४३.हिरण्यपाण्यवदानम्
Technical Details
४३. हिरण्यपाण्यवदानम्।
सर्वोपकारप्रणयी प्रभावः
सर्वोपजीव्या महती विभूतिः।
पुण्याङ्कुरार्हस्य फलं विशाल-
पलार्हमेतत् प्रथमं हि पुष्पम्॥१॥
जिने जेतवनारामविहाराभिगते पुरा।
श्रावस्त्यां देवसेनाख्यः श्रीमानासीद्गृहाधिपः॥२॥
हिरण्यपाणिस्तस्याभूत्पुत्रः सत्पुत्रमानिनः।
यस्य हेममयं जातं पाणिद्वितयमद्भुतम्॥३॥
रूप्यलक्षद्वयं तस्य प्रातः प्रातः करद्वये।
प्रादुरासीत्स तेनाभूदर्थिनां कल्पपादपः॥४॥
तस्य व्यक्तविवेकेन परिपाकेन भूयसा।
काले कुशलमूलानां जिने भक्तिरजायत॥५॥
अथ जेतवन गत्वा बह्गवन्तं तथागतम्।
स दृष्ट्वा विदधे तस्य सानन्दः पादवन्दनम्॥६॥
भगवानपि संषारतापप्रशमचन्दिकाम्।
सुधासखीं दिदेशास्मै दृशं कुशलवृतिकाम्॥७॥
स शास्तुर्दर्शनेनैव संमोहतिमितोज्झित।
बभासे सुर्यकिरणप्रबुद्धकमलोपमः॥८॥
भगवान् विदधे तस्य ततः सद्धर्मदेशनाम्।
यया धर्ममयं चक्षुरक्षुण्णालोकमुद्ययौ॥९॥
प्राक्पुण्यपरिणामेन जातवैराग्यवासनः।
प्रणम्य विमलप्रज्ञः स सर्वज्ञमभाषतः॥१०॥
शरण्य शरणाप्तस्य भगवन् भवहारिणी।
अशेषक्लेशनाशाय प्रव्रज्या मे विधीयताम्॥११॥
चपलं प्राणिनामायुष्ततोऽपि नवयौवनम्।
विद्युद्विलासचपलास्ततोऽप्येता विभूतयः॥१२॥
इति तस्य ब्रुवाणस्य सुगतानुग्रहोदिता।
पपात वितरजसः प्रव्रज्या वपुषि स्वयम्॥१३॥
रक्तचीवरसुव्यक्तां बिभ्राणः स विरक्तताम्।
पात्रग्रहेण तत्याज पुनः संसारपात्रताम्॥१४॥
तस्य तामद्भुतां सिद्धिं प्रत्यक्षं वीक्ष्यं भिक्षवः।
तत्पूर्ववृत्तं पप्रच्छुर्भगवन्तं स चाब्रवीत्॥१५॥
वाराणस्यां पुरा राजा कृकिर्नाम तथागते।
काश्यपाख्ये भगवति प्रयाति परिनिर्वृतिम्॥१६॥
शरीरमस्य सम्कृत्य स्तूपं रत्नमयं व्यधात्।
स्वर्गावगाहनप्रौढं मूर्तं पुण्यमिवोन्नतम्॥१७॥
तस्मिन्नारोप्यमाणायां यष्टयां पूजापरिग्रहे।
कितवः कन्दलो नाम निदधे रूपकद्वयम्॥१८॥
चित्तप्रसादशुद्धेन तेन पुण्येन भूयसा।
हिरण्यपाणिः प्राप्तोऽद्य महतां स्पॄहणीयताम्॥१९॥
भवति विभवस्त्यागोदारः समग्रगुणो भुवि
प्रसरतिः यशः शुक्लं लोके सुधांशुसहोदरम्।
परिणतिपदे पुण्यं धत्ते यदल्पमनल्पताम्
विमलमनसः श्रद्धाशुद्धं तदेव विजृम्भितम्॥२०॥
इति प्रभावं कथितं जिनेन
पुण्यानुभावस्य हिरण्यपाणेः।
श्रुत्वैव हर्षादरविस्मयानां
स भिक्षुसंघः प्रणयी बभूव॥२१॥
इति क्षेमन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
हिरण्यपाण्यवदानं त्रिचत्वारिंशः पल्लवः॥