जात्यन्ध इति ४७
Technical Details
जात्यन्ध इति ४७।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ अथायुष्मान्नन्दकः पूर्वाह्ने निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रात्तः पात्रचीवरं प्रतिसमर्प्य प्रेतचारिकां चरति स्म॥ अद्राक्षीदायुष्मान्नन्दकः प्रेतीं दग्धस्थूणासदृशीं जात्यन्धां स्वकेशरोमसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिं दुर्गन्धां श्मशानसदृशीं काकैर्गृध्रैः श्वभिः सृगालैश्चाभिद्रुतां ये ऽस्याः समत्तत उत्पाट्योत्पाट्य मांसं भक्षयत्ति। सा मर्मवेदनाभ्याहता आर्तस्वरं क्रन्दति दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयत्ती॥ आयुष्मान्नन्दकः संविग्नः पृच्छति। किं त्वया भगिनि प्रकृतं पापं येनैवंविधं दुःखमनुभवसीति॥ प्रेती आह। आदित्ये हि समुद्गते न दीपेन प्रयोजनम्। भगवत्तमेतमर्थं पृच्छ स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यति यां श्रुत्वान्ये ऽपीह सत्त्वाः पापात्प्रतिविरंस्यत्तीति॥ अथायुष्मान्नन्दको येन भगवांस्तेनोपसंक्रात्तः॥
तेन खलु पुनः समयेन भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्विवानेडकमनेकशता च पर्षद्भगवतः सकाशान्मधुरमधुरं धर्मं शृणोत्यनिज्यमानैरिन्द्रियैः। ततो बुद्धा भगवत्तः पूर्वालापिन एहीतिस्वागतवादिनः स्मितपूर्वङ्गमाश्च। तत्र भगवानायुष्मत्तं नन्दकमिदमवोचत्। एहि नन्दक स्वागतं ते कुतस्त्वं नन्दक एतर्ह्यागच्छसीति॥ नन्दक आह। आगच्छाम्यहं भदत्त प्रेतचारिकायास्तत्राहं प्रेतीमद्राक्षं दग्धस्थूणासदृशीं स्वकेशरोमसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिं दुर्गन्धां श्मशानसदृशीं काकैर्गृध्रैः श्वभिः सृगालैश्चाभिद्रुतां ये ऽस्याः समत्तत उत्पाट्योत्पाट्य मांसं भक्षयत्ति। सा मर्मवेदनाभ्याहता आर्तस्वरं क्रन्दति दुःखां तीव्रां खरां कटुकाममनायां वेदनां वेदयते। आह च।
विशुष्ककण्ठोष्ठपुटा सुदुःखिता प्रवृद्धशैलोपमचञ्चिताश्रया।
स्वकेशसंछन्नमुखी दिगम्बरा सुसूक्ष्मसूचीसदृशानना कृशा॥
नग्ना स्वकेशसंछन्ना अस्थियत्त्रवदुच्छ्रिता।
कपालपाणिनी घोरा क्रन्दत्ती परिधावते॥
बुभुक्षया पिपासया क्लात्ता व्यसनपीडिता।
आर्तस्वरं क्रन्दमाना दुःखां विन्दति वेदनाम्।
किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्।
येन एवंविधं दुःखमनुभवति भयानकमिति॥
भगवानाह। पापकारिणी नन्दक सा प्रेती इच्छसि तस्याः कर्मप्लोतिं श्रोतुम्॥ एवं भदत्त॥ तेन हि नन्दक शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये।
भूतपूर्वं नन्दकास्मिन्नेव भद्रकल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो <लोक> उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां <च> बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ वाराणस्यामन्यतमा श्रेष्ठिदुहिता। सा धर्माभिलाषिणी। यावदसौ धर्मं श्रुत्वा संसारदोषदर्शिनी निर्वाणे गुणदर्शिनी संवृत्ता। सा मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजिता॥ तस्या अर्थं ज्ञातिभिर्भिक्षुणीवर्षकः कारितः। सा तत्र शैक्षाशैक्षीभिर्भिक्षुणीभिः सार्धं प्रतिवसति। यावत्तया प्रमादाच्छिक्षाशैथिल्यं कृतम्॥ ततो भिक्षुणीभिर्दुःशीलेति निष्कासिता॥ ततस्तया दानपतिगृहेभ्यः प्रवृत्तकानि छन्दकानि* * * * शैक्षाशैक्षीणां चावर्णो भाषितः भिक्षवश्च ये शीलवत्तस्तान्दृष्ट्वा नयने निमीलितवती॥
किं मन्यसे नन्दक या सा श्रेष्ठिदुहिता इयं सा प्रेती। यत्तया वर्षके मात्सर्यं कृतं तेन प्रेतेषूपपन्ना। यत्तया नैत्यकसमुच्छेदः कृतस्तेन काकैर्गृध्रैः कुर्कुरैश्चाभिद्रुता। यत्तया शैक्षाशैक्षीणां भिक्षुणीनामवर्णो भाषितः तेन दौर्गन्ध्यमासादितम्। यत्तया शीलवतो भिक्षून्दृष्ट्वा नयने निमोलिते तेन जात्यन्धा संवृत्ता॥ इति हि नन्दक एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि ते नन्दक एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं ते नन्दक शिक्षितव्यम्॥
अस्मिन्खलु धर्मपर्याये भाष्यमाणे दशभिः प्राणिशतसहस्रैः सत्यदर्शनं कृतम्॥ तत्र भगवान्भिक्षूनामन्त्रयते स्म। इमे चान्ये च आदीनवा मात्सर्ये वाग्दुश्चरिते चेति ज्ञात्वा मात्सर्यस्य वाग्दुश्चरितस्य च प्रहाणाय व्यायत्तव्यमित्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥