धर्मपाल इति ३३
Technical Details
धर्मपाल इति ३३।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहे विहरति वेणुवने कलन्दकनिवापे॥ यदा देवदत्तेन मोहपुरुषेण भगवतो वधार्थेन धणपालको हस्तिनाग उत्सृष्ट <उदपानो> विषचूर्णेन चावकीर्णो वधकपुरुषाश्चोत्सृष्टाः स भगवतो दीर्घरात्रं वधकः प्रत्यर्थिकः प्रत्यमित्रो भगवांश्चास्य मैत्रचित्तो हितचित्तो ऽनुकम्पाचित्तेन च प्रत्युपस्थितः॥ तदा भिक्षवो भगवत्तं पप्रच्छुः। पश्य भगवन्यावदयं देवदत्तो भगवतो वधायोद्यतो भगवांश्चास्य मैत्रचित्तो हितचित्तो ऽनुकम्पाचित्तेन प्रत्युपस्थित इति॥
भगवानाह। किमत्र भिक्षव आश्चर्य यदिदानीं तथागतो विगतरागो विगरद्वेषो विगतमोहः परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः सर्वज्ञः सर्वाकारज्ञः सर्वज्ञानज्ञेयवशिप्राप्तो यत्तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेन दहरकवयस्यवस्थितेन वधाय पराक्रात्तस्यास्यात्तिके नैवं चित्तं दूषितं तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिज्ये ऽहम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्या ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्ठकमेकपुत्रमिव राज्यं पालयति। स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते। तस्य च राज्ञो दुर्मतिर्नाम देवी चण्डा रोषणी साहसिका एकपुत्रश्च धर्मपालो नाम्ना तस्या एव दुर्मत्याः सकाशाज्जातः। स च धर्मपालो दयावान् श्राद्धो भद्रःकल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वेषां च वाराणसेयानां ब्राह्मणगृहपतीनामिष्टः कात्तः प्रियो मनापो दर्शनेन। स चोपाध्यापसकाशं गत्वा दारकैः सह लिपिं पठति॥
यावद्राजापरेण समयेन वसत्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे देव्या सहात्तःपुरपरिवृत उद्यानभूमिं निर्गतः। तत्र च राज्ञ उद्याने ऽत्तःपुरजनेन सह क्रीडत ईर्ष्यारोषपरीता दूर्मतिर्देवी कुपिता राज्ञा चास्या अर्धं पीतकं वर्जितम्। तया कुपितया राज्ञः संदेशो विसर्जितः पुत्रस्याहं रुधिरं पिबेयं यद्यहं तवार्धं पीतकं पिबेयमिति॥ कामान्खलु प्रतिसेवमानस्य नास्ति किञ्चित्पापकं कर्माकरणीयमिति॥ ततो राजा ब्रह्मदत्तो धार्मिको ऽपि सन्कामरागपर्यवसानविगमादत्तःपुरजनेन सात्त्व्यमानो ऽपि क्रोधाग्निना प्रज्वलितः॥
ततस्तेन संप्रवृद्धक्रोधेनाज्ञा दत्ता गत्छत धर्मपालस्य गलं छित्त्वा रुधिरं पाययतैनामिति॥
ततो दारकशालावस्थितो धर्मपालः कुमारः श्रुत्वा रोदितुं प्रवृत्त एवं चाह। धिक् सत्त्वसभागतां संसारे यत्र नाम क्रोधवशादङ्गनिःसृतमपि सुतं परित्यजत्तीति। ततो धर्मपालः सर्वालङ्कारविभूषितः पितुः पादयोर्निपत्य कथयति। साधु तात प्रसीद निरपराधं मा मां परित्याक्षीः इष्टाश्च सर्वेषां पितॄणां पुत्रा इति॥ राजा कथयति। पुत्रक यदि ते माता क्षमते अहमपि क्षमे इति॥ ततो धर्मपालः प्ररुदन्मातुः सकाशमुपसंक्रात्तः पादयोर्निपत्य कृतकरपुट उवाच। अम्ब क्षमस्व मा मां जीविताद्यपरोपयेति॥ सा एवं करुणदीनविलम्बितैरक्षरैरुच्यमाना न क्षमते॥ ततो वध्यघातैस्तीक्ष्णेन शस्त्रेण धर्मपालस्य कुमारस्य गलं छित्त्वा दुर्मतिर्देवी रुधिरं पायिता न च दुर्मत्या विप्रतिसारो ज्ञातः धर्मपालो ऽपि कुमारो मातापितृवध्यघातेषु चित्तं प्रसाद्य कालगतः॥
भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन धर्मपालो नाम कुमारो बभूवाहं सः सा दुर्मतिर्देवी एष देवदत्तः। तदापि मे वधकहस्तगतेनास्य मैत्रं चित्तमुत्पादितमिदानीमप्यहमस्य बधायोद्यतस्य मैत्रचित्तो हितचित्तो ऽनुकम्पाचित्तः। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यत्सर्वसत्त्वेषु मैत्रं चित्तं भावयिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥