सुमना इति ८२
Technical Details
सुमना इति ८२।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहोवैश्रवणधनसमुदितो <वैश्रवणधनप्रतिस्पर्धी>। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्राः प्रजायत्ते च म्रियत्ते च॥ तस्मिंश्च गृहे स्थविरो ऽनिरुद्धः कुलोपगतः। ततो गृहपतेरियं बुद्धिरुत्पन्ना। अयं स्थविरानिरुद्धो विपाकमहेशाख्यः। एतं तावदायाचिष्ये यदि मे पुत्रो जायते अस्य पश्चाच्छ्रमणं दास्यामीति॥ ततो गृहपतिना स्थविरानिरुद्धो ऽत्तर्गृहे भक्तेनोपनिमन्त्रितः। ततः पिण्डकेन प्रतिपाद्यायाचितः स्थविर यदि मे पुत्रो जातो जीवति स्थविरस्य पश्चाच्छ्रमणं दास्यामीति॥ स्थविरानिरुद्धेनोक्तमेवमस्तु किं तु स्मर्तव्या ते प्रतिज्ञेति।
यावदपरेण समयेन पत्न्या सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। तस्याः कायात्सुरभिर्गन्धः प्रवाति। यावन्नवानां मासानामत्ययात्प्रसूता। दारको जातो अभिनूपो दर्शनीयः प्रासादिको दिव्यसुमनःकञ्चिकया प्रावृतः। तस्य जातौ जातिमहं कृत्वा सुमना इति नामधेयं व्यवस्थापितम्। ततः स्थविरानिरुद्धमत्तर्गृहे भक्तेनोपनिमत्र्य स दारको निर्यातितः। ततः स्थविरानिरुद्धेनास्मै काषायाणि दत्तानि आशीर्वादश्च दीर्घायुर्भवत्विति॥
यदा सप्तवर्षो जातस्तदा मातापितृभ्यां स्थविराय दत्तः। ततः स्थविरानिरुद्धेन प्रव्राज्य मनसिकारो दत्तः। तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणदर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। स च तीक्ष्णेन्द्रियो यदा पांसुकूलं प्रतिसंस्करोति तदा एकैकस्मिन् सूचीप्रदेशे अष्टौ विमोक्षान्समापद्यते च व्युत्तिष्ठते च॥
यावदपरेण समयेन स्थविरानिरुद्धेनोक्तो गच्छ पुत्रक नद्या अजिरवत्या उदकमानयेति। ततः सुमनाः श्रमणोद्देशो घटमादायाजिरवतीमवतीर्णः। तत्र स्नात्वा उदकस्य घटं पूरयित्वा विहायसं प्रस्थितः। अग्रतो घटो गच्छति ततः सुमनाः श्रमणोद्देशः॥ तस्मिंश्च समये भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां धर्मं देशयति। तत्र भगवानायुष्मत्तं शारिपुत्रमामन्त्रयते। इमं पश्य शारिपुत्र श्रमणोद्देशमागच्छत्तमुदकस्य घटं पूरयित्वा स्मृतिमत्तं सुसमाहितेन्द्रियम्।
हित्वा रागं च द्वेषं च अभिध्यां च विरागयन्।
<सं>घारयन्निमं देहं शोभते उदहारकः॥
यदा भगवता सुमनाः श्रमणोद्देशो भिक्षुसङ्घस्य पुरस्तात्स्तुतः प्रशस्तश्च तदा भिक्षूणां संदेहो जातः। कानि भदत्त सुमनसा कर्माणि कृतान्युपचितानि येनाभिनूपो दर्शनीयः प्रासादिको दिव्यया च सुमनसां कञ्चुकया प्रावृतो जातस्तीक्ष्णेन्द्रियो ऽर्हत्त्वं च प्राप्तमिति॥ सुमनसैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। सुमनसा तानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति॥ यावदन्यतमः सार्थवाहस्तस्य तरुणावस्थायां प्रव्रज्याचित्तमुत्पन्नम् तेन न शकितं प्रव्रजितुम्। यदा वृद्धो भूतस्तदा तस्य विप्रतिसारो जातो न मे शोभनं कृतं यदहं भगवच्छासने न प्रव्रजित इति। ततस्तेन केशनखस्तूपे सुमनःपुष्पारोपणं कृतं विपश्यी च सम्यक्संबुद्धः सश्रावकसङ्घः पिण्डकेन प्रतिपादितः। <ततस्तेन> पादयोर्निपत्य प्रणिधानं कृतम्। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चानागतान्सम्यक्संबुद्धानारागयेयं यस्य च शासने प्रव्रजेयं तत्र दहरावस्थायामार्यधर्मानधिगच्छेयमिति॥ भूयः काश्यपे भगवति प्रव्रजितो बभूव। तत्रानेन दश वर्षसहस्राणि व्रह्मचर्यावासः परिपालितः। तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥