श्रेष्ठीति ४८
Technical Details
श्रेष्ठीति ४८।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी॥ सो ऽपरेण समयेन जेतवनं निर्गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं दृष्ट्वा च पुनर्भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्मै भगवता संसारवैराग्यिकी धर्मदेशना कृता यां श्रुत्वा संसारदोषदर्शी निर्वाणे गुणदर्शी भूत्वा भगवच्छासने प्रव्रजितः। प्रव्रजितश्च ज्ञातो महापुण्यः संवृत्तो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्। स गृहीतपरिष्कारो लब्धं लब्धं संचयं करोति न तु सब्रह्मचारिभिः सह संविभागं करोति॥ स तेन मात्सर्येण सेवितेन भावितेन बहुलीकृतेन परिष्काराध्यवसितः कालगतः स्वके लयने प्रेतेषूपपन्नः॥
ततो ऽस्य सब्रह्मचारिभिर्मुण्डिकां गण्डीं पराहत्य शरीराभिनिर्हारः कृतः। ततो ऽस्य शरीरे शरीरपूजां कृत्वा विहारमागताः। ततो लयनद्वारं विमुच्य पात्रचीवरं प्रत्यवेक्षितुमारब्धाः। यावत्पश्यत्ति तं प्रेतं विकृतकरचरणनयनं परमबीभत्साश्रयं पात्रचीवरमवष्टभ्यावस्थितम्। तथाविकृतं दृष्ट्वा भिक्षवः संविग्ना भगवते निवेदितवत्तः॥ ततो भगवांस्तस्य कुलपुत्रस्यानुग्रहार्थं शिष्यगणस्योद्वेजनार्थं मात्सर्यस्य चानिष्टविपाकसंदर्शनार्थं भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतस्तं प्रदेशमनुप्राप्तः। ततो ऽसौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चास्य भगवतो ऽत्तिके प्रसादो जातः। स व्यपत्रपितवान्। ततो भगवान्सजलजलदगम्भीरदुन्दुभिस्वरः प्रेतं परिभाषितवान्। भद्रमुख त्वयैवैतदात्मवधाय पात्रचीवरं समुदानीतं येनास्यपायेषूपपन्नः साधु ममात्तिके चित्तं प्रसादयास्माच्च परिष्काराच्चित्तं विरागय मा हैवेतः कालं कृत्वा नरकेषूपपत्स्यस इति॥ ततः प्रेतः सङ्घे पात्रचीवरं निर्यात्य भगवतः पादयोर्निपत्यात्ययं देशितवान्। ततो भगवता प्रेतस्य नाम्ना दक्षिणा आदिष्टा।
इतो दानाद्वि यत्पुण्यं तत्प्रेतमनुगच्छतु।
उत्तिष्ठतु क्षिप्रमयं प्रेतलोकात्सुदारुणादिति॥
ततः स प्रेतो भगवति चित्तं प्रसाद्य कालगतः प्रेतमहर्द्धिकेषूपपन्नः॥ ततः प्रेतमहर्द्धिकश्चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रमौलिः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस्तस्यामेव रात्रौ दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणामुत्सङ्गं पूरयित्वा सर्वं जेतवनमुदारेणाव<भासेनाव>भास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषणो धर्मश्रवणाय भगवता चास्य तथाविधा धर्मदेशना कृता यां श्रुत्वा प्रसादजातः प्रक्रात्तः॥
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरत्ति। तैर्दृष्टो भगवतो ऽत्तिके उदारो ऽवभासः यं दृष्ट्वा संदिग्धा भगवत्तं पप्रच्छुः। किं भगवन्नस्यां रात्रौ ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला भगवत्तं दर्शनोयापसंक्रात्ताः॥ भगवानाह। न भिक्षवो ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ता अपि तु स प्रेतः कालं कृत्वा प्रेतमहर्द्धिकेषूपपन्नः। स इमां रात्रीं मत्सकाशमुपसंक्रात्तस्तस्य मया धर्मो देशितः स प्रसादजातः प्रक्रात्तः। तस्मात्तर्हि भिक्षवो मात्सर्यप्रहाणाय व्यायत्तव्यम्। एते दोषा न भविष्यत्ति ये तस्य श्रेष्ठिनः प्रेतभूतस्येत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥