सुवर्णाभ इति ६१
Technical Details
सप्तमो वर्गः।
सुवर्णाभ इति ६१।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। कपिलवस्तुन्यन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधन<प्रति>स्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिको ऽतिक्रात्तो मानुषवर्ण<स>संप्राप्तश्च दिव्यं वर्णं जाम्बूनदनिष्कसदृशस्सुवर्णवर्णया चानेन प्रभया सर्वं कपिलवस्तु नगरमवभासितम्। तद्दर्शनान्मातापितरावन्ये च कुतूहलाभ्यागतास्सत्त्वाः परं विस्मयमागताश्चित्तयत्ति च कुतो ऽयमीदृशः सत्त्वविशेष इति॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादनेन जातेन सुवर्णवर्णया प्रभया सर्वं कपिलवस्तु नगरमवभासितं तस्माद्भवतु दारकस्य सुवर्णाभ इति नामेति॥ सुवर्णाभो दारको ऽष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां <धात्रीभ्याम्>। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। स च पण्डितो व्यक्तो मेधावी श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः॥
यावदपरेण समयेन नूपमदमत्तो बहिरधिष्ठानस्य क्रीडति संबहुलाश्च शाक्यान्यग्रोधारामं गच्छत्ति। ततस्तेन सुवर्णाभेन दृष्टाः पृष्टाश्च क्क भवत्तो गच्छत्तीति। तैरुक्तं न्यग्रोधारामं गच्छामो बुद्धं भगवत्तं द्रष्टुमिति॥ सुवर्णाभस्य बुद्ध इत्यश्रुतपूर्वं नाम श्रुत्वा सर्वरोमकूपाण्याहृष्टानि परमं च कुतूहलमुत्पन्नम्। तस्यैतदभवत्। यन्न्वहमपि बुद्धं भगवत्तं दर्शनायोपसंक्रामेयमिति। सो ऽपि न्यग्रोधारामं गच्छति। ततस्तत्र ददर्श सुवर्णाभकुमारो बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। सहदर्शनाच्चास्य <यो ऽसौ> नूपमदः <स प्रतिविगतः। स> भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्य भगवता धर्मो देशितः। स तं धर्मं श्रुत्वा प्रव्रज्याभिलाषी संवृत्तः। यावन्मातापितरावनुज्ञाप्य भगवत्सकाशमुपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवत्तमिदमवोचत्। लभेयाहं भदत्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतो ऽत्तिके ब्रह्मचर्यमिति। ततो भगवान्गजभुजसदृशं सुवर्णवर्णबाहुमभिप्रसार्य सुवर्णाभदारकमिदमवोचत्। एहि कुमार चर ब्रह्मचर्यमिति।
एहीति चोक्तस्स तथागतेन मुण्डश्च सङ्घाटिपरीतदेहः।
सद्यः प्रशात्तेन्द्रिय एव तस्थावेवं स्थितो बुद्धमनोरथेन॥
यावत्सप्ताहावरोपितकेशश्मश्रुर्द्वादशवर्षोपसंपन्नेर्यापथः पात्रकरव्यग्रहस्तो भगवतः पुरस्तात्स्थितः॥ तस्य भगवता मनसिकारो दत्तः। तेन युज्यमानेन व्यायच्छमानेन घटमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतन<पतन>विकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातु<क>वीतरागस्समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखस्सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं <बुद्धं> भगवत्तं पप्रच्छुः। कानि भदत्त सुवर्णभेन कर्माणि कृतानि येनैवमभिनूपो दर्शनीयः प्रासादिकः प्रव्रज्य चाचिर<म>र्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। सुवर्णाभेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। सुवर्णाभेन कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि अपि कल्पशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नस्सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति॥ यावद्विपश्यी सम्यक्संबुद्धो बुद्धकार्यं कृत्वा इन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्ततो राज्ञा बन्धुमता भगवतः शरीरे शरीरपूजां कृत्वा समत्तयोजनस्तूपश्च<तू>रत्नमयः प्रतिष्ठापितः क्रोशमुच्चत्वेन स्तूपमहश्च प्रज्ञप्तः॥ यावदन्यतमो गृहपतिस्तस्मिन्स्तूपमहे वर्तमाने निर्गतः। तेन तस्मात्स्तूपात्सौवर्णवर्ण आदर्शः पतितो दृष्टः। स तेनावतंसकं कारयित्वा तत्र स्तूपे आरोपितः। गन्धधूपपुष्पार्चनं कृत्वा पादयोर्निपत्य प्रणिधानं कृतम्। अहमप्येवंविधानां गुणानां लाभी भविष्याम्येवंविधमेव शास्तारमारागयेयमिति॥
भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिरासीदयं स सुवर्णाभः। यत्तेन विपश्यिनः सम्यक्संबुद्धस्य स्तूपे काराः कृतास्तेनास्यैवंविधो नूपविशेषः संवृत्तः। यत्प्रणिधानं कृतं तदिहैव जन्मन्यर्हत्त्वं साक्षात्कृतम्। इति <हि> भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥