स्पद्माक्ष इति ६६
Technical Details
स्पद्माक्ष इति ६६।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। कपिलवस्तुन्यन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्ध क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिनूपो दर्शनीयः प्रासादिको ऽभिनीलपद्मनेत्रो दिव्येनेन्द्रनीलमणिरत्नेन शिरस्याबद्धेन येन कपिलवस्तु नगरमिन्द्रनीलवर्णं व्यवस्थापितम्॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य पद्मसदृशे अक्षिणी तस्माद्भवतु दारकस्य पद्माक्ष इति नामेति। पद्माक्षो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामस्त्यागरुचिः प्रदानाभिरतो महति त्यागे वर्तते। स येन येन गच्छति तेन देवमनुष्यैः पूज्यते ऽभ्यर्च्यते च॥
अथ पद्माक्षो दारको ऽपरेण समयेन न्यग्रोधारामं गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तमभिप्रसादितं प्रसादजातश्च भगवत्पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा पद्माक्षेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। स दृष्टसत्यो दानप्रदानानि दत्त्वा श्रमणब्राह्मणकृपणवनीपकदुःखितान्संतर्पयित्वा मातापितरावुनज्ञाप्य भगवच्छासने प्रव्रजितः। तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥ यावदसौ पिण्डपातप्रविष्टो महाजनकायेनोद्वीक्ष्यमाणो जिह्रेति। अथ स पद्माक्षो भगवतः सकाशमुपसंक्रम्य भगवत्तं विज्ञापयामास। साधु मे भगवांस्तथा करोतु यथा मणिरत्नमत्तर्धीयेत॥ भगवानाह। कर्मजं ह्येतन्न शक्यमत्तर्धापयितुमपि तु तथा करिष्यामि यच्छ्राद्वाद्रक्ष्यत्ति नाश्राद्धा इति॥ ततो भगवता तथा कृतम्॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त पद्माक्षेण कर्माणि कृतानि येनैवं महेशाख्यो ऽर्हत्त्वं च प्राप्तमिति॥ भगवानाह। पद्माक्षेणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। पद्माक्षेण कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति। यावद्विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समत्तयोजनश्चतूरत्नमयः स्तूपः प्रतिष्ठापितः। तत्रानेकानि <प्राणि>शतसहस्राणि कारान्कृत्वा स्वर्गमोक्षपरायणानि भवत्ति॥ यावदन्यतमः सार्थवाहो महासमुद्रात्सिद्धयानपात्रो ऽभ्यागतः। तेन तत्र महदिन्द्रनीलकं रत्नमानीतम्। तेन विपश्यिनः स्तूपं दृष्ट्वा तथागतगुणाननुस्मृत्य तन्मणिरत्नं विपश्यिनः स्तूपवर्षस्थाल्यामुपरि निबद्धम्। तस्यानुभावेन दिग्विदिशः सर्वा नीलाकारा अवस्थिताः। पद्मैश्च पूजां कृत्वा प्रणिधानं कृतमहमप्येवं गुणानां लाभी स्यामेवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति॥
भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सार्थवाह आसीदयं स पद्माक्षः। यत्तेन विपश्यिनः स्तूपे मणिरत्नमारोपितं तस्य कर्मणो विपाकेनास्य मणिरत्नं शिरसि प्रादुर्भूतम्। यन्नीलपद्मैः पूजा कृता तेनाभिनीलपद्मनेत्रः संवृत्तः। यत्प्रणिधानं कृतं तेनेह जन्मन्यर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥