पद्म इति २२
Technical Details
पद्म इति २२॥
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरितिदेवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ आचरितमेतन्मध्यदेशे यदारामिकाः पद्मान्यादाय वीथीं गत्वा विक्रीणते॥ अथ भगवान्पूर्वाह्ने निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत्। अन्यतमा च स्त्री दारकं स्वभुजाभ्यामादाय वीथीमवतीर्णा। ददर्श च स दारको बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। दृष्ट्वा च पुनः प्रसादजातः सहसा बाहुमभिप्रसार्यारामिकसकाशात्पद्मं गृहीत्वा भगवतो मूर्ध्नि प्रक्षिप्त<वान्>। ततस्तत्पद्मं शकटचक्रमात्रं भूत्वोपरि विहायसि स्थितं भगवत्तं च गच्छत्तमनु गच्छति तिष्ठतं तिष्ठति॥ ततो भगवता पद्मरागसदृशा प्रभा उत्सृष्टा यया सकला श्रावस्ती अवभासिता तद्धैतुकं च राजामात्यपौरा आवर्जिताः॥
ततो भगवता स्मितमुपदर्शितम्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं आविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति<काश्चिडुपरिष्ठाद्गच्छत्ति>। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं <महारौरवं> तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वाना कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्पतीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।
आरभध्वं निष्क्रामत पुज्यध्वं बुद्धशासने।
धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥
यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।
प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥
अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥
अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।
नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।
अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥
गाथाश्च भाषते।
विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।
नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥
तत्कालं स्वयमधिगम्य धीर बुद्ध्या
श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।
धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-
रुत्पन्नं व्यपनय संशयं शुभाभिः॥
नाकस्माल्लवणजलादिराजधैर्याः
संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।
यस्यार्थे स्मितमुपदर्शयत्ति धीराः
तं श्रोतुं समभिलषत्ति ते जनौघा इति॥
भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेन दारकेण प्रसादजातेन तथागतस्य पद्मं क्षिप्तम्॥ एवं भदत्त॥ एषानन्द दारको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च पञ्चदश कल्पान्विनिपातं न गमिष्यति दिव्यमानुषसुखमनुभूय पद्मोत्तरो नाम प्रत्येकबुद्धो भविष्यति। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसादः। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्बुद्धप्रत्येकबुद्धश्रावकेषु कारान्करिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥