काशिकसुन्दरीति ७६
Technical Details
काशिकसुन्दरीति ७६।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो वाराणस्यां विहरति ऋषिपतने मृगदावे। वाराणस्यां नगर्यां राजा ब्रह्मदत्तो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं प्रियमिवैकपुत्रकं राज्यं पालयति॥ यावदसौ राजा देव्या सह क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालात्तरेण देवी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारिका जाता अभिनूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता॥ तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारिकाया नामेति। ज्ञातय ऊचुः। यस्मादियं काशिराजस्य दुहिता सुनूपा च तस्माद्भवतु दारिकायाः काशिसुन्दरीति नामेति। काशिसुन्दरी दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। साष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥
यदा काशिसुन्दरी दारिका क्रमेण महती संवृत्ता तदा प्रातिसीमैः षड्भी राजभी राज्ञो ब्रह्मदत्तस्य दूतसंप्रेषणं कृतम्। श्रुतमस्माभिर्यथा तव दुहिता जातेति तदर्हस्यस्माकं पुत्राणामन्यतरस्मै अनुप्रदातुमिति॥ ततो राजा शोकागारं प्रविश्य करे कपोलं दत्त्वा चित्तापरो व्यवस्थितश्चित्तयति। यद्येकस्मै दास्यामि अपरेण मे सह विरोधो भविष्यतीति॥ काशिसुन्दरी दारिका सर्वालङ्कारविभूषिता पितुः सकाशमुपसंक्रात्ता। तया पिता शोकार्तो दृष्टः पृष्टश्च तात किमर्थं शोकः क्रियत इति। पित्रास्या यथाभूतं समाख्यातम्॥ ततः काशिसुन्दरी पितरमुवाच। क्रियतां तात प्रातिसीमानां राज्ञां दूतसंप्रेषणं सप्तमे दिवसे काशिसुन्दरी दारिका स्वयंवरमवतरिष्यति येन वो यत्करणीयं स तत्करोत्विति॥ यावत्सप्तमे दिवसे षट् प्रातिसीमा राजानस्संनिपतिताः। काशिसुन्दर्यपिरथमभिरुह्य काषायं ध्वजमुच्छ्राप्य बुद्धपटं हस्तेन गृहीत्वा राजसभां गत्वोवाच। शृण्वत्तु भवत्तः प्रातिसीमा राजानो नाहं भवतां नूपयौवनकुलभोगैश्वर्यं तुलयामि अपि तु नाहं कामैरर्थिनी य एष एव मे भगवान्बुद्धः पटे लिखितस्तस्याहं श्राविका अस्य शासने प्रव्रजिष्यामीति॥
यावदृषिपतनं गत्वा भगवतः पादाभिवन्दनं कृत्वा भगवत्तमिदमवोचत्। लभेयाहं भदत्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतो ऽत्तिके ब्रह्मचर्यमिति। ततो भगवता महाप्रजापत्यां संन्यस्ता। ततस्तया प्रव्राजिता उपसंपादिता च॥ तया युज्यमानया घटमानया व्यायच्छमानया इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वसंनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चनाकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता॥ ततस्ते राजपुत्रास्तस्या नूपयौवनशोभां समनुस्मृत्य रागमदमत्ताः प्रव्रजितामपि प्रार्थयितुं प्रवृत्ताः। सा तैः प्रार्थ्यमाना विततपक्ष इव हंसराजो गगणतलमभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुमारब्धा। आशु पृथग्जनस्य ऋद्धिरावर्जनकरी। ततस्ते राजपुत्रा अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा आहृष्टरोमकूपाः पादयोर्निपत्य क्षमापयितुमारब्धाः। मर्षय भगिनि यथैते त्वया धर्माः साक्षात्कृता अस्थानमेतद्यत्त्वं कामान्परिभुञ्जीथा इति। ततः काशिकासुन्दरी गगणतलादवतीर्य जनकायस्य पुरस्तात्स्थित्वा तथाविधां धर्मदेशनां कृतवती<यां>श्रुत्वानेकैः प्राणिशतसहस्रैर्महान्विशेषो ऽधिगतः॥
ततो भिक्षवस्संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त काशिसुन्दर्या कर्माणि कृतानि येनैवमभिनूपा दर्शनीया प्रासादिका प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। काशिसुन्दर्यैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। काशिसुन्दर्या कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे त्रिंशद्वर्षसहस्रायुषि प्रजायां कनकमुनिर्नाम तथागतो ऽर्हन्सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्।* * * * *। यावत्तत्रान्यतरा राजदुहिता श्राद्धा भद्रा कल्याणाशया आत्महितपरहितप्रतिपन्ना। तया विहारं कारयित्वा सर्वोपकरणैः परिपूर्य भगवते <स>श्रावकसङ्घाय प्रतिपादितः कनकमुनौ च सम्यक्संबुद्धे प्रव्रज्य दश वर्षसहस्राणि मैत्री भाविता॥
किं मन्यध्वे भिक्षवो या सा राजदुहिता इयं सा काशिसुन्दरी दारिका। यदनया विहारः प्रतिपादितस्तेनाभिनूपा दर्शनीया प्रासादिका संवृत्ता। यत्कनकमुनौ भगवति प्रव्रज्य दश वर्षसहस्राणि मैत्री भाविता तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥