पद्म इति ७
Technical Details
पद्म इति ७॥
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभो राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे॥ यदा भगवाँल्लोके नोत्पन्न आसीत्तदा राजा प्रसेनजित्तीर्थिकदेवतार्चनं कृतवान्पुष्पधूपगन्धमाल्यविलेपनैः। यदा तु भगवाँल्लोके उत्पन्नो राजा च प्रसनेजिद्दहरसूत्रोदाहरणेन विनीतो भगवच्छासने श्रद्धां प्रतिलब्धवांस्तदा प्रीतिसौमनस्यजातस्त्रिर्भगवत्तमुपसंक्रम्य दीपधूपगन्धमाल्यविलेपनैरभ्यर्चयति॥
अथान्यतम आरामिको नवं पद्ममादाय राज्ञः प्रसेनजितो ऽर्थं श्रावस्तीं प्रविशति तीर्थिकोपासकेन च दृष्टः <पृष्ट>श्च। किमिदं पद्मं विक्रीणीषे॥ स कथयत्यामेति॥ स क्रेतुकामो यावदनाथपिण्डदो गृहपतिस्तं प्रदेशमनुप्राप्तः। तेन तस्माद्द्विगुणेन मूल्येन वर्धितम्। ततः परस्परं वर्धमानौ यावच्छतसहस्रं वर्धित<तव>त्तौ। अथारामिकस्यैतदभवत्। अयमनाथपिण्डदो गृहपतिरचञ्चलः स्थिरसत्त्वो नूनमत्र कारणेन भवितव्यमिति। तेन संशयजातेन स तीर्थिकाभिप्रसन्नः पुरुषः पृष्टः कस्यार्थे भवानेवं वर्धत इति। स आह। अहं भगवतो नारायणस्यार्थे इति॥ अनाथपिण्डदाह। अहं भगवतो बुद्धस्यार्थे इति॥ आरामिक आह। क एष बुद्धो नामेति॥ ततो ऽनाथपिण्डदेन विस्तरेणास्य बुद्धगुणा आख्याताः॥ तत आरामिको ऽनाथपिण्डदमाह। गृहपते ऽहं स्वयमेव तं भगवत्तमभ्यर्चयिष्य इति॥
ततो ऽनाथपिण्डदो गृहपतिरारामिकमादाय येन भगवांस्तेनोपसंक्रात्तः। ददर्शारामिको बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैस्समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं सनत्ततो भद्रकम्। सहदर्शनाच्चारामिकेण तत्पद्मं भगवति क्षिप्तम्। ततः क्षिप्तमात्रं शकटचक्रप्रमाणं भूत्वा उपरि भगवतः स्थितम्॥
अथ सारामिकस्तत्प्रातिहार्य दृष्ट्वा मूलनिकृत्त इव द्रुमो भगवतः पादयोर्निपत्य कृतकरपुटश्चेतनां पुष्णाति प्रणिधिं च कर्तुमारब्धः। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके <अनायके> अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥
अथ भगवांस्तस्यारामिकस्य हेतुपरम्परां कर्मपरम्परां च ज्ञात्वा स्मितं प्राविरकार्षीत्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छति काश्चिदुपरिष्टाद्गच्छत्ति। या अधस्ताद्गच्छति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं नि<र>र्बुदमटटं हहवं हुहुवमुत्पलं पद्म महापद्मं नरकान्गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। या उपरिष्ठाद्गच्छति ताश्चातुर्महाराजिकांस्त्रयस्त्रिंशान्यामांस्तुषितान्निमाणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुद्दशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।
आरभध्वं निष्क्रामत पुज्यध्वं बुद्धशासने।
धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥
यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।
प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति इति॥
अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतो ऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतले ऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥
अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।
नानाविधो रङ्गसहस्रचित्रो वक्तात्तरान्निष्कसितः कलापः।
अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥
गाथाश्च भाषते।
विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।
नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥
तत्कालं स्वयमधिगम्य वीर बुद्ध्या
श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।
धीराभिर्मुनिवृष वाग्भिरू<त्तमाभि-
रु>त्पन्नं व्यपनय संशयं शुभाभिः॥
नाकस्माल्लवणजलाद्गिराजधैर्याः
संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।
यस्यार्थे स्मितमुपदर्शयत्ति धीराः
तं श्रोतुं समभिलषत्ति ते जनौघा इति॥
भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यसि त्वमानन्दानेनारामिकेण प्रसादजातेन ममैवंविधां पूजां कृताम्॥ एवं भदत्त॥ एष आरामिको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य पद्मोत्तमो नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्य देयधर्मो यो ममात्तिके चित्तप्रसाद इति॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥