शुक इति ५६
Technical Details
शुक इति ५६।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। राजगृहे नगरे राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्टकमेकपुत्रकमिव राज्यं पालयति। स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः॥ यावदसौ भगवद्दर्शनोत्कण्ठितः करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। ततो ऽमात्यैरुक्तः किमर्थं देव शोकः क्रियत इति॥ राजोवाच। चिरदृष्टो मे सुगतः सो ऽहमाकाङ्क्षामि भगवतो दर्शनमिति॥ अश्रौषीद्भगवान्दिवाविहारोपगतो दिव्येन श्रोत्रेण विशुद्धेनातिक्रात्तमानुषेण राजा बिम्बिसार उत्कण्ठित इति। [अत्रात्तरे नास्ति किञ्चिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः <कः संबाधप्राप्तः> कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्रस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।
अप्येवातिक्रमेद्वेलां सागरो मकरालयः।
न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥ ]
ततो भगवान्नाज्ञो बिम्बिसारस्यानुग्रहार्थं त्रयाणां वार्षिकाणां मासानामत्ययात्कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं जनपदचारिकां प्रक्रात्तो ऽनुपूर्वेण चारिकां चरन्नन्यतमं वनषण्डमनुप्राप्तः। तत्र च वनषण्डे मनुष्यप्रलापी शुकः प्रतिवसति। तेन भगवान्दूरत एव दृष्टः। ततस्त्वरितत्वरितं भगवत्तमुवाच। ऐतु भगवान्स्वागतं भगवते क्रियतामस्माकमनुग्रह इहैव वनषण्डे एकां रात्रिं प्रतिवसेति॥ ततो भगवाञ्छुकस्यानुग्रहार्थं यत्र वृक्षे शुकस्यालयस्तत्र तृणासंस्तरं संस्तीर्य पर्यङ्केण निषणः अन्यवृक्षेषु महाश्रावकाः॥ ततः शुकः कृत्स्नां रात्रिमितस्ततस्तं वनषण्डं पर्यटति मा हैव कश्चिद्भगवत्तं सश्रावकसङ्घं विहेठयिष्यतीति मनुष्यो वा ऽमनुष्यो वा यक्षो वा राक्षसो वा श्वापदश्चण्डशृङ्गो वेति॥ ततः प्रभातायां राजन्यां भगवत्तं त्रिः प्रदक्षिणीकृत्य क्षमयितुमारब्धः। क्षमस्व भगवंस्तिर्यग्योनिगतो ऽहं नास्ति मे विभवो येन भगवत्तमभ्यर्चयेयमपि त्वहमग्रतो गच्छामि राज्ञो बिम्बिसारस्य भगवत आगमनं निवेदयामीति॥ एवमस्त्विति॥ यावदसौ राज्ञः सकाशं संप्रस्थितो ऽनुपूर्वेण राज्ञः सकाशमनुप्राप्तः। तस्मिंश्च समये राजा उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति। ततः शुको मानुषप्रलापी राजानमुवाच। भो राजन्विदितं ते भवतु भगवान्सश्रावकसङ्घस्तव विजितमनुप्राप्तः तदर्हति देवो भक्तं सज्जीकर्तुमिति॥ ततो राजा त्वरितत्वरितं प्रासादादवतीर्यामात्यगणपरिवृतो भगवतो ऽर्थेन आसनकानि प्रज्ञप्य च्छत्रध्वजपताकाभिर्विचित्रैश्च गन्धपुष्पधूपैर्भगवत्तं प्रत्युद्गतः। ततो राज्ञा भगवान्सश्रावकसङ्घो महता सत्कारेण प्रवेशितः प्रणीतेन चाहारेण संतर्पितः॥
अथ शुकस्यैतदभवत्। यद्भगवान्सश्रावकसङ्घ एवंविभूतिस्तत्सर्वं मामागम्य। इति विदित्वा हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो राज्ञः पुरस्तादितश्चामुतश्च पर्यटन् श्येनकेनापहृत्य पञ्चत्वमापादितः। भगवतो ऽत्तिके चित्तं प्रसाद्य कालगतः प्रणीतेषु <देवेषु> त्रयस्त्रिंशेषूपपन्नः॥
धर्मता खलु देवपुत्रस्य वा देवकन्याया वाचिरोपसंपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। स पश्यति तिर्यग्भ्यश्च्युतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नो भगवतो ऽत्तिके चित्तमभिप्रसाद्येति॥ अथ शुकपूर्विणो देवपुत्रस्यैतदभवत्। न मम प्रतिनूपं स्याद्यदहं पर्युषितपरिवासो भगवत्तं दर्शनायोपसंक्रामेयं यन्न्वहमपर्युषितपरिवास एव भगवत्तं दर्शनायोपसंक्रामेयमिति॥ अथ शुकपूर्वी देवपुत्रश्चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस्तस्यामेव रात्रौ दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणां पुष्पाणामुत्सङ्गं पूरयित्वा सर्वं जेतवनमुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषणो धर्मश्रवणाय। अथ भगवांश्छुकपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा शूकपर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं साक्षात्कृतम्॥ स दृष्टसत्यस्त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि <विवृतानि स्वर्गमोक्षद्वाराणि> प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।
तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।
अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥
त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।
प्राप्तं च शात्तं पदमार्यकात्तं तीर्णश्च दुःखार्णवपारमस्मि॥
नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।
भवसहस्र<सु>दुर्लभदर्शन सफलमद्य मुने तव दर्शनम्॥
अवनम्य ततः प्रलम्बहारश्चरणौ द्वावभिवन्द्य जातहर्षः।
परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम॥
अथ शुकपूर्वी देवपुत्रो वणिगिव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशमागतस्तयैव विभूत्या स्वभवनं गतः॥
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरत्ति। तैर्दृष्टो भगवतो ऽत्तिके उदारो ऽवभासः। यं दृष्ट्वा संदिग्धा भगवत्तं पप्रच्छुः। किं भगवन्नस्यां रात्रौ भगवत्तं दर्शनाय ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला उपसंक्रात्ताः॥ भगवानाह। न भिक्षवो ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ता अपि तु दृष्टः स युष्माभिः शुको येन वयं तस्मिन्वनषण्डे रात्रिं वस्तुमुपनिमन्त्रिता इति॥ भिक्षव ऊचुरेवं भदत्तेति॥ भगवानाह। स एष भिक्षवः कालं कृत्वा प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्न इति॥ भिक्षव ऊचुः। कानि भदत्त शुकपूर्वकेण देवपुत्रेण कर्माणि कृतानि येन शुकेषूपपन्नः कानि कर्माणि कृतानि येन देवेषूपपन्नः सत्यदर्शनं च कृतमिति॥ भगवानाह। शुकपूर्वकेणैव भिक्षवो देवपुत्रेण <पूर्वमन्यासु जातिषु> कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। शुकपूर्वकेण देवपुत्रेण कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि अपि कल्पशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति स्म। तस्यान्यतम उपासकः। तेन शिक्षाशैथिल्यं कृतम्। तस्य कर्मणो विपाकाच्छुकेषूपपन्नः। यन्ममात्तिके चित्तं प्रसादितं तेन देवेषूपपन्नः। यत्तेन परिशिष्टानि शिक्षापदानि रक्षितानि तेन सत्यदर्शनं कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्रणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥