स्न्नात्रमिति १३
Technical Details
स्न्नात्रमिति १३
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ तेन खलु समयेन श्रावस्त्यां पञ्चमात्राणि वणिक्शतानि कात्तारमार्गप्रतिपन्नानि। ते मार्गात्परिभ्रष्टा वालुकास्थलमनुप्राप्ताः। ते धर्मश्रमपरिपीडिताः क्षीणपथ्यदनाश्च मध्याह्नसमये तीक्ष्णकररश्मिसंतापिता जलोद्धृता इव मत्स्याः पृथिव्यामावर्तत्ते दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयमानास्तानि देवतासहस्राण्यायाचत्ते तद्यथा शिववरूणकुबेरवासवादीनि। न चैनान्कश्चित्परित्रातुं समर्थः॥
तत्र चान्यतर उपासको बुद्धशासनाभिज्ञः स तान्वणिज आह। भवत्तो बुद्धं शरणं गच्छत्त्विति॥ तत एकरवेण सर्व एव बुद्धं शरणं गताः॥
अत्रात्तरे नास्ति किञ्चिब्दुद्धानां भगवतामज्ञातमदृष्टविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दश<बल>बलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संवाघप्राप्तः <कः> कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रदद्यां कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।
अप्येवातिक्रमेद्वेलां सागरो मकरालयः।
न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥
यावत्पश्यति भगवान्संबहुलान्वणिजो व्यसनसंकटसंबाधप्राप्तान्॥ ततश्चक्षुःसंप्रेषणमात्रेण जेतवने ऽत्तर्हितो भिक्षुगणपरिवृतस्तं प्रदेशमनुप्राप्तः॥ ददशुस्ते वणिजो भगवत्तं सभिक्षुसङ्घं दृष्ट्वा <च> उच्चैर्नादं मुक्तवत्तः॥ ततो भगवता लौकिकं चित्तमुत्पादितम्। अहो बत शक्रो देवेन्द्रो माहेन्द्रं वर्षमुत्सृजतु शीतलाश्च वायवो वात्त्विति। सहचितोत्पादादाद्भगवतः शक्रेण माहेन्द्रं वर्षमुत्सृष्टं शीतलाश्च वायवः प्रेषिता यत स्ते<षां> वणिजां तृषा विगता दाहश्च प्रशात्तः॥ ततस्तैर्वणिग्भिः संज्ञा प्रतिलब्धा भगवता चैषां मार्ग आख्यातो येन श्रावस्तीमनुप्राप्ताः॥
ते मार्गश्रमं प्रतिविनोद्य ततो <भग>वत्सकाशमुपसंक्रात्ताः। तेषां भगवता तादृशी चतुरार्यसत्य<सं>प्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा कैश्चित्स्रोतआपत्तिफलमधिगतं कैश्चित्सकृदागामिफलं कैश्चिदनागामिफलं कैश्चित्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतं कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि कैश्चित्प्रत्येकायां बोधौ कैश्चिदनुत्तरायां सम्यक्संबोधौ। यद्दूयसा <च> सा पर्षद्बुद्धनिम्ना धर्मप्रवणा सङ्घप्राग्भारा व्यवस्थिता॥
भिक्षवः संशयजातास्सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। आश्चर्ये भगवन्यावदिमे वणिजो भगवता कात्तारमार्गात्परित्राताः सहचित्तोत्पादाच्च माहेन्द्रवर्षे वृष्टं शीतलाश्च वायवः प्रवाता इति॥ भगवानाह। तथागतेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्यपान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। मयैतानि कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।
न प्रणश्यत्ति कर्माणि अपि <कल्प>शतैरपि।
सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि चन्दनो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। अथ चन्दनः सम्यक्संबुद्धो जनपदचारिकां चरन्नन्यतमां राजधानीमनुप्राप्तः॥ अथ राजा क्षत्रियो मुर्ध्नाभिषिक्तो येन चन्दनः सम्यक्संबुद्धस्तेनोपसंक्रात्तः। उपसंक्रम्य चन्दनस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकात्ते न्यषीदत्। एकात्ते निषणं राजानं क्षत्रियं मूर्ध्राभिषिक्तं चन्दनः सम्यक्संबुद्धो बोधिकरकैर्धर्मैः समादापयति। अथ राजा क्षत्रियो मूर्ध्राभिषिक्त उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन चन्दनः सम्यक्संबुद्धस्तेनाञ्जलिं प्रणम्य चन्दनं सम्यक्संबुद्धमिदमवोचत्। अधिवासयतु मे भगवानस्यां राजधान्यां त्रैमास्यवासाय सार्धं भिक्षुसङ्घेनेति। अधिवासयति चन्दनः सम्यक्संबुद्धो राज्ञस्तूष्णीभावेन॥ तत्र च समये महती अनावृष्टिः प्रादुर्भूता यया नद्युदपानान्यल्पसलिलानि संवृत्तानि पुष्पफलवियुक्ताश्च पादपाः॥ ततो राजा चन्दनं सम्यक्संबुद्धमध्येषितुं प्रवृत्तः। भगवन्नस्मिन्नगरमध्ये पुष्किरिणीं गन्धोदकपरिपूर्णां कारयिष्यामि यत्र भगवान्सश्रावकसङ्घः स्नास्यति। अप्येव नाम भगवतः स्नानादस्मिन्मे विजिते देवो वर्षेदिति। अधिवासयति भगवांश्चन्दनः सम्यक्संबुद्धो राज्ञस्तूष्णीभावेन॥
ततो राज्ञा क्षत्रियेण मूर्ध्राभिषिक्तेनामात्येभ्य आज्ञा दत्ता गन्धोदकं सज्जीकुर्वत्तु भवत्तो रत्नमयांश्च कुम्भान्ये<न> वयं भगवत्तं सश्रावकसङ्घं स्न्नापयिष्याम इति॥ ततो राज्ञा अमात्यगणपरिवृतेन तन्नगरमपगतपाषाणशर्करकठल्लं व्यवस्थापितमुच्छ्रितध्वजपताकं नानापुष्पावकीर्णं गन्धोदकपरिषिक्तं विचित्रधूपधूपितं पुष्किरिणी चास्य कारिता॥ ततो भगवांश्चन्दनः सम्यक्संबुद्धः सर्वानुग्रहार्थमेकचीवरकः पुष्किरिण्यां स्थितः। ततो राज्ञामात्यगणपरिवृतेन चन्दनः सम्यक्संबुद्धः सश्रावकसङ्घो नानागन्धपरिभावितेनोदकेन स्नापितः। सहस्नानादेव चन्दनस्य सम्यक्संबुद्धस्य शक्रेण देवेन्द्रेण तथाविधं माहेन्द्रं वर्षमुत्सृष्टं येन सर्वसस्यानि निष्पन्नानि तद्दैतुकञ्च महाजनकायेन बुद्धे भगवति श्रद्धा प्रतिलब्धा अनेके च गन्धस्तूपाः प्रतिष्ठापिताः। ये च तत्र चन्दनं सम्यक्संबुद्धं शरणं गताः <स>र्वे ते परिनिर्वृता अहमेकस्तेषामवशिष्टः। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥