अभिसम्बोधिक्रमः चतुर्थः
Technical Details
[४]
अभिसम्बोधिक्रमः चतुर्थः
नमः श्रीवज्रसत्त्वाय
वज्रसत्त्वं नमस्कृत्य सर्वशून्योपदेशकम्।
चतुर्थो ह्याभिसम्बोधिक्रमोऽयं वक्ष्यते मया॥१॥
असौ स्वयम्भूर्भगवान् एक एवाधिदैवतः।
उपदेशप्रदानात् तु वज्राचार्योऽधिकस्ततः॥२॥
तत्समाराधनं कृत्वा वर्षं मासमथापि वा।
तस्मै तुष्टाय गुरवे पूजां कुर्यात् तु शक्तितः॥३॥
यथास्वभावतो मुद्रां निवेद्यास्मै सुशिक्षिताम्।
गणमण्डलमध्ये तु कुर्यात् पूजां यथाविधि॥४॥
ततस्तुष्टो महायोगी पञ्चकामोपभोगतः।
आलोकस्योदयं कुर्यात् समापत्तिविधानतः॥५॥
कलशादौ सुसंस्थाप्य बोधिचित्तं प्रयत्नतः।
अर्धरात्रे चाभिसिञ्चेत् सुशिष्यं कृपया गुरुः॥६॥
अभिषेकं तु सम्प्राप्य प्रत्यूषमये पुनः।
सम्पूज्याराधयेत् स्तोत्रैर्गुरुं शिष्यं कृताञ्जलिः॥७॥
त्रैधातुकविनिर्मुक्त आकाशसमतां गतः।
नोपरिष्यसि कामेषु निरालम्ब नमोऽस्तु ते॥८॥
अनिःश्रितोऽसि स्कन्धेषु धातुष्वायतनेषु च।
विपर्यासविनिर्मुक्त निरालम्ब नमोऽस्तु ते॥९॥
अविकल्पितसङ्कल्प अप्रतिष्ठितमानस।
अचिन्त्यमनसिकार निरालम्ब नमोऽस्तु ते॥१०॥
अनालयं यथाकाशं निष्प्रपञ्चं निरञ्चनम्।
आकाशसमचित्तोऽसि निरालम्ब नमोऽस्तु ते॥११॥
द्रष्टुकामोऽभिसम्बोधिं सर्वशून्यस्वभाविकाम्।
स्तुत्वा कृताञ्जलिः शिष्यो गुरं सञ्चोदयेत् पुनः॥१२॥
प्रयच्छ मे महानाथ अभिसम्बोधिदर्शनम्।
कर्मजन्मविनिर्मुक्तम् आभासत्रयवर्जितम्॥१३॥
प्रयच्छ मे महाचार्य वज्रज्ञानमनुत्तरम्।
सर्वबुद्धमहाज्ञानं सर्वताथागतालयम्॥१४॥
प्रयच्छ मे महावज्र कायवाक्चित्तशोधनम्।
अनादिनिधनं शान्तं सर्वक्लेशविशोधनम्॥१५॥
एवमाराधितो योगी सद्भूतगुणकीर्तनैः।
शिष्ये कारुण्यमुत्पाद्य क्रममेवमथारभेत्॥१६॥
आलोको रात्रिभागः स्फुटरविकिरणः स्याद् दिवालोकभासः।
सन्ध्यालोकोपलब्धः प्रकृतिभिरसकृद् युज्यते स्वाभिरेतत्।
नो रात्रिर्नापि सन्ध्या न च भवति दिवा यः प्रकृत्या विमुक्तः
स स्याद् बोधिक्षणोऽयं वरगुरुकथितो योगिनामेव गम्यः॥१७॥
नैशं ध्वान्तं विनष्टं व्यपगतमखिलं सान्ध्यतेजस्तु यस्मिन्
भास्वान्नोदेति यावत् क्षण इह विमले दर्शयेद् भूतकोटिम्।
शिष्यायाचार्यमुख्यो विनिहततिमिरो बाह्यसम्बोधिदृष्ट्या
प्राप्नोत्यध्यात्मसौख्यं व्यपगतकलुषं बुद्धबोधिं क्षणेन॥१८॥
अनादिभूतं त्वथवादिभूतं
अमध्यभूतं त्वथ मध्यभूतम्।
अनन्तभूतं त्वथवान्तभूतं
तत् सर्वशून्यं प्रवदन्ति सन्तः॥१९॥
गमनागमनं च यत्र नास्ति
क्षयवृद्धी न चाप्यभावभावौ।
अतिविस्मयरूपम् अरूप्यविस्मयं
स्थितिमन्नापि न चापि गत्वरम्॥२०॥
यदस्ति-नास्तिव्यवहारमुक्तं
न पुण्यरूपं न च पापरूपम्।
न पुण्यपापात्मकमग्रभूतं
तत् सर्वशून्यं प्रवदन्ति बुद्धाः॥२१॥
एवंविधं तत्त्वमवाप्य योगी
चराचरात्मा जगदेकबन्धुः।
यः पर्यटेज्ज्ञानमयो नृसिंहः
कृत्स्नं जगत् सोऽव्ययकायलाभी॥२२॥
स जिह्यकायोऽप्यविजिह्यकायः
सोऽनासनोऽप्यासनबन्धधीरः।
समीलिताक्षोऽपि विबुद्धनेत्रः
समाहितः सन्न समाहितौऽसौ॥२३॥
स वाग्युतो वागसमन्वितोऽपि
भोगान्वितः सोऽपि विरुपवृत्तिः।
स लोकनाथः परभृत्यभूतो
यस्तत्त्ववित् क्षीणसमस्तदोषः॥२४॥
प्राप्तोपदेशकः शिष्यो द्विधा योगमथाभ्यसेत्।
पिण्डग्राहक्रमेणैव तथा चैवानुभेदतः॥२५॥
शिरसः पादतो चापि यावद्धृदयमागतः।
भूतकोटिं विशेद् योगी पिण्डग्राह इति स्मृतः॥२६॥
स्थावरं जङ्गमं चैव पूर्वं कृत्वा प्रभास्वरम्।
पश्चात् कुर्यात् तथाऽऽत्मानम् अनुभेदक्रमो ह्ययम्॥२७॥
श्वासवातो यथाऽऽदर्शे लयं गच्छति सर्वतः।
भूतकोटिं तथा योगी प्रविशोच्च मुहुर्मुहुः॥२८॥
गच्छंस्तिष्ठन् स्वपन् भुञ्जन्नुन्मिषन् निमिषन् हसन्।
अनेन ध्यानयोगेन सदा तिष्ठति तत्त्ववित्॥२९॥
सत्त्वार्थोऽपि कदाचित् स्यात् तत्तत्सारूप्यरश्मिना।
वायुविज्ञानयुक्तेन स्वाधिष्ठानक्रमेण तु॥३०॥
यथा नदीजलात् स्वच्छान्मीनमुत्तिष्ठते द्रुतम्।
सर्वशून्यात् तथा स्वच्छान्मायाजालमुदीर्यते॥३१॥
पञ्चबुद्धकुलायत्ता महामुद्रादिकल्पना।
पञ्चरश्मिसमुच्छ्रेया गगने शक्रचापवत्॥३२॥
मुद्राबन्धं प्रकुर्याद् वा मन्त्रं चापि जपेद् यदि।
सर्वमन्यत् प्रकुर्याच्च सर्वशून्यपदे स्थितः॥३३॥
सर्वभुक् सर्वपश्चैव सर्ववन्दी च सर्वगः।
सर्वकृत् सर्वलिङ्गी च सर्वशून्येन सिध्यति॥३४॥
प्राप्तोपदेशः सुभगः सुशिष्यो
बौधौ हि चित्तं परमार्थनाम।
गुरोः सकाशात् पुनराददीत
कृताञ्जलिर्धारितपुष्पहस्तः॥३५॥
सर्वभावविगतं स्कन्धधात्वायतनग्राह्यग्राहकवर्जितं धर्मनैरात्म्यसमतया स्वचित्तम् आद्यनुत्पन्नं शून्यतास्वभावमिति।
ततस्तु गुरवे दद्याद् दक्षिणां त्वनुरूपतः।
रत्नं गृहं वा हस्त्यश्वं ग्रामं वा शयनासनम्॥३६॥
दासं दासीं प्रियां भार्यां पुत्रीं चाप्यतिवर्णभाम्।
आत्मानं चापि यद्दद्यात् किमन्यदवशिष्यते॥३७॥
प्राप्ताचार्यप्रसादो विमलदृढमतिः सर्वभावस्वभावः
स्वच्छं शुद्धं सुसूक्ष्मं परमशिवमयं बुद्धनिर्वाणधातुम्।
निर्द्वन्द्वं निर्विकल्पं सततसुखमयं भावयेत् तत्त्वयोगी
पुण्यापुण्याद् विमुक्तः स्वयमिह भगवान् जायते वज्रसत्त्वः॥३८॥
॥परमरहस्यसुखाभिसम्बोधिक्रमश्चतुर्थः समाप्तः॥
कृतिरियम् आचार्यनागार्जुनपादानाम्। ग्रन्थप्रमाणमस्य श्लोकाश्चत्वारिंशत्।