Digital Sanskrit Buddhist Canon

२५ शिक्षापरिवर्तः पञ्चविंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 25 śikṣāparivartaḥ pañcaviṁśatitamaḥ
२५ शिक्षापरिवर्तः पञ्चविंशतितमः।



अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-क्व पुनर्भगवन् शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वज्ञतायां शिक्षते? भगवानाह-सचेत्सुभूते बोधिसत्त्वो महासत्त्वः क्षये शिक्षते, सर्वज्ञतायां शिक्षते। एवमनुत्पादेऽनिरोधेऽजातौ अभावे विवेके विरागे आकाशे धर्मधातौ। सचेत्सुभूते बोधिसत्त्वो महासत्त्वो निर्वाणे शिक्षते, सर्वज्ञतायां शिक्षते। सुभूतिराह-किं कारणं भगवन् बोधिसत्त्वो महासत्त्वः क्षये शिक्षमाणः शिक्षते सर्वज्ञतायाम्, एवमनुत्पादेऽनिरोधेऽजातौ अभावे विवेके विरागे आकाशे धर्मधातौ निर्वाणे शिक्षमाणः शिक्षते सर्वज्ञतायाम्? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-यत्सुभूते एवं वदसि-किं कारणं बोधिसत्त्वो महासत्त्वः क्षये शिक्षमाणः शिक्षते सर्वज्ञतायाम्। एवमनुत्पादेऽनिरोधेऽजातौ अभावे विवेके विरागे आकाशे धर्मधातौ निर्वाणे शिक्षमाणः शिक्षते सर्वज्ञतायामिति? तत्किं मन्यसे सुभूते या तथागतस्य तथता यया तथतया तथागतस्तथागत इति प्रभाव्यते, अपि नु सा क्षीयते? सुभूतिराह-नो हीदं भगवन्। तत्कस्य हेतोः? न हि भगवन् क्षयः क्षीयते। अक्षयो हि भगवन् क्षयः।



भगवानाह-तत्किं मन्यसे सुभूते या तथागतस्य तथता यया तथतया तथागतस्तथागत इति प्रभाव्यते, अपि नु सा उत्पद्यते वा निरुध्यते वा जायते वा भवति वा विभवति वा विविच्यते वा रज्यते वा विरज्यते वा आकाशीभवति वा धर्मीभवति वा? आह-नो हीदं भगवन्। भगवानाह-तकिं मन्यसे सुभूते या तथागतस्य तथता यया तथतया तथागतस्तथागत इति प्रभाव्यते, अपि नु सा निर्वाति? आह-नो हीदं भगवन्। भगवानाह-तस्मात्तर्हि सुभूते एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः न तथता क्षीयते इत्येवं शिक्षते। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः शिक्षते सर्वज्ञतायाम्। एवं शिक्षमाणः शिक्षते प्रज्ञापारमितायाम्, शिक्षते बुद्धभूमौ, शिक्षते बलेषु, शिक्षते वैशारद्येषु, शिक्षते सर्वबुद्धधर्मेषु, शिक्षते सर्वज्ञज्ञाने। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वशिक्षापारमितामनुप्राप्स्यति। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न शक्यो मारेण वा मारपर्षदा वा मारकायिकाभिर्वा देवताभिरभिमर्दितुम्। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः क्षिप्रमविनिवर्तनीयधर्मतामनुप्राप्स्यति। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः क्षिप्रं बोधिमण्डे निषत्स्यति। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः स्वके गोचरे चरति। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः शिक्षते नाथकरकेषु धर्मेषु, शिक्षते महामैत्र्याम्, महाकरुणायां शिक्षते, महामुदितायां शिक्षते, महोपेक्षायां शिक्षते। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः शिक्षते त्रिपरिवर्तस्य द्वादशाकारस्य धर्मचक्रस्य प्रवर्तनाय। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वधातुं नोनीकरिष्यामीति शिक्षते। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस्तथागतवंशस्यानुपच्छेदाय शिक्षते। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वोऽमृतधातुद्वारं विवरिष्यामीति शिक्षते।



नेयं सुभूते उदारा शिक्षा शक्या हीनसत्त्वेन शिक्षितुम्। न हि अल्पस्थाम्ना शक्यमस्यां शिक्षायां शिक्षितुम्। तत्कस्य हेतोः? सर्वसत्त्वसारा हि ते सुभूते, सर्वसत्त्वनाथकामा हि ते सुभूते, येऽस्यां शिक्षायां शिक्षन्ते। सर्वसत्त्वाभ्युद्गततां तेऽनुप्राप्तुकामाः, य इह शिक्षन्ते। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न निरयेषूपपद्यते, न तिर्यग्योनिषूपपद्यते, न प्रेतविषयेषूपपद्यते, नासुरेषु कायेषूपपद्यते, न प्रत्यन्तजनपदेषूपपद्यते, न चण्डालकुलेषूपपद्यते, न शाकुनिककुलेषूपपद्यते, न निषादधीवरौरभ्रिककुलेषूपपद्यते, नाप्यन्येष्वेवंरूपेषु हीनजातिकेषु हीनकर्मसेविषु वा कुलेषूपपद्यते। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो नान्धो भवति, न बधिरो भवति, न काणो भवति, न कुण्ठो भवति, न कुब्जो भवति, न कुणिर्भवति, न लङ्गो भवति, न खञ्जो भवति, न जडो भवति, न लोलो भवति, न लोल्लो भवति, न कल्लो भवति, न हीनाङ्गो भवति, न विकलाङ्गो भवति, न विकृताङ्गो भवति, न दुर्बलो भवति, न दुर्वर्णो भवति, न दुःसंस्थानो भवति, न हीनेन्द्रियो भवति, न विकलेन्द्रियो भवति। सर्वाकारपरिपूर्णेन्द्रियो भवति, स्वरसंपन्नो भवति। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न प्राणातिपाती भवति, नादत्तादायी भवति, न काममिथ्याचारी भवति, न मृषावादी भवति, न पिशुनवाग्भवति, न परुषवाग्भवति, न संभिन्नप्रलापी भवति, नाभिध्यालुर्भवति, न व्यापन्नचित्तो भवति, न मिथ्यादृष्टिको भवति, न मिथ्याजीवेन जीविकां कल्पयति। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न दीर्घायुष्केषु देवेषूपपद्यते, न दुःशीलपरिग्राहको भवति, नाभूतधर्मपरिग्राहको भवति, न ध्यानसमापत्तिवशेनोपपद्यते। तत्कस्य हेतोः? अस्ति हि तस्योपायकौशल्यं येनोपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वो न दीर्घायुष्केषु देवेषूपपद्यते। तत्पुनः सुभूते उपायकौशल्यं बोधिसत्त्वस्य महासत्त्वस्य कतमत्? यदुत इयमेव प्रज्ञापारमिता। तथा च अत्रोपायकौशल्ये योगमापद्यते, यथा अन्येनोपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वो ध्यानानि च समापद्यते, न च ध्यानवशेनोपपद्यते। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो बलपरिशुद्धिं निगच्छति, वैशारद्यपरिशुद्धिं निगच्छति, सर्वबुद्धधर्मपरिशुद्धिं निगच्छति, तामनुप्राप्नोति॥



आयुष्मान् सुभूतिराह-यदा भगवन् सर्वधर्मा एवं प्रकृतिपरिशुद्धाः, तत्कतमस्य भगवन् धर्मस्य बोधिसत्त्वो महासत्त्वो बलपरिशुद्धिं निगच्छति, वैशारद्यपरिशुद्धिं निगच्छति, सर्वबुद्धधर्मपरिशुद्धिं निगच्छति, तामनुप्राप्नोति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत्। तत्कस्य हेतोः? सर्वधर्मा हि सुभूते प्रकृत्यैव परिशुद्धाः। एवं सुभूते प्रकृतिपरिशुद्धेषु सर्वधर्मेषु बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां शिक्षमाणस्य या असंसीदनता अनवलीनता, इयं सा सुभूते प्रज्ञापारमिता। एवं सुभूते बालपृथग्जना एनान् धर्मानजानन्तोऽपश्यन्तो धर्माणां धर्मतां न जानन्ति, न पश्यन्ति। तेषां सत्त्वानां कृतशः सुभूते बोधिसत्त्वा महासत्त्वा व्यायच्छन्ते, वीर्यमारभन्ते-वयमेवमजानकान् सत्त्वान् जानयिष्यामः, वयमेवमपश्यकान् सत्त्वान् पश्ययिष्यामः इत्यत्र शिक्षायां शिक्षन्ते। अत्र शिक्षायां शिक्षमाणा बोधिसत्त्वा महासत्त्वा बलान्यनुप्राप्नुवन्ति, वैशारद्यान्यनुप्राप्नुवन्ति। सर्वबुद्धधर्माननुप्राप्नुवन्ति। एवं शिक्षमाणाः सुभूते बोधिसत्त्वा महासत्त्वाः परसत्त्वानां परपुद्गलानां चित्तचरितविस्पन्दितानि यथाभूतं प्रजानन्ति। यथाभूतं प्रजानन्तः परचित्तचरितज्ञतायाः पारं गच्छन्ति। तद्यथापि नाम सुभूते अल्पकास्ते महापृथिव्यां पृथिवीप्रदेशाः येऽपगतपाषाणाः, यत्र सुवर्णं वा जातरूपं वा रजतं वोत्पद्यते। अथ खलु पुनर्बहुतरकास्ते महापृथिव्यां पृथिवीप्रदेशाः, य ऊषरा उज्जङ्गला विविधतृणकाण्डकण्टकाधानाः। एवमेव सुभूते अल्पकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, येऽस्यां सर्वज्ञताशिक्षायां शिक्षन्ते यदुत प्रज्ञापारमिताशिक्षायाम्। अथ खलु बहुतरकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये श्रावकप्रत्येकबुद्धशिक्षायां शिक्षन्ते॥



पुनरपरं सुभूते तद्यथापि नाम अल्पकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये चक्रवर्तिराज्यसंवर्तनीयं कर्म समादाय वर्तन्ते। अथ खलु बहुतरकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये कोट्टराज्यसंवर्तनीयं कर्म समादाय वर्तन्ते। एवमेव सुभूते अल्पकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये इमं मार्गमारूढा यदुत प्रज्ञापारमितामार्गम्, अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यामहे इति। अथ खलु बहुतरकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये श्रावकप्रत्येकबुद्धमार्गमारूढाः॥



पुनरपरं सुभूते तद्यथापि नाम अल्पकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये शक्रसंवर्तनीयं कर्म समादाय वर्तन्ते। अथ खलु बहुतरकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये देवलोकसंवर्तनीयं कर्म समादाय वर्तन्ते। एवमेव सुभूते अल्पकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, येऽस्यां प्रज्ञापारमिताशिक्षायां शिक्षन्ते। अथ खलु बहुतरकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये श्रावकप्रत्येकबुद्धशिक्षायां शिक्षन्ते॥



पुनरपरं सुभूते तद्यथापि नाम अल्पकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये ब्रह्मसंवर्तनीयं कर्म समादाय वर्तन्ते। अथ खलु बहुतरकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये ब्रह्मपार्षद्यसंवर्तनीयं कर्म समादाय वर्तन्ते। एवमेव सुभूते अल्पकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, येऽविनिवर्तनीया अनुत्तरायां सम्यक्संबोधेः। अथ खलु बहुतरकास्ते बोधिसत्त्वा महासत्त्वाः सत्त्वनिकाये संविद्यन्ते, ये विवर्तन्तेऽनुत्तरायाः सम्यक्संबोधेः। तस्मात्तर्हि सुभूते अल्पकास्ते सत्त्वाः सत्त्वनिकाये संविद्यन्ते, येऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः। तेभ्योऽपि सुभूते अल्पेभ्योऽल्पतरकास्ते सत्त्वाः, ये तथत्वाय प्रतिपद्यन्ते। तेभ्योऽपि सुभूते अल्पतरकेभ्यस्तथत्वाय प्रतिपद्यमानेभ्योऽल्पतमास्ते ये प्रज्ञापारमितायां योगमापद्यन्ते। तेभ्योऽपि सुभूते अल्पतमेभ्यः प्रज्ञापारमितायां योगमापद्यमानेभ्योऽल्पतमास्ते बोधिसत्त्वा महासत्त्वाः, येऽविनिवर्तनीया अनुत्तरायां सम्यक्संबोधेः। तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन य एतेऽल्पतमेभ्योऽल्पतमा अविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः, तेषु गणनां गन्तुकामेन इहैव प्रज्ञापारमितायां शिक्षितव्यम्, योगमापत्तव्यम्॥



पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं प्रज्ञापारमितायां शिक्षमाणस्य न खिलसहगतं चित्तमुत्पद्यते, न विचिकित्सासहगतं चित्तमुत्पद्यते, नेर्ष्यामात्सर्यसहगतं चित्तमुत्पद्यते, न दौःशील्यसहगतं चित्तमुत्पद्यते, न व्यापादसहगतं चित्तमुत्पद्यते, न कौसीद्यसहगतं चित्तमुत्पद्यते, न विक्षेपसहगतं चित्तमुत्पद्यते, न दौष्प्रज्ञसहगतं चित्तमुत्पद्यते। एवं हि सुभूते प्रज्ञापारमितायां शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन सर्वाः पारमिता संगृहीता भवन्ति, सर्वाः पारमिता उद्गृहीता भवन्ति, सर्वाः पारमिता अनुगता भवन्ति। सर्वाः पारमिता अन्तर्गता भवन्ति। तद्यथापि नाम सुभूते सत्कायदृष्टौ द्वाषष्टिदृष्टिगतान्यन्तर्गतानि भवन्ति, एवमेव सुभूते प्रज्ञापारमितायां शिक्षमाणस्य बोधिसत्त्वस्य महासत्त्वस्य तस्यां सर्वाः पारमिता अन्तर्गता भवन्ति। तद्यथापि नाम सुभूते पुरुषस्य जीवितेन्द्रिये प्रवर्तमाने सर्वाणीन्द्रियाण्यन्तर्गतानि भवन्ति, एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां शिक्षमाणस्य सर्वकुशला धर्मा अन्तर्गता भवन्ति। तद्यथापि नाम सुभूते पुरुषस्य जीवितेन्द्रिये निरुद्धे सर्वाणीन्द्रियाणि निरुद्धानि भवन्ति, एवमेव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां शिक्षमाणस्य अज्ञाने निरुद्धे सर्वेऽकुशला धर्मा निरुद्धा भवन्ति, सर्वाश्च तदन्याः पारमिता अन्तर्गताः परिगृहीता भवन्ति। तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वाः पारमिताः परिग्रहीतुकामेन प्रज्ञापारमितायां शिक्षितव्यम्।



प्रज्ञापारमितायां शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानामग्रतायां शिक्षते। तत्कस्य हेतोः? पुण्याग्रत्वात्। तत्किं मन्यसे सुभूते यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः सत्त्वसंग्रहेण संगृह्यमाणाः, अपि नु ते बहवो भवन्ति? सुभूतिराह-जाम्बूद्वीपका एव तावद्भगवन् बहवः सत्त्वा भवन्ति, कः पुनर्वादो ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः। भगवानाह-यः सुभूते एको बोधिसत्त्वो महासत्त्वो यावज्जीवं तिष्ठंस्तान् सर्वसत्त्वान् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैश्चोपतिष्ठेत्, तत्किं मन्यसे सुभूते अपि नु स बोधिसत्त्वो महासत्त्वस्ततोनिदानं बहुतरं पुण्यं प्रसवति? सुभूतिराह-बहु भगवन्, बहु सुगत। भगवानाह-अतः स सुभूते बोधिसत्त्वो महासत्त्वस्ततोनिदानं बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामन्तशोऽच्छटासंघातमात्रकमपि भावयेत्। तत्कस्य हेतोः? एवं महार्थिका हि सुभूते प्रज्ञापारमिता बोधिसत्त्वस्य महासत्त्वस्य अनुत्तरायाः सम्यक्संबोधेराहारिका। तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन सर्वसत्त्वानामनुत्तरतां गन्तुकामेन सर्वसत्त्वानामनाथानां नाथेन भवितुकामेन बुद्धविषयमनुप्राप्तुकामेन बुद्धवृषभितामनुगन्तुकामेन बुद्धविक्रीडितं विक्रीडितुकामेन बुद्धसिंहनादं नदितुकामेन बुद्धसंपत्तिमनुप्राप्तुकामेन त्रिसाहस्रमहासाहस्रे लोकधातौ धर्मसांकथ्यं कर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्। प्रज्ञापारमितायां सुभूते शिक्षमाणस्य बोधिसत्त्वस्य महासत्त्वस्य नाहं तां संपत्तिं समनुपश्यामि, या तेन न शिक्षिता भवति। सुभूतिराह-किं पुनर्भगवन् श्रावकसंपत्तिरपि तेन बोधिसत्त्वेन महासत्त्वेन शिक्षिता भवति? भगवानाह-श्रावकसंपत्तिरपि सुभूते तेन बोधिसत्त्वेन महासत्त्वेन शिक्षिता भवति। न खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः श्रावकसंपत्यां स्थास्यामीति शिक्षते, श्रावकसंपत्तिर्वा मे भविष्यतीति नैवं शिक्षते। येऽपि ते सुभूते श्रावकगणाः, तानपि स जानाति, न च तत्रावतिष्ठते। एवं च व्यवचारयति, न च प्रतिवहति-मयाप्येते श्रावकगुणा देशयितव्याः प्रकाशयितव्या इति शिक्षते। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरस्य लोकस्य दक्षिणीयतां गच्छति। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वांस्ततोऽन्यान् दक्षिणीयान् श्रावकप्रतिसंयुक्तान् प्रत्येकबुद्धप्रतिसंयुक्तांश्चाभिभवति, सर्वज्ञता चास्य आसन्नीभवति। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न रिञ्चति, प्रज्ञापारमितां चरति प्रज्ञापारमितायामविरहितः प्रज्ञापारमिताविहारेण। एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वोऽपरिहाणधर्मा अपरिहाणधर्मेति वेदितव्यः। सर्वज्ञताया दूरीकरोति श्रावकभूमिम्, प्रत्येकबुद्धभूमिं च, आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः। सचेत्पुनरस्यैवं भवति-इयं सा प्रज्ञापारमिता इमां सर्वज्ञतामाहरिष्यति, इत्येवं संजानीते, चरति प्रज्ञापारमिताम्। अथ तामपि प्रज्ञापारमितां न संजानीते-इयं सा प्रज्ञापारमिता, अस्य वा प्रज्ञापारमिता सर्वज्ञतामाहरिष्यतीति वा, एवमपि सुभूते बोधिसत्त्वो महासत्त्वो न संजानीते, न समनुपश्यति। सचेदेवं चरति बोधिसत्त्वो महासत्त्वः, चरति प्रज्ञापारमितायामिति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां शिक्षापरिवर्तो नाम पञ्चविंशतितमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project