नाविका इति ११
Technical Details
द्वितीयो वर्गः
नाविका इति ११
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्धवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति नद्या अजिरवत्या अधस्तान्नाविकग्रामे॥ अथ ते नाविका येन भगवांस्तेनोपसंक्रात्ता उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते न्यषीदन्। एकात्तनिषणांस्तान्नाविकान्भगवान्धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्॥ अथ ते नाविका उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवत्तमूचुः। अधिवासयतु भगवानस्माकं नद्या अजिरावत्यास्तीरे श्वो भक्तेन सार्धं भिक्षुसङ्घेन नौसंक्रमेणोत्तारयिष्याम इति। अधिवासयति भगवान्नाविका<नां>तूष्णीभावेन॥
अथ नाविका नद्या अजिरवत्यास्तीरमपगतपाषाणशर्करकठलं <व्य>वस्था<पया>मासुरुच्छ्रितच्छत्रध्वजपताकं नानापुष्पावकीर्णं गन्धघटिकाधूपितम्। प्रणीतमाहारं कृतवत्तः प्रभूतञ्च पुष्पसंग्रहं कृत्वा नौसंक्रमं पुष्पमण्डपैरलङ्कारयामासुः। भगवतश्च दूतेन कालमारोचयामासुः। समयो भदत्त सज्जं भक्तं यस्येदानीं भगवान्कालं मन्यत इति॥ अथ भगवान्भिक्षुणापरिवृतो भिक्षुसङ्घपुरस्कृतो येन नाविकग्रामकस्तेनोपसंक्रात्त उपसंक्रम्य पुरस्ताद्भिक्षुसङ्घस्य प्रज्ञप्त एवासने न्यषीदत्॥ अथ ते नाविकाः सुखोपनिषणं बुद्धप्रमुखं भिक्षुसङ्घं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयत्ति <संप्रवारयत्ति>। अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्प भगवत्तं भुक्तवत्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतराण्यासनानि गृहीत्वा भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय॥ अथ भगवांस्तेषां नाविकानामाशयानुशयं धातुं प्रकृतिञ्च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वानेकैर्नाविकैः स्रोतआपत्तिफलानि प्राप्तानि कैश्चित्सकृदागामिफलानि कैश्चिदनागामिफलानि कैश्चित्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतं कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि कैश्चित्प्रत्येकबोधौ कैश्चिदनुत्तरायां सम्यक्संबोधौ। सर्वा च सा पर्षद्बुद्दनिम्ना धर्मप्रवणा सङ्घप्राग्भारा व्यवस्थिता॥ ततस्तैर्नाविकैर्भगवान्महता सत्कारेण नौसंक्रमेणोत्तारितः सार्धे भिक्षुसङ्घेन॥
भिक्षवो बुद्धपूजादर्शनादावर्जितमनसो बुद्धं भगवत्तं पप्रच्छुः। कुत्रेमानि भगवतः कुशलमूलानि कृतानीति॥ भगवानाह। तथागतेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि येन तथागतस्यैवंविधा पूजा। इच्छथ भिक्षवः श्रोतुम्॥ एवं भदत्त॥ तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि भागीरथो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स द्वाषष्टार्हत्सहस्रपरिवृतो जनपदचारिकां चरन्गङ्गातीरमनुप्राप्तः॥ तस्मिन्समये ऽन्यतरः सार्थवाहो ऽनेकशतपरिवारो नद्यां गङ्गायां सार्थमुत्तारयति तस्मिंश्च प्रदेशे महत्तस्करभयम्॥ अथ ददर्श सार्थवाहो भागीरथं सम्यक्संबुद्धं द्वाषष्टार्हत्सहस्रपरिवृतं दृष्ट्वा च पुनः चित्तं प्रसादयामास प्रसन्नचित्तश्च भगवत्तमामन्त्रितवान्। तत्प्रथमतरमेव भगवत्तं तारयिष्यामीति॥ अधिवासयति भागीरथः सम्यक्संबुद्धः सार्थवाहस्य तूष्णीभावेन॥ ततस्तेन सार्थवाहेन भागीरथः सम्यक्संबुद्धो द्वाषष्टार्हत्सहस्रपरिवृतो महत्या विभूत्या नौसंक्रमेणोत्तारितः प्रणीतेन चाहारेण संतर्प्यानुत्तरायां सम्यक्संबोधौ प्रणिधानं कृतम्॥
भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तने समयेन सार्थवाहो बभूवाहं सः। मया स भागीरथः सम्यक्संबुद्धो द्वाषष्टार्हत्सहस्रपरिवृतो नौसंक्रमेणोत्तारितः प्रणीतेनाहारेण संतर्पितः प्रणिधानं च कृतम्। तस्य मे कर्मणो विपाकेनानत्तसंसारे महत्सुखमनुभूतमिदानीमप्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्यैवंविधा पूजा। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥