शुक्लेति ७३
Technical Details
शुक्लेति ७३।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। शाक्येषु रोहिणो नाम शाक्यः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता। स करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। अनेकधनसमुदितं मे गृहं न मे पुत्रो न दुहिता। ममात्ययात्सर्वस्वापतेयमपुत्रकमिति कृत्वा राजविधेयं भविष्यतीति। स श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवैरुच्यते देवताराधनं कुरुष्वेति॥ सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरवासवादीनन्यांश्च देवताविशेषानायाचते। तद्यथा आरामदेवता वनदेवताश्चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते स्म। अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायत्ते दुहितरश्चेति। तच्च नैवम्। यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चक्रवर्तिनः। अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च। कतमेषां त्रयाणाम्। मातापितरौ रक्तौ भवतः संनिपतितौ माता कल्या भवति ऋतुमती गन्धर्वश्च प्रत्युपस्थितो भवत्येतेषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च॥
स चैवमायाचनपरस्तिष्ठति अन्यतमा च दारिका अन्यतमस्माद्देवनिकायाच्च्युत्वा तस्य प्रजापत्याः कुक्षिमवक्रात्ता। तया स्वामिने निवेदितम्। ततः स्वामिनोच्यते। भद्रे यदि पुत्रं जनिष्यसीत्येवं कुशलमथ दुहितरं तयैव सह त्वां निष्कासयामीति॥ यावदसावष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारिका जाता अभिनूपा दर्शनीया प्रासादिका अतिक्रात्ता मानुषं वर्णमसंप्राप्ता च दिव्यं वर्णं शुक्लैर्वस्त्रैः प्रावृता अनुपलिप्तै<व> गर्भमलेन॥ यावद्रोहिणेन श्रुतं प्रजापती ते प्रसूता दारिका जातेति। स कुपितः प्रविष्टः। ततो ऽस्य प्रजापत्या दिव्यवस्त्रप्रावृता दारिकोपनीता। ततो रोहिणः शाक्यो दारिकां दृष्ट्वा परं विस्मयमापन्नः॥ तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारिकाया नामेति। ज्ञातय ऊचुः। यस्मादियं शुक्लवस्त्रपरिवृता जाता तस्माद्भवतु दारिकायाः शुक्लेति नामेति॥ शुक्ला दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। साष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। यथा यथा च शुक्ला दारिका वर्धते तथा तथा तान्यपि वस्त्राणि वर्धत्ते न च मलिनीभवत्ति न चास्याः कायो मलेनाभिभूयते॥
यदा शुक्ला दारिका क्रमेण महती संवृत्ता तदास्या बहवो याचनका आगच्छत्ति राजपुत्रामात्यपुत्राश्च। ततस्तैरुपद्रूयमाणः पिता चास्याः करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। यद्येकस्मै दास्यामि अन्ये मे अमित्रा भविष्यत्तीति॥ यावदसौ दारिका पितरं चित्तापरमवेक्ष्योवाच। तात किमसि चित्तापर इति। तेन सो ऽर्थो विस्तरेण समाख्यातः॥ दारिका कथयति। तात न ते शोकः कर्तव्यो नाहं कामेनार्थिनी भगवच्छासने प्रव्रजिष्यामि अनुजानीहि मां तातेति॥ यावदसौ मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजिता। येनैव वस्त्रेण प्रावृता जाता तत एव परिपूर्णं पञ्चचीवरं संपन्नम्॥ तया युज्यमानया घटमानया व्यायच्छमानयेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता।
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त शुक्लया कर्माणि कृतानि येनाढ्ये कुले जाताभिनूपा दर्शनीया प्रासादिका शुक्लवस्त्रप्रावृता प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। शुक्लयैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। शुक्लया कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ यावदन्यतरा श्रेष्ठिभार्या श्राद्धा भद्रा कल्याणाशया केनचिदेव करणीयेन ऋषिपतनं गता॥ अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणा धर्मश्रवणाय। ततो ऽस्या भगवता काश्यपेन धर्मो देशितः। तया लब्धप्रसादया भगवत्तं सश्रावकसङ्घमत्तर्गृहे भोजयित्वा भिक्षुसङ्घाय कठिनचीवरमनुप्रदत्तं क्रमेण च मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजिता॥
किं मन्यध्वे भिक्षवो यासौ श्रेष्ठिभार्या एषैवासौ शुक्ला भिक्षुणी। यदनया भिक्षुसङ्घाय कठिनचीवरमनुप्रदत्तं तेन शुक्लवस्त्रप्रावृता जाता। यद्ब्रह्मचर्यवासः परिपालितस्तेनेह जन्मन्यर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥