Digital Sanskrit Buddhist Canon

आर्य अमोघपाशहृदय नाम महायानसूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ārya amoghapāśahṛdaya nāma mahāyānasūtram
॥ आर्य अमोघपाशहृदय नाम महायानसूत्रम्॥



॥ ॐ नमो भगवते आर्य अमोघपाशहृदय॥



एवं मया श्रुतम्-एकस्मिन् समये भगवान् पोतलके पर्वते विहरति स्म। आर्यावलोकितेश्वरस्य भवने अनेकशालतमालचम्पकाशोकातिमुक्तक नानावृक्षसमलङ्‍कृते। महताभिक्षुसंघेन सार्द्धमष्टादशभिर्भिक्षुसहस्रैः। नवनवतिभिश्च बोधिसत्त्वकोटिनियुतशतसहस्रैः। अनेकैश्च शुद्धावासिकैर्देवपुत्र कोटिनियुतशतसहस्रैः परिवृतः पुरस्कृत ईश्वरमहेश्वरब्रह्मकायिकान् देवपुत्रान् अधिकृत्य धर्म देशयति स्म।



अथ खलु आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्व उत्थायासनादेकां समुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवान् तेनाञ्जलिं कृत्वा प्रणम्य प्रहसितवदनो भूत्वा भगवन्तमेतदवोचत्।



अस्ति मम भगवन् अमोघपाशराजन्नाम हृदयं यन्मया पूर्व्वमेकनवतिमे कल्पे विलोकितायां लोकधातौ लोकेन्द्रराजो नाम तथागतस्य सकाशादुद्‍गृहीतम्। येन भगवन्नीश्वर देवमहेश्वर देवपुत्रप्रमुखानि वहूनि शुद्धावासिकायिक देवपुत्रप्रमुखान्यनेकदेवपुत्रशतसहस्राणि समादापितान्यनुत्तरायां सम्यक्‍सम्बोधौ असंमोहज्ञानव्यूहप्रमुखानि च मया दशसमाधिशतसहस्राणि प्रतिलब्धानि। यस्मिंश्च पुन र्भगवन् पृथिवी प्रदेशे इदममोघपाशहृदयं प्रचरेत्। वेदितव्यं भगवन् स्तस्मिन् पृथिवीप्रदेशे ईश्वरमहेश्वरब्रह्मकायिकप्रमुखानि द्वादशदेवपुत्रशतसहस्राणि रक्षावरणगुप्तये स्थास्यन्ति। चैत्यसम्मतो भगवन् पृथिवीप्रदेशो भविष्यति। यत्रेदम् अमोघपाशहृदयं प्रचरिष्यति। अनेक बुद्धकोटि नियुतशतसहस्रावरोपितकुशलमूलास्ते भगवन् सत्त्वा भविष्यन्ति। य इदंमदीयम् अमोघपाशहृदयं श्रोष्यन्ति। यः कश्चिदभगवन् किल्विषकारी स्यात्। सर्व्वपापास्पदः पापधर्म्मसमाचारः आर्यापवादकः सधर्मप्रतिक्षेपकः। अवीचिपरायणः सर्वबुद्धबोधिसत्त्व आर्य श्रावकप्रत्येक बुद्ध प्रतिक्षेपकः। स चेद्विप्रसारं गच्छेत्। आपभ्यां सम्वरमापद्यते।



यस्यैव तावद्भगवन् एकोपवाहो जापेन इहैव जन्मनि तत्कर्म विशुध्यति। परिक्षयं गच्छति वान्तिभवति। एकाहिकेन ज्वरेण द्वाहिकेन त्राहिकेन वा चातुर्थिकेन वा एवं सप्ताहि केन वा ज्वरेण। अक्षिशूलेन वा कर्ण शूलेन वा नासाशूलेन वा। दंतोष्ठशूलेन वा जिव्हाशूलेन वा। तालुशूलेन व हृदयशूलेन व उदरशूलेन वा पार्श्वशूलेन वा कटिशूलेन वा अङ्गप्रत्यङ्‍गशूलेन वा अर्शग्रहणीशूलेन वा अतिसारेण वा हस्तपादवेद नया वा शिरोरुजा व वलाहकश्चित्र कुष्ठश्रियर्च्चिका किरीमलोहलिङ्‍गलग्रहभगण्डलविस्फोटक अपस्मार काखोर्द्दख्यै र्वाकृतापकृत्यैवा वंन्धनं वन्धनताडन तर्ज्जना भूताख्यनैर्वा। संक्षेपतो भगवन् कायपीडयावा चित्तपीडया वा दुस्वप्नदर्शनं वा तत्कर्मपरिक्षयं गच्छति। पर्यवदानं गच्छति। प्रागेव शुद्धसत्त्वानां श्रद्धाधिमुक्तिकानां यदि भगवन् चतस्रः परिषदश्चत्वारो वर्णा यामा या साथेनापिय इदमदियम अमोघपाशहृदयं श्रोष्यन्ति। उद्‍ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति लिखिष्यन्ति लिखापयिष्यन्ति पर्यवाप्स्यन्ति अन्येषां सत्त्वानां श्रावयिष्यन्ति अन्तस्‍तिर्यग्योनिगतानां वा सत्त्वानां कर्णापूटस्थित्वा कर्णजापं दाष्यन्ति। इमानिच मन्त्रपदानि चिन्तयिष्यन्ति। अप्रतिक्षेपतः असंप्रभवतः। अविरंगमतः अकरणतः निःक्लेशतः समचिन्ताक्षेपकः विरहितपंचस्कन्धस्वभावेन। अनेन योगेन बुद्धानुस्मृतिः कर्त्तव्या। तेषां दशभ्यो दिग्भ्यो बुद्धसहस्रं संमुखं दर्शनं करिष्यन्ति। अत्ययदेशनां च करिष्यन्ति। पेयालं। यावत्पुस्तकलिखितं वा कृत्वा गृहे स्थापयिष्यन्ति। किं बहुना भगवन्नन्योन्यश्रद्धया वा श्रोष्यन्ति। स्वामिभयेन वा परानुत्तरा वा। उच्चग्धनहेतुना वा श्रोष्यन्ति। ज्ञातव्यमिति भगवन् पण्डिते नार्यावलोकितेश्वरस्यानुभावेन तेषां कर्णपुटे शब्दो निश्चरति।



तद्यथापि नाम भगवन् कश्चिदेवपुरूषश्चन्दनं वा कपूरं वा कस्तुरिकं वा आकृष्य परिभाष्य शिलायां वा पिष्ट्‍वा आत्मानं लेपयेत्। न तस्य चन्दनस्य कपुरकस्य कस्तुरिकाया वा। एवं भवत्यनामाकृष्टः परिभाषितो वा गन्धेनाति क्रमिष्यामिति। अपि च गन्ध एव स एव मेव भगवनिदं मदोयममोघपाशन्नाम हृदयं यः कश्चिदुद्‍ग्रास्द्य उल्लाप्य। पेयालं। यावत्मायाशब्देनापाथेये नापि पूजयेत। तेषां भगवन खकानां सत्त्वानां स एव कुशलमूल हेतुर्भविष्यति। यत्र यत्रोपपत्स्यन्ते तत्र तत्र विरहिताश्च भविष्यन्ति। शीलसमाधिप्रज्ञापुण्यसम्भारगन्धेन शीलसौगन्धिकमेव करोति। यः कश्चित् भगवन् कुलपुत्रो वा कुलदुहिता वा भिक्षुर्वा भिक्षुणी वा उपाशको वा उपाशिका वा। तदन्यो वा कश्चिदमोघपाशहृदयमुद्दिस्यशुक्लाष्टम्यामुपवासं कुर्यात्। सप्तवारान् अमोघपाशहृदयमनालपतः आवर्त्तयेत्। तस्य भगवन् दृष्ट एव धर्म्म विशतिरनुशंसः प्रतिकांक्षितव्याः। कतमे विंशतिः ? यदुत रोगाश्चास्य कायेनोपपत्स्यन्ते। उत्पनाश्चास्य रोगाः कर्म्मवशेन शीघ्रं प्रसमं यास्यन्ति। स्निग्धमनोज्ञसाश्लक्ष्लगात्र श्च भविष्यति। वहुजनप्रियश्च भविष्यति। गुप्तेन्द्रिर्याऽर्थ प्रतिलम्भश्च भविष्यति। उत्पन्नांश्चऽर्थेम्यो प्रतिलप्स्यते।



अग्निना दह्यन्ते नोदकेन ह्रीयन्ते। राजा न शक्नोति मनसा पापहर्तुम्। कर्मान्तश्चास्य स्फीता भवन्ति। नाशनिनोदकभयं भविष्यति। न वातवृष्टिभयं भविष्यति। सप्तवारान अमोघपाशहृदयेन भस्मोदकं वा परिजप्य दिगविदिगूर्द्धं च क्षेत्रस्य वन्धो दातव्य। सर्वोपद्रवा उपशमिस्यति। न ओजोहारा ओजोपहरन्तुं शक्नुवन्ति। सर्वसत्त्वानां प्रियो भविष्यति। मन आपश्च भविष्यति।शत्रु भयं चास्य न भविष्यति। उत्पन्नचास्य शत्रु भयं शीघ्रं प्रशमं यास्यति। न चास्य मनुष्यभयं भविष्यति। न काखोर्द्धभयं न चास्य डाकिनीभयं न चास्य तीव्राः क्लेशोपक्लेशा भविष्यन्ति। नाग्निना न शस्त्रेणविषेणं कालं करिष्यन्ति। देवताचास्य सतत समितं रक्षावरणगुप्तये स्थास्यन्ति। यत्र यत्रोपपत्स्यन्ते तत्र तत्राविरहितश्च भविष्यति मैत्रीकरूणामुदितोपेक्षायाः। इमे विशतिरनुशंसाः प्रतिकांक्षितव्यः।



अपरानष्टौ धर्मान् प्रतिलप्स्यन्ते। कतमानष्टौ ? मरणकालसमये आर्यावलोकितेश्वरो भिक्षुरूपेण सम्मुखदर्शनं दास्यन्ति॥१॥ ससुखेनकालं करिष्यति॥२॥ न भ्रान्तदृष्टिर्भविष्यति॥३॥ न हस्तविक्षेपं करिष्यति॥४॥ न पादविक्षेपं करिष्यति॥५॥ नोच्चारणन्नप्रस्रावं न चारूढ कालं करिष्यति॥६॥ सुखप्रतिष्ठित स्मृतिर्भविष्यति॥७॥ नाधोमुखकालं करिष्यति॥८॥ मरणकाले अक्षयप्रतिभानं चास्य भविष्यति। यत्र चास्य बुद्धक्षेत्रे प्रणिधिस्तत्रोपपत्तिर्भविष्यति। अविरहितश्च कल्यानमित्रा भविष्यन्ति। दिने दिने त्रिष्कालं त्रिणि वारान् परिआवर्त्तयितव्यं।



मद्यमांसपालाण्डुगुं कृतोच्छिष्ठं विषयर्धिनाज्यते वर्ज्जयितव्यं। अयं चामोघपाशहृदयो (नाम) धर्मपर्यायः सर्वसत्वानां च वलावलं ज्ञात्वा श्रावयितव्यम्। आचार्यमुष्टिर्न कर्त्तव्याः। यस्माद्विगतो मलमात्सर्योब्यापगतो बोधिसत्त्वा भवन्ति। सत्वानामार्थकरणेन बुद्धबोधिः प्राप्यते बोधिरित्युच्यते प्रज्ञासत्त्व इत्युपायः॥ एतौ द्वौधर्म्मी सत्त्वार्थे नैव प्राप्यते। सचेत्मे भगवन् अनुजानी यात्। इदं हृदयं तथागतस्य पुरतः कीर्त्त येयं चतसृणां पर्षदाम् अर्थायबोधिसत्त्वं महासत्त्वमेतदवोचत। भाषत्वं शुद्धसत्त्वाय यस्येदानिं काल मन्यसे।



अनुमोदितं तथागतेन पश्चिमे काले पश्चिमे समये बोधिसत्त्वयानिकानां पितृकार्यकरिष्यन्ति। अथ खलु आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽनिभिषनयनो भूत्वा भगवन्त मेतदबोचत। शृणु मे भगवन् सर्वबोधिसत्त्व नमस्कृतमिदं विमोक्षमुखमण्डलं बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय॥ नामस्त्र्यध्वानुगतप्रतिष्ठितेभ्य सर्वबुद्धबोधिसत्त्वेभ्यो नमः प्रत्येकबुद्धार्यश्रावक संघेभ्योऽतीतानागतप्रत्युत्पन्नेभ्यो नमः सम्यग्गतानां। नमः सम्यकप्रतिपन्नाना। नमः शारद्वतीपुत्राय महादानपतये। नमः आर्यामैत्रेयप्रमुखेभ्यो महाबोधिसत्त्वसंघेभ्यः नमोऽतीतानागतप्रत्युत्पन्नेभ्यस्तथागतेभ्यो ऽर्हत्संम्यकसम्बुद्धेभ्यो। नमः सुवर्णवर्णप्रभाय तथागताय। नमः सिंहविक्रीडीतराजाय तथागताय। नमो विपश्विने तथागताय। नमः शिखिने तथागताय अर्हते सम्यक् सम्बुद्धाय। नमो विश्वभुवे तथागताय। नमः क्रकुच्छन्दाय तथागताय। नमः कनकमुनये तथगताय। नमः काश्यपाय तथागताया। नमः शाक्यमुनये तथगतार्यार्हते सम्यक्सम्बुद्धाय॥तद्यथा॥



ॐ मुने मुने महामुनये स्वाहा। ॐ समे समे महासमे रक्ष रक्ष मां सर्वसत्त्वानांच सर्वपापप्रसमने स्वाहा॥ ॥ ॥ नमः सुपरिकीर्त्तित नाम धेयाय तथागताया। नमः समन्तावभासविजितसंग्रामश्रिये तथागताय। नमः इन्द्रकेतुध्वजश्रिये तथागताय अर्हते सम्यक्सम्बुद्धाय। नमो विक्रान्तगामिने तथागतायार्हते सम्यक्सम्बुद्धाय। नमो बुद्धाय नमो धर्माय नमः संघाय। नमो अतीतानागत प्रत्युत्पन्नेभ्यो बुद्धेभ्यो भगवद्‍भ्यः॥ तद्यथा॥



स्मृतिवर्द्धनि गतिवर्द्धनि धृतिवर्द्धनि प्रज्ञावर्द्धनि प्रतिभानवर्द्धनि ध्यानवर्द्धनि समर्यवर्द्धनि सर्वबोधिपक्षधर्म्मवर्द्धनि सकलबुर्द्धधर्मपरिपूणीये स्वाहा॥ ॥ नमो रत्नत्रयाय नमो आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारूणिकाय। एभ्यो नमस्कृत्वा इदमार्यावलोकितेश्वरमुखोङ्‍गीर्णममोघपाशराजन्नाम हृदयं तथागत संमुखभाषितं महता पर्षत मध्ये अहमिदानिंमावर्त्तयिष्ये सिध्यन्तु मे मन्त्रपदा सर्व्वकार्याणि। सर्वभयेभ्यो मम सर्वसत्त्वानांच रक्षा भवतु॥ तद्यथा॥



ॐ चर २ चिरि २ चुरू २ मर २ मिरि २ मुरू २ महाकारूणिक। सर २ सिरि २ सुरू २ चुरू २ चिरि २ विरि २ पिरि २ मिरि २ महापदाहस्त। कल २ किलि २ कुलु २ महाशुद्धसत्वा। बुद्धय २ बोध २ बोधि २ बोधय २ कण २ किणि २ कुणु २ परमशुद्धसत्त्व। कर २ किरि २ कुरू २ महास्थामप्राप्त॥ चल २ संचल २ विचल २ एटट २ भर २ भिरि २ भुरू २ तर २ तिरि २ तुरू २ एहि महाकारूणिक। महापशुपतिवेशधर। धर २ धिरि २ धरू २ तर २ सर २ चर २ पर २ वर २ मर २ लर २ हर २ हाहा हीही हूहू॥



ॐ कार ब्रह्मेश धर। धर २ धिरि २ धुरू २ तर २ सर २ चर २ पर २ वर २ हर हरा रस्मिसहस्रप्रतिमण्डिशरीरा। ज्वेल २ तप २ भास २ भ्रम २ भगवन सोमादित्य यमवरूणकुवेरब्रह्मेन्द्रवायुग्निधनद ऋषि देवगणेभ्यर्चितचरण। सुरू २ चुरू २ मुरू २ धुरू २ सनत्कुमार-रुद्रवासव-विष्णु-धनद-वायु‍अग्नि ऋषि नायकविनायक। बहुविविधवेशधर। धर २ धिरि २ धुरू २ तर २ थर २ धर २ पर २ लर २ हर २ यर २ सर २ वर २ वरदायक समन्तावलोकित लोकेश्वर त्रिभुवनेश्वरसर्व्वगुण समलङ्‍कृत अवलोकितेश्वर। मुहु २ मुरू २ मुय २ मुंच २ रक्ष २ मां सर्वसत्वानांच सर्वभयैभ्यः सर्वोपद्रवेभ्यः सर्वोपसगेभ्यः सर्वग्रहेभ्यः सर्वव्याधिभ्य। सर्वविषेभ्यः सर्वज्वरेभ्यः।



एवं वन्ध वन्धन ताडन तर्ज्जन राज तस्कराग्न्यूदक विषशस्त्रपरिमोचक॥ कण २ किणि २ कुणु २ चर २ चिरि २ चुरू २ इन्द्रियबलबोध्यङ्गचतुरार्यसंप्रकाशक॥ तम २ दम २ सम २ मस २ धम २ महकारूणिक महातमोन्धकारविधमन षड्‍पारमिता परिपूरक॥ मल २ मिलि २ मुलु २। ट ट ट ट। ठ ठ ठ ठ। डि डि डि डि। टु टु टु टु। ठि ठि ठि ठि। धु धु धु धु। एनेय चर्मकृतपरिकर। एहे हि महाकारूणिक। ईश्वर महेश्वर महाभूत गणसंभंजक। कर २ किरि २ कुरू २ पर २ हर २ हिरि २ वर २ सर २ कर २ कट २ किटि २ कुटु २ मट २। महाशुद्धसत्त्व विषयनिवासिन महाकारूणिक श्वेतयज्ञोपवितरत्न मकुट मालाधर। सर्वज्ञशिरसि कृत जटामकुट महाद्भुत कमलालङ्कृत करतलध्यानसमाधिविमोक्षं अप्रकम्प्य बहुसत्त्व सन्ततिपरिवारक। महाकारूणिक् सर्वकर्माबरणविशोधक। सर्वज्ञज्ञानपरिपूरक। सर्वव्याधिपरिमोचक। सर्वसत्त्वान् परिपूरक। सर्वसत्त्वसमा स्वासनकराय नमो स्तुते स्वाहा॥ अमोघाय स्वाहा। अमोघपाशाय स्वाहा। अजिताय स्वाहा। अपराजिताय स्वाहा। अमिताभाय स्वाहा। अमिताभसुताय स्वाहा। मारसैन्यप्रमर्द्दनाय स्वाहा। अभयप्रदाय स्वाहा। यमाय स्वाहा। विजयाय स्वाहा। जय विजयाय स्वाहा। इदंचमेकर्म कर नमो स्तुते स्वाहा। ॐ रण रण ॐ फट् स्वाहा। ओं जय हुं फट् स्वाह। ओं जुपि स्वाहा। ओं जय स्वाहा। ओं ह्रीः त्रैलोक्यविजयामोघपाशप्रतिहत ह्रीं हः हूं फट् स्वाहा। ओं वसुमति स्वाहा। ओं आरोलीक स्वाहा। ओं बहुले बहुले स्वाहा। ओं आरोलिक ह्रीं ह्रीं हूं फट् स्वाहा॥ ॥



सर्षपरवदिरकीलकाद्यैः सर्वज्वरेषु सूत्रकं वन्धयितव्यं सर्वव्याधिषु घृततैलमुदकं वा परिजप्य दातव्यं। काखोर्दच्छेदनं रक्षा सूत्रेण शस्त्रेण उदरशूलेन लवणोदकं विष नाशनं मृत्तिकया उदकेन वा चक्षुरोगेन श्वेतसूत्रकं कर्णे वन्धयितव्यं। दन्त शूले करवीरदन्तकाष्ठं। सीमावन्धे पंचरङिगकसूत्रकमेकविंशतिवारान् परिजप्य चतुःषु खदिरकीलेषु वद्ध्वा चतुर्द्दिशं निखातव्यं सिमा वन्धो भवति। सर्वरक्षा सूत्रकेन उदकेन भस्मकेन वा सर्वग्रहेषु। पंचरङिगक सूत्रकं सर्वज्वरेषु श्वेतसूत्रकं सर्प्पकीठलूतलोहलिङ्‍गल ग्रहेषु। मधुपिप्पलीयुतं चक्षुरोगे। गन्धोदकं पलाशोदकं मधूयष्ट्युदक वा सर्वकलिकलह विवादेभ्यः आख्यानेषु उदकं परिजप्य मुखप्रक्षालयितव्यं। परविषयराज्यराष्ट्रकेषु पूर्णकलशं स्थापयित्वा शूचिनासूचिवस्त्रप्रावृतेन महती पूजां कृत्वा बाचयितव्यं। महाशान्ति भवति। तेन चोदकेन सेक्तव्यं सर्वसत्त्वानां रक्षा कृता भवति।



सर्वेत्युपद्रवोपसर्गाः प्रशाम्यन्ति। मुद्रिताया चन्दनतिलकं हृदये एकविंशतिवारान् परिजप्य कर्तव्यं सर्वानन्तर्याणि क्षयं यान्ति। सततं जापेन गृहरक्षा। पद्म होमेन सर्वसत्त्वरक्षा। चन्दनहोमेन सर्वभूतग्रहरक्षा जय विजया। अपराजितानाकुली। गन्धनाकूली धारणी अभयपाणि। इन्द्रियपाणि। गन्धः प्रियंगु तगरचक्रा महाचक्राविष्णुक्रान्ता सोमराजी सूनन्दा चेति। एषं यथा संभवतः। अष्टोत्तरशतवारान् परिजप्य मणिं कृत्वा शिरसि बाहौ वा धारयितव्यं। बालानां गलेनारीणां विलग्ने स्वयं परं सौभाग्यकरं। मणे लक्ष्मीप्रसमनां पुत्रदं च। एतेन मणिवद्धेन सर्वरक्षा कृता भवति। विषाग्निनं क्रमति।



विषकृतत्पद्यते। उत्पन्ना अपि न पीडां जनयिष्यन्ति। शीघ्रं प्रसमयिष्यन्ति। वातमेधाशनिस्तंभनं वारिणा करविरलतया सर्वकर्मकरम्॥ आर्यावल्लोकितेश्वरहृदयं परमसिद्धमससाधित मेते तानि कर्म्माणि कुरुते। अथ साधयितुमिच्छन् द्विधिः। पटेऽश्लेषं कैर्वर्णकैर्बुद्धप्रतिमामालिख्य आर्य्यावलोकिश्वरो जटामकुतधारी एणेय चर्मकृतपरिकरः पशुपतिवेशधर सर्वालङ्कारविभूषितं कृत्वा पोषधिकेन चित्रकरेण चित्रापयितव्यः। ततःसाधकेन तस्याग्रतः गोमयेन मण्डलं कृत्वा श्वेतपुष्पावकीर्ण अष्टा गन्धोदकपूर्णकुम्भाः स्थापयितव्याः। अष्टावुपहाराश्चतुः षष्ठिरूपकरणानि। वलि मान्सं च रूधिरबर्ज्जितं अगरूधूपं दहता विद्या‍अष्टमसहस्रं जापयितव्या। अहोरात्रोषितेन रात्रोषितेन वा। त्रिशूक्लभोजिन त्रिष्कालस्नापयिता शूचिवस्त्रप्रावृत्तो भूत्वा जपा दातव्यं। अतः प्रतिमायाऽर्पतः आत्मानं च लिखितं पश्यति। तद्दष्ट्‍वा च प्रहृष्यति यावत् स्वप्नने वा आर्यावलोकितेश्वरो आगच्छति। सर्वेसा परिपूरयति। मनः शिलां रजतं वा परिजप्य क्षीणांजयित्वा ततो‍अन्तर्हितो भवति। आकाशे क्रामति। असंमोहव्यूह नाम समाधिं प्रति लभते। यदिच्छति तत्करोति एव साधक इति॥ ॥



इदमवोचत् भगवानात्तमना आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्व रूतेच भिक्षवरूते च बोधिसत्वास्ते शुद्धावासकायिकाश्च देवपुत्राः सदेवमानुषासुर गन्धर्वश्चलोको भगवतो भाषितमभ्यनन्दन्निति॥ ॥



॥आर्यामोघपाशहृदयं नाम महायान सूत्रं समाप्तस्॥

ये धर्म्मा हेतुप्रभवा हेतुस्तेषां तथागतः।

ह्यवदत्तेषांच यो निरोध एवं वादी महाश्रमणः॥



॥ ० ॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project