हिरण्यपाणिरिति ८३
Technical Details
हिरण्यपाणिरिति ८३।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। न चास्य पुत्रो न दुहिता। स करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। अनेकधनसमुदितं मे गृहं न मे पुत्रो न दुहिता। ममात्ययात्सर्वस्वापतेयमपुत्र<क>मिति कृत्वा राजविधेयं भविष्यतीति। स श्रमणब्राह्मणसुहृत्संबन्धिबान्धवैरुच्यते देवताराधनं कुरुष्वेति॥ अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायत्ते दुहितरश्चेति। तच्च नैवम्। यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चक्रवर्तिनः। अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च। कतमेषां त्रयाणाम्। मातापितरौ रक्तौ भवतः संनिपतितौ माता कल्या भवति ऋतुमती गन्धर्वश्च प्रत्युपस्थितो भवति। एतेषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च॥ स चैवमायाचनपरस्तिष्ठ<त्य>न्यतमश्च सत्त्वो ऽन्यतमस्माद्देवनिकायाच्च्युत्वा तस्य प्रजापत्याः कुक्षिमवक्रात्तः॥ पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे। कतमे पञ्च। रक्तं पुरुषं जानाति विरक्तं<पुरुषं> जानाति। कालं जानाति ऋतुं जानाति। गर्भमवक्रात्तं जानाति। यस्य सकाशाद्रर्भो ऽवक्रामति तं जानाति। दारकं जानाति दारिकां जानाति। सचेद्दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति॥ सा आत्तमनाः स्वामिन आरोचयति। दिष्ट्यार्यपुत्र वर्धसे आपन्नसत्त्वास्मि संवृत्ता यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति। सो ऽप्यात्तमनाः पूर्वकायमत्युन्नमय्य दक्षिणं बाहुमभिप्रसार्य उदानमुदानयति। अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयं जातो मे स्यान्नावजातः कृत्यानि मे कुर्वीत भृतः प्रतिबिभृयाद्दायाद्यं प्रतिपद्येत कुलवंशो मे चिरस्थितिकः स्यादस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्त्वा पुण्यानि कृत्वा<स्माकं नाम्ना> दक्षिणामादेक्ष्यते। इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छृतोरनुगच्छत्विति। आपन्नसत्त्वां चैनां विदित्वोपरिप्रासादतलगतामयत्त्रितां धारयति शीते शीतोपकरणैरुष्णे उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुर-कटुककषायविवर्जितैराहारैर्हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरत्तीमधरां भूमिम्। न चास्याः किञ्चिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय॥
साष्टानां वा <नवानां वा> मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः पाणिद्वये चास्य लक्षणाहतं कर्मविपाकजं दीनारद्वयम्। यदा तदपनीतं भवति तदा अन्यत्प्रादुर्भवति॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दार<क>स्य नामेति। ज्ञातय ऊचुः। यस्मादस्य जातमात्रस्य पाणिद्वये लक्षणाहतं कर्मविपाकजं दीनारद्वयं प्रादुर्भूतं तस्माद्भवतु दारकस्य हिरण्यपाणिरिति नामेति॥ हिरण्यपाणिर्दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥ स श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः। स यदा वीथीमवतीर्णो भवति तदा श्रमणब्राह्मणकृपणवनीपकान्दृष्ट्वा पाणिद्वयं प्रसारयति। ततो लक्षणाहतस्य हिरण्यसुवर्णस्य राशिः प्रादुर्भवति येन तान्संतर्पयति। तस्य यशसा सर्वा श्रावस्ती आपूर्णा॥
यावद्विरण्यपाणिर्दारको ऽपरेण समयेन जेतवनं निर्गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितं प्रसादजातश्च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। ततो ऽस्य भगवता धर्मो देशितः॥ स आयुष्मत्तमानन्दमिदमवोचत्। इच्छाम्यहमाचार्य भगवतः सश्रावकसङ्घस्य भक्तं कर्तुमिति। स्थविरानन्देनोक्तो वत्स कार्षापणैः प्रयोजनमिति। ततो हिरण्यपाणिना बुद्धप्रमुखस्य भिक्षुसङ्घस्य पुरस्तात्स्थित्वा पाणिद्वयं प्रसार्य हिरण्यसुवर्णस्य महान्नाशिः स्थापितो यं दृष्ट्वा सङ्घस्थविरो ऽन्ये च भिक्षवः स्थविरानन्दश्च परं विस्मयमापन्नाः॥ ततो हिरण्यपाणिर्दारको बुद्धप्रमुखं भिक्षुसङ्घं भोजयित्वा भगवतः पुरस्तान्निषणो धर्मश्रवणाय। तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा हिरण्यपाणिदारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्। दृष्टसत्यो ज्ञातीनां भागसंविभागं कृत्वा श्रमणब्राह्मणकृपणवनीपकान्संतर्प्य मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभ<लोभ>सत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः।
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त हिरण्यपाणिना कर्माणि कृतानि येनास्य पाणिद्वये लक्षणाहतं दीनारद्वयं जातं प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। हिरण्यपाणिनैव भिक्षवः पूर्वमन्यासु जातिषुः कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। हिरण्यपाणिना कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यतीति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। अथ काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः। तस्य राज्ञा कृकिणा शरीरे शरीरपूजां कृत्वा समत्तयोजनश्चतूरत्नमय स्तूपः प्रतिष्ठापितः क्रोशमुच्चत्वेन। तत्र च स्तूपमहे वर्तमाने द्यूतकरेण दीनारद्वयं तस्मिन्स्तूपे यष्ट्यां समारोपितम्। ततः पादयोर्निपत्य प्रणिधानं कृतवान्। यत्र यत्र जायेय तत्र तत्र हस्तगतेनैव सुवर्णेनेति॥
भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन द्यूतकर आसीदयं स हिरण्यपाणिः। यदनेन स्तूपे दीनारद्वयं समारोपितं तेनास्यैवंविधो विशेषः संवृत्तः। यत्प्रणिधानं कृतं तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥