सुप्रियेति ७२
Technical Details
सुप्रियेति ७२।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु समयेनानाथपिण्डदस्य गृहपतेः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारिका जाता अभिनूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता श्रावस्त्यधिवासिनो जनकायस्यातीव प्रिया। तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारिकाया नामेति। ज्ञातय ऊचुः। यस्मादियं प्रिया सर्वजनस्य तस्माद्भवतु दारिकायाः सुप्रियेति नामेति॥ जातिस्मरा जातमात्रा गाथां भाषते।
दत्तं हि दानं बहु वाल्पकं वा।
विस्तीर्यते क्षेत्रविशेषयोगात्।
तस्माद्वि देयं विदुषा प्रयत्नात्।
बुद्धाय लोकेन्द्रसुरेश्वराय॥
अथास्या मातापितरावन्ये च गृहवासिनस्तं वाक्यव्याहारं श्रुत्वा भीतास्त्रस्ताः संविग्ना आहृष्टरोमकूपाः कथयत्ति पिशाचीव सेयं दारिकेति॥ सा कथयति। अम्ब नाहं पिशाची नापि राक्षसी किं तर्हि दारिका इच्छा<मि>दानानि दातुमिति॥ ततो ऽस्या मात्रा अनाथपिण्डदस्य गृहपतेर्निवेदितमेवमेषा दारिका ब्रूत इति॥ ततस्तेन गृहपतिना हृष्टतुष्टप्रमुदितेन भगवानत्तर्गृहे सभिक्षुसङ्घो भोजितस्तस्याश्च नाम्ना दक्षिणादेशनं कारितम्॥
यावदसौ दारिका क्रमेण सप्तवर्षा संवृत्ता मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजिता। सा सर्वासां भिक्षुणीनामिष्टा कात्ता प्रिया मनापा॥ यावत्तत्र कालेन महादुर्भिक्षं प्रादुर्भूतं दुर्भिक्षात्तरकल्पसदृशं यत्रानेकानि प्राणिशतसहस्राणि अन्नपानवियोगात्कालं कुर्वत्ति। तत्र भगवानायुष्मत्तमानन्दमामन्त्रयते स्म। गच्छानन्द मद्वचनात्सुप्रियां वद चतस्रस्ते पर्षदस्त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः प्रतिपादयितव्या इति॥ तत आयुष्मानानन्दः सुप्रियां गत्वोवाच। भगवानाह चतस्रस्ते परिषदस्त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः प्रतिपादयितव्या इति। ततः सुप्रिया कृतकरपुटा भगवत आज्ञां शिरसि कृत्वा कथयत्येवमस्त्विति॥
सुप्रिया श्रावस्तीमभिसंप्रस्थिता गोचरव्यवलोकनार्थम्। यावदेषा प्रवृत्तिरनाथपिण्डदेन श्रुता। स त्वरितं सुप्रियाया अग्रतो भूतः कथयति सुप्रिये क्क गच्छसीति॥ सा कथयति। भगवानाह त्रैमास्यं वैयावृत्यकर्मणि नियुक्तेति॥ अनाथपिण्डद उवाच। अल्पोत्सुका भव अहं त्वां सर्वेण प्रवारयामीति॥ सुप्रिया कथयति। किमत्राश्चर्यं यदि तातो दृष्टसत्यः प्रवारयति समत्ततो ऽत्तर्हितानि निधानान्यभिसमीक्ष्य अहं तु दरिद्रजनस्यानुग्रहं करोमीति॥ तथा पञ्चभिरुपासकशतैरल्पोत्सुका क्रियते मालिकया देव्या वर्षाकारया क्षत्रियया ऋषिदत्तपुराणाभ्यां स्थपतिभ्यां विशाखया मृगारमात्रा राज्ञा प्रसेनजिता। अटवीगता तत्राप्यमनुष्यैर्मनुष्यवेषधारिभिः प्रवार्यते॥ तया एवं प्रवार्यमाणया भगवान्सश्रावकसङ्घस्त्रैमास्यमुपस्थितश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस्तत्रैव च त्रैमास्ये युज्यमानघटमानव्यायच्छमानया इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतन<वि>किरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता॥
अथ भगवांस्त्रैमास्यात्ययात्कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं श्रावस्त्या राजगृहं संप्रस्थितः सार्धं श्रावकसङ्घेन। ततः सुप्रियया भगवानत्तर्मार्गे अल्पोत्सुकः कृतः। यावदसौ * * * * दिकामटवीमनुप्राप्तः गण्डीदेशकालो जातः पथ्यदनं च नास्ति। तया भगवान्सश्रावकसङ्घ उपनिवेशितः। ततः पात्रं वामे पाणौ प्रतिष्ठाप्योवाच प्रव्याहृतवती। यदि पुण्यानामस्ति विपाकः पात्रमेवंविधभक्ष्यभोज्यादिना परिपूर्येतेति। ततो देवतया दिव्यया सुधया परिपूरितम्। ततः सुप्रियया अनुपरिपाटिकया सर्वस्य भिक्षुसङ्घस्य पात्राणि पूरितानि॥ तत्र भगवान्भिक्षूनामन्त्रयते स्म। एषा अग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकाणां कृतपुण्यानां यदुत सुप्रिया भिक्षुणी॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त सुप्रियया कर्माणि कृता<नि> येन आढ्ये कुले जाता अभिनूपा दर्शनीया प्रासादिका अभिमता सर्वजनस्य प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। सुप्रिययैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। सुप्रियया कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ अथ काश्यपः सम्यक्संबुद्धः पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो वाराणसीं नगरीं पिण्डाय प्राविक्षत्। यावदन्यतरः श्रेष्ठी सपरिजन उद्यानं गतः प्रभूतं च खादनीयं भोजनीयं नीतम्। यावत्तस्य प्रेष्यदारिकया* * * *। <तया> भगवान्सश्रावकसङ्घो ऽत्तर्मार्गे दृष्टः। तस्याः प्रसादजाताया बुद्धिरुत्पन्ना किं मां स्वामी द्विरपि दासीकरिष्यति यन्न्वहं भगवत्तं भोजयेयमिति। ततस्तया बन्धनताडनमग<ण>यित्वा भक्तपेडामुद्घाट्य भगवान्सश्रावकसङ्घो विचित्रेणाहारेण संतर्पितः। ततः श्रेष्ठिनः सकाशमुपसंक्रात्ता॥ यावच्छ्रेष्ठिना उक्ता दारिके क्क सा भक्तपेडेति॥ सा कथयति। भगवान्मे काश्यपस्सम्यक्संबुद्धः पिण्डकेन प्रतिपादितः। इति श्रुत्वा श्रेष्ठी परं विस्मयमापन्नः॥ ततस्तेन हृष्टतुष्टप्रमुदितेनोक्ता। गच्छ दारिके अद्याग्रेण त्वमदासी भव या त्वं मम सुप्तस्य जागर्षीति॥ सा कृतकरपुटा गृहपतिं विज्ञापितवती। अनुजानीहि मां भगवच्छासने प्रव्रजिष्यामीति। ततो ऽस्याः श्रेष्ठिना पात्रचीवरं दत्तम्। सा स्वकेन पात्रचीवरेण भगवच्छासने प्रव्रजिता॥ भगवतः काश्यपस्य प्रवचने दश वर्षसहस्राणि वैयापृत्यं कृतं भक्तैस्तर्पणैर्यवागूपानैर्नित्यकैर्निमित्तिकैर्दीपमालाभिः कठिनचीवरैर्दानप्रदानानि दत्त्वा प्रणिधानं कृतम्। यन्मया भगवते काश्यपाय कृच्छ्रेण समुदानीय दानप्रदानानि दत्तान्यनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च भगवतः शाक्यमुनेः प्रव्रज्यार्हत्त्वं प्राप्नुयामिति॥
भगवानाह। किं मन्यध्वे भिक्षवो यासौ प्रेष्यदारिका इयमसौ सुप्रिया। यदनया भगवान्काश्यपः पिण्डकेन प्रतिपादितस्तेन आढ्ये कुले जाता अभिनूपा दर्शनीया प्रासादिका अभिमता सर्वजनस्य। यत्प्रणिधानं कृतं तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥