दूत इति ५७
Technical Details
दूत इति ५७।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहे वर्षा उपगतो वेणुवने कलन्दकनिवापे॥ अथानाथपिण्डदो गृहपतिर्येन राजा प्रसेनजित्कौशलस्तेनोपसंक्रात्तः। उपसंक्रम्य राजानं प्रसेनजितं जयेनायुषा च वर्धयित्वा विज्ञापयति। यत्खलु देव जानीयाश्चिरदृष्टो ऽस्माभिर्भगवान्परितृषिताः स्मो भगवतो दर्शनायेच्छामो वयं भगवत्तं द्रष्टुमिति॥ ततो राजा ऽनाथपिण्डदं गृहपतिमुवाच। कच्चित्ते गृहपते श्रुतं कुत्र भगवानेतर्हि वर्षा उपगत इति॥ अनाथपिण्डद उवाच। श्रुतं मे देव भगवान्नाजगृहे वर्षा उपगत इति॥
ततो राज्ञा प्रसेनजिता कौशलेनानाथपिण्डदाद्यैश्च पौरजानपदामात्यैरन्यतमः पुरुषो दूत्येनाहूयोक्तः। एहि त्वं भो पुरुष येन भगवांस्तेनोपसंक्राम उपसंक्रम्या ऽस्माकं वचनेन भगवतः पादौ शिरसा वन्दस्वाल्पाबाधतां च पृच्छाल्पातङ्कं च लघूत्थानतां च यात्राञ्च बलञ्च सुखं चानवद्यतां च स्पर्शविहारतां च एवं च वद राजा भदत्त कौशलः श्रावस्तीनिवासिनश्च पौरा आकाङ्क्षत्ति भगवतो दर्शनमेवं चाहुश्चिरदृष्टो ऽस्माभिर्भगवान्परितृषिताः स्मो भगवतो दर्शनायेच्छामो वयं भगवत्तं द्रष्टुं साधु भगवाञ्छ्रावस्तीमागच्छेदनुकम्पामुपादायेति॥ एवं देवेति स पुरुषो राज्ञः प्रसेनजितः कौशलस्य सामात्यपौरजानपदस्य प्रतिश्रुत्य श्रावस्तीतो ऽनुपूर्वेण चञ्चूर्यमाणो राजगृहं नगरमनुप्राप्तः। ततः पूर्वं राजगृहं नगरमवलोक्य येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते निषणः। <एकात्तनिषणः> स पुरुषो भगवत्तमिदमवोचत्। राजा भदत्त प्रसेनजित्कौशलः श्रावस्तीनिवासिनश्च पौरा भगवतः पादौ शिरसा वन्दित्वाल्पाबाधतां पृच्छत्त्यल्पातङ्कतां च लघूत्थानतां च यात्रां च बलञ्च सुखञ्चानवद्यतां च स्पर्शविहारतां चैवं चाहुश्चिरदृष्टो ऽस्माभिर्भगवान्परितृषिताः स्मो भगवतो दर्शनायेच्छामो वयं भगवत्तं द्रष्टुं साधु भगवाञ्छ्रावस्तीमागच्छेदनुकम्पामुपादायेति॥ भगवानाह। सचेन्मे भोः पुरुष राजा बिम्बिसारो ऽनुज्ञास्यति गमिष्यामीति॥ ततः स दूतो राजानं बिम्बिसारमनुज्ञाप्य भगवत्तमिदमवोचत्। अनुज्ञातो ऽसि भगवन्नाज्ञा बिम्बिसारेण <गमनाय> यस्येदानीं भगवान्कालं मन्यत इति। अधिवासयति भगवांस्तस्य पुरुषस्य तूष्णीभावेन॥
अथ भगवांस्त्रयाणां वार्षिकाणां मासानामत्ययात्कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं महता परिवारेण श्रावस्त्यभिमुखो ऽभिजगाम। दूतो ऽपि रथाभिनूढः संप्रस्थितः॥ अथासौ ददर्शं बुद्धं भगवत्तं पद्यां संप्रस्थितम्। ततो रथादवतीर्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवत्तमिदमवोचत्। प्रतिगृह्यतां भगवन्नस्माकीनो रथो ऽनुकम्पामुपादायेति॥ भगवानाह।
ऋद्धिपादरथेनाहं सम्यग्व्यायामवर्तिना।
विचरामि महीं कृत्स्नामक्षतः क्लेशकण्टकैरिति॥
दूतः प्राह। यद्यपि भगवानृद्धिपादयानयायी तथापि तु क्रियतां ममानुग्रहार्थमनुकम्पेति॥ अथ भगवान्दूतस्यानुग्रहार्थमृद्या रथस्योपरि स्थितः। ततो भगवान्नथाभिनूढः श्रावस्तीमनुप्राप्तो दूतेन च राज्ञे निवेदितम्॥ अथ राजा सामात्यः सपौरजानपदो भगवत्तं प्रत्युद्गतः तत्रैव च जेतवने रात्रिंवासमुपगतो धर्मश्रवणाय॥ स च दूतो ऽल्पायुष्को धर्मं श्रुत्वा तस्यामेव रात्रौ कालगतः। स कालं कृत्वा प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः॥
धर्मता खलु देवपुत्रस्य वा देवकन्याया वाचिरोपसंपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। स पश्यति मनुष्येभ्युश्च्यतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नो भगवतो ऽत्तिके चित्तमभिप्रसाद्येति॥ अथ दूतपूर्विणो देवपुत्रस्यैतदभवत्। न मम प्रतिनूपं स्याद्यदहं पर्युषितपरिवासो भगवत्तं दर्शनायोपसंक्रामेयं यन्न्वहमपर्युषितपरिवास एव भगवत्तं दर्शनायोपसंक्रामेयमिति॥ अथ दूतपूर्वी देवपुत्रश्चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस्तस्यामेव रात्रौ दिव्या<ना>मुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणां पुष्पाणामुत्सङ्गं पूरयित्वा सर्वं जेतवनमुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषणो धर्मश्रवणाय॥ अथ भगवान्दूतपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा दूतपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं साक्षात्कृतम्। स दृष्टसत्यस्त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्॥ उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।
तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।
अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥
त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।
प्राप्तं च शात्तं पदमार्यकात्तं तीर्णश्च दुःखार्णवपारमस्मि॥
नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।
भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनम्॥
अवनम्य ततः प्रलम्बहारश्चरणौ द्वावभिवन्द्य जातहर्षः।
परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम॥
अथ दूतपूर्वी देवपुत्रो वणिगिव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया हि विभूत्या भगवत्सकाशमागतस्तयैव विभूत्या स्वभवनं गतः॥
ततो राजा प्रसेनजिदुपरिप्रासादतलगतस्तमुदारमवभासं दृष्ट्वा प्रभातायां रजन्यां भगवत्तं पप्रच्छ। किं भगवन्निमां रात्रिं भगवत्तं दर्शनाय ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला उपसंक्रात्ताः॥ भगवानाह। न महाराज ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ता अपि तु तावको दूतः स ममात्तिके चित्तमभिप्रसाद्य कालगतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः। स इमां रात्रिं मत्सकाशमागतस्तस्य मया धर्मो देशितः स दृष्टसत्यः स्वभवनं गत इति॥ ततो राजा विस्मयजातः कथयति। अहो बुद्धो ऽहो धर्मो ऽहो सङ्घो यत्र नाम परीत्तं कर्म कृत्वा महान्विपाक इति॥ अथ राजा प्रसेनजित्कौशलो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वोत्थायासनात्प्रक्रात्तः॥
तत्र भगवान्भिक्षूनामन्त्रयते स्म। तिस्र इमा भिक्षवो ऽग्रप्रज्ञप्तयः। कतमास्तिस्रः। बुद्धे ऽग्रप्रज्ञप्तिर्धर्मे सङ्घे ऽग्रप्रज्ञप्तिः। <बुद्धे ऽग्रप्रज्ञप्तिः> कतमा। ये केचित्सत्त्वा अपदा वा द्विपदा वा बहुपदा वा नूपिणो वा ऽनूपिणो वा संज्ञिनो वा ऽसंज्ञिनो वा नैवसंज्ञिनो नासंज्ञिनस्तथागतो ऽर्हन्<सम्यक्>संबुद्धस्तेषामग्र आख्यातः। ये केचिद्बुद्धे ऽभिप्रसन्ना अग्रे ते ऽभिप्रसन्नाः। तेषामग्रे ऽभिप्रसन्नानामग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्। इयमुच्यते बुद्धे ऽग्रप्रज्ञप्तिः। धर्मे ऽग्रप्रज्ञप्तिः कतमा। <ये> केचिद्धर्माः संस्कृता वा ऽसंस्कृता वा विरागो धर्मस्तेषामग्र आख्यातः। ये केचिद्धर्मे ऽभिप्रसन्ना अग्रे ते ऽभिप्रसन्नाः। तेषामग्रे ऽभिप्रसन्नानामग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्। इयमुच्यते धर्मे ऽग्रप्रज्ञप्तिः। सङ्घे ऽग्रप्रज्ञप्तिः कतमा। ये केचित्सङ्घा वा गणा <वा> पूगा वा पर्षदो वा तथागतश्रावकसङ्घस्तेषामग्र आख्यातः ये केचित्सङ्घे ऽभिप्रसन्ना अग्रे ते ऽभिप्रसन्नाः। तेषामग्रे ऽभिप्रसन्नानामग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्। इयमुच्यते सङ्घे ऽग्रप्रज्ञप्तिः॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥