वरद इति १८
Technical Details
वरद इति १८
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो<महा>पुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्ड<द>स्यारामे। अथ श्रावस्त्यामन्यतमः पारदारिको मलिने कर्मणि वर्तते। स राजपुरुषैर्गृहीत्वा राज्ञ उपनामितः। ततो राजा ऽपराधिक इति कृत्वा वध्य उत्सृष्टः॥ स राजपुरुषैर्नीलाम्बरवसनैरुद्यतशस्त्रैः करवीरमालाबद्धकण्ठे<गु>णो रथ्यावीथीचत्वरशृङ्गाटकेष्वनुश्राव्यमाणो दक्षिणेन नगरद्वारेणापनीयते॥
अत्रात्तरे नास्ति किञ्चिब्दुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायाडुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्रस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्चर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं <कस्य परिपक्कानि विमोचयेयम् >। आह च।
अप्येवातिक्रमेद्वेलां सागरो मकरालयः।
न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥
अथ भगवान्पूर्वाह्ने निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत्॥ ददर्श स पुरुषो बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। दृष्ट्वा च पुनर्भगवतः पादयोर्निपत्य भगवत्तमिदमवोचत्। वरार्हो ऽस्मि भगवन्निष्टं मे जीवितं प्रयच्छेति॥ ततो भगवानायुष्मत्तमानन्दमामन्त्रयते। गच्छानन्द राजानं प्रसेनजितं वद अनुप्रयच्छ मे एतं पुरुषं प्रव्राजयामीति॥ अथायुष्मानानन्दो येन राजा प्रसेनजित्कौशलस्तेनोपसंक्रात्तः। उपसंक्रम्य राजानं प्रसेनजितं कौशलं भगवद्वचनेनोवाच। अनुजानीहि भगवानेतं पुरुषं प्रव्राजयतीति॥ भव्यनूप इति विदित्वा राज्ञा प्रसेनजित्कौशलेनानुज्ञातः॥ स भगवता प्रव्राजित उपसंपादितश्च॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासी चन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः।
भिक्षवः संशयजाताः सर्वसंशयानां छेत्तारं बुद्धं <भगवत्तं> पप्रच्छुः। आश्चर्यं भदत्त यद्भगवता सर्वं चित्तितमात्रं समृध्यतीति॥ भगवानाह। तथागतेनैवैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैतानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्व भिक्षवो ऽतीते ऽध्वनि इन्द्रध्वजो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः। तस्यां राजधान्यां ब्राह्मणो वेदवेदाङ्गपारगो राज्ञो ऽग्रासनिकः॥ अथेन्द्रध्वजः सम्यक्संबुद्धः पूर्वाह्ने निवास्य पात्रचीवरमादाय तां राजधानीं पिण्डाय प्राविक्षत्। अद्राक्षीत्सब्राह्मण इन्द्रध्वजं सम्यक्संबुद्धं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। दृष्ट्वा च पुनर्मूलनिकृत्त इव द्रुमो भगवतः पादयोर्निपत्योवाच। वरार्हो ऽस्मि सुगत निषो दत्तु भगवानग्रासन इति॥ अथ भगवानिन्द्रध्वजः सम्यक्संबुद्धस्तस्यानुग्रहार्थमग्रासने निषणः। <अग्रासने निषण> श्चेन्द्रध्वजः सम्यक्संबुद्धस्तेन ब्राह्मणेन पदशतेन स्तुतः प्रणीतेन चाहारेण प्रतिपादितो ऽनुत्तरापाञ्च सम्यक्संबोधौ प्रणिधानं कृतम्॥ तद्धैतुकं यावदावर्जिता राजामात्यपौराः॥
तत्किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ब्राह्मणो बभूवाहं सः। यन्मे इन्द्रध्वजस्य तथागतस्य पूजा कृता तद्धैतुकं [च] मे संसारे ऽनत्तं सुखमनुभूतमपि यच्चित्तयामि यत्प्रार्थये तत्सर्वं समृध्यति। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥