१६.मैत्रेयव्याकरणावदानम्
Technical Details
१६ मैत्रेयव्याकरणावदानम्।
असंगमो नाम विशुद्धिधामो
श्रेयांसि सूते कुशलाभिकामः।
संसारवामः सुकृताभिरामो
मनोमलैर्वैररजोविरामः॥ १॥
पुरा गङ्गां समुत्तीर्य नागानां फणसेतुना।
भगवान् सुगतः पारंप्राप्य भिक्षूनभाषत॥ २॥
इह रत्नमयः पूर्वं यूपोऽभूदद्भुतद्युतिः।
दर्शयांइ तमत्रैव द्रष्टुं वः कौतुकं यदि॥ ३॥
इत्युक्त्वा भगवान् भूमौ पाणिना दिव्यलक्ष्मणा।
स्पृष्ट्वा नागगणोत्क्षिप्तं रत्नयूपदर्शयत्॥४॥
तं दृष्ट्वा भिक्षवः सर्वे निर्निमेषेक्षणाश्चिरम्।
बभूवुश्चित्रलिखिताम् इव निश्चलविग्रहाः॥५॥
तत्कथामथ तैः पृष्टः प्रोवाच भगवान् पुनः।
अतीतानागतज्ञानं दन्तालोकैः किरन्निवः॥ ६॥
देवपुत्रः पुरा कश्चित् काले स्वर्गपरिच्युतः।
महाप्रणादनामाभून्नृपतिः शक्रशासनात्॥ ७॥
धर्मवृत्तानुसरणस्मरणाय महीतले।
उचितं लक्षणं किंचित् स ययाचे शतक्रतुम्॥ ८॥
ततः सुरपतेर्वाक्याद्विश्वकर्मा तदालये।
भास्वरं विदधे रत्नयूपं पुण्यमिवोन्नतम्॥ ९॥
ततस्तद्दर्शनासक्ते जने कौतुकनिश्चले।
कृष्यादिकर्मण्युच्छिन्ने राग़्यः कोषक्षयोऽभवत्॥ १०॥
ततस्तेन क्षितिभुजा क्षिप्तोऽयं जाह्नवीजले।
तिष्ठत्यद्यापि पाताले रत्नैः सूर्यैरिवाचितः॥ ११॥
भविष्यत्यस्य कालेन परिच्छिन्नः परिक्षयः।
न तज्जगति नामास्ते परिणामे यदक्षयम्॥ १२॥
आगामिसमये पुंसां वर्षाशीतिसहस्रके।
शङ्खशुभ्रयशाः शङ्खो नाम राजा भविष्यति॥ १३॥
पुण्यलब्धमिमं यूपं ऱ्पः कल्पद्रुमोपमः।
स पुरोहितपुत्राय मैत्रेयाय प्रदास्यति॥ १४॥
मैत्रेयोऽप्यन्मुमादाय कृत्वा सपदि खण्डशः।
अर्थिचिन्तामणिर्लोकमदरिद्रं करिष्यति॥ १५॥
यूपं दत्वाथ मैत्रेयः सम्यक्संबुद्धताम् गतः।
अनुत्तरज्ञाननिधिर्भविष्यति सुरार्चितः॥ १६॥
शङ्को राजा सहस्राणामशीत्या परिवारितः।
सान्तःपुरामात्यगणो राजापि प्रव्रजिष्यति॥ १७॥
प्राग्जन्मप्रणिधानेन शङ्खस्य कुशलोदयः।
कृतस्यावश्यभोग्यत्वात्परिणामे फलिष्यति॥ १८॥
मध्यदेशे पुरा राजा वासवो वासवोपमः।
धनसंमतनामा च नृपोऽभूदुत्तरापथे॥ १९॥
तयोर्विभवसंघर्षो भूतो वैराग्नितप्तयोः।
अभूद् युद्धसमारम्भसंभाररभसं मनह्॥ २०॥
नगरं च प्रविश्याथ समेत्य धनसंमतः।
चक्रे गरजथानीकैर्गङ्गातीरं नीरन्तरम्। २१॥
तत्र रत्नशीखी नांअ सम्यक्संबुद्धताम् गतः।
दृष्टस्तेनार्च्यामानाङ्घ्रिर्ब्रह्मशक्रादिभिः सुरैः॥ २२॥
सोऽचिन्तयदहो राजा वासवः पृथिपुण्यवान्।
विषयान्ते वसत्येष् अयो हि त्रिदशवन्दितः॥ २३॥
ततस्तस्यानुभावेन तत्र भूपालयोस्तयोः।
ययौ वैररजः शान्त्या मिथ्यामोहपरिक्षयम्॥ २४॥
कॄतसंघिः परेणाथ वासवः पृथिवीपतिः।
भगवन्तं समभ्येत्य सर्वभोगौरपूजयत्॥ २५॥
प्रणिधानं च विदधे पूजान्ते प्रणमामि तम्।
अहं कुशलमूलेन स्यामेतेन महानिति॥ २६॥
अस्मिन्नवसरे घोरे शन्खशब्दे समुद्गते।
प्रोवाच तं रत्नशिखी प्रणतं पुरतः स्थितम्॥ २७॥
शन्खो नाम महीपालश्चक्रवर्ती भविष्यसि।
पर्यन्ते बोधियुक्तश्च कुशलं समावाप्स्यसि॥ २८॥
एवं सत्प्रणिधानतह् क्षितिपतिः पुण्योदयाद्वासवः
शङ्खो नाम नृप स रत्नशिखिनादिष्टः श्रियं प्राप्स्यति।
मैत्रेयः प्रणयात्करिष्यति तथा बोधौ विशुद्धां धियं
कल्याणाभिनिवेशपुण्यतरणिराड्य हि सत्संगमः॥ २९॥
इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां
मैत्रेयव्याकरणावदानं नाम षोडशः पल्लवः॥