Digital Sanskrit Buddhist Canon

अथ तृतीयः परिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Atha tṛtīyaḥ parivartaḥ
अथ तृतीयः परिवर्तः।



अथ खलु मञ्जुश्रीः कुमारभूतः पुनरपि तं शुद्धावासभवनमवलोक्य तां महापर्षन्मण्डलसन्निपतितां सर्वबुद्धबोधिसत्त्वां प्रणम्य, एकाक्षरं परमगुह्यं सर्वविषघातसर्वकर्मिकं च मन्त्रं स्वमण्डलसाधनौपयिकं सर्वक्षुद्रकर्मेषु चोपयोज्यं भाषते स्म। कतमं च तत्। नमः समन्तबुद्धानाम्। तद्यथा - जः। एष समार्षा सार्वभूतगणाश्च अस्यैव मन्त्रमेकाक्षरस्य द्वितीयं मण्डलविधानं संक्षेपतो योज्यम्। अष्टहस्तं चतुर्हस्तं वा भूप्रदेशं संशोध्य पञ्चरङ्गिकैरेव चूर्णैः स्वयं लिखितव्यम्। न परैः। यत्र वा तत्र वा न चात्र दोषः। समं चतुरस्रं त्रिमण्डलोपशोभितं पञ्चशिखां महामुद्रां प्रथमं च तावल्लिखेत्। भगवतो मञ्जुश्रियः उत्पलमुद्रां दंष्ट्रामुद्रां वत्क्रमुद्रां यष्टिमुद्रां च। एते मुद्रा अभ्यन्तरमण्डलपूर्वदिग्भागे आलिखितव्याः। ततः पद्मवज्र उत्पलध्वजपताकच्छत्रतोरणरथकुञ्जर अश्वबलीवर्दमहिषस्वस्तिकमयूर अजमेषपुरुषकुमाररूपी बहिर्द्वारमूले आलिखितव्यः। यथानुपूर्वतः पङ्क्ति आश्रिता आलेख्याः त्रिमण्डलाश्रिता एवं कार्याः स्युरिति॥



ततो एकाक्षरेणैव मन्त्रेण पूर्वदक्षिणे दिग्भागे अग्निकार्यं कायम्। अपामार्गसमिधानां दधिमधुघृताक्तानां अष्टशतं होतव्यम्। ततः पुष्पैरर्घ्यो देयः। एकाक्षरेणैव मन्त्रेण बलिनिवेद्यप्रदीप यथेप्सितं दातव्यम्। धूपं वा, आह्वाननविसर्जनं कुर्यादिति॥



ततः प्रवेशयेद् राज्यकामं नगरमध्ये आलिखेत्। भेगकामं वटवृक्षसमीपे, पुत्रकामं पुत्रञ्जीवकवृक्षसमीपे, अनपत्नीकं हस्त्यश्वकामं कुञ्जरशालायां वाजिशालायां वा, दष्टकं महाह्रदे नागायतने वा, चातुर्थकनित्यज्वरसर्वज्वरेषु च एकलिङ्गे ग्रामदक्षिणदिशे वा, राक्षसगृहीतं श्मशाने शून्यग्रहे वा, पिशाचगृहीतं विभीतकवृक्षसमीपे एरण्डवृक्षसमीपे वा, मातरसर्वगृहीतेषु चतुःपथेषु मृतकसूतकगृहसमीपे वा, ब्रह्मराक्षसगृहीतं तालवृक्षे श्लेष्मातकवृक्षे वा, गरदत्तकं एकाक्षरेणैव मन्त्रेणैव उदकं सप्ताभिमन्त्रितं कृत्वा तत्रैव मण्डलमध्ये पातयितव्यः मुच्यते॥



एवं स्त्रियाया पुरुषस्य वा यशोर्थिनं च चत्वरे ब्रह्मस्थले वा आलिखितव्यम्। मृतवत्सायाः सफले वृक्षे क्षीरवृक्षे वा, शालिधान्यपककेदारमध्ये अनपत्याया लिखितव्यम्। विविधत्रोगस्त्रीकृतान्यदुष्टतः प्रतरादिषु महारोगस्पृष्टासु, रक्षोघ्नं नदीपुलिने कूले वा पर्वताग्रे चाभिलेख्यम्। सर्वरोगेषु सर्वतः। डाकिनीकृतान्यपि ब्रह्मपालिकायां शून्यवेश्म एकान्तस्थान निम्नप्रदेशे वा। एवं सर्वकर्मेषु अर्धरात्रे मध्याह्ने वा सर्वकालमभिलिखितव्यम्। तेनैवैकाक्षरमन्त्रेण पुष्पैरर्घ्यं दत्त्वा विसर्ज्य च मण्डलं उदकेन प्लावयितव्यम्। सर्वग्लानानां महती रक्षा कृता भवति॥



मुच्यते सर्वरोगेभ्यो ईप्सितमर्थं च सम्पद्यन्ते।

अपुत्रो लभते पुत्रं दुर्भगः सुभगो भवेत्॥

दरिद्रो लभते अर्थां दर्शनादेव मण्डलम्।

स्त्रियस्य पुरुषस्यापि श्राद्धस्यापि कल्पतः॥

यथेष्टविविधाकारां प्राप्नुयात् सम्पदां सदा।



इति बोधिसत्त्वपटलविसरा मञ्जुश्रीकुमारभूतमूलकल्पात्

तृतीयो मण्डलविधानपरिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project