सुभूतिरिति ९१
Technical Details
दशमो वर्गः॥
सुभूतिरिति ९१।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ यदा भगवतानुत्तरां सम्यक्संबोधिमभिसंबुध्य श्रावका नियुक्तास्तेषु तेषु जनपदेषु विनेयजनानुग्रहार्थं तदा ये ऽध्यायिनस्ते सुमेरुपरिषण्डायां ध्यानपरा स्थिताः॥ यावत्सुपर्णिपक्षिराजेन महासमुद्रान्नागपोतलक उद्धृतः। स तं सुमेरुपरिषण्डायामारोप्य भक्षयितुमारब्धः। ततो नागपोतलको जीविताद्यपरोप्यमाणो महाश्रावकाणामत्तिके चित्तमभिप्रसाद्य कालगतः॥
स कालं कृत्वा श्रावस्त्यां भूतिर्नाम ब्राह्मणस्तस्याग्रमहिष्याः कुक्षावुपपन्नः। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिकः। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य पिता भूतिस्तस्माद्भवतु दारकस्य सुभूतिरिति नामेति॥ सुभूतिर्दारक उन्नीतो वर्धितो महान्संवृत्तः॥ स पूर्वेण हेतुबलाधानेनातीवरोषणः क्रोधपर्यवस्थानबहुलो मातापितृभ्यामाथर्वणाद्विनिवर्त्य ऋषिषु प्रव्राजितः। स च तत्र ध्यानपरः संयतो ऽन्यतरद्वनषण्डमुपनिश्रित्य विहरति। तत्र च वनषण्डे देवता प्रतिवसति दृष्टसत्या। तस्याः कारुण्यमुत्पन्नम्। अयं कुलपुत्रः क्रोधपर्यवस्थानबहलो विशेषं नाधिगच्छति यन्न्वहमेनं भगवद्दर्शने नियोजयेयमिति॥ ततस्तया देवतया सुभूतेः पुरस्ताद्बुद्धस्य वर्णो भाषितो धर्मस्य च सङ्घस्य च। ततः सुभूतेर्भगवद्दर्शनहेतोरभिलाष उत्पन्नः। ततो देवतया ऋद्व्यानुभावाद्भगवत्सकाशमुपनीतः॥ अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चास्य यो ऽभूत्सत्त्वेष्वाघातः स प्रतिविगतः। ततः प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णो धर्मश्रवणाय। तस्य भगवताशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा सुभूतिना कुलपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। स दृष्टसत्यो भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेन मैत्रीभावनया चित्तं दमयित्वा सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥
तत्र आयुष्मान्सुभूतिः समन्वाहर्तुं प्रवृत्तः कुतो ऽहं च्युतः कुत्रोपपन्नः केन कर्मणेति। पश्यति पञ्च जातिशतानि नागेभ्यश्च्युतो नागेष्वेवोपपन्नः। तस्य बुद्धिरुत्पन्ना। मयातीव एवंविधो द्वेषप्रत्ययोपसंभारः कृतो येनाहं पञ्च जन्मशतानि नागेषू<प>पन्नस्तेनैव हेतुना महद्यसनमनुभूतवान्। इदानीं पुनस्तथा करिष्यामि यत्परेषामत्तिके द्वेषोपसंभारो नोत्पत्स्यते येन समन्वागतः कायस्य भेदादपायं दुर्गतिं विनिपातं नरकेषूपपद्यते॥ सो ऽरण्यप्रतिपदं समादाय वर्तते। यदा सङ्घे वा ग्रामे वा देशे वा जनपदे वा भिक्षाहेतोर्विहर्तुकामो भवति तदा पूर्वतरं गोचरमवलोकयति। मा मां कश्चित्कारणेन दृष्ट्वा चित्तं प्रदूषयिष्यति अत्ततः कुत्तपिपीलका अपीति। स तानीर्यापथेन प्रश्रितेनाभिरमयति। तेन तेषां सत्त्वानां चित्तप्रसादो भवति। एवंविधां सो ऽर्ह<त्त्वप्राप्तो> ऽप्यपत्रपामनुभवतीति॥ तत आयुष्मतः सुभूतेर्बुद्धिरुत्पन्ना। यन्न्वहमिदानीं महाजनानुग्रहार्थं कुर्यामिति। ततस्तेन ऋद्या पञ्च सुपर्णिशतानि निर्मितानि <यानि> दृष्ट्वा नागा भीतास्त्रस्ताः संविग्ना इतश्चामुतश्च संभ्रात्ताः। ततः सुभूतिना ऋद्धिबलेन पुनः परित्राताः। ततस्तेषां प्रसन्नचित्तानां मैत्री व्यपदिष्टा॥ पुनरपि महात्तं नागनूपमभिनिर्माय पञ्च गरुडशतान्यभिद्रुतानि। तेषामपि भीतानां मैत्री व्यपदिष्टा॥ एवं तेन नागानां गरुडानां च पञ्च कुलशतानि विनीतानि॥
तत्र भगवान्भिक्षूनामन्त्रयते स्म। एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणामरणाविहारिणां यदुत सुभूतिः कुलपुत्रः॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त सुभूतिना कर्माणि कृतानि येनारणाविहारिणामग्रो निर्दिष्ट इति॥ भगवानाह। सुभूतिनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। सुभूतिना कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। तत्रायं प्रव्रजितो बभूव। तत्रानेन दानप्रदानानि द<त्तानिद>श वर्षसहस्राणि ब्रह्मचर्यवासः परिपालितः प्रणिधानं च कृतम्। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतो भविष्यसि त्वं मानववर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतो ऽर्हन्सम्यक्संबुद्ध इति तस्याहं शासने प्रव्रज्यारणाविहारिणामग्रः स्यामिति॥
कानि कर्माणि कृतानि येन नागेषूपपन्नः॥ अप्रहीणत्वात्क्लेशानामुद्रात्तत्वादिन्द्रियाणामपर्यत्तीकृतत्वात्कर्मपथानां शैक्षाशैक्षभिक्षु<षु> चित्तं प्रदूष्याशीविषवादेन समुदाचरिताः। तेन नागेषूपपन्नः। यत्तेन दानप्रदानानि दत्तानि ब्रह्मचर्यवासः परिपालितस्तेनेदानीमर्हत्त्वं साक्षात्कृतमरणाविहारिणां चाग्रो निर्दिष्टः। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥