नावकि इति २७
Technical Details
नावकि इति २७।
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवन् <ज्ञातो> महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो मगधेषु जनपदचारिकां चरन्गङ्गातीरमनुप्राप्तः॥ अथ भगवान्भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो येन नाविकास्तेनोपसंक्रात्तः। उपसंक्रम्य नाविकानिदमवोचत्। उत्तारयतु भवत्तो मामिमां नदीमिति॥ नाविका ऊचुः। तरपण्यं प्रयच्छेति॥ ततो भगवांस्तान्नाविकानिदमवोचत्। अहमपि भवत्तो नाविकः पूर्वमासं मया हि रागनदीपतितो नन्दस्तारितः द्वेषार्णवपतितो ऽङ्गुलिमालः मानार्णवपतितो मानस्तब्धो माणवः मोहार्णवपतित उरुविल्वकाश्यपस्तारितः न च मे तरपण्यं याचिता इति॥ तथाप्युच्यमाना च प्रतिपाद्यत्ते तारयितुम्॥
अन्यतमेन नाविकेन भगवतो ऽष्टाङ्गोपेतं स्वरं श्रुत्वा तां च नूपसंपदं दृष्ट्वा प्रसादजातेनोक्तम्। अहं भगवत्तं सश्रावकसङ्घमुत्तारयिष्यामीति॥ ततो भिक्षवो नावमभिनूढा भगवानृध्याग्रत एव तस्य नाविकस्यापारिमात्तीरात्पारिमे तीरे स्थितः॥ ततः स नाविकस्तदृद्धिप्रातिहार्यं दृष्ट्वा आवर्जितमनाः पादयोर्निपतितः। तस्मै भगवता तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा तेन नाविकेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं प्राप्तम्। स दृष्टसत्यस्त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रालङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।
तवानुभावात्पिहितः सुधोरो ह्यपायमार्गो बहुदोषयुक्तः।
अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥
त्वदाश्चयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।
प्राप्तं च शात्तं पदमार्यकात्तं तीर्णश्च दुःखार्णवपारमस्मि॥
नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।
भगसहस्रसुडुर्लभदर्शन सफलमद्य मुने तव दर्शनमिति॥
द्वितीयस्य नाविकस्य महान्विप्रतिसार उत्पन्नः। तेन भगवतः पादयोर्निपत्यात्ययो देशितो भगवांश्च सश्रावकसङ्घः पिण्डकेन प्रतिपादितः॥
भगवता स्मितं विदर्शितम्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिडुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटट हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतत्ति ये शीतनरकास्तेषूष्णीभूत्वा निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।
धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥
यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।
प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥
अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः <पृष्ठतः> समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो <र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥
अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।
नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।
अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥
गाथाश्च भाषते।
विगतोद्ववा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।
नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥
तत्कालं स्वयमधिगम्य वीर बुद्ध्या।
श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।
धीराभिर्मुनिवृष वाग्भिरुत्तमाभि -
रुत्पन्नं व्यपनय संशयं शुभाभिः॥
नाकस्माल्लवणजलाद्रिराजधैर्याः
संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।
यस्यार्थे स्मितमुपदर्शयत्ति धीराः
तं श्रोतुं समभिलषत्ति ते जनौघा इति॥
भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेन नाविकेन ममात्तिके चित्तं प्रसादितम्॥ एवं भदत्तः॥ एषानन्द नाविको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चानागते ऽध्वनि संसारोत्तरणो नाम प्रत्येकबुद्धो भविष्यति। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति। तस्मातर्हि भिक्षव एवं शिक्षितव्यं यद्बुद्धप्रत्येकबुद्धश्रावकेषु कारान्करिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥