३५.घोषीलावदानम्
Technical Details
३५ घोषीलावदानम्।
फलं समानं लभते स दातु-
र्याति क्षणं दानसहायतां यः।
परोपकारप्रणयोद्यतानां
नापुण्यकर्मा सचिवत्वमेति॥१॥
रम्ये पुरा भगवति श्रावस्त्यां जेतकानने।
अनाथपिण्डदारामविहाराधिरते जिने॥ २॥
कौशाम्ब्यां वत्सनृपतिर्बभूवोदयनाभिधः।
गायत्यद्याषि यत्कीर्तिर्विद्याधरवधूजनः॥ ३॥
अभवद्विषये तस्य कर्मान्ताकरजीवनः।
गृहस्थः सुधनो नाम धनाधानविचक्षणः॥ ४॥
नृपः कदाचिंदास्थाने तं कार्यार्थिनमागतम्।
वचसैव परिज्ञाय जगाद् विहितादरः॥ ५॥
जानाम्यहं गृहपते हिरण्योपचितस्वरम्।
विपुलः संचयज्ञस्य सुवर्णनिधिरस्ति ते॥ ६॥
इत्युक्तः सस्मितं राज्ञा स तमूचे कृताञ्जलिः।
सत्यमस्त्येव मे राजन् गृहे काञ्चनसंचयः॥ ७॥
सद्वृत्तचिन्तानिरते देवे वात्सल्यपेशले।
किं वा नास्ति जनास्यास्य पितरि त्वयि गोप्तरि॥ ८॥
धनिनो यान्त्यधनतां निधनं यान्ति चाधनाः।
व्याघ्रताम् याति देद्भूभृदामिषाघ्राणनिर्घृणः॥ ९॥
निःसङ्कैरर्ज्यते वित्तमर्जितं च विभज्यते।
विभक्तं भुज्यते स्पष्टं जनैर्धर्मधने नृपे॥ १०॥
उपपन्नं वचः श्रुत्वा धीमतस्तस्य भूपतिः।
तमूचे दशनोद्योतैः प्रसादं दर्शयन्निव॥ ११॥
मतिमान् कार्यसचिवस्त्वं मे भवितुमर्हसि।
धीधूर्यैस्त्वद्विधैरेव धार्यते धरणीभरः॥ १२॥
इति राजवचः श्रुत्वा शुधनस्तमभाषत।
न् अवयं राजसेवासु सभामण्डलपण्डिताः॥ १३॥
स्वाच्छन्द्योद्यानविच्छेदः सुनिद्रासुखविक्रयः।
सेवा हि पुंसां संसारदुःखदैन्यभयंकरः॥ १४॥
ईश्वरैर्मस्तकन्यस्तचरणः कृतकृत्यताम्।
पादपीठ इवायाति सेवकोऽहं स्थितः सदा॥ १५॥
सेवायासप्रयासेन प्राप्तानामपि संपदाम्।
संभोगः पिशुनासङ्गी प्रभुभ्रूभन्गभङ्गुरः॥ १६॥
एताश्च नावतिष्ठन्ते प्रयत्नेन धृता अपि।
दर्पोग्रदुर्ग्रहग्राहदुर्ग्रहा नृपसंपदः॥ १७॥
क्षणं नवनवाश्लिषविशेषप्रणयोद्यताः।
अवाचवाररमणीरमणीया विभूतयः॥ १८॥
इत्युक्तप्रतिषेधोऽपि स राज्ञा सचिवः कृतः।
अतिक्रामति को नाम प्रभविष्णोः समीहितम्॥ १९॥
प्राप्तप्रौढपदं राज्ञा नीतं सर्वाधिकारिताम्।
विद्वेषदूषिताः सर्वे मन्त्रिणस्तं न सेहिरे॥ २०॥
धर्मजिज्ञासया राज्ञा पिशुनप्रेरितेन सः।
नैवाकरोदसत्कार्यं नियुक्तोऽपि पुन पुनः॥ २१॥
आघातं प्रेक्षितः सोऽथ मिथ्याकोपेन भूभुजा।
तथाप्यधर्मसंयुक्तं न शासनमतन्यत॥ २२॥
एकजन्मसुखायैव बहुजन्मशतार्दितम्।
न साधुनिन्दितं कर्म करोमीति जगाद सः॥ २३॥
भयधर्मोपधाशुद्धः प्रतिमुक्तः स भूभुजा।
दानसत्रमविच्छिन्नमकरोदखिलार्थिनाम्॥ २४॥
सर्वत्र विश्रुते तस्य दानसत्रे यशस्विनह्।
कल्पवृक्षादरः पुंसां परं प्रतनुतां ययौ॥ २५॥
अत्रान्तरे मुनिगणास्तीर्थार्था दक्षिणापथात्।
आगता कृच्छ्रकान्तारमविशन् निर्जनं वनम्॥ २६॥
तत्र तृष्णातुराः सर्वे मूऱ्च्छिताः शयनाश्रिताः।
अयाचन्त जलं मोहादुच्चैद्योऽत्र दयाम्बुधिः।
स्थितः प्रयच्छतु जलं सोऽस्माकमिति तेऽब्रुवन्॥ २८॥
ततः स रत्नकेयूरक्कनत्कङ्कणसद्ध्वनिः।
भुजस्थमेमभृङ्गारस्तरुमध्याद्विनिर्ययौ॥ २९॥
ते तस्मादमृतास्वादं पाणिपद्मावनामितात्।
आकण्ठं सलिलं पीत्वा जहृषुर्लब्धजीविताः॥ ३०॥
प्रार्थितः पुनरभ्येत्य पप्रच्छुस्ते सविस्मयाः।
अदृश्यवृक्षनिलयादुद्भूतं को भवानिति॥ ३१॥
सोऽब्रवीद्विश्रुतयशाः श्रावस्त्यामाशयः श्रियः।
अनाथपिण्डदो नाम सर्वदोऽस्ति गृहाधिपः॥३२॥
सौचिकेन मया पूर्वं तद्गृहान्तिकवासिना।
भुजमुद्यभ्य तद्वेश्म दर्शितं नित्यमर्थिनाम्॥ ३३॥
तेन पुण्येन देवत्वं प्राप्तोऽत्र विहराम्यहम्।
बाहुर्मम् विभात्येष दक्षिणः सोऽर्थिदक्षिणः॥ ३४॥
ते तमामन्त्र्य मुनयः पुनः संप्रस्थिता वने।
क्षुधिताः स्निग्धसच्छायं ददृशुः पादपं परम्॥ ३५॥
तमप्युच्चैरयाचन्त भोजनं तद्वदेव ते।
उच्चचार च गम्भीरा वाणी विस्मयकारिणी॥ ३६॥
अत्र पुष्करिणीतीरे द्रोण्यां दिव्यान्नभोजनम्।
संपूर्णमस्ति तद्गत्वा भुज्यतां यदभीप्सितम्॥ ३७॥
इति तेन समादिष्टं भुक्त्वा ते दिव्यभोजनम्।
को भवनिति पप्रच्छुस्तं दिव्यतरुसंश्रयम्॥ ३८॥
सोऽप्याचचक्षे श्रावस्त्यां गृहस्थोऽनाथपिण्डदः।
अस्ति तस्याहमभवं ब्राह्मणः संघहोजने॥ ३९॥
चतुरः परिचर्यायां दधिकुम्भप्रचारकः।
तद्भोजनान्ते संप्राप्ते स्वल्पशेषान्नभोजनः॥ ४०॥
भिक्षुणां गौरवेच्चारं दृष्ट्वाहं राजभोजनम्।
आत्मनश्चान्नमक्षारमभवं खिन्नमानसः॥ ४१॥
अनाथपिण्डदगिरा भोजने गौरवाशया।
ततो मयाष्टाङ्गयुक्तं गृहीतं पोषधं व्रतम्॥ ४२॥
असमाप्तव्रतेनाथ भुक्तं लौल्यान्मया निशि।
तेनाहमभवं लोके विज्ञातः खण्डपोषधः॥ ४३॥
खण्डेनापि व्रतेनाहं देवपुत्रत्वमागतः।
इति ते तद्वचः श्रुत्वा मुनयो विस्मिता ययुः॥ ४४॥
अचिन्तयन् व्रजन्तस्ते तीव्रेण तपसा वयम्।
सुचिरं केवलं क्लिष्टां नाद्यापि कुशलस्पृशः॥ ४५॥
अधुना पोषधं प्राप्तुं व्रतमेव यतामहे।
निरपायसुखोपाये स्वहिते कस्य नादरः॥ ४६॥
इति संचिन्तयन्तस्ते कौशाम्बीमभितो गताः।
सुधनस्य गृहं प्रापुर्विश्रुतं गृहमेधिनः॥ ४७॥
तत्र तेन कृतातिथ्या निवेद्यास्मै तदद्भुतम्।
अनाथपिण्डदं द्रष्टुं तेनैव सहिता ययुः॥ ४८॥
श्रावस्त्याम् ते समासाद्य पूजितास्तेन सादरम्।
अस्मै न्यवेदयन् सर्वं यथादृष्टं यथाश्रुतम्॥ ४९॥
स तान् व्रतार्थिन सर्वान् सुहृदं सुधनं च तम्।
निनाय धर्मसचिवः प्रीतो भगवतोऽन्तिकम्॥ ५०॥
भगवानपि तद्वाक्याच्चक्रे तेषामनुग्रहम्।
सत्यदर्शनसंबुद्धा येन ते सुगतिं ययुः॥ ५१॥
तेषु यातेषु सुधनं पक्षपाताद्रया दृशा।
विलोक्य भगवान् सम्यग् विदधे ज्ञानभाजनम्॥ ५२॥
सत्यसंदर्शनावाप्तविशेषकुशलोदयः।
गत्वा जिनाय कौशाम्ब्याम् स विहारमकारयत्॥ ५३॥
यस्माद्भगवतादिष्टस्तस्मिन् यातः सहायताम्।
भिक्षुश्चुन्दाभिधस्तस्मात् सोऽभूच्चुन्दविहारभूः॥ ५४॥
राधाभिधा तदा दासी विहारपरिचारिका।
दयया भगवानस्याः शीर्णवस्त्रं समग्रहीत्॥५५॥
अदासी स्यामिति श्रद्धाप्रणिधानार्पितस्तया।
स चीवरो भगवतः प्रययावेकवर्णताम्॥ ५६॥
सुधनस्योज्ज्वलं दृष्ट्वांपुण्यसंभारमद्भुतम्।
भिक्षुभिर्भगवान् पृष्टस्तत्पूर्वोदयमभ्यधात्॥ ५७॥
सुन्धानाख्यो गृहपतिर्वाराणस्यामभूत्पुरा।
नोदारकुज़्न्जरस्याभूद् यस्य दानपरिक्षयः॥ ५८॥
अनावृष्टिहते काळे तस्य द्वादशवार्षिके।
अवारितमभूच्छत्रमविच्छिन्नान्नमर्थिनाम्॥ ५९॥
तस्य पद्माकरो नाम कोषागारपतिर्गृहे।
दानसाहाय्यकं चक्रे सहस्था हि समृद्धयः॥ ६०॥
प्रत्येकबुद्धसंघस्य भक्तकालनिवेदकह्।
धर्मदूताभिधस्तस्य मन्त्री धीमानपस्थितः॥ ६१॥
कर्मव्याक्षेपतस्तस्य जाते कालव्यतिक्रमे।
कदाचित् कुकुरस्तेषां कालसंज्ञां व्यधात्पुरः॥ ६२॥
सुन्धानोऽद्य स एवाहं कोष्ठिकोऽनाथपिण्डदः।
संघस्य धर्मदूतो यः स एवोदयनो नृपः॥ ६३॥
संज्ञानिदेशको यश्च कुकुरः सुधनोऽपि सः।
राज्ञा घोषेण विज्ञातो घोषिलापरनामभृत्॥ ६४॥
चरितमित्युचितं भवभेदिना
भगवता कथितं किल भिक्षवः।
सुकृतसौरभसारसुधारसं
सुमनसा श्रवणाञ्जलिभिः पपुः॥ ६५॥
इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां
घोषिलावदानं पञ्चत्रिंशः पल्लवः॥