Digital Sanskrit Buddhist Canon

अपरिमितायुः नाम महायान सूत्र

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Aparimitāyuḥ nāma mahāyāna sūtram
अपरिमितायुः नाम महायान सूत्र

एवं मया श्रुतम्। एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवने अनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः संबहुलैश्च बोधिसत्त्वैर्महासत्त्वैः॥ [1]

तत्र खलु भगवान् मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीरुपरिष्टायामपरिमितगुणसंचयो नाम लोकधातुस्तत्रापरिमितायु[र्]ज्ञानसुविनिश्चिततेजोराज नाम तथागतो ऽर्हन् सम्यक्संबुद्ध एव हि तिष्ठति ध्रियते यापयति सत्त्वानां च धर्मं देशयति। [2]

शृणु मञ्जुश्रीः कुमारभूत, इमे जाम्बुद्वीपका मनुष्या अल्पायुष्का वर्षशतायुषस्;तेषां बहून्यकालमरनानि निर्दिष्टानि। ये खलु मञ्जुश्रीः सत्त्वास्तस्यापरिमितायुषः तथागतस्य गुणवर्णपरिकीर्तन नाम धर्मपर्यायं लिखिष्यन्ति लिखापयिष्यन्ति नामधेयमात्रमपि श्रोष्यन्ति यावत् पुस्तकागतामपि कृत्वा गृहे धारयिष्यन्ति वाचयिष्यन्ति पुष्प-धूप-गन्ध-माल्य-विलेपन-चूर्ण-चीवर-च्छत्र-ध्वज-घण्टा-पताकाभिश्च समन्तात् पूजाभिः पूजयिष्यन्ति ते परिक्षिनायुषः पुनरेव वर्षशतायुषो भविष्यन्ति। ये खलु पुनर्मञ्जुश्रिः सत्त्वास्तस्यापरिमितायुर्ज्ञानसुविनिश्चिततेजोराजस्य तथागतस्य नामाष्टोत्तरशतं श्रोष्यन्ति धारयिष्यन्ति वाचविष्यन्ति, तेषां आयुर्वर्धयिष्यति; ये परिक्षिणायुषः सत्त्वा नामधेयं श्रोष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति तेषामप्यायुर्विवर्धयिष्यति। [3]

तस्मात्तर्हि मञ्जुश्रिर्दीर्घायुष्कत्वं प्रार्थयितुकामाः कुलपुत्रा वा कुलदुहितरो वा तस्यापरिमितायुषस्तथागतस्य नामाष्टोत्तरशतं श्रोष्यन्ति लिखिष्यन्ति लिखापयिष्यन्ति तेषां इमे गुणानुसंसा भविष्यन्ति। [4]

ॐ नमो भगवते अपरिमितायुर्ज्ञानसुविनिश्चिततेजोराजाय तथागतायार्हते सम्यक्संबुद्धाय, तद्यथा, ओं पुण्यमहापुण्य अपरिमितपुण्य अपरिमितायुपुण्यज्ञानसंभारोपचिते, ओं सर्वसंस्कारपरिशुद्धधर्मते गगणसमुद्गते स्वभावपरिशुद्धे महानयपरिवारे स्वाहा। [5]

इमां मञ्जुश्रीस्तथागतस्य नामाष्टोत्तरशतं ये केचिल्लिखिष्यन्ति लिखापयिष्यन्ति पुस्तकगतामपि कृत्वा गृहे धारयिष्यन्ति वाचयिष्यन्ति, ते परिक्षीणायुषः पुनरेव वर्षशतायुषो भविष्यन्ति; इतश्च्युत्वा अपरिमितायुषस्तथागतस्यबुद्धक्षेत्रे उपपद्यन्ते, अपरिमितायुषश्च भविष्यन्ति अपरिमितगुणसंचये लोकधातौ। [6]

ॐ नमो भगवते [etc., as para. 5]। तेन खलु पुनः समयेन नवनवतीनां बुद्धकोटिनाम् एकमतेनैकस्वरेण इदमपरिमितायुःसूत्रं भाषितम्। [7]

ॐ नमो भगवते [etc., as para. 5]। तेन खलु पुनः समयेन चतुरशीतीनां बुद्धकोटिनाम् एकमतेनैकस्वरेण इदमपरिमितायुःसूत्रं भाषितम्। [8]

ॐ नमो भगवते [etc., as para. 5]। तेन खलु पुनः समयेन सप्तसप्ततीनां बुद्धकोटिनाम् एकमतेनैकस्वरेण इदमपरिमितायुःसूत्रं भाषितं।[9]

ॐ नमो भगवते [etc., as para. 5]। तेन खलु पुनः समयेन पञ्चषष्टीनां बुद्धकोटीनां एकमतेनैकस्वरेण इदमपरिमितायुःसूत्रं भाषीतम्। [10]

ॐ नमो भगवते [etc., as para. 5]। तेन खलु पुनः समयेन पञ्चपञ्चशतीनां बुद्धकोटीनां एकमतेनैकस्वरेण इदमपरिमितायुःसूत्रं भाषितं। [11]

ॐ नमो भगवते [etc., as para. 5]। तेन खलु पुनः समयेन पञ्चचत्वारिंशतीनां बुद्धकोटीनां एकमतेनैकस्वरेण इदमपरिमितायुःसूत्रं भाषितं। [12]

ॐ नमो भगवते [etc., as para. 5]। तेन खलु पुनः समयेन षत्त्रिंशतीनां बुद्धकोटीनाम् एकमतेनैकस्वरेण इदमपरिमितायुःसूत्रं भाषितं। [13]

ॐ नमो भगवते [etc., as para. 5]। तेन खलु पुनः समयेन पञ्चविंशतीनां बुद्धकोटीनाम् एकमतेनैकस्वरेण इदमपरिमितायुःसूत्रं भाषितं। [14]

ॐ नमो भगवते [etc., as para. 5]। तेन खलु पुनः समयेन गङ्गानदीवालुकोपमानां बुद्धकोटीनाम् एकमतेनैकस्वरेण इदमपरिमितायुःसूत्रं भाषितं। [15]

ॐ नमो भगवते [etc., as para. 5] यैदमपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति। सा गतायुरपि वर्षशतायुर्भविष्यति पुनर्वायुर्विवर्धयिष्यति। [16]

ॐ नमो भगवते [etc., as para. 5]। यैदमपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति स न कदाचिन् नरकेषुपपद्यते न तिर्यग्योनौ न यमलोके न अक्षणेषु च कदाचिदपि उपपत्स्यते। यत्र यत्र जन्मन्युपपद्यते, तत्र तत्र सर्वत्र जातौ जातौ जातिस्मरो भविष्यति। [17]

ॐ नमो भगवते [etc., as para. 5]। यैदमपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति तेन चतुरशीतिधर्मस्कन्धसहस्राणि लिखापितानि भविष्यन्ति। [18]

ॐ नमो भगवते [etc., as para. 5]। यैदमपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति तेन चतुरशीतिधर्मराजिकासहस्राणि कारापितानि प्रतिष्ठापितानि भविष्यन्ति। [19]

ॐ नमो भगवते [etc., as para 5]। यैदमपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति तस्य पञ्चानन्तर्याणि कर्मावरणानि परिक्षयं गच्छन्ति। [20]

[Para. 21 is missing in the Sanskrit text.]

ॐ नमो भगवते [etc., as para. 5]। यैदम् अपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति, तस्य न मारो न मारकायिका न यक्षा न राक्षसा नाकाल्मृत्युरवतरं लप्स्यन्ते। [22]

ॐ नमो भगवते [etc., as para. 5] यैदमपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति, तस्य मरणकालसमये नवनवतयो बुद्धकोट्यः संमुखं दर्शनं दास्यन्ति, बुद्धसहस्रं हस्तेन हस्तं तस्योपनामयन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामन्ति; नात्म् काङ्क्षा न विचिकित्सा न विमातिरुत्पादयितव्या। [23]

ॐ नमो भगवते [etc., as para. 5]। यैदमपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति, तस्य चत्वारो महाराजानः पृष्ठतः पृष्ठतः समनुबद्धा रक्षावरणागुप्तिं करिष्यन्ति। [24]

ॐ नमो भगवते [etc., as para. 5]। यैदमपरिमितायुःसूत्रं लिखिष्यति लिखापयिष्यति स सुखावत्यां लोकधातव् अमिताभस्य तथागतस्य बुद्धक्षेत्रे उपपद्यते। [25]

ॐ नमो भगवते [etc., as para. 5]। यस्मिन् पृथिवीप्रदेशे इदमपरिमितायुःसूत्रं लिखिष्यन्ति लिखापयिष्यन्ति, स पृथिवीप्रदेशः चैत्यभूतो वन्दनीयश्च भविष्यति। येषां तिर्यग्योनिगतानां मृगपक्षिणां कर्णापुटे निपतिष्यति ते सर्वे अनुत्तरायां सम्यक्संबोधावभिसंबोधिमभिसम्भोत्स्यन्ते। [26]

ॐ नमो भगवते [etc., as para. 5]। यैदमपरिमितायुःसूत्रं लिखिष्यति लिखापयिष्यति तस्य स्त्रीभावो न कदाचिदपि भविष्यति। [27]

ॐ नमो भगवते [etc., as para. 5]। यैदमपरिमितायुः सूत्रं धर्मपर्यायम् उद्दिश्य एकम् अपि कार्षापनां दानंदास्यति, तेन त्रिसाहस्रमहासाहस्रलोकधातुं सप्तरत्नपरिपूर्णं कृत्वा दानं दत्तं भवति। [28]

ॐ नमो भगवते [etc., as para 5]। यैदं धर्मभाणकं पूजायिष्यति, तेन सकलसमाप्तः सद्धर्मः पूजितो भवति। [29]

ॐ नमो भगवते [etc., as para 5]। यथा विपश्वि-शिखि-विश्वभु-क्रकुच्छन्द-कनकमुनि-काश्यप-शाक्यमुनि-प्रभृतीनं तथागतानां सप्तरत्नमयाः पूजाः कृत्वा तस्य पुण्यस्कधस्य प्रमाणं शक्यं गणयितुं, न त्वपरिमितायुः सूत्रस्य पुण्यस्कन्धस्य प्रमाणं शक्यं गणयितुम्। [30]

ॐ नमो भगवते [etc., as para. 5]। यथा सूमेरोः पर्वतराजस्य समानं रत्नराशिं कृत्वा दानं दद्यात्, तस्य पुण्यस्कन्धस्य प्रमाणं शक्यं गणयितुं, न त्वपरिमितायुःसूत्रस्य पुण्यस्कन्धस्य प्रमाणां गणयितुम्। [31]

ॐ नमो भगवते [etc., as para. 5]। यथा चत्वारो महासमुद्रा उदकपरिपूर्ण्णा भवेयुः, तत्र एकैकविन्दुं शक्यं गणयितुं, न त्वपरिमितायुःसूत्रस्य पुण्यस्कन्धस्य प्रमाणां गणयितुम्। [32]

ॐ नमो भगवते [etc., as para. 5]। यैदमपरिमितायुःसूत्रं लिखिष्यति लिखापयिष्यति संस्कृत्य पूजयिष्यति तेन दशसु दिक्षु सर्वबुद्धक्षेत्रेषु सर्वतथागता वन्दिताः पूजिताश्च भविष्यन्ति। [33]

ॐ नमो भगवते [etc., as para. 5]

दानबलेन समुद्गत बुद्धो दानबलाधिगता नरसिंहाः।

दानबलस्य च श्रूयति शब्दः कारुणिकस्य पुरे प्रविशान्तम्॥ [34]


शीलबलेन समुद्गत बुद्धः शीलबलाधिगता नरसिंहाः।

शीलबलस्य च श्रूयति शब्दः कारुणिकस्य पुरे प्रविशन्तम्॥[35]


क्षान्तिबलेन समुद्गत बुद्धः क्षान्तिबलाधिगता नरसिंहाः।

क्षान्तिबलस्य च श्रूयति शब्दः कारुणिकस्य पुरे प्रविशान्तम्॥[36]


विर्यबलेन समुद्गत बुद्धो वीर्यबलाधिगता नरसिंहाः।

वीर्यबलस्य च श्रूयति शब्दः कारुणिकस्य पुरे प्रविशान्तम्॥[37]


ध्यानबलेन समुद्गत बुद्धो ध्यानबलाधिगता नरसिंहाः।

ध्यानबलस्य च श्रूयति शब्दः कारुणिकस्य पुरे प्रविशान्तम्॥[38]


प्रज्ञाबलेन समुद्गत बुद्धः प्रज्ञाबलाधिगता नरसिंहाः।

प्रज्ञाबलस्य च श्रूयति शब्दः कारुणिकस्य पुरे प्रविशान्तम्॥[39]

ॐ नमो भगवते [etc., as para. 5]। इदमवोचद् भगवानात्तमनास्ते च भिक्षवस्ते च बोधिसत्त्वा महासत्त्वाः सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दमिति। [40]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project