सार्थवाह इति ४
Technical Details
सार्थवाह इति॥४॥
बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागपक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमो महासार्थवाहो महासमुद्राद्रग्रयानपात्र आगतः। स द्विरपि त्रिरपि स्वदेवतायाचनं कृत्वा महासमुद्रमवतीर्णो भग्नयानपात्र एवागतः॥ ततो ऽस्य महान्खेद उत्पन्नः। स इमां चित्तामापेदे। को मे उपायः स्याद्येन धनार्जनं कुर्यामिति। तस्यैतदभवत्। अयं बुद्धो भगवान्सर्वदेवप्रतिविशिष्टतर आत्महितपरहितप्रतिपन्नः कारुणिको महाधर्मकामः प्रजावत्सलः। यन्न्वहमिदानीमस्य नाम्ना पुनरपि महासमुद्रमवतरेयं सिद्वयानपात्रस्त्वागच्छे<यं चे> दुपार्धेन धनेनास्य पूजां कुर्यामिति॥
स एवं कृतव्यवसायः पुनरपि महासमुद्रमवतीर्णो बुद्धानुभावेन च रत्नद्वीपं संप्राप्य महारत्नसंग्रहं कृत्वा कुशलस्वस्तिना स्वगृहमनुप्राप्तः॥ स मार्गश्रमं प्रतिविनोद्य भाण्डं प्रत्यवेक्षितुमारब्धः। तस्य नानाविचित्राणि रत्नाति दृष्ट्वा महांल्लाभोत्पन्नः। चित्तयति च। मया ईदृशानां रत्नानां श्रमणस्य गौतमस्य उपार्धं दातव्यं भविष्यति। यन्न्वहमेतानि स्वस्याः पत्न्या आयसेन कार्षापणद्वयेन विक्रीय भगवतो गन्धं दद्यामिति। स कार्षापणद्वयेनागरु क्रीत्वा जेतवनं गतः। ततो ऽपत्रपमाणनूपो द्वारकोष्ठके स्थित्वागरुं धूपितवान्॥
अथ भगवातद्रूपमृद्व्यभिसंस्कारमभिसंस्कृतवान्येन स धूप उपरि विहायसमभ्युद्रम्य सर्वां च श्रावस्तीं स्फुरित्वा महदभ्रकूटवदवस्थितः। तस्य तदत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा महान्प्रसाद उत्पन्नः। स स्वचित्तं परिभाषितवान्। नैतन्मम प्रतिनूयं स्याद्यदहं भगवत्तं रत्नैर्नाभ्यर्चयेयमिति॥ अथ तेन सार्थवाहेन भगवान्सश्रावकसङ्घो ऽत्तर्निवेशने भक्तेनोपनिमन्त्रितः। ततः प्रणीतेनाहारेण संतर्प्य महारत्नैरवकीर्णः। ततस्तानि रत्नानि उपरि विहायसमभ्युद्गम्य मूर्ध्नि भगवतो रत्नकूटागारो रत्नच्छत्रं रत्नमण्डपश्चावस्थितः यन्न शक्यं सुशिक्षितेन कर्मकारेण कर्मात्तेवासिना वा कर्तु यथापि तद्बुद्धस्य बुद्धानुभावेन देवतानाञ्च देवतानुभावेन॥
अथ सार्थवाहो द्विगुणजातप्रसादस्तत्प्रातिहार्यदर्शनान्मूलनिकृत्त इव द्रुमो भगवतः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके अनायके अपरिणायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥
अथ भगवांस्तस्य सार्थवाहस्य हेतुपरम्परां कर्मपरम्परां च ज्ञात्वा स्मितं प्राविष्कार्षीत्। धर्मता खलु यस्मिन्समये बुद्धा भगवत्तः स्मितं प्राविष्कुर्वत्ति तस्मिन्समये नीलपीतलोहितावदाता <अ>र्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छत्ति काश्चिदुपरिष्ठाद्गच्छत्ति। या अधस्ताद्गच्छत्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं नि<र>र्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकान्गत्वा ये उष्णानरकास्तेषु शीतीभूता निपतत्ति ये शीतनरकास्तेषूष्णीभूता निपतत्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यत्ते। तेषामेवं भवति। किं नु वयं भवत्त इतश्च्युता आहो स्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति। न ह्येव वयं भवत्त इतश्च्युता नाप्यन्यत्रोपपन्ना अपि त्वयमपूर्वदर्शनः सत्त्वो ऽस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णत्ति यत्र सत्यानां भाजनभूता भवत्ति। <या> उपरिष्ठाद्गच्छत्ति ताश्चातुर्महाराजिकांस्त्रायस्त्रिंशान्यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो ब्रह्मकायिकान्ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान्परीत्तशुभानप्रमाणशुभाञ्छुमकृत्स्नाननभ्रकान्पुण्यप्रसवान्बृहत्फलानबृहानतपान्सुदृशान्सुदर्शनानकनिष्ठान्देवान्गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयत्ति गाथाद्वयं च भाषत्ते।
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।
धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥
यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।
प्रहाय जातिसंसारं दुःखस्यातं करिष्यति इति॥
अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवत्तमेव पृष्ठतः पृष्ठतः समनुगच्छत्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति भगवतः पृष्ठतोऽत्तर्धीयत्ते। अनागतं व्याकर्तुकामो भवति पुरस्तादत्तर्धीयत्ते। नरकोपपत्तिं व्याकर्तुकामो भवति पादतलेऽत्तर्धीयत्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्यामत्तर्धीयत्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे ऽत्तर्धीयत्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवतिजानुनो<र>त्तर्धीयत्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले ऽत्तर्धीयत्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले ऽत्तर्धीयत्ते। देवोपपत्तिं व्याकर्तुकामो भवति नाभ्यामत्तर्धीयत्ते। श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽत्तर्धीयत्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायामत्तर्धीयत्ते। अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे ऽत्तर्धीयत्ते॥
अथ ता अर्चिषो भगवत्तं त्रिः प्रदक्षिणीकृत्य भगवत उष्णीषे ऽत्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवत्तं पप्रच्छ।
नानाविधो रङ्गसहस्रचित्रो वक्त्रात्तरान्निष्कसितः कलापः।
अवभासिता येन दिशः समत्ताद्दिवाकरेणोदयता यथैव॥
गाथाश्च भाषते।
विगतोद्घवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।
नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयत्ति जिना जितारयः॥
तत्कालं स्वयमधिगम्य वीर बुद्ध्या
श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानां।
धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-
रुत्पन्नं व्यप<न>य संशयं शुभाभिः॥
नाकस्माल्लवणजलाद्गिराजधैर्याः
संबुद्धाः स्मितमुपदर्शयत्ति नाथाः।
यस्यार्थे स्मितमुपदर्शयत्ति धीराः
तं श्रोतुं समभिलषत्ति ते जनौघा इति॥
भगवानाह। एवमेतदानन्दैवमेतत्। नाहेत्वप्रत्ययमानन्द तथागता अर्हत्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वत्ति। पश्यस्यानन्दानेन सार्थवाहेन ममैवंविधं सत्कारं कृतम्॥ एवं भदत्त॥ एष सार्थवाहो ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येपसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य रत्नोत्तमो नाम सम्यक्संबुद्धो भविष्यति दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च। अयमस्य देयधर्मो यो ममात्तिके चित्तस्याभिप्रसादः॥
इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥