पञ्चवार्षिकमिति १६
Technical Details
पञ्चवार्षिकमिति १६
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति स्म वेणुवने क<ल>न्दकनिवापे॥ यदा देवदत्तेन <मोह>पुरुषेण भगवच्छासने ऽनर्थसहस्राणि कृतानि न च शकितं भगवतो रोमेञ्जनमपि कर्तुं तदा राजानमजातशत्रुमामन्त्रितवान्। क्रियतां राजगृहे क्रियाकारो न केनचिच्छ्रमणस्य गौतमस्योपसंक्रमितव्यं पिण्डकेन वा प्रतिपादयितव्य एवमयमलब्धलाभो ऽलब्धसंमानो नियतमन्यदेशं संक्रात्तिं करिष्यतीति॥ राज्ञा तथा कारितम्॥ तत्र ये उपासका दृष्टसत्यास्ते रोदितुं प्रवृत्ताः। हा कष्टमनाथीभूतं राजगृहनगरं यत्र हि नामोडुम्बरपुष्पडुर्लभप्राडुर्भावं बुद्धं भगवत्तमासाद्य तस्य न शक्यते संग्रहः कर्तुमिति॥ एष शब्दः श्रुतिपरम्परया भिक्षुभिः श्रुतस्तत आयुष्मतानन्देन यथाश्रुतं भगवतो निवेदितः॥ भगवानाह। अल्पोत्सुकस्त्वमानन्द भव तथागता एवात्र कालज्ञाः। अपि तु यावच्छासनं मे तावच्छ्रावकाणामुपकरणवैकल्यं न भविष्यति प्रागेवेदानीमिति॥
अत्रात्तरे शक्रस्य देवानामिन्द्रस्याधस्ताज्जानदर्शनं प्रवर्तते। स पश्यति भगवच्छासनस्यैवंविधां विकृतिम्। सहदर्शनादेव दायकदानपतीनामुत्साहसंजनननार्थं बुद्धोत्पादस्य माहात्म्य संजन नार्थमजातशत्रोर्देवदत्तस्य च मददर्पच्छित्त्यर्थमात्मनश्च प्रसाद संजनार्थ सकलं राजगृहमुदारेणावभासेनावभास्योच्चैःशब्दमुदाहरितवान्। एषो ऽहमद्याग्रेण भगवत्तं सश्रावकसङ्घं दिव्यैश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरुपस्थास्यामि। इत्युक्त्वा येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते स्थितः। अथ शक्रो देवेन्द्रो भगवत्तमिदमवोचत्। अधिवासयतु मे भगवानस्मिन्नेव राजगृहे नगरे ऽहं भगवत्तमुपस्थास्यामि दिव्यैश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरिति॥ भगवानाह। अलं कौशिक कृतमेतद्यावदेव चित्तमभिप्रसन्नं बहवो हि लोके पुण्यकामा इति॥ शक्रः प्राह। अधिवासयतु मे भगवान्पञ्च वर्षाणि तथागतस्यार्थे पञ्चवार्षिकं करिष्यामीति॥ भगवानाह। अलं कौशिक कृतमेतद्यावच्चित्तमभिप्रसन्नं बहवो हि लोके पुण्यकामा इति॥ शक्रः प्राह। अधिवासयतु मे भगवान्पञ्च दिवसानिति॥ ततो भगवान्स्वपुण्यबलप्रत्यक्षीकरणार्थ शक्रस्य च देवेन्द्रस्यानुग्रहार्थमनागतपञ्चवार्षिकप्रबन्धहेतोश्चाधिवासितवांस्तूष्णीभावेन॥
अथ शक्रो देवेन्द्रो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा। तद्देणुवनं वैजयत्तं प्रासादं प्रदर्शितवान्दिव्यानि चासनानि दिव्याः पुष्किरिणीर्दिव्यञ्च भोजनम्॥ अथ भगवान्प्रज्ञप्त एवासने निषणः। ततः शक्रो देवेन्द्रः सुखोपनिषणं बुद्धप्रमुखं भिक्षुसङ्घं विदित्वानेकदेवतासहस्रपरिवृतः स्वहस्तं संतर्पयति संप्रवारयति। अनेकपर्यायेण स्वहस्तं संतर्प्य संप्रवार्य भगवत्तं भुक्तवत्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषणो धर्मश्रवणाय। ततो भगवांश्छक्रं देवेन्द्रं सपरिवारं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति॥ पश्यति च राजा ऽजातशत्रुरुपरिप्रासादतलगतः सन्भगवतो वेणुवने एवंविधां पूजां दृष्ट्वा च पुनर्विप्रतिसारजातो महात्तं प्रसादं प्रवेदितवान्। राजगृहनिवासिनश्च पौरा धर्मवेगप्राप्ता राजानमुपसंक्रम्यैवमूचुः। मुष्यत्ते देव महाराज राजगृहनिवासिनः पौरा पत्र नाम देवाः प्रमत्ताः सत्तः प्रसादविहारिणो दिव्यान्विषयानपहाय भगवत्तं पूजयत्ति। साधु देव उद्घाट्यतां क्रियाकार इति॥
ततो राज्ञा ऽजातशत्रुणा क्रियाकारमुद्घाट्य राजगृहे नगरे घण्ठावघोषणां कारितं क्रियतां भगवतः सत्कारो यथासुखमिति॥ ततो राजगृहनिवासिनः पौराः सपरिवारा हृष्टतुष्टप्रमुदिता उदग्रप्रीतिसौमनस्यजाताः पुष्पगन्धमाल्यान्यादाप भगवत्तं दर्शनायोपसंक्रात्ताः। ततो देवैर्मनुष्यैश्च भगवतो महान्सत्कारः कृतः भगवता न तदधिष्ठानं देवमनुष्याणां तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वानेकैर्देवमनुष्यैः सत्यदर्शनं कृतम्॥
भिक्षवो भगवतः पूजां दृष्ट्वा संशयजाता भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यद्भगवतः शासने एवंविध उत्सव इति॥ भगवानाह। तथागतेनैवैतानि भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैतानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ पच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि रत्नशैलो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः। तस्यां च राजधान्यां धर्मबुद्धिर्नाम राजा राज्यं कारयति तस्यां च राजधान्यां महती ईतिः॥ ततस्तेन राज्ञा ईतिप्रशमनहेतोर्भगवान्सश्रावकसङ्घस्त्रैमास्ये भक्तेनोपनिमन्त्रितः॥ त्रयाणां मासानामत्ययेन सा ईतिः प्रशात्ता॥ ततो राज्ञा नागरैश्चावर्जितमानसैस्तथागतस्य सश्रावकसङ्घस्य पञ्चवार्षिक कृतम्॥ आह च।
राजभूतेन आनन्द रत्नशैलो महाद्युतिः।
अधीष्टः शात्तिकामेन अकार्षीत्पञ्चवार्षिकमिति॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः। यन्मया रत्नशैलस्य तथागतस्य पञ्चवार्षिकं कृतं तेन मे संसारे महत्सुखमनुभूतं तद्दैतुकश्चेदानीं तथागतस्यैवंविधः सत्कारः परिनिर्वृतस्य च मे शासने अनेकानि पञ्चवार्षिकशतानि भविष्यत्ति। तस्मातर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥