महिष इति ५८
Technical Details
महिष इति ५८।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कोशलेषु जनपदेषु चारिकां चरन्नन्यतमवनषण्डमनुप्राप्तः। तत्र च वनषण्डे महान्महिषीयूथः प्रतिवसति पञ्चमात्राणि च महिषीपालशतानि॥ यावत्तत्रान्यतमो महिषो बलवान्परमेण बलेन समन्वागतः। स परमनुष्याणां गन्धमाघ्राय पृष्ठतो ऽनुधावति॥ भगवांश्च तं प्रदेशमनुप्राप्तः। ततो महिषीपालैर्भगवान्सश्रावकसङ्घो दूरत एव दृष्टः। ततस्तैरुच्चैःशब्दैरुक्तः भगवन्निमं मार्गं वर्जय दुष्टमहिषो ऽत्र प्रतिवसतीति॥ भगवानाह। अल्पोत्सुका भवत्तु भवत्तो वयमत्र कालज्ञा भविष्याम इति॥ अथासौ दुष्टमहिषो भगवत्तं दूरत एव दृष्ट्वा लाङ्गूलमुन्नाम्य येन भगवांस्तेन प्रधावितः। ततो भगवता पुरस्तात्पञ्च केशरिणः सटधारिणः सिंहा निर्मिता वामे दक्षिणे च पार्श्वे द्वावग्निस्कन्धावुपरिष्टान्महत्ययोमयी शिला॥ ततः स महिषः समत्ततो महाभयं दृष्ट्वा भगवतः पादौ निश्रित्य दीनवदनश्च भगवत्तं प्रेक्षते॥ ततो ऽस्य भगवता तन्मय्या गत्यास्तन्मय्या योन्यास्त्रिभिः पादैर्धर्मो देशित इति हि भद्रमुख सर्वसंस्कारा अनित्याः सर्वधर्मा अनात्मानः शात्तं निर्वाणमिति जातिश्च स्मारिता। स श्रुत्वा रोदितुं प्रवृत्तः॥ अथ भगवांस्तस्यां वेलायां गाथे भाषते।
इदानीं किं करिष्यामि तिर्यग्योनिगतस्य ते।
अक्षणप्रतिपन्नस्य किं रोदिषि निरर्थकम्॥
साधु प्रसाद्यतां चित्तं मयि कारुणिके जिने।
तिर्यग्योनिं विराग्येह ततः स्वर्ग गमिष्यसीति॥
अथासौ दुष्टमहिषः स्वाश्रयं जुगुप्समानो ऽनाहारतां प्रतिपन्नः। दीप्ताग्रयस्तिर्यग्योनिगताः प्राणिनः। स आशु कालं कृत्वा प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः॥
धर्मता खलु देवपुत्रस्य वा देवकन्याया वाचिरोपसंपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। स पश्यति तिर्यग्भ्यश्च्युतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नो भगवतो ऽत्तिके चित्तमभिप्रसाद्येति॥ अथ महिषपूर्विणो देवपुत्रस्यैतदभवत्। न मम प्रतिनूपं स्याद्यदहं पर्युषितपरिवासो भगवत्तं दर्शनायोपसंक्रामेयं यन्न्वहमपर्युषितपरिवास एव भगवत्तं दर्शनायोपसंक्रामेयमिति॥ अथ महिषपूर्वी देवपुत्रश्चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस्तस्यामेव रात्रौ दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणासुत्सङ्गं पूरयित्वा सर्वं तं वनषण्डमुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय। अथ भगवान्महिषपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा महिषपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं साक्षात्कृतम्। स दृष्टसत्यस्त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।
तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।
अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥
त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।
प्राप्तं च शात्तं पदमार्यकात्तं तीर्णश्च दुःखार्णवपारमस्मि॥
नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।
भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनम्॥
अवनम्य ततः प्रलम्बहारः चरणौ द्वावभिवन्द्य जातहर्षः।
परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम॥
अथ तैर्महिषापालैः स उदारो ऽवभासो दृष्टो यं दृष्ट्वा कुतूहलजाता भगवत्तं पप्रच्छुः। क एष भगवन्नात्रौ दिव्यमवभासं कृत्वा भगवत्सकाशमनुप्राप्त इति॥ भगवानाह। स एष भवत्तो महिषो ममात्तिके चित्तमभिप्रसाद्य कालगतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः। सो ऽस्यां रात्रौ मत्सकाशमुपसंक्रात्तस्तस्य मया धर्मो देशितः स दृष्टसत्यः स्वभवनं गतः॥ ततस्ते महिषीपालाः परं विस्मयमापन्नाः। आश्चर्यं यन्नामायं तिर्यग्योनिगतो भूत्वा भगवत्तं कल्याणमित्रमासाद्य देवेषूपपन्नः सत्यदर्शनं च कृतम्। कथं नाम वयं मनुष्यभूता विशेषं नाधिगच्छेमेति॥ ततस्ते बुद्धं भगवत्तं सश्रावकसङ्घं प्रणीतेनाहारेण संतर्प्य भगवतो ऽत्तिके प्रव्रजिताः॥ तैर्युज्यमानैर्घटमानैर्व्यायच्छमानैः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त महिषपूर्वकेण देवपुत्रेण कर्माणि कृतानि येन महिषेषूपपन्न एभिश्च महिषीपालैः किं कर्म कृतं येनार्हत्त्वं साक्षात्कृतम्॥ भगवानाह। एभिरेव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। एभिः कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव भद्रकल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। तत्र च काले भिक्षूणां विनिश्चये वर्तमाने त्रिपिटो भिक्षुः पञ्चशतपरिवारो विनिश्चये ऽवस्थितः। तत्र च भिक्षवः शैक्षाशैक्षाः। ते त्रिपिटं पृश्रं पृच्छत्ति। स न शक्नोति व्याकर्तुम्। तेन कुपितेन खरं वाक्कर्म निश्चारितम्। इमे च महिषाः किं प्रजानत्तीति। शिष्यैरप्यस्योक्तमिमे महिषीपालाः किं प्रजानत्तीति।
भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ महिषः अयमसौ त्रिपिटः ये ते शिष्या इमे ते महिषीपालाः। तेन कर्मणा पञ्च जन्मशतानि महिषेषूपपन्न इमानि च पञ्च महिषीपालशतानि संवृत्तानि। यन्ममात्तिके चित्तं प्रसादितं तेन देवेषूपपन्नः सत्यदर्शनं च कृतम्। तस्मात्तर्हि भिक्षवो वाग्दुश्चरितप्रहाणाय व्यायत्तव्यं यथा एते दोषा न भविष्यत्ति ये महिषस्य महिषीपालानां च एष एव गुणगणो भविष्यति यस्तस्यैव देवपुत्रभूतस्येत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥