Digital Sanskrit Buddhist Canon

स्तुतिरिति १७

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Stutiriti 17
स्तुतिरिति १७



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु समयेन श्रावस्त्यां पञ्चमात्राणि गान्धर्विकशतानि गोष्ठिकानां प्रतिवसत्ति॥ तत्र च काले सुप्रियो नाम गान्धर्विकराजो ऽभ्यागतः। तस्यैवंविधा शक्तिः। एकस्यां तन्त्र्यां सप्त स्वरानादर्शयत्येकविंशितिं मूर्च्छनाः॥ स षण्महानगराण्यपटुकान्युद्घोषयमाणः श्रावास्तीमनुप्राप्तः। श्रावस्तीनिवासिभिश्च गान्धर्विकै रात्रे निवेदितम्॥ राजाह। अल्पोत्सुका भवत्तु भवत्तो वयमत्र कालज्ञा भविष्याम इति॥



अथ सुप्रियस्य गान्धर्विकराजस्यैतदभवत्। एवमनुश्रूयते राजा प्रसेनजिद्गान्धर्वे ऽतीव कुशलः। यन्न्वहमनेन सह वादमारोचयेयमिति॥ ततः सुप्रियो गान्धर्विकराजो येन राजा प्रसेनजित्कौशलस्तेनोपसंक्रान्तः। उपसंक्रम्य राजानं प्रसेनजितं कौशलमिदमवोचत्। श्रुतं मे राजन्यथा त्वं गान्धर्वकुशल इति यदि ते अगुरु मीमांसस्वेति॥ ततो राज्ञा प्रसेनजिता तस्य विक्षेपः कृत उक्तश्च साधो अस्ति मे गुरुर्जेतवने स्थितो ऽनुत्तरो गान्धर्विकराज एहि तत्समीपं यास्याम इति॥ अथ राजा प्रसेनजित्कौशलः पञ्चमात्रैर्गान्धर्विकशतैः परिवृतः सुप्रियेण गान्धर्विकराजेनानेकैश्च प्राणिशतसहस्रैर्जेतवनं गतः॥



अत्रात्तरे नास्ति किञ्चिब्दुद्धानां भगवतामज्ञातमदृष्टमविदितनविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमायत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशमां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायाडुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्नस्य हस्तोद्दारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।



अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु बैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥



ततो भगवान्वैनेयजनानुग्रहार्थं लौकिकं चित्तमुत्पादितवा<न्। अ>हो बत पञ्चशिखो गन्धर्वपुत्रः सप्तगन्धर्वसहस्रपरिवृतो वैडूर्यदण्डां वीणामादाय मत्सकाशमुपसंक्रामेदिति। सहचित्तोत्पादात्पञ्चशिखो गन्धर्वपुत्रः सप्तगन्धर्वसहस्रपरिवृतो भगवत्तं यथावदभ्यर्च्य भगवतो वैडूर्यदण्डां वीणामुपनयति स्म॥ ततः सुप्रियो गन्धर्वराजो भगवतः पुरस्ताद्दीणामनुश्रावितुमारब्धो यत एकस्यां तन्त्र्यां सप्त स्वराण्येकविंशतिं मूर्छनाश्च दर्शयितुमारब्धो यच्छ्रवणाद्राजा प्रसेनजिदन्यतमश्च महाजनकायः परं विस्मयमापन्नः॥ ततो भगवानपि वैडूर्यदण्डां वीणामाश्रावितवान् यत एकैकस्यां तन्त्र्यामनेके स्वरविशेषा मूर्छनाश्च बहुप्रकारा दर्शिताः ते च शून्याकारेणैव। इदञ्च शरीरं वीणावदादर्शितवान्स्वरानिन्द्रियवन्मूर्च्छनाश्चित्तधातुव<द्य>च्छ्रवणादावर्जितः सुप्रियो गान्धर्वराजो वीणां गन्धकुट्यां निर्यात्य भगवत्सकाशे प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं <चला>चलं विदित्वा सर्वसंस्कारगतोः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासिचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥



तत आवर्जिता देवनागयक्षासुरगरुडकिन्नरमहोरगा भगवच्छासने रक्षावरणगुप्तिं कर्तुमारब्धाः। पञ्चानामपि गान्धर्विकशतानां प्रीतिसौमनस्यजातानामेतदभवत्। वयं नीचे कर्मणि वर्तामहे कृच्छ्रवृत्तयश्च यन्नु वयं राजानं विज्ञाप्य भगवत्तं सश्रावकसङ्घं नगरप्रवेशेनोपनिमन्त्रयेमहीति॥ यावत्तैर्गान्धर्विकैर्लब्धानुज्ञैर्भगवान्सश्रावकसङ्घो नगरप्रवेशेनोपनिमन्त्रितः। अधिवासितं च भगवता तेषां गान्धर्विकाणां तूष्णीभावेन॥ ततस्तैर्गान्धर्विकै राजामात्यपौरजानपदसहायैः सर्वा श्रावस्ती नगरी अपगतपाषाणशर्करकठल्ला गन्धोदकपरिषिक्ता नानापुष्पावकीर्णा विचित्रधूपधूपिता पुष्पवितानमण्डिता ते च गान्धर्विकाः स्वयमेव वीणामादाय मृदङ्गवेणुपणवादिविशेषैरुपस्थानं चक्रुः प्रणीतेन चाहारेण भगवत्तं सश्रावकसङ्घं संतर्पयामासुः॥



ततो भगवान्स्मितमकार्षीत्॥ धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छति काश्चिदुपरिष्ठाद्गच्छति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्वृहत्फलानवृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।



आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥



अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽतर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकां बोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥



अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।

नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥

गाथाश्च भाषते।

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥

तत्कालं स्वयमधिगम्य वीर बुद्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥

नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयत्ति धीराः

तं श्रोतुं समभिलषत्ति ते जनौघा इति॥



भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दैभिर्गान्धर्विकैर्ममैवंविधं सत्कारं कृतम्॥ एवं भदत्तः॥ एते आनन्द गान्धर्विका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चायथाकालानुगतानां प्रत्येकां बोधिं समु<दा>नीयानागते ऽध्वनि वर्णस्वरा नाम प्रत्येकबुद्धा भविष्यत्ति हीनदीनानुकम्पकाः प्रात्तशयनासनभक्ता एकदक्षिणीया लोकस्य। अयमेषां देयधर्मो यो ममात्तिके चित्तप्रसाद इति॥



भिक्षवः संशयजाताः सर्वसंशयानां छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त भगवता कुशलमूलानि कृतानि येषामयमनुभाव इति॥ भगवानाह। तथागतेनैवैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैतानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि प्रबोधनो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः। अथ राज्ञ उद्यानं सर्वकुशलसंपन्नं बभूव॥ अथ स भगवांस्तडुद्यानं प्रविश्य राजानुग्रहार्थनमन्यतमद्वृक्षमुपश्रित्य निषणः। ततः संस्तरं प्रज्ञप्य तेजोधातुं समापन्नः॥ अथ राजा क्षत्रियो मूर्ध्राभिषिक्तः स्त्रीमयेन तूर्येण वाद्यमानेनोद्यानं प्रविष्टः। अथ स राजा तडुद्यानमनुविचरन्ददर्श भगवत्तं प्रबोधनं सम्यक्संबुद्धं प्रासादिकं प्रसादनीयं शात्तमानसं परमेणचित्तदमव्युपशमेन समन्वागतं सुवर्णयूयमिव श्रिया ज्वलत्तं। दृष्ट्वा च पुनः प्रसादजातः स राजा सात्तःपुरो<वि>विधेन वाद्येन वाद्यमानेन भगवत्तं ततः समाधेः प्रबोधयामास प्रणीतेन चाहारेण प्रतिपादितवाननुत्तरायाञ्च सम्यक्संबोधौ प्रणिधानं कृतवान्॥



किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः। यन्मया प्रबोधनस्य सम्यक्संबुद्धस्य पूजा कृता तेनैव हेतुना इदानीं मम गान्धर्विकैरेवंविधः सत्कारः कृतः। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project