वर्चघट इति ४४
Technical Details
वर्चघट इति ४४।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे॥ अथायुष्मान्महामौद्गल्यायनः पूर्वाह्ने निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत्। राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चा<द्भक्त>पिण्डपातप्रतिक्रात्तः पात्रचीवरं प्रतिसमर्प्य येन गृध्रकूटः पर्वतस्तेनोपसंक्रात्तः। उपसंक्रम्य गृध्रकूटं पर्वतमवगाह्यान्यतरदृक्षमूलं निश्रित्य निषणो दिवाविहाराय॥ अथायुष्मान्महामौद्गल्यायनः प्रेतीमद्राक्षीद्दग्धस्थूणासदृशीं नग्नां स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिमादीप्तां प्रदीप्तां प्रज्वलितामेकज्वालीभूतां ध्मायत्तीमार्तस्वरं क्रन्दत्तीं तृषार्तां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयमानां दुर्गन्धां परमदुर्गन्धां वर्चःसदृशीं वर्चोहारां तदपि कृच्छ्रेणासादयत्तीम्। दृष्ट्वा च पुनरायुष्मान्महामौद्गल्यायनः संविग्नः प्रेतीं च पप्रच्छ।
किं त्वया प्रकृतं पापं यस्य ते ईदृशं फलमिति॥
प्रेती आह। प्रागपकारिण्यहं भदत्त महामौद्गल्यायन एतमर्थं बुद्धं भगवत्तं पृच्छ स ते ऽस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति यां श्रुत्वान्ये ऽपि सत्त्वाः पापकर्मणः प्रतिविरंस्यत्तीति। अथायुष्मान्महामौद्गल्यायनो येन भगवांस्तेनोपसंक्रात्तः॥
तेन खलु समयेन भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्विवानेडकमनेकशता च पर्षद्भगवतः सकाशान्मधुरं धर्मं शृणोत्यनिज्यमानैरिन्द्रियैः। ततो बुद्धा भगवत्तः पूर्वालापिनः प्रियालापिन एहीतिस्वागतवादिनः स्मितपूर्वङ्गमाश्च। <तत्र> भगवानायुष्मत्तं महामौद्गल्यायनमिदमवोचत्। एहि मौद्गल्यायन स्वागतं ते कुतस्त्वमेतर्ह्यागच्छसीति॥ महामौद्गल्यायन आह। आगच्छाम्यहं भदत्त प्रेतचारिकायाः तत्राहं प्रेतीमद्राक्षं दग्धस्थूणासदृशीं नग्नां स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिमादीप्तां प्रदीप्तां प्रज्वलितामेकज्वालीभूतामार्तस्वरं क्रन्दत्तीं दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयमानां दर्शनमात्रेण चास्या नद्युदपानानि शुष्यत्ति यदा देवो वर्षति तदा तस्या <उपरि> सविस्फुलिङ्गमङ्गारवर्षंपतति दुर्गन्धां परमदुर्गन्धां वर्चः सदृशां च वर्चाहारां तदपि कृच्छ्रेणासादयत्तीम्। आह च।
* * * * * * * * * * * * * * * * * * * *
आर्तस्वरा क्रन्दमाना दुःखां विन्दति वेदनाम्॥१
येन हि वर्चधानानि तेन धावति दुःखिता।
वर्चः पास्यामि भोक्ष्ये च तच्च दुःखेन लभ्यते॥ २
किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्।
येन एवंविधं दुःखमनुभवति भयानकम्॥ ३
भगवानाह। पापकारिणी मौद्गल्यायन सा प्रेती। इच्छसि तस्याः कर्मप्लोतिं श्रोतुम्॥ एवं भदत्त॥ तेन हि मौद्गल्यायन शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये॥
भूतपूर्वं मौद्गल्यायन वाराणस्यां नगर्यामन्यतमः प्रत्येकबुद्धो हीनदीनानुकम्पी प्रात्तशयनासनसेवी च। स व्याधितो वाराणसीं पिण्डाय प्रविशति। यावदस्य वैद्येन सांप्रेयं भोजनमुपदिष्टम्। स येनान्यतमस्य श्रेष्ठिनो निवेशनं तेनोपसंक्रात्तः॥ तेन च श्रेष्ठिना दृष्टः पृष्टश्च केन ते आर्य प्रयोजनमिति। तेनोक्तं कुलसांप्रेयेण भोजनेनेति॥ ततः श्रेष्ठिना वध्वा आज्ञा दत्ता आर्याय सांप्रेयं भोजनं दातव्यमिति॥ अथ तस्या वध्वा मात्सर्यमुत्पन्नं यद्यहमस्मै अद्य भोजनं प्रदास्यामि श्वो भूय आगमिष्यतीति। तया एकात्तमपसृत्य वर्चसः पात्रं पूरयित्वा उपरि भक्तेन प्रच्छाद्य तस्मै प्रत्येकबुद्धाय दत्तम्॥ असमन्वाहृत्य श्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तते। तेन प्रतिगृहीतं प्रतिगृह्य संलक्षितं यथैतद्दुर्गन्धं नूनमनया ऽमेध्यस्य पूरितमिति। ततो ऽसौ महात्मा तदेकात्ते छोरयित्वा प्रक्रात्तः॥
भगवानाह। किं मन्यसे मौद्गल्यायन यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठिवधुका इयं सा प्रेती। यदुपादाया ऽनया तादृक्पापं कृतं ततः प्रभृति नित्यं नरकतिर्यक्प्रेतेषूपपद्यते नित्यं च वर्चाहारा॥ तस्मात्तर्हि ते मौद्गल्यायन मात्सर्यप्रहाणाय व्यायत्तव्यं यथा एते दोषा न स्युर्ये तस्याः प्रेत्या एवं मौद्गल्यायन शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमना आयुष्मान्मौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥