सोमेति ७४
Technical Details
सोमेति ७४।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चित्तो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमो ब्राह्मण आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी त्रयाणां वेदानां पारगः सनिघण्टकैटभानां साक्षरप्रभेदानामितिहासपञ्चमानां पदशो व्याकरणः। स पञ्च माणवकशतानि ब्राह्मणकान्मन्त्रान्पाठयति॥ तेन पुत्रहेतोः सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारिका जाताभिनूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता॥ तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारिकाया नामेति। ज्ञातय ऊचुः। प्रायशो ऽस्माकं पुत्रपौत्रिकया सोमनामानि क्रियत्ते भवतु दारिकायाः सोमेति नाम। सोमा दारिका उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥
यदा क्रमेण महती संवृत्ता सा पण्डिता व्यक्ता मेधाविनी पटुप्रचारा स्मृतिमती श्रुतिधरा च। यावदस्याः पिता माणवकान्मन्त्रान्पाठयति सा श्रुतमात्रेणोद्गृह्णाति श्रुत्वा च तेषां शास्त्राणां पूर्वापरेण व्याख्यानं करोति॥ ततो ऽस्या यशसा सर्वा श्रावस्ती स्फुटा संवृत्ता तीर्थ्याश्चास्या अहन्यहनि दर्शनायोपसंक्रामत्ति तया च सह विनिश्चयं कुर्वत्ति॥ यदा भगवाननुत्तरां सम्यक्संबोधिमभिसंबुद्धः तदा श्रावस्तीमागतः। प्रायेण ये पण्डिताः पण्डितसंख्याताः ते भगवतो दर्शनायोपसंक्रामत्ति॥ ततस्सा <तान्> न पश्यत्ती अत्तर्जनमामन्त्रयते। को ऽत्र भवत्तो हेतुर्येनैतर्हि शास्त्रविदो नोपसंक्रामत्तीति॥ ते कथयत्ति। भगवान्सर्वज्ञः शाक्यमुनिर्नामेह संप्राप्तः सर्वे तत्प्रवणाः संवृत्ता इति। ततो बुद्ध इत्यश्रुतपूर्वं घोषं श्रुत्वास्याः सर्वरोमकूपाहृष्टाः॥ तत्र सोमा दारिका बुद्धशब्दश्रवणाद्भगवत्सकाशमुपसंक्रात्ता। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्च भगवत्पादाभिवन्दनं कृत्वा पुरस्तान्निषणा धर्मश्रवणाय। अथ भगवान्सोमाया दारिकाया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्र<ति>वेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा सोमया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। सा दृष्टसत्या महाप्रजापत्याः सकाशे प्रव्रजिता॥ तया युज्यमानया घटमानया व्यायच्छमानया इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चनाकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता॥ यदा भगवता भिक्षुभ्य आज्ञा दत्ता यूयमेव भिक्षवो ऽन्वर्धमासं प्रा<ति>मोक्षसूत्रोद्देशमुद्दिशतेति तदा महाप्रजापत्या उद्दिशतु भगवान्प्रातिमोक्षमुद्दिशतु सुगतः प्रातिमोक्षमिति॥ भगवानाह। न हि भिक्षुण्यस्तथागता अर्हत्तः सम्यक्संबुद्धाः पदशो धर्ममुद्दिशत्ति। यदि युष्माकं काचिदुच्छहते सकृदुक्तं धारयितुमेवमहमुद्दिशेयमिति॥ तेन खलु समयेन सा भिक्षुणी तस्यामेव पर्षदि संनिषणा संनिपतिता। अथ सा भिक्षुणी उत्थायासनाद्येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवत्तमेतदवोचत्। उद्दिशतु भगवान्प्रातिमोक्षमुद्दिशतु सुगतः प्रातिमोक्षमहं सकृदुक्तं धारयिष्ये॥ ततो भगवता विस्तरेणोद्दिष्टः सोमया सकृदुक्तो धारितः॥ तत्र भगवान्भिक्षूनामन्त्रयते स्म। एषाग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकाणां बहुश्रुतानां श्रुतधरीणां यदुत सोमा भिक्षुणी॥
भिक्षवः संशयजातास्सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त सोमया भिक्षुण्या कर्माणि कृतान्युपचितानि येनाढ्ये कुले जाताभिनूपा दर्शनीया प्रासादिका श्रुतिधरा च संवृत्तेति॥ भगवानाह। सोमयैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। सोमया कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ यावदन्यतरा ब्राह्मणदारिका भगवतः काश्यपस्य शासने प्रव्रजिता। तया तत्रोद्दिष्टं पठितं स्कन्धकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतं न तु शकितं नैष्ठिकं ज्ञानमुत्पादयितुं यस्याश्चोपाध्यायिकायाः सकाशे प्रव्रजितासीत्सा भगवता काश्यपेन श्रुतधरीणामग्रा निर्दिष्टा। ततः सोमया भिक्षुण्या मरणकाले प्रणिधानं कृतम्। यथा मे उपाध्यायिका श्रुतधरीणामग्रा निर्दिष्टा एवमहमप्यनागते ऽध्वनि यो ऽसौ भगवता काश्यपेनोत्तरो नाम माणवो व्याकृतो भविष्यसि त्वं मानववर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतो ऽर्हन्सम्यक्संबुद्ध इति तस्य शासने प्रव्रजिता भगवता शाक्यमुनिना श्रुतिधरीणामग्रा निर्दिश्येय॥
भगवानाह। किं मन्यध्वे भिक्षवो यासौ ब्राह्मणदारिका आसीदियं सा सोमा भिक्षुणी। यदनया प्रणिधानं कृतं तेन श्रुतिधरीणामग्रा निर्दिष्टा। यदनया तस्योद्दिष्टं पठितं स्वाध्यायितं तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥