हंसा इति ६०
Technical Details
हंसा इति ६०।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यां राजा प्रसेनजित्कौशलो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्टकमेकपत्रुमिव राज्यं पालयति॥ यावदपरेण समयेन राजा प्रसेनजित्कौशलो जेतवनं निर्गतो भगवत्तं दर्शनायोपसंक्रमितुं पर्युपासनाय। राज्ञा च पञ्चालेन राज्ञः प्रसेनजित्कौशलस्य प्राभृतं पञ्च हंसशतानि प्रेषितानि। यदा राजा जेतवनं निर्गतस्तदा तानि पञ्च हंसशतान्युपनामितानि। ततो राज्ञा प्रसेनजिता तेषामभयप्रदानं दत्त्वा तत्रैव जेतवने समुत्सृष्टानि॥ यदा भगवान्महाश्रावकपरिवृतो ऽशन उपनिषीदति तदा ते हंसा भगवत्सकाशमुपसंक्रामत्ति भगवानपि तेभ्य आलोपमनुप्रयच्छति महाश्रावकाश्च। ते भुक्त्वा तृप्ताः प्रणीतेन्द्रियास्तिष्ठत्ति। यदा भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां धर्मं देशयति तदा ते हंसा भगवत्सकाशं गत्वा धर्मं शृण्वत्ति॥ ते चाल्पायुष्काः कालं कृत्वा प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नाः॥
धर्मता खलु देवपुत्रस्य वा देवकन्याया वाचिरोपपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। पश्यत्ति हंसेभ्यश्च्युताः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना भगवतो ऽत्तिके चित्तमभिप्रसाद्येति <अथ> हंसपूर्विणो देवपुत्राश्चलविमलकुण्डलधरा हारार्धहारविराजितगात्रा मणिरत्नविचित्रितचूडाः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रास्तस्यामेव रात्रौ दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारवाणां पुष्पाणामुत्सङ्गं पूरयित्वा सर्व जेतवनमुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय। अथ भगवान्हंसपूर्विणां देवपुत्राणामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा हंसपूर्विभिर्देवपुत्रैर्विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं प्राप्तम्। ते दृष्टसत्या वणिज इव लब्धलाभाः सस्यसंपन्ना इव कर्षकाः शूरा इव विजितसंग्रामाः सर्वरोगपरिमुक्ता इवातुरा यया विभूत्या भगवत्सकाशमागतास्तयैव विभूत्या स्वभवनं गताः॥
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरत्ति। तैर्दृष्टो भगवतो ऽत्तिके उदारो ऽवभासः। यं दृष्ट्वा संदिग्धा भगवत्तं पप्रच्छुः। किं भगवन्निमां रात्रिं भगवत्तं दर्शनाय ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला उपसंक्रात्ताः॥ भगवानाह। न भिक्षवो ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ता अपि तु दृष्टास्ते युष्माभिर्भिक्षवस्तानि पञ्च हंसशतानि राज्ञा प्रसेनजिता कौशलेन इहोत्सृष्टानि॥ एवं भदत्त॥ तानि ममात्तिके चित्तमभिप्रसाद्य कालगतानि प्रणीतेषु देवेषुपपन्नानि। तान्यस्यां रात्रौ मत्सकाशमुपसंक्रात्तानि तेषां मया धर्मो देशितः दृष्टसत्यानि च स्वभवनं गतानि॥
भिक्षवः संशयजातास्सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्तं हंसपूर्वकैर्देवपुत्रैः कर्माणि कृतानि येन हंसेषूपपन्नाः कानि कर्मणि कृतानि येन देवेषूपन्नास्सत्यदर्शनं <च>कृतमिति॥ भगवानाह। एभिरेव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। एभिः कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। तत्रैभिः प्रव्रजितैः शिक्षाशैथिल्यं कृतम्। तेन हंसेषूपपन्नाः। यन्ममात्तिके चित्तं प्रसादितं तेन देवेषूपपन्नाः। यत्परिशिष्टानि शिक्षापदानि तेन सत्यदर्शनं कृतमिति। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माणि अपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं <वो> भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥