सुप्रभेति ७१
Technical Details
अष्टमो वर्गः।
सुप्रभेति ७१।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारिका जाता अभिनूपा दर्शनीया प्रासादिका दिव्यालङ्कारभूषिता मणिरत्नेन कण्ठे आबद्धेन तस्माच्च प्रभा निर्गच्छति यया सर्वा श्रावस्ती अवभासते॥ तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारिकाया नामेति। ज्ञातय ऊचुः। यस्मादनया जातमात्रया मणिरत्नावभासेन सर्वा श्रावस्ती अवभासिता तस्माद्भवतु दारिकायाः सुप्रभेति नामेति॥ सा सुप्रभा दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। साष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। सा दारिका श्राद्धा भद्रा कल्याणाशया आत्महितपरहितप्रतिपन्ना। तस्या ये ये याचनका आगच्छत्ति तेभ्यस्तेभ्यः कण्ठादलङ्कारमवमुच्य प्रयच्छति दत्ते च पुनरलङ्कारः प्रादुर्भवति॥
यावदसौ दारिका क्रमेण महती संवृत्ता तदा तस्या बहवो याचनका आगच्छत्ति राजपुत्रा अमात्यपुत्राः श्रेष्ठिपुत्राश्च। तैरुपद्रूयमाणः पिता चास्याः करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। यद्येकस्मै दास्यामि अन्ये मे अमित्रा भविष्यत्तीति॥ यावदसौ दारिका पितरं चित्तापरमवेक्ष्योवाच। तात किमसि चित्तापर इति। तेन सो ऽर्थो विस्तरेण समाख्यातः॥ दारिका कथयति। तात न ते शोकः कर्तव्यः स्वयमेवाहं सप्तमे दिवसे स्वयंवरमवतरिष्यामीति॥ ततः श्रेष्ठी राज्ञः प्रसेनजितो निवेद्य श्रावस्त्यां घण्टावघोषणं कारयामास। सप्तमे दिवसे सुप्रभा दारिका स्वयंवरमवतरिष्यति येन वो यत्करणीयं स तत्करोत्विति॥
ततः सप्तमे दिवसे सुप्रभा दारिका रथाभिनूढा काषायं ध्वजमुच्छ्राप्य बुद्धं भगवत्तं चित्रपटे लेखयित्वा अभिष्टुवती वीथीमवतीर्णा॥ सा तत्र राजपुत्रैरमात्यपुत्रैः श्रेष्ठिपुत्रैश्च सोत्कण्ठोद्वीक्ष्यमाणा विचित्राभिः कथाभिः संज्ञप्योवाच। सर्वथाहं न केनचिदंशेन भवतां परिभवं करोमि केवलं तु नाहं कामेनार्थिनी बुद्धं शरणं गतास्मि तस्य सकाशे प्रव्रजिष्यामीति। ततस्ते निर्भर्त्सिताः प्रतिनिवृत्ताः॥ सुप्रभापि दारिका भगवत्सकाशमुपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण धर्मश्रवणाय। तस्या भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा सुप्रभया दारिकया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतमभिनिर्हारश्च कृतः। अथ सुप्रभा दारिका उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवत्तमिदमवोचत्। लभेयाहं भदत्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुणीभावं चरेयमहं भगवतो ऽत्तिके ब्रह्मचर्यमिति। ततो भगवान्संलक्षयति। अनया अस्मच्छासने महद्विनेयाकर्षणं कर्तव्यमिति। ततो भगवतोक्ता गच्छ दारिके पर्षदमवलोकयेति॥ ततः सुप्रभा दारिका जेतवनान्निर्गत्य तत्रागता। तत्रैकैकस्यैवं भवति बलेनैनां हराम इति। ते तामाक्रमितुमारब्धाः। ततः सुप्रभादारिका तैरुपक्रम्यमाणा विततपक्ष इव हंसराजो गगणतलमभ्युद्गम्य विचित्राणि प्रातिहार्याणि दर्शयितुमारब्धा। आशु पृथग्जनस्य ऋद्धिरावर्जनकरी॥ ततस्ते तदत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा उद्दण्डरोमाणो मूलनिकृत्ता इव द्रुमाः पादयोर्निपत्य विज्ञापयितुमारब्धाः। अवतरावतर भगिनि ययैते त्वया धर्माः साक्षात्कृता अस्थानमेतद्यत्त्वं कामान्परिभुञ्जीथा इति॥ ततः सुप्रभा दारिका गगणतलादवतीर्य जनकायस्य पुरस्तात्स्थित्वा तथाविधां धर्मदेशनां कृतवती यां श्रुत्वानेकैः प्राणिशतसहस्रैः सत्यदर्शनं कृतम्॥ ततो भगवता महाप्रजापत्याः संन्यस्ता। ततस्तया प्रव्राजिता उपसंपादिता च॥ तया युज्यमानया घटमानया व्यायच्छमानयेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त सुप्रभया दारिकया कर्माणि कृतानि येनाभिनूपा दर्शनीया प्रासादिका मणिरत्नं च कण्ठे प्रादुर्भूतं प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। सुप्रभयैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। सुप्रभया कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति। यावद्विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समत्तयोजनश्चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशमुच्चत्वेन। या बन्धुमतो राज्ञो ऽग्रमहिषी वृद्धीभूता तया विचित्राण्याभरणानि शरीरादव मुच्य तत्र स्तूपे दत्तानि। ततः पादयोर्निपत्य प्रणिधानं कृतवती। अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चार्हत्त्वं प्राप्नुयामिति॥
भगवानाह। किं मन्यध्वे भिक्षवो या सा तेन कालेन तेन समयेन राज्ञो बन्धुमती अग्रमहिषी आसीदियं सा सुप्रभा। यदनया विपश्यिनः स्तूपे विचित्राण्याभरणानि समारोपितानि तेनाभिनूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता संवृत्ता। यत्प्रणिधानं कृतं तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥