्दुसारस्य तक्षशिला नाम नगरं विरुद्धं। तत्र राज्ञा बिन्दुसारेण अशोको विसर्जितः। गच्छ कुमार तक्षिशीलानगरं। संनाहय। चतुरङ्गबलकायं दत्तं। यानं प्रहरणं च प्रतिषिद्धं।
यावदशोकः कुमारः पाटलिपुत्रान्निर्गच्छन् भृत्यैर्विज्ञप्तः। कुमार नैवास्माकं सैन्यप्रहरणं केन वयं कं योधयामः। ततोऽशोकेनाभिहितं।
यदि मम राज्यवैपाक्यं कुशलमस्ति सैन्यप्रहरणं प्रादुर्भवतु। एवमुक्ते कुमारेण पृथिव्यामवकाशो दत्तो देवताभिः सैन्यप्रहरणानि चोपनीतानि। यावत् कुमारश्चतुरङ्गेण बलकायेन तक्षशिलां गतः।
श्रुत्वा तक्षशिलानिवासिनः पौरा अर्धतृतीयानि योजनानि मार्गे शोभां कृत्वा पूर्णघटमादाय प्रत्युद्गताः। प्रत्युद्गम्य च कथयन्ति। न वयं कुमारस्य विरुद्धा नापि राज्ञो बिन्दुसारस्य। अपि तु दुष्टामात्या अस्माकं परिभवं कुर्वन्ति। महता च सत्कारेण तक्षशिलां प्रवेशितः।
एवं विस्तरेण अशोकः खशराज्यं प्रवेशितः। तस्य द्वौ महानग्नौ संश्रितौ। तेन तौ वृत्त्या संविभक्तौ। तस्याग्रतः पर्वतान् संछिन्दन्तौ संप्रस्थितौ। देवताभिश्चोक्तं। अशोकश्चतुर्भागचक्रवर्ती भविष्यति। न केनचिद् विरोधितव्यमिति। विस्तरेण यावदासमुद्रा पृथिवी आज्ञापिता।
यावत् सुसीमः कुमार उद्यानात् पाटलिपुत्रं प्रविशति। राज्ञो बिन्दुसारस्याग्रामात्यः खल्वाटकः पाटलिपुत्रान्निर्गच्छति। तस्य सुसीमेन कुमारेण क्रीडाभिप्रायतया खटका मुर्ध्नि पातिता। यावदमात्यश्चिन्तयति। इदानीं खटकां निपातयति। यदा राजा भविष्यति तदा शस्रं पातयिष्यति। तथा करिष्यामि यथा राजैव न भविष्यति। तेन पञ्चामात्यशतानि भिन्नानि। अशोकश्चतुर्भागचक्रवर्ती निर्दिष्टः। एतं राज्ये प्रतिष्ठापयिष्यामः। तक्षशिलाश्च पुनर् विरोधिताः।
यावद्राज्ञा सुसीमः कुमारस्तक्षशिलामनुप्रेषितः। न च शक्यते संनामयितुं। बिन्दुसारश्च राजा ग्लानीभूतः। तेनाभिहितं। सुसीमं कुमारमानयत। राज्ये प्रतिष्ठापयिष्यामीति। अशोकं तक्षशिलां प्रवेशयत।
यावदमात्यैरशोकः कुमारो हरिद्रया प्रलिप्तः। लाक्षां च लोहपात्रे क्वाथयित्वा क्वथितेन रसेन लोहपात्राणि म्रक्षयित्वा छोरयन्ति। अशोकः कुमारो ग्लानीभूत इति। यदा बिन्दुसारः स्वल्पावशेषप्राणः संवृत्तस्तदाऽमात्यैरशोकः कुमारः सर्वालङ्कारैर्भूषयित्वा राज्ञो बिन्दुसारस्योपनीतः। इमं तावद् राज्ये प्रतिष्ठापय। यदा सुसीम आगतो भविष्यति तदा तं राज्ये प्रतिष्ठापयिष्यामः।
ततो राजा रुषितः। अशोकेन चाभिहितं। यदि मम धर्मेण राज्यं भवति देवता मम पट्टं बध्नन्तु। यावद् देवताभिः पट्टो बद्धः। तं दृष्ट्वा बिन्दुसारस्य राज्ञ उष्णं शोणितिं मुखादागतं। यावत् कालगतः।
यदाऽशोको राज्ये प्रतिष्ठितस् तस्योर्ध्व योजनं यक्षाः [आदेशं] श्रृण्वन्ति। अधो योजनं नागाः। तेन राधगुप्तोऽग्रामात्यः स्थापितः।
सुसीमेनापि श्रुतं बिन्दुसारो राजा कालगतोऽशोको राज्ये प्रतिष्ठितः। इति श्रुत्वा च रूषितमभ्यागतः। त्वरितं च तस्माद् देशाद् आगतः।
अशोकेनापि पाटलिपुत्रे नगरे एकस्मिन् द्वारे एको नग्नः स्थापितः। द्वितीये द्वितीयस्तृतीये राधगुप्तः पूर्वद्वारे स्वयमेव राजाऽशोकोऽवस्थितः।
राधगुप्तेन च पूर्वस्मिन् द्वारे यन्त्रमयो हस्ती स्थापितः। तस्योपरि अशोकस्य च प्रतिमा निर्मिता। परितश्च परिखां खनयित्वा खदिराङ्गारैश्च पूरयित्वा तृणेनाच्छाद्य [सा] पांशुनाकीर्णा। सुसीमश्चाभिहितो यदि शक्यसेऽशोकं घातयितुं राजेति।
स यावत् पूर्वद्वारं गतः। अशोकेन सह योत्स्यामीति। अङ्गारपूर्णायां परिखायां पतितः। तत्रैव चानयेन व्यसनमापन्नः। यदा च सुसीमः प्रघातितस् तस्यापि महानग्नो भद्रायुधो नाम्नाऽनेकसहस्रपरिवारः। स भगवच्छासने प्रव्रजितोऽर्हन् संवृत्तः।
यदाऽशोको राज्ये प्रतिष्ठितः स तैरमात्यैरवज्ञादृश्यते। तेनामात्यानां शासनार्थमभिहितं। भवन्तः पुष्पवृक्षान् फलवृक्षांश्च छित्त्वा कण्टकवृक्षान् परिपालयन्तु। अमात्या आहुः। देवेन कुत्र दृष्टं। अपि तु कण्टकवृक्षान् छित्त्वा पुष्पवृक्षाः फलवृंक्षाश्च परिपालयितव्याः। तैर्यावत् त्रिरपि राज्ञ आज्ञा प्रतिकलिता। ततो राज्ञा रुषितेन असिं निष्कोशं कृत्वा पञ्चानाममात्यशतानां शिरांसि छिन्नानि।
यावद् राजाऽशोकोऽपरेण समयेनान्तः पुरपरिवृतो वसन्तकाले समये पुष्पितफलितेषु पादपेषु पूर्वनगरस्य उद्यानं गतः। तत्र च परिभ्रमताऽशोकवृक्षः सुपुष्पितो दृष्टः। ततो राज्ञो ममाऽयं सहनामा इत्यनुनयो जातः। स च राजाऽशोको दुःस्पर्शगात्रः। ता युवतयस्तं नेच्छन्ति स्प्रष्टुं। यावद् राजा शयितस्तस्यान्तःपुरेण रोषेण तस्मादशोकवृक्षात् पुष्पाणि शाखाश्च छिन्नाः।
यावद् राज्ञा प्रतिबुद्धेन सोऽशोकवृक्षो दृष्टः। पुष्टाश्च तत्रस्थाः केन स छिन्नः। ते कथयन्ति देवान्तःपुरिकाभिरिति। श्रुत्वा च राज्ञाऽमर्षजातेन पञ्चस्त्रीशतानि किटिकैः संवेष्टय दग्धानि।
तस्येमानि अशुभानि आलोक्य चण्डो राजा चण्डाऽशोक इति व्यवस्थापितः।
यावद् राधगुप्तेनाग्रामात्येनाभिहितः। देव न सदृशं स्वयमेवेदृशमकार्यं कर्तुं। अपि तु देवस्य वध्यघातकाः पुरुषाः स्थापयितव्या ये देवस्य वध्यकरणीयं शोधयिष्यन्ति। यावद्राज्ञा राजपुरुषाः प्रत्युक्ता वध्यघातं मे मार्गध्वमिति।
यावत् तत्र नातिदूरे पर्वतपादमूले कर्वटकं। तत्र तन्त्रवायः प्रतिवसति। तस्य पुत्रो जातः। गिरिक इति नामधेयं कृतं। चण्डो दुष्टात्मा मातरं पितरं च परिभाषते।
दारकदारिकाश्च ताडयति। पिपीलिकान् मक्षिकान् मूषिकान् मत्स्यांश्च जालेन बडिशेन प्रघातयति। चण्डो दारकस्तस्य चण्डगिरिक इति नामधेयं कृतं।
यावद् राजपुरुषैर्दृष्टः पापे कर्मणि प्रवृत्तः। स तैरभिहितः। शक्यसे राज्ञोऽशोकस्य वध्यकरणीयं कर्तुं। स आह। कृत्स्नस्य जम्बुद्वीपस्य वध्यकरणीयं साधयिष्यामीति।
यावद् राज्ञो निवेदितं। राज्ञाऽभिहितमानीयतामिति। स च राजपुरुषैरभिहितः। आगच्छ राजा त्वामाह्वयतीति। तेनाभिहितम्। आगमयत। यावदहं मातापितराववलोकयामीति। यावन् मातापितरावुवाच। अम्ब, तातानुजानीध्वं यास्याम्यहं राज्ञोऽशोकस्य वध्यकरणीयं साधयितुं। ताभ्यां च स निवारितः। तेन तौ जीविताद् व्यपरोपितौ। एवं यावद् राजपुरुषैरभिहितः। किमर्थं चिरेणाभ्यागतोऽसि। तेन चैतत् प्रकरणं विस्तरेणारोचितं।
स तैर्यावद् राज्ञोऽशोकस्योपनामितः। तेन राज्ञोऽभिहितं। ममार्थाय गृहं कारयस्वेति। यावद् राज्ञा गृहं कारापितं। परमदारुणं द्वारमात्ररमणीयं। तस्य रमणीयकं बन्धनमिति संज्ञा व्यवस्थापिता। स आह। देव वरं मे प्रयच्छ। यस्तत्र प्रविशेत् तस्य न भूयो निर्गम इति। यावद् राज्ञाऽभिहितम्। एवमस्त्विति।
ततः स चण्डगिरिकः कुक्कुटारामं गतः। भिक्षुश्च। बालपण्डितसूत्रं पठति। सत्त्वा नरकेषूपपन्नाः। यावन् नरकपाला गृहीत्वाऽयोमय्यां भूमावादीप्तायां संप्रज्वलितायाम् एकज्वालीभूतायाम् उत्तानकान् प्रतिष्ठाप्य अयोमयेन विष्कम्भणेन मुखद्वारं विष्कम्भ्य अयोगुडान् आदीप्तान् प्रदीप्तान् संप्रज्वलितान् एकज्वालीभूतान् आस्ये प्रक्षिपन्ति। ये तेषां सत्त्वानाम् ओष्ठावपि दहन्ति जिह्वामपि कण्ठमपि कण्ठनाडमपि हृदयमपि हृदयसामन्तमपि अन्त्राणि अन्त्रगुणानपि दग्ध्वा अधः प्रघरन्ति। इयद्दुःखा हि भिक्षवो नरकाः।
सत्त्वा नरकेषूपपन्नाः। यावन् नरकपाला गृहीत्वा अयोमय्यां भूमावादीप्तायां प्रदीप्तायां संप्रज्वलितायाम् एकज्वालीभूतायाम् उत्तानकान् प्रतिष्ठाप्य अयोमयेन विष्कम्भणेन मूखद्वारं विष्कम्भ्य क्वथितं ताम्रम् आस्ये प्रक्षिपन्ति। यत् तेषां सत्त्वानाम् ओष्ठौ अपि दहन्ति जिह्वामपि तालु अपि कण्ठमपि कण्ठनाडमपि अन्त्राणि अन्त्रगुणानापि दग्ध्वा अधः प्रघरन्ति। इयद्दुःखा हि भिक्षवो नरकाः।
सन्ति सत्त्वा नरकेषूपपन्नाः। यान् नरकपाला गृहीत्वाऽयोमय्यां भूमावादीप्तायां संप्रज्वलितायामेकज्वालीभूतायाम् अवाङ्मुखान् प्रतिष्ठाप्यायोमयेन सूत्रेण आदीप्तेन संप्रज्वलितेन एकज्वालीभूतेन आस्फाट्य अयोमयेन कुठारेण आदीप्तेन संप्रदीप्तेन संप्रज्वलितेन एकज्वालीभूतेन तक्ष्णुवन्ति संतक्ष्णुवन्ति संप्रतक्ष्णुवन्ति अष्टांशमपि षडंशमपि चतुरस्रमपि वृत्तमपि मण्डलमपि उन्नतमपि अवनतमपि शान्तमपि विशान्तमपि तक्ष्णुवन्ति। इयद्दुःखा हि भिक्षवो नरकाः।
सन्ति सत्त्वा नरकेषूपपन्नाः। यान् नरकपाला गृहीत्वा अयोमय्यां भूमावादीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वालीभूतायामवाङ्मुखान् प्रतिष्ठाप्यायोमयेन सूत्रेणादीप्तेन प्रदीप्तेन संप्रज्वलितेनैकज्वालीभूतेनास्फाट्यायोमय्यां भूम्यामादीप्तायां प्रदीप्तायां संप्रज्वलितायां नैकज्वालीभूतायां तक्ष्णुवन्ति संतक्ष्णुवन्ति संपरितक्ष्णुवन्ति अष्टांशमपि षडंशमपि चतुरस्रमपि मण्डलमपि उन्नतमपि अनवतमपि शान्तमपि विशान्तमपि तक्ष्णुवन्ति। इयद्दुःखा हि भिक्षवो नरकाः।
सन्ति सत्त्वा नरकेषूपपन्नाः। यान् नरकपाला गृहीत्वाऽयोमय्यां भूमावादीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वालीभूतायामुत्तानकान् प्रतिष्ठाप्य पञ्चविधबन्धनकारणां कारयन्ति। उभयोर्हस्तयोरायसौ कीलौ क्रामन्ति। उभयोः पादयोरायसौ कीलौ क्रामन्ति। मध्ये हृदयस्यायसं कीलं क्रामन्ति। सुदुःखा हि भिक्षवो नरकाः।
एवं पञ्च वेदना इति सोऽपि (चण्डगिरिकः) कुरुते। तत्सदृशाश्च कारणाः सत्त्वानामारब्धः कारयितुं [सोऽपि तच्चारके]।
यावच्छ्रावस्त्यामन्यतमः सार्थवाहः पत्न्या सह महासमुद्रमवतीर्णः। तस्य सा पत्नी महासमुद्रे प्रसूता। दारको जातस्तस्य समुद्र इति नामधेयं कृतं।
यावत् विस्तरेण द्वादशभिर्वषैर्महासमुद्रादुत्तीर्णः। स च सार्थवाहः पञ्चभिर्धूर्तशतैर्मुषितः। सार्थवाहः स प्रघातितः। स च समुद्रः सार्थवाहपुत्रो भगवच्छासने प्रव्रजितः। स जनपदचारिकां चरन् पाटलिपुत्रमनुप्राप्तः।
स पूर्वाह्णे निवास्य पात्रचीवरमादाय पाटलिपुत्रं पिण्डाय प्रविष्टः। सोऽनभिज्ञया च रमणीयकं भवनं प्रविष्टः। तच्च द्वारमात्ररमणीयमभ्यन्तरं नरकभवनसदृशं प्रतिभयं दृष्ट्वा च पुनर्निर्गन्तुकामश्चण्डगिरिकेणावलोकितः। गृहीत्वा चोक्तः। इह ते निधनमुपसंगन्तव्यमिति। विस्तरेण कार्यं।
ततो भिक्षुः शोकार्तो वाष्पकण्ठः संवृत्तः। तेनोच्यते। किमिदं बालदारक इव रुदसीति। स भिक्षुः प्राह।
न शरीरविनाशं हि भद्र शोचामि सर्वशः।
मोक्षधर्मान्तरायं तु शोचामि भृशमात्मनः॥
दुर्लभं प्राप्य मानुष्यं प्रव्रज्यां च सुखोदयां।
शाक्यसिंहं च शास्तारं पुनस्त्यक्ष्यामि दुर्मतिः॥
तेनोच्यते। दत्तवरोऽहं नृपतिना। धीरो भव। नास्ति ते मोक्ष इति। ततः सकरुणैर्वचनैस्तं भिक्षुः क्रमं याचति स्म। मासं यावत्। सप्तरात्रमनुज्ञातः।
स खलु मरणभयोद्विग्नहृदयः सप्तरात्रेण मे न भवितव्यमिति व्यायममतिः संवृत्तः।
अथ सप्तमे दिवसे अशोकस्य राज्ञोऽन्तःपुरिका कुमारेण सह संरक्तां निरीक्ष्यमाणां संलपन्तीं च दृष्ट्वा सहदर्शनादेव रुषितेन राज्ञा तौ द्वावपि तं चारकमनुप्रेषितौ। तत्र मूशलैरयोद्रोण्यामस्थ्यवशेषौ कृतौ। ततो भिक्षुस्तौ दृष्ट्वा संविग्नः प्राह।
अहो कारुणिकः शास्ता सम्यगाह महामुनिः।
फेनपिण्डोपमं रूपमसारमनवस्थितं॥
क्व तद् वदनकान्तित्वं गात्रशोभा क्व सा गाता।
धिगस्त्वन्यायसंसारं रमन्ते यत्र बालिशाः॥
इदमालम्बनं प्राप्तं चारके वसता मया।
यदाश्रित्य तरिष्यामि पारमद्य भवोदधेः॥
तेन तां रजनीं कृत्स्नां युज्यता बुद्धशासने।
सर्वसंयोजनं छित्त्वा प्राप्तमर्हत्त्वमुत्तमं॥
ततस्तस्मिंन् रजनिक्षये स भिक्षुश्चण्डगिरिकेणोच्यते। भिक्षो निर्गता रात्रिर् उदित आदित्यः कारणाकालस्तवेति। ततो भिक्षुराह। दीर्घायुर्ममापि निर्गता रात्रिर् उदित आदित्यः परानुग्रहकाल इति। यथेष्टं वर्ततामिति।
चण्डगिरिकः प्राह। नावगच्छामि विस्तीर्यतां वचनमेतदिति। ततो भिक्षुराह।
ममापि हृदयाद् घोरा निर्गता मोहशर्वरी।
पञ्चावरणसंच्छन्ना क्लेशतस्करसेविता॥
उदितो ज्ञानसूर्यश्च मनोनभसि मे शुभः।
प्रभया यस्य पश्यामि त्रैलोक्यमिह तत्त्वतः॥
परानुग्रहकालो मे शास्तुर्वृत्तानुवर्तिनः।
इदं शरीरं दीर्घायुर्यथेष्टं क्रियतामिति॥
ततस्तेन निर्घृणेन दारुणहृदयेन परलोकनिरपेक्षेण रोषाविष्टेन बहूदकायां स्थाल्यां नररुधिरवसामूत्रपूरीषसंकुलायां महालोह्यां प्रक्षिप्तः। प्रभूतेन्धनैश्चाग्निः प्रज्वालितः। स च बहुनापीन्धनक्षयेण न संतप्यते। ततः पुनः प्रज्वालयितुं चेष्टते। यदा तस्यापि न प्रज्वलति ततो विचार्य तां लोहीं पश्यति। तं भिक्षुं पद्मस्योपरि पर्यङ्केणोपविष्टं दृष्ट्वा च ततो राज्ञे निवेदयामास। अथ राजनि समागते प्राणिसहस्रेषु संनिपतितेषु स भिक्षुर्वैनेयकालमवेक्षमाणः
ऋद्धिं समुत्पाद्य स तन्मुहूर्तं लोह्यन्तरस्थः सलिलाद्रगात्रः।
निरीक्षमाणस्य जनस्य मध्ये नभस्तलं हंस इवोत्पपात॥
विचित्राणि च प्रातिहार्याणि दर्शयितुमारब्धः। वक्ष्यति हि।
अर्धेन गात्रेण ववर्ष तोयमर्धेन जज्वाल हुताशनश्च।
वर्षञ् ज्वलंश्चैव रराज यः खे दीप्तौषधिप्रस्रवणेव शैलः॥
तमुद्गतं व्योम्नि निशाम्य राजा कृताञ्जलिर्विस्मयफुल्लवक्त्रः।
उद्वीक्षमाणस् तमुवाच धीरं कौतुहलात् किंचिदहं विवक्षुः॥
मनुष्यतुल्यं तव सौम्य रूपमृद्धिप्रभावस्तु नरानतीत्य।
न निश्चयं तेन विभो व्रजामि को नाम भावस्तव शुद्धभाव॥
तत् साम्प्रतं ब्रूहि ममेदमर्थं यथा प्रजानामि तव प्रभावं।
ज्ञात्वा च ते धर्मगुणप्रभावान् यथाबलं शिष्यवदाचरेम॥
ततो भिक्षुः प्रवचनपरिग्राहकोऽयं भविष्यति भगवद्धातुं च विस्तरीकरिष्यति महाजनहितार्थं च प्रतिपत्स्यत इति मत्वा स्वगुणमुद्भावयंस्तम् उवाच।
अहं महाकारुणिकस्य राजन् प्रहीणसर्वास्रवबन्धनस्य।
बुद्धस्य पुत्रो वदतां वरस्य धर्मान्वयः सर्वभवेष्वसक्तः॥
दान्तेन दान्तः पुरुषर्षभेन शान्तिं गतेनापि शमं प्रणीतः।
मुक्तेन संसारमहाभयेभ्यो निर्मोक्षितोऽहं भवबन्धनेभ्यः॥
अपि च महाराज त्वं भगवता व्याकृतः। वर्षशतपरिनिर्वृतस्य मम पाटलिपुत्रे नगरेऽशोको नाम राजा भविष्यति। चतुर्भागचक्रवर्ती धर्मराजो यो मे शरीरधातून् वैस्तारिकान् करिष्यति। चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयिष्यति। इदं च देवेन नरकसदृशं स्थानमेव स्थापितं यत्र प्राणिसहस्राणि निपात्यन्ते। तदर्हसि देव सर्वसत्त्वेभ्योऽभयप्रदानं दातुं भगवतश्च मनोरथं परिपूरयितुम्। आह च।
तस्मान् नरेन्द्र अभयं प्रयच्छ सत्त्वेषु कारुण्यपुरोजवेषु।
नाथस्य संपूर्य मनोरथं च वैस्तारिकान् धर्मधरान् कुरुष्व॥
अथ स राजा बुद्धे समुपजातप्रसादः कृतकरसंपुटस्तं भिक्षुं क्षमयन्नुवाच।
दशबलसुत क्षन्तुमर्हसीमं कुकृतमिदं च तवाद्य देशयामि।
शरणमृषिमुपैमि तं च बुद्धं गणवरमार्यनिवेदितं च धर्मं॥
अपि च।
करोमि चैष व्यवसायमद्य तद्गौरवात् तत्प्रवणप्रसादात्।
गां मण्डयिष्यामि जिनेन्द्रचैत्यैर्हंसांशुशङ्खेन्दुबलाककल्पैः॥
यावत् स भिक्षुस्तदैव ऋद्ध्या प्रक्रान्तः। अथ राजाऽरब्धो निष्क्रामितुं। ततश्चण्डगिरिकः कृताञ्जलिर् उवाच। देव लब्धवरोऽहं नैकस्य विनिर्गम इति। राजाऽह। मा तावन्। मामपीच्छसि घातयितुं।
स उवाच। एवमेव।
राजाऽह। कोऽस्माकं प्रथमतरं प्रविष्टः।
चण्डगिरिक उवाच। अहं।
ततो राज्ञाऽभिहितं। कोऽत्रेति।
यावद् वध्यघातैर्गृहीतः। गृहित्वा च यन्त्रगृहं प्रवेशितः। प्रवेशयित्वा दग्धः। तच्च रमणीयकं बन्धनमपनीतं। सर्वसत्त्वेभ्यश्चाभयप्रदानमनुप्रदत्तं॥
ततो राजा भगवच्छरीरधातुं विस्तरिष्यामीति चतुरङ्गेण बलकायेन गत्वाऽजातशत्रुप्रतिष्ठापितं द्रोणस्तूपमुत्पाट्य शरीरधातुं गृहीतवान्। यत्र उद्धारणं च विस्तरेण कृत्वा धातुप्रत्यंशं दत्त्वा स्तूपं प्रत्यस्थापयत्। एवं द्वितीयं स्तूपं विस्तरेण। भक्तिमतो यावत् सप्तद्रोणाद् ग्रहाय स्तूपांश्च प्रतिष्ठाप्य रामग्रामं गतः।
ततो राजा नागैर्नागभवनमवतारितः। विज्ञप्तश्च। वयमस्य [शरीरधातोः] अत्रैव पूजां करिष्याम इति। यावद् राज्ञाभ्यनुज्ञातं।
ततो नागराजेन पुनरपि नागभवनादुत्तारितः। वक्ष्यति हि।
रामग्रामेऽस्ति त्वष्टमं स्तूपमद्य
नागास्तत्कालं भक्तिमन्तो ररक्षुः।
धातूनेतस्मान् नोपलेभे स राजा
श्रद्धालू राजा यस्त्वकृत्वा जगाम॥
यावद् राजा चतुरशीतिकरण्डसहस्रं कारयित्वा सौवर्णरूप्यस्फटिकवैदूर्यमयाणां तेषु धातवः प्रक्षिप्ताः। एवं विस्तरेण चतुरशीतिकुम्भसहस्रं पट्टसहस्रं च यक्षाणां हस्ते दत्त्वा विसर्जितम्। आसमुद्रायां पृथिव्यां हिनोत्कृष्टमध्यमेषु नगरेषु यत्र कोटिः परिपूर्यते तत्र धर्मराजिका प्रतिष्ठापयितव्या।
तस्मिन् समये तक्षशिलायां षट्त्रिंशत् कोट्यः। तैरभिहितं। षट्त्रिंशत् करण्डकाननुप्रयच्छेति। राजा चिन्तयति। न यदि वैस्तारिका धातवो भविष्यन्ति। उपायज्ञो राजा। तेनाभिहितं। पञ्चत्रिंशत् कोट्यः शोधयितव्याः। विस्तरेण यावद् राज्ञाऽभिहितं। यत्राधिकतरा भवन्ति यत्र च न्यूनतरा तत्र न दातव्यं।
यावद् राजा कुक्कुटारामं गत्वा स्थविरयशसमभिगम्य उवाच। अयं मे मनोरथः। एकस्मिन् दिवसे एकस्मिन् मूहूर्ते चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयेयमिति। स्थविरेणाभिहितम्। एवमस्तु। अहं तस्मिन् समये पाणिना सूर्यमण्डलं प्रतिच्छादयिष्यामीति।
यावत् तस्मिन् दिवसे स्थविरयशसा पाणिना सूर्यमण्डलं प्रतिच्छादितं। एकस्मिन् दिवसे एकमुहूर्ते चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं। वक्ष्यति च।
ताभ्यः सप्तभ्यः पूर्विकाभ्यः कृतिभ्यो
धातुं तस्यर्षेः स ह्युपादाय मौर्यः।
चक्रे स्तूपानां शारदाभ्रप्रभाणां
लोके साशीति ह्यह्नि चातुःसहस्रं॥
यावच्च राज्ञाऽशोकेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं धार्मिको धर्मराजा संवृत्तस्तस्य धर्माशोक इति संज्ञा जाता। वक्ष्यति च।
आर्यो मौर्यश्रीः स प्रजानां हितार्थं
कृत्स्ने स्तूपान् यः कारयामास लोके।
चण्डाशोकत्वं प्राप्य पूर्वं पृथिव्यां
धर्माशोकत्वं कर्मणा तेन लेभे॥
पांशुप्रदानावदानं षड्विंशतिमं।