Digital Sanskrit Buddhist Canon

भगवत्स्तुतिः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    2017
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

भगवत्स्तुतिः

 

प्रणिधाय मनः सहेन्द्रियैर्विधिवद्
वाक् च शरीरमेव च।

गुणभूत महागुणोदधेस्तव
वक्ष्यामि गुणैकदेशताम्॥१॥

 

परमप्रवरोऽस्मि
वादिनामनवद्यः सुसमाहितेन्द्रियः।

परमार्थविदप्रकम्पितः
प्रयतैः सर्वपरप्रवादिभिः॥२॥

 

चरणं सुसमाप्तमेव
ते सुसमाप्तव्रत साधितव्रतः।

बलवांश्च समाधिरव्ययस्तव
नारायणशैलराजवत्॥३॥

 

पुरुषऱ्षभ नास्ति
ते व्यथा न विषादो न भयं न च क्लमः।

न च ते व्यसनं कुतः
कलिर्न च भूतेषु कदाचिदक्षमा॥४॥

 

न च धावसि नातिलीयसे
न च सन्तप्यसि नापि हृष्यसे।

सततं शुभमेव ते
मनः सततं मेरुरिवाचलाधिपः॥५॥

 

मुनिपुंगव सर्वधातुभिर्विपुलं
ज्ञानमपावृतं तव।

अपराहतमक्षयव्ययं
विविधेष्वायतनेषु वर्तसे॥६॥

 

न च तेऽस्ति मुने
कथं कथा विमतिर्नास्ति न संशयः क्वचित्।

स्वयमेव न ते परापरं
विदितं सर्वमवेदि विद्यया॥७॥

 

प्रियदर्शनसाधुदर्शनप्रियसाधुप्रियपण्डितप्रियः

सममेव हि ते प्रियाप्रियं
सततं प्रीतिकरस्तथेर्यसे॥८॥

 

मधुरप्रतिभानवानसि
स्मितवाक्यः स्मृतमान् विशारदः।

विविदानुमतं प्रभाषसे
त्रिषु लोकेषु च ते स्तृतं यशः॥९॥

 

नृसुरासुरयक्षराक्षसा
बहवस्त्वामिह लोकपण्डिताः।

उपगम्य मुने पुनः
पुनः परिपृच्छान्ति न चाभिषूयसे॥१०॥

 

स्ववचः परितोषितास्त्वया
नरदेवाः सुरयक्षराक्षसाः।

प्रतियान्ति विनीतसंशयाश्चरणौ
वन्द्य च ते महामुनि॥११॥

 

स्थितमासितमागतं
गतं शयितं मौनमथाभ्युदीरितम्।

अथ चीवरपात्रधारणं
रुचिरं गौतम सर्वमेव ते॥१२॥

 

अविलम्बितमद्रुतं
समं स्वरमाधुर्यगुणैः समन्वितम्।

वचनं पुनरुक्तवर्जितं
समये व्याहरसे नरोत्तम॥१३॥

 

बलवानसि लोकविश्रुतः
पुरुषज्ञः पुरुषर्षभः प्रभुः।

न च मन्यसि नावमन्यसे
सकलं लोकमिमं सदैवतम्॥१४॥

 

न च विस्मयसे कदाचन
प्रकृतिस्थेषु चलाचलेषु च।

सुहृदेषु [] दुर्हृदेषु च प्रतिकूलेष्वनुलोमवत्सु
च॥१५॥

 

परिदेव्यमदीननिस्वनं
स्रुतलालार्पितसन्निनादितम्।

परिदाहविदाहसंयुतं
भयरोगज्वरशोककर्षितम्॥१६॥

 

प्रसमीक्ष्य जगत्
समाकुलं विविधैर्दुःखशतैरुपद्रुतम्।

चिररात्रमनाथमुत्सुकं
भवतृष्णाप्रसृतं तमोवृतम्॥१७॥

 

अवतार्य मुनेर्महाकृपां
विविधां चात्मगतां प्रभावताम्।

स्वयमेव हि शाक्यपुङ्गव
व्यथितान्मोचयितुं त्वयोच्यते॥१९॥

 

अतिवीर्य महाविनायकप्रवराणामनुवादिनां
वर।

न च ते सदृशः कुतोऽधिकस्त्रिषु
लोकेष्वपि नैव विद्यते॥२०॥

 

प्रतिघानुनया न
सन्ति ते न च ते सन्ति मुनि परिस्रवाः।

अनुरोधविरोधविग्रहाः
सततं सुव्रत नैव नैव ते॥२१॥

 

अपहाय मुने प्रियाप्रिये
सुखदुःखे वि
[षमं समं तथा]

अरतिं च रतिं विपर्ययन्नुपशान्तश्चरसीह
संयतह्॥२२॥

 

व्यसने न च नाम
निर्मना न च नामोन्नमसे प्रशंसया।

अयशश्च यशश्च ते
समं सममाक्रुष्टमथापि वन्दितम्॥२३॥

 

अतिवाक्यमथो तितिक्षसे
परुषं पापजनैरुदीरितम्।

समराग्रगतो विषाणवान्
भृशमुक्तानिव कुञ्जरः शरान्॥२४॥

 

सुवचस्त्वमृषि वचः
क्षमः सुदुरुक्तेष्वपि नाभिषूयसे।

सममेव च वर्त्तसे
मुने परिभाषासु शुभासु वाक्षु च॥२५॥

 

सततं च वरार्ह पूज्यसे
नरदेवासुरयक्षराक्षसैः।

ऋषिभिश्च सदा महात्मभिर्न
च ते विक्रियते स्थिरं मनः॥२६॥

 

प्रवरोऽहमितो न
मन्यसेऽत्यवरोऽहमितो न मन्यसे।

सदृशोऽहमितो न मन्यसे
त्रिविधा मानविधा न सन्ति ते॥२७॥

 

धृतिमान् समलोष्टकाञ्चनः
समवैडुर्यकठल्लशर्करः।

तृणकाष्थसमं महामुने
चरसीदं हि सदेवकं जगत्॥२८॥

 

हिमभास्कररश्मिसंगमाच्छिशिरोष्णं
पवनं समुद्वहन्।

अधिवासयसे नगेन्द्रवन्न
च ते प्रव्यथते स्थिरं मनः॥२९॥

 

शयनासनपानभोजनं
विविधं चीवरमुत्तराधरम्।

अधिवासयसे नगेन्द्रवन्न
च ते प्रव्यथते मुने निरास्रवम्॥३०॥

 

न ह शोचासि नाथ
नास्ति मे न च ते सन्ति मुने परिग्रहाः।

असितोऽसि सुवाक्यनिर्मम्ः
परिमुक्तो विविधैरुपद्रवैः॥३१॥

 

न च लाभमवाप्य हृष्यसे
तदलाभाच्च लयं न गच्छसि।

अवमानमथो तितिक्षसे
न च सम्मानमिहभिनन्दसि॥३२॥

 

क्षतजोपममग्रचन्दनं
सुरभूमन्दरसानुसम्भवम्।

असयो निशिताः शराश्च
ते न विकुर्वन्ति मनः कदाचन॥३३॥

 

न कथां कथयस्यनर्थिकां
न च या दुर्जनसेविता कथा।

[च लाभकथा न] सामिषा न च या
नानुमता महात्मभिः॥३४॥

 

प्रविवेककथाः सुखावहाः
प्रशमं प्रवदन्ति केवलम्।

कथयस्यतिदेवताः
कथाः कथिता या विनयन्ति किल्विषम्॥३५॥

 

मधुराणि च सङ्गतानि
च स्वभिनीतानि च सारवन्ति च।

वचनानि मुने प्रभाषसे
जगदर्थाय विनिष्चितानि च॥३६॥

 

अबुधा विपरीतदर्शनाश्चपलाः
साहसिकाः प्रियन्विताः।

पिशुनाः परुषा शठाश्च
ये भगवंस्तैः सह सङ्गतं न ते॥३७॥

 

अशठा ऋजवश्च ये
नराः शुचयः सत्यरता जितेन्द्रियाः।

सततं च समीक्ष्यकारिणो
भगवंस्तैः सह सङ्गतं तव॥३८॥

 

धर्मज्ञ नयज्ञ पुद्रलज्ञ
त्वां वन्दे षडभिज्ञ सर्वदैव।

क्षेत्रज्ञ मुने
परापरज्ञ त्वां वन्दे शिरसा नयानयज्ञ॥३९॥

 

पृथुमपि समीक्षते
गुणं
[तव] परिकथितो हि माअ गुणैकदेशः।

न तव गुणमहार्णवस्य
पारं जगति पुमानधिगन्तुमार्य शक्तः॥४०॥

 















































































































































































































































[इति भगवत्स्तुतिः॥]

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project