मुक्तेति ७७
Technical Details
मुक्तेति ७७।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यां पुष्यो नाम श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालात्तरेण पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारिका जाता अभिनूपा दर्शनीया प्रासादिका मुक्तामालया शिरसि बद्धया॥ तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारिकाया नामेति। ज्ञातय ऊचुः। यस्मादस्या जातमात्राया मुक्तामाला शिरसि प्रादुर्भूता तस्माद्भवतु दारिकाया मुक्तेति नाम॥ मुक्ता दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। साष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥
यावन्मुक्ता दारिका क्रमेण महती संवृत्ता। तस्याः सा मुक्तमाला अवतारिता पुनः प्रादुर्भवति। ततः सा दारिका कृपणवनीपकान्दृष्ट्वा भोगसंविभागं करोति॥ यदा च प्रदेया संवृत्ता तदा तस्या बहवो याचनका आगच्छत्ति राजपुत्रा अमात्यपुत्राः श्रेष्ठिपुत्राश्च। ततो ऽस्याः पिता शोकागारं प्रविश्य करे कपोलं दत्त्वा चित्तापरो व्यवस्थितश्चित्तयति। यद्येकस्मै दास्यामि अन्ये मे ऽमित्रा भविष्यत्तीति॥ ततो ऽसौ दारिका पितरं विज्ञापयामास। तात किमर्थं शोकः क्रियत इति। तेन यथावृत्तं सर्वं तत्समाख्यातम्। ततो दारिका कथयति। तात नाहं कामैरर्थिनी भगवच्छासने प्रव्रजिष्यामीति॥ यावदनाथपिण्डदस्य सुप्रियो नाम कनीयःपुत्रस्तेन पिता विज्ञप्तः। ममार्थायैतां दारिकां याचस्वेति। ततो ऽनाथपिण्डदेन पुष्यस्य गृहपतेर्दूतसंप्रेषणं कृतम्। दीयतां मुक्ता दारिका मम पुत्राय एवं कृतं साम्बन्धिकं यावज्जीवसुख्यं कृतं च भविष्यतीति॥ ततः पुष्येण गृहपतिना स्वस्यां दुहितरि सो ऽर्थो निवेदितः। सा कथयति। समयतो यदीन्द्रियाणां परिपाकान्मया सह भगवच्छासने प्रव्रजति एवमहं तं भर्तारं वरयामीति। तेन तथैव कृतम्॥ यावदुभावेव गृहान्निष्क्रम्य भगवच्छासने प्रव्रजितौ। ताभ्यां युज्यमानाभ्यां घटमानाभ्यां व्यायच्छमानाभ्यामिदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वसंनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्तौ <संवृत्तौ> त्रैधातुकवीतरागौ समलोष्टकाञ्चनावाकाशपाणितलसमचित्तौ वासीचन्दनकल्पौ विद्याविदारिताण्डकोशौ विद्याभिज्ञाप्रतिसंवित्प्राप्तौ भवलाभलोभसत्कारपराङ्मुखौ सेन्द्रोपेन्द्राणां देवानां पूज्यौ मान्यावभिवाद्यौ च संवृत्तौ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त मुक्तया कर्माणि कृतानि येन मुक्तामालया शिरस्याबद्धया प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। मुक्तयैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। मुक्तया कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। यावदन्यतमः सार्थवाहः स महासमुद्रमवतीर्णः। ततः स्वस्ति सुसिद्धयानपात्र आगतः। ततस्तेन मुक्ताहारः परमशोभन आनीतः। तस्य च भार्या अभिनूपा दर्शनीया प्रासादिका। तेन तस्याः शिरसि बद्धा॥
वाराणस्यामन्यतमो गृहपतिः श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः। तस्य बुद्धिरुत्पन्ना। यन्न्वहं छन्दकभिक्षणं कृत्वा भगवतः काश्यपस्य शासने पञ्चवार्षिकं कुर्यामिति॥ तेन राज्ञः कृकिणो निवेदितमिच्छाम्यहं छन्दकभिक्षणं समादाप्य भगवतः पञ्चवार्षिकं कर्तुमिति। राज्ञा एवमस्त्विति समनुज्ञातः॥ अथासौ गृहपतिर्हस्तिस्कन्धानूढो वाराणस्यां नगर्या रथ्यावीथीचत्वरशृङ्गाटकेषु च्छन्दकभिक्षणं याचितुं प्रवृत्तः। यावत्सार्थवाहभार्या मुक्ताहारं शिरसो ऽवमुच्य तस्मिंश्छन्दकभिक्षणे दत्तवती॥ यावत्सार्थवाह आगतस्तं मुक्ताहारं शिरसो ऽपनीतं दृष्ट्वा पृष्टवान्। भद्रे क्कासौ मुक्ताहार इति॥ ततस्तयोक्तमार्यपुत्र प्रीतिं जनय प्रसादमुत्पादय भगवच्छासने छन्दकभिक्षणे दत्त इति॥ यावत्सार्थवाहेन पुष्कलेन मूल्येन निष्क्रीय तस्यै पत्न्यै दत्तः। सा नेच्छति पुनस्तं ग्रहीतुं परित्यक्ता मे इति॥ स्वामिनोच्यते। भद्रे मया प्रभूतेन हिरण्यसुवर्णेनायं क्रीतः कस्मान्नेच्छसीति॥ ततो ऽसौ दारिका तं गृहीत्वा प्रभूतं पुष्पसंग्रहं कृत्वा गन्धमाल्यानि च गृहीत्वा ऋषिपतनं गता। ततो गन्धकुट्यां गन्धप्रलेपं कृत्वा पुष्पैराकीर्य मुक्ताहारं भगवतो मूर्ध्नि क्षिप्तवती। <स> सहसा भगवतः काश्यपस्य मूर्धनि स्थितः॥ ततः प्रसादजातया प्रणिधानं कृतम्। अहमप्येवंविधानां गुणानां लाभिनी स्यामेवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति॥
किं मन्यध्वे भिक्षवो यासौ तेन कालेन तेन समयेन सार्थवाहभार्या इयं सा मुक्ता। यदनया भगवति काश्यपे काराः कृतास्तेनाभिनूपा दर्शनीया प्रासादिका मुक्ताहारश्चास्याः शिरसि प्रादुर्भूतस्तेनैव हेतुनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्।