शिबिरिति ३४
Technical Details
शिबिरिति ३४।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो <बुद्धो> भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु समये<न> श्रावस्त्यां भिक्षूणां द्वौ संनिपातौ भवतः। एक आषाढ्यां वर्षोपनायिकायां द्वितीयः कार्त्तिक्यां पूर्णमास्याम्। तत्र भिक्षवः पात्राणि पचत्ति चीवराणि धावयत्ति पांसुकूलानि च सीव्यत्ति। यावदन्यतमो भिक्षुश्चीवरं स्योतुकामः सूचीछिद्रं सूत्रकं न शक्रोति प्रतिपादयितुम्। स करुणदीनविलम्बितैरक्षरैरुवाच को लोके पुण्यकाम इति। भगवांश्चास्य नातिदूरे चङ्क्रमे चङ्क्रम्यते। ततो भगवान्गम्भीरमधुरविशदकलविङ्कमनोज्ञदुन्दुभिनिर्घोषो गजभुजसदृशबाहुमभिप्रसार्य कथयति। अहं भिक्षो लोके पुण्यकाम इति॥ ततो ऽसौ भिक्षुर्भगवतः पञ्चाङ्गोपेतं स्वरमुपश्रुत्य संभ्रात्तस्त्वरितत्वरितं भगवतः पाणिं गृहीत्वा स्वशिरसि स्थापयित्वाह। भगवन्ननेन ते पाणिना त्रीणि कल्पासंख्येयानि दानशीलक्षात्तिवीर्यध्यानप्रज्ञा उपचिताः॥ अथ च पुनर्भगवानेनमाह। अतृप्तो ऽहं भिक्षो पुण्यैर्लब्धरसो ऽहं भिक्षो पुण्यैरतो मे तृप्तिर्नास्तीति॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यद्भगवान्पुण्यमयैः संस्कारैरतृप्त इति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यदिदानीं तथागतो विगतरागो विगतद्वेषो विगतमोहः परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः सर्वज्ञः सर्वाकारज्ञः सर्वज्ञानज्ञेयवशिप्राप्तो यत्त्वहमतीते ऽध्वनि सरागः सद्वेषः समोहो ऽपरिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो ऽतृप्तः पुण्यमयैः संस्कारैः तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि शिविघोषायां राजधान्यां शिबिर्नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्ठकमेकपुत्रमिव राज्यं पालयति। स च शिबी राजा श्राद्धो भद्रः कल्याणाशय आत्महित्परहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते। स काल्यमेवोत्त्थाय यज्ञवाटं प्रविश्यान्नमन्नार्थिभ्यः प्रयच्छत्ति वस्त्रं वस्त्रार्थिभ्यः धनधान्यहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडादीनां परित्यागं करोति। न चासौ पुण्यमयैः संस्कारैस्तृप्तिं गच्छति। सो ऽत्तःपुरं प्रविश्यात्तः पुरजनस्य भक्ताच्छादनं प्रयच्छति कुमाराणाममात्यानां मटबलाग्रस्य नैगमजानपदानाम्॥
अथ राज्ञः शिबेरेतदभवत्। संतर्पिता अनेन मनुष्यभूताः क्षुद्रजत्तवो ऽवशिष्टाः केन संतर्पयितव्या इति॥ स परित्यक्तविभवसर्वस्व एकशाटकनिवसितः स्वशरीरावशेषश्चित्तामापेदे। तस्यैतदभवत्। क्षुद्रजत्तुभ्यः स्वशरीरमनुप्रयच्छामीति। स शस्त्रेण स्वशरीरं तक्षयित्वा यत्र दंशमशकास्तत्रोत्सृष्टकायः प्रतिष्ठते प्रियमिवैकपुत्रकं रुधिरेण संतर्पयति॥
शक्रस्य देवेन्द्रस्याधस्ताज्ज्ञानदर्शनं प्रवर्तते। तस्यैतदभवत्। किमयं शिबी राजा सत्त्वानामर्थमेवं करोति उत करुणया यन्न्वहमेनं जिज्ञासेयेति॥ ततो भिन्नाञ्जनमसिवर्णं गृध्रवेषमात्मानमभिनिर्माय राज्ञः शिवेः सकाशमुपसंक्रम्य मुखतुण्डकेनाक्ष्युत्पाटयितुं प्रवृत्तः। न च राजा संत्रासमापद्यते किं तु मैत्रीविशालाभ्यां नयनाभ्यां तं गृध्रमालोक्य कथयति। वत्स यन्मदीयाच्छरीरात्प्रयुञ्जसे तेन प्रणयः क्रियतामिति॥ तत आवर्जितः शक्रो देवेन्द्रो ब्राह्मणवेषमात्मानभिनिर्माय राज्ञः शिबेः पुरस्तात्स्थित्वा कथयति। साधु पार्थिव दीयतामेतन्नयनद्वयमिति॥ राजोवाच। महाब्राह्मण गृह्यतां यदभिरुचितं न मे ऽत्र विघ्नः कश्चिदस्तीति॥ ततः शक्रो देवेन्द्रो भूयस्या मात्रयाभिप्रसन्नो ब्राह्मणवेषमत्तर्धाप्य स्वनूपेण स्थित्वा राजानमभ्युत्साहयन्नुवाच। साधु साधु भोः पार्थिव सुनिश्चिता ते बुद्धिरकम्प्यस्ते प्रणिधिरनुगता ते सत्त्वेषु महाकरुणा यत्र नाम त्वं संत्रासकरेषु धर्मेषु विशारदो न चिरात्त्वमनेन व्यवसायेनानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे॥
भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन शिबिर्नाम राजा बभूवाहं सः। तदानीमपि मे पुण्यमयैः संस्कारैस्तृप्तिर्नास्ति प्रागेवेदानीम्। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्दानानि दास्यामः पुण्यानि करिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते च भिक्षवो भगवतो भाषितमभ्यनन्दन्॥