पुत्रा इति ४९
Technical Details
पुत्रा इति ४९।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे। अथायुष्मान्नालदः पूर्वाह्ने निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत्। राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रात्तः पात्रचीवरं प्रतिसमर्प्य प्रेतचारिकां प्रक्रात्तः॥
स गृध्रकूटपर्वतसामत्तके प्रेतीं ददर्श यमराक्षससदृशीं रुधिरबिन्दुचितामस्थिशकलापरिवृतां श्मशानमध्य इवावस्थितां रात्रिंदिवेन पञ्च पुत्रान्प्रसूय तादृशं दुःखम<नु>भूय पुत्रस्नेहे सत्यपि क्षुत्क्षामतया पुत्रांस्तान्भक्षयत्तीम्॥ ततः स्थविरो नालदस्तां पृष्टवान्। किं त्वया प्रकृतं पापं येनैवंविधं दुःखमनुभवसीति॥ प्रेती आह। आदित्ये हि समुद्रते न दीपेन प्रयोजनम्। भगवत्तमेतमर्थं परिपृच्छ स ते ऽस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति यां श्रुत्वान्ये ऽपीह सत्त्वाः पापकात्कर्मणः प्रतिविरंस्यत्तीति॥ अथायुष्मान्नालदो येन भगवांस्तेनोपसंक्रात्तः॥
तेन खलु समयेन भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्विवानेडकमनेकशता च पर्षद्भगवतः सकाशान्मधुरमधुरं धर्मं शृणोत्यनिज्यमानैरिन्द्रियैः। ततो बुद्धा भगवत्तः पूर्वालापिन एहीतिस्वागतवादिनः स्मितपूर्वङ्गमाश्च। तत्र भगवानायुष्मत्तं नालदमामन्त्रयते। एहि नालद स्वागतं ते कुतस्त्वं नालद एतर्ह्यागच्छसीति॥ नालद आह। आगच्छाम्यहं भदत्त प्रेतचारिकायास्तत्राहं प्रेतीमद्राक्षं यमराक्षससदृशीं रुधिरबिन्दुचितामस्थिशकलापरिवृतां श्मशानमध्य इवावस्थिताम्। आह च।
पञ्च पुत्रानहं रात्रौ दिवा पञ्च तथापरान्।
भक्षयामि जनित्वा तान्नास्ति तृप्तिस्तथापि मे इति॥
किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्।
येन एवंविधं दुःखमनुभवति भयानकमिति॥
भगवानाह। पापकारिणी नालद सा प्रेती इच्छसि तस्याः कर्मप्लोतिं श्रोतुम्॥ एवं भदत्त॥ तेन हि नालद शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये।
भूतपूर्वं नालदातीते ऽध्वनि वाराणस्यां नगर्यामन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवण<धनसमुदितो वैश्रवण>धनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतो नैव पुत्रो न दुहिता। स करे कपोलं कृत्वा चित्तापरो व्यवस्थितः। अनेकधनसमुदितं मे गृहं न मे पुत्रो <न> दुहिता। ममात्ययात्सर्वस्वापतेयमपुत्रकमिति कृत्वा राजविधेयं भविष्यतीति॥ सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनन्यांश्च देवताविशेषानायाचते स्म। तद्यथारामदेवता वनदेवताश्चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहि<का> देवताः सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते स्म॥ अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायत्ते दुहितरश्चेति। तच्च नैवम्। यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चक्रवर्तिनः। अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च। कतमेषां त्रयाणाम्। मातापितरौ रक्तौ भवतः संनिपतितौ माता कल्या भवति ऋतुमती गन्धर्वश्च प्रत्युपस्थितो भवति। एषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च॥ तस्य देवताराधने ऽपि सति न पुत्रो न दुहिता॥
तस्यैवं बुद्धिरुत्पन्ना। द्वितीयां भार्यामानयामि कदाचित्सा सत्त्ववती स्यादिति। तेन सदृशात्कुलाद्वितीया भार्या आनीता। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालात्तरेण सा आपन्नसत्त्वा संवृत्ता। तया हृष्ट<तुष्ट>प्रमुदितया स्वामिने निवेदितम्। दिष्ट्यार्यपुत्र वर्धसे आपन्नसत्त्वास्मि संवृत्ता यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति। सो ऽप्यात्तमना<त्तमना>पर्वूकायमत्युन्नमय्य दक्षिणं बाहुमभिप्रसार्य उ<दानमु>दानयत्यप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयं जातो मे स्यान्नावजातः कृत्यानि मे कुर्वीत भृतः प्रतिबिभृयाद्दायाद्यं प्रतिपद्येत कुलवंशो मे चिरस्थितिकः स्यादस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्त्वा पुण्यानि कृत्वा ऽस्माकं नाम्ना दक्षिणामादेक्ष्यते। इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति। आपन्नसत्त्वां चैनां विदित्वोपरिप्रासादतलगतामयत्त्रितां धारयति शीते शीतोपकरणैरुष्णे उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नाति<कटुकैर्नाति>कषायैस्तिक्ताम्ललवणमधुर-कटुककषायविवर्जितैराहारैर्हारार्धहारविराजितगात्रीमप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरत्तीमधरि<मां> भूमिम्। न चास्याः किञ्चिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय॥
ततस्तस्याः पूर्विकायाः प्रजापत्याः प्रथमपत्न्यास्तां बहुमानाल्लडितां दृष्ट्वा ईर्ष्या समुत्पन्ना चित्तयति च। यद्येषा पुत्रं जनयिष्यति नियतं मां बाधयिष्यति सर्वथोपायसंविधानं कर्तव्यमिति। कामान्खलु प्रतिसेवमानस्य नास्ति किञ्चित्पापं कर्माचरणीयमिति। तया ऽनिष्टगतिप्रपातनमुग्धया विस्रम्भमुत्पाद्य तथाविधं गर्भशातनं द्रव्यं दत्तं येन पीतमात्रेणैव तस्यास्तपस्विन्याः स्रस्तो गर्भः॥ ततस्तया द्वितीयपत्न्या सर्वज्ञातीन्संनिपात्य सा प्रथमा पत्नी समनुयुज्यते त्वया मे विस्रम्भमुत्पाद्य शातनं द्रव्यं दत्तं येन मे स्रस्तो गर्भ इति। ततो ऽसौ प्रथमपत्नी ज्ञातिमध्ये शपथं कर्तुं प्रवृत्ता। यदि मया गर्भशातनं द्रव्यमनुप्रदत्तं स्यादहं प्रेती भूत्वा जाताञ्जातान्पुत्रान्भक्षयेयमिति॥
किं मन्यसे नालद यासौ श्रेष्ठिभार्या इयं सा प्रेती। यत्तया ईर्ष्याप्रकृतया गर्भशातनं दत्तं तेन प्रेतेषूपपन्ना। यत्तया मृषावादेन शपथः कृतः तस्य कर्मणो विपाकेन रात्रिंदिवेन पञ्च पुत्रान्प्रसूय तानेव भक्षयति। तस्मात्तर्हि ते नालद वाग्दुश्चरितप्रहाणाय व्यायत्तव्यं यथा एवंविधा दोषा न स्युर्ये तस्याः प्रेत्या इत्येवं ते नालद शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमना आयुष्मान्नालदो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥