Digital Sanskrit Buddhist Canon

आर्यप्रतीत्यसमुत्पादो नाम महायानसूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Āryapratītyasamutpādo nāma mahāyānasūtram
आर्यप्रतीत्यसमुत्पादो नाम महायानसूत्रम्।



एवं मया श्रुतम्। एकस्मिन् समये भगवान् त्रायस्त्रिंशानां देवानां मध्ये विहरति स्म पाण्डुकम्बलकल्पे शिलातले जिताश्वादिमहाश्रावकैः आर्यमैत्रेयावलोकितेश्वरवज्रहस्तादिभिर्बोधिसत्त्वैर्महासत्त्वैः अप्रमेयगुणरत्नालंकृतैः महाब्रह्मसहांपतिनारायणमहेश्वरादिभिर्देवैः शक्रेण देवानामिन्द्रेण गन्धर्वराजेन पञ्चशिखेन च सार्धम्। अथावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः उत्थायासनात् एकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुं मेरुपृष्ठेऽवष्टभ्य येन भगनान् तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्-एते हि भगवन् देवाः चैत्यनमस्क्रियामण्डनाः एतत्परिषन्मण्डलपतिताः कथमपि ब्रह्मचर्यपुण्यप्रसवाः सदेवके समारके सब्रह्मके लोके सश्रमणब्राह्मणप्रजासु भिक्षवो भिक्षुण्यः उपासकोपासिकाः सुबहुलपुण्यप्रसवाः भगवतो धर्मदेशनां याचन्ते इति। तदा भगवांस्तेषां प्रतीत्यसमुत्पादगाथामवोचत् -

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।

तेषां च यो निरोध एवं वादी महाश्रमणः॥

यदिदमवलोकितेश्वर अयं प्रतीत्यसमुत्पादस्तथागतानां धर्मकायः। यः प्रतीत्यसमुत्पादं पश्यति, स तथागतं पश्यति। यश्च अवलोकितेश्वर कुलपुत्रः कुलदुहिता वा श्रद्धासमन्वितः अप्रतिष्ठिते पृथिवीप्रदेशे आमलकमात्रं चैत्यं सूचीमात्रं बोधिवृक्षं बकुलपुष्पमात्रं छत्रं कृत्वा प्रतीत्यसमुत्पादधर्मधातुगाथां पठति, स ब्राह्मं पुण्यं प्रसवति। इतः प्रच्याव्य मरणकालं कृत्वा ब्रह्मलोके उत्पद्यते। ततः प्रच्याव्य कालं कृत्वा शुद्धावासकायिकानां देवानां सभागतायामुत्पद्यते॥

एवमवोचद्भगवान्। स र्वे च ते श्रावकाः, ते च बोधिसत्त्वा महासत्त्वाः, सर्वावती च सा पर्षत्, सदेवमनुष्यासुरगन्धर्वलोकश्च भगवतो भाषितमभ्यनन्दन्॥



आर्यप्रतीत्यसमुत्पादो नाम महायानसूत्रम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project