Digital Sanskrit Buddhist Canon

सर्वदुर्गतिपरिशोधन तन्त्र

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

सर्वदुर्गतिपरिशोधन
तन्त्र

I

 

ॐ नमः श्रीवज्रसत्त्वाय।

एवं मया श्रुतम्
एकस्मिन् समये भगवान् सर्वदेवोत्तमनन्दवने विहरति स्म।

मणिसुवर्णशाखालताबद्धवनस्पति-गुल्मौषधिकमलोत्पलकर्णिकारबकुलतिलकाशोकमान्दारवमहामान्दारवादिभिर्
नानाविधैः पुष्पैर् उपशोभिते। कल्पवृक्षसमलंकृते। नानालंकारविभूषिते। नानापक्षिगणकूजिते।
तूर्यमुकुन्दवेणुभेरीप्रभृतिप्रणदिते। शक्रब्रह्मादिदेवाप्सरोभिर् नानाविधाभिर् विक्रीडिते।
सर्वबुद्धबोधिसत्त्वाधिष्ठिते। सर्वशक्रब्रह्मादिदेवविद्यधरदेवाप्सरःपर्षत्कोटिनियुतशतसहस्रैर्
अनेकयक्षराक्षसासुरगरुडगन्धर्वकिन्नरमहोरगनागादिपर्षद्भिर् नानाविधाभिर् महाबोधिसत्त्वकोटीशतसहस्रैर्
अष्टाभिः।

तद्यथा।

प्रतिभानमतिना च
बोधिसत्त्वेन महासत्त्वेन। अचलमतिना च। विपुलमतिना च। समन्तमतिना च। अनन्तमतिना च।
असमन्तमतिना च। कमलमतिना च। महामतिना च। दिवामतिता च। विविधमतिना च। अशेषमतिना च। समन्तभद्रेण
च। एवं प्रमुखैर् अवैवर्तिकबोधिसत्त्वमहासत्त्वसङ्घैर् अनन्तपर्यन्तैः सत्कृतः।

 

गुरुकृतोऽर्चितः
पूजितः सुप्रकृष्टो महापर्षद्गणमध्ये महाब्रह्मा पद्मासने निसण्णः सर्वदुर्गतिपरिशोधननामसमाधिं

समापन्नः समनन्तरं
एवापायत्रयसन्ततिविमोक्षकनाममहाबोधिसत्त्वरश्मिस्फरणसंहरणानेकमाला स्वोर्णाकोशान्निश्चचार।
तेन त्रिसहस्रमहासहस्रलोकधातुर् अवभासितः। तेनावभासेन सर्वसत्त्वाश् चित्तक्लेशबन्धनान्
मोचयित्वा पृथक् पृथक् सम्प्रापितो नन्दवनं च समन्तादवभ-

()

 

सयित्वा। नानापुजामेघैः
पूजयित्वा शतसहस्रर्ं प्रदक्षिणीकृत्य

शिरसा वन्दित्वा
भगवतः पुरस्ताद् विमलासनेर् उपरि निषद्यैवम् आहुः अहो बुद्ध अहो बुद्धस्य धर्मशोभनम्॥

तत् कस्य हेतोः॥

अस्माकं दुर्गतिपरिशोधनम्॥

बोधिसत्त्वचर्यप्रतिष्ठापनञ्
च॥

 

अथ देवेन्द्रो भगवन्तं
शतसहस्रं प्रदक्षिणीकृत्य वन्दित्वा भगवन्तम् एतद् अवोचत् ई भगवन् केन कारणेन बुद्धरश्मिसमन्तावभासेन
दुर्गतिसमन्तान् मोचयित्वा विमुक्तिमार्गे प्रतिष्ठापिता आश्चर्यं सुगत। भगवान् आह।
नेदं देवेन्द्राश्चर्यं बुद्धानां भगवतां सूपचिताप्रमाणपुण्यसम्भाराणम्।

 

देवेन्द्र सम्यक्सम्बुद्धा
अपरिमितगुणरत्नाकरभूतः। देवेन्द्र सम्यक्सम्बुद्धानाम् अप्रमाणोपायाः परिनिष्पन्नाः।
देवेन्द्र बुद्धानां भगवताम् अपरिमिता प्रज्ञोपचिता। देवेन्द्र बुद्धानां अप्रमाणा
विल्र्या। बुद्धेन भगवताप्रमाणा विनेयजना भाजनीभूताः कृतः। असमसमज्ञानाभि बुद्धा भगवन्तोऽसमसमर्द्धिसमन्वागतः।

 

भगवन्तोऽसमसमप्रणिधानसमन्वागताः।
तस्माद् देवेन्द्र बुद्धानां भगवतां यथा भाजनं तथा सत्त्वार्थकरणञ् च। यथा विनेयं तथा
सत्त्वानाम् अर्थकरणञ् च। यथाभिप्रायं तथा सत्त्वार्थकरणं भवतीति। ज्ञातव्यम् इत्य्
अत्र संशयशङ्काविमतिर् न कर्तव्या। तथागतवैनेयं न

भवतीति नेदं स्थानं
विद्यते।

 

अथ देवेन्द्रः स्वकीयाद्
आसनाद् उत्थाय पुनर् अपि भगवतो विपुलां महतीं पूजां कृत्वा भगवन्तम् एतद् अवोचत्। सर्वसत्त्वानां
हितकरणायानुकम्पाकरणाय शरणकरणाय समहाकृपाकरणाय सर्वाशपरिपूरणकरणाय भगवन् मम प्रतिभानम्

उत्पादय सुगत मम
प्रतिभानम् उत्पादय। भगवन्

 

()

 

इतस् त्रयस्त्रिंशद्देवनिकायाद्
विमलमणिप्रभनाम्नो देवपुत्रस्य च्युतस्य कालगतस्य सप्तदिवसा अभूवन्। भगवन् स कुत्रोपपन्नः
सुखं दुःखं वानुभवति। इदम् भगवन् व्याकुरु सुगत व्याकुरु। भगवान् आह। देवेन्द्र प्राप्तकालसमयं
ज्ञत्वा श्रोष्यसि। देवेन्द्र आह। भगवन् अयं कालः। अयं

समयः सुगत। भगवान्
आह। देवेन्द्र विमलमणीप्रभनामदेव पुत्र इतश् च्युत्वावीचौ महानरक उत्पन्नस् तत्र द्वादशवर्षसहस्राणि
तीव्रं कटुकं दुःखम् अनुभवति।

पुनर् अल्पनरके
दशवर्षसहस्राणि दुःखम् अनुभवति। पुनर् अपि तिर्यक्प्रेतेषूत्पन्नो दशवर्षसहस्राणि दुःखम्
अनुभवति।

 

पुनर् अपि प्रत्यन्तजनपदेषूत्पन्नो
बधिरमूकाव्यक्तस्वभावताम् अनुभवति षष्टिवर्षसहस्राणि। पुनर् अपि चतुरशीतिवर्षसहस्राणि
व्याधिरक्तातिसारकुष्ठविघातपीडितश् च बहुजननिन्दितोऽशेषपरित्यक्तो हीनकुलो भवति। दुःखदुःखपरम्परां
न विच्छेदयति। अन्येषां अप्य् अहितं करोति। नानाकर्माव रणानि चाविच्छेदेन करोति। पुनर्
अप्य् अन्योन्यदुःखपरंपराम् अनुभवति।

 

अथ खलु शक्रादयः
सर्वदेवपुत्राः श्रुत्वा भ्रान्तास् त्रस्ताः खिन्ना अधोमुखं पतिताः। पुनर् उत्थायैवम्
आहुः। कथम् भगवन् तस्माद् दुःखपरम्परातो मुच्यते। कथं सुगत मुच्यते। केनोपायेन भगवन्
दुःखराशेः तस्मान् मुच्यत इति। परित्राणं कुरु भगवन्। परित्राणं कुरु सुगत। भगवान्
आह। देवेन्द्र चतुरशीतिबुद्धकोटिभिर् भाषितम् इदम्

अहम् अपि भाषे शृणु।
अथ खलु देवेन्द्रः पुनर् अपि भगवन्तं मान्दारवमहामान्दारवपुष्पैर् नानाविधैर् रत्नमुकुटके
यूर कर्णलंअकारहारार्धहारद्यनेकालंकारविशेषैर् अभ्यर्च्यानेकशतसहस्रवारं प्रदक्षिणीकृत्य
प्रणम्य साधु भगवन्

साधु सुगतेति। साधुकारेण
हर्षयित्वा सदेवकस्य लोकस्य हितसुखकरणायानागतानां सत्त्वानाम् अपायसन्ततिविमोक्षणाय
सुभाषितार्थं विज्ञापयामि। अथ पुनर् अपि ब्रह्मादयो देवगणा

 

()

 

एवम् आहुः। साधु
भगवन् साधु सुगत येनानागतानं सत्त्वानां नाममात्रम् अपि श्रुतवताम् अपायत्रयमार्गविमोक्षो
भवति।

स्वर्गदेवलोके वा
मनुष्यलोके चोत्पन्नानाम् अनुत्तरसम्यक्सम्बोधिप्राप्त्यर्थं

भासतु।

अथ खलु भगवान् शक्रब्रह्मादिदेवपुत्राणां
सर्वतथागतहृदयेनाधिष्ठानार्थम् अमोघवज्राधिष्ठाननामसमाधिं समापन्नः।

ॐ वज्राधिष्ठानसमये
हुं।

एवञ् च समाधिं समापन्नोऽनभिभवनीयवज्राधिष्ठनेनाधिष्ठायेदं

सर्वदुर्गतिपरिशोधनराजनामतथागतहृदयं

निश्चारयाम् आस।

 

ॐ शोधने शोधने सर्वपापविशोधनि
शुद्धे विशुद्धे सर्वकर्मवरणविशुद्धे स्वाहा।

अस्या विद्याया
भाषणनन्तरम् एव सर्वसत्त्वानां दुर्गतिर् विनिपातिता

सर्वनरकतिर्यक्प्रेतगतिः
शोधिता।

तीव्रदुःखानि प्रशान्तानि
बहवश् च जाताः सुखीमुखीभूताः।

पुनर् अपरं गुह्यहृदयम्
अभाषत।

ॐ शोधने शोधने।शोधय
सर्वापायान् सर्वसत्त्वेभ्यो हुं।

पुनर् अपरं देवेन्द्रेदं
सर्वतथागतहृदयम्।

ॐ सर्वापायविशोधनि
हुं फट्।

पुनर् अपरं देवेन्द्रेदं
सर्वतथागतहृदयोपहृदयम्।

ॐ त्राट्।

पुनर् अपरं देवेन्द्र
सर्वदुर्गतिपरिशोधनहृदयम्। हुं।

पुनर् अपरं देवेन्द्र
संक्षेपतः स्मरणमात्रेणाप्य् अल्पपुण्यसत्त्वानां

सर्वदुर्गतिशान्तिकरणायानायाशतो
विमोक्षणकरम् इदं भवति।

ॐ नमो भगवते सर्वदुर्गतिपरिशोधनराजाय
तथागतायार्हते

सम्यक्सम्बुद्धाय।
तद्यथा।

ॐ शोधने शोधने सर्वपापविशोधनि
शुद्धे विशुद्धे सर्वकर्मावरण विशोधनि स्वाहा। मूलविद्या।

 

()

 

ॐ सर्ववित् सर्वावरणानि
विशोधय हन हुं फट्।

ॐ सर्वविद् हुं।

ॐ सर्वविद् हॄः
फट्।

ॐ सर्वविद् अः।
ॐ सर्ववित् त्रां त्राट्। ॐ सर्वविद् ॐ।

ॐ सर्वविद् धीं।
ॐ सर्वविद् हुं। ॐ सर्ववित् क्रीं त्रट्।

 

ॐ सर्वविद् महावज्रोद्भवदानपारमितापूजे
हुं।

ईस्याया मत्रः।

ॐ सर्वविद् महावज्रोद्भवशीलपारमितापूजे
त्रां।

मालाया मन्त्रः।

ॐ सर्वविद् महावज्रोद्भवक्षान्तिपरमितापूजे
ह्रीः।

गीताया मन्त्रः।

ॐ सर्वविद् महावज्रोद्भववीर्यपारमितापूजे
अः।

नृत्याया मन्त्रः।

ॐ सर्ववित् सर्वापायविशोधनि
धम धम ध्यानपारमित

पूजे हुं हुं फट्।
धूपाया मन्त्रः।

 

ॐ सर्ववित् सर्व
दुर्गतिपरिशोधने क्लेशोपक्लेशच्छेदनि पुष्पालोकिनि प्रज्ञापरमितापूजे त्रां हुं फट्।

पुष्पाया मन्त्रः।

ॐ सर्ववित् सर्वपायविशोधनि
ज्ञनालोककरि प्रणिधिपार मितापूजे ह्रीः हुं फट्। दीपाया मन्त्रः। 

ॐ सर्ववित् सर्वपायगन्धनाशनि
वज्रगन्धोपायपारमिता पूजे अः हुं फट्। गन्धाया मन्त्रः।

ॐ सर्वविद् नरकगत्याकर्षणि
हुं जः फट्।

वज्राङ्कुशस्य मन्त्रः।

ॐ सर्वविद् नरकोद्धरणि
हुं हुं फट्

वज्रपाशस्य मन्त्रः।

ॐ सर्ववित् सर्वापायबन्धनमोचनि
हुं वं फट्।

वज्रस्फोटस्य मन्त्रः।

ॐ सर्ववित् सर्वापायगतिगहनविशोधनि
हुं होः पट्।

वज्रावेशस्य मन्त्रः।

ॐ मैत्रीयहरणाय
स्वाहा। मैत्रेयस्य मन्त्रः।

ॐ अमोघे अमोघदर्शिनि
हुं। अमोघदर्शिनः।

 

()

 

ॐ सर्वापायजहे सर्वापायविशोधनि
हुं। सर्वापायजहस्य।

ॐ सर्वशोकतमोनिर्घातनमति
हुं।

सर्वशोकतमोनिर्घातनमतेः।

ॐ गन्धहस्तिनि हुं।
गन्धहस्तिनः।

ॐ शुरंगमे हुं।
शुरंगमस्य।

ॐ गगने गगनलोचने
हुं। गगनगञ्जस्य।

ॐ ज्ञानकेतो ज्ञानवति
हुं। ज्ञानकेतोः।

ॐ अमृतप्रभे अमृतवति
हुं। अमृतप्रभस्य।

ॐ चन्द्रस्थे चन्द्रव्यवलोकिनि
स्वाहा। चन्द्रप्रभस्य।

ॐ भद्रवति भद्रपाले
भद्रपालस्य।

ॐ जालिनि महाजालिनि
हुं। जालिनीप्रभस्य।

ॐ वज्रगर्भे हुं।
वज्रगर्भस्य।

ॐ अक्षये हुं हुं
अक्षयकर्मावरणविशोधनि स्वाहा।

अक्षयमतेः।

ॐ प्रतिभाने प्रतिभानकूटे
स्वाहा।

प्रतिभानकूतस्य।

ॐ समन्तभद्रे हुं।
समन्तभद्रस्य।

 

एते भद्रकल्पिकस्य
बोधिसत्त्वस्य। मन्त्रान् यथाक्रमम् उच्चारयेत्।

 

अनेन यथोक्ततन्त्रानुसारानुक्रमेण
विधानेन प्रत्यहं प्रभातकाल उत्पत्तिक्रमेण भावयमानो भावयेत्। देवतायोगं समाधित्रयम्
उत्तमं यत्नतो दुर्गतिपरिशोधनसिद्धिर् भवति। पुनर् अपरं देवेन्द्र सर्वदुर्गतिपरिशोधनतेजोराजस्य
तथागतस्य गुह्यहृदयम् इदम्।  कुलपुत्रो वा कुलदुहिता
यः कश्चिद् नाममात्रं शृणोति धारयति वाचयति ईखित्वा च शिरसि शिखायां वा बाहौ ग्रीवायां
वा बद्ध्वा धारयति तस्येहैव

जन्मन्य् अष्टव्
अकाल मरणानि मरणसंबन्धस्वप्नप्रकारा

 

()

 

वा दुर्गतिनिमित्तानि
वा तानि सर्वाणि स्वप्नमात्रते नोपसर्पन्ति मण्डलञ् च यथावत् प्रवेश्याभिषिक्तो हृदयञ्
च जप्त्वा मन्त्रार्थं ये केचिद् भावयन्ति कः पुनर् वादस् तेषां यानि कानिचित् पापानि
न निकटीभवन्तीति न दुर्गतिं गच्छन्तीति।

 

पुरुषस्त्रीदेवनागयक्षराक्षसप्रेततिर्यग्नरकादीनां
येषां केषाञ्चित् मृतकायेषु मण्डलं प्रवेश्याभिशिक्तेषु ते नरके सूत्पन्नाः समनङ्तरम्
एवं विमुच्यन्ते देवनिकायेषूत्पद्यन्ते।

तत्रोत्पन्नाः सन्तः
सर्वतथागतानां धर्मताम् अभिमुखीकुर्वन्त्य् अवैवर्तिकाश् च भवन्ति। सन्ततिश् च नियता
भवति। सर्वतथागतकुले

प्रजाताश् च भवन्ति।
प्रहीणावरणाश् च। सर्वतथागतकुलेषु देवकुलेषु वान्यस्मिन् वा सुखम् अनुभवन्ति। देवेन्द्र
संक्षेपतो लौकिकलोकोत्तरसर्वहितसुखम् अनुभवन्ति।

 

अथ देवेन्द्रो भगवन्तं
पूर्ववत् प्रदक्षिणीकृत्य वन्दित्वैवम् आह। भगवन् सर्वदुर्गतिवशीभूतानां हितसुखकरणाय्य
यथासत्त्वैः सर्वदुर्गति पृष्ठीकरणायानायासतोऽनुत्तरसम्यक्सम्बोध्यधिगमार्थं धर्मं
देशयतु।

 

अथ खलु भगवान् शाक्यमुनिः
सर्वदुर्गतिपरिशोधनज्ञानवज्रनामसमाधिं

समापद्य सर्वतथागतसर्वदुर्गतिपरिशोधनतेजोराजनाममण्डलम्

अभाषत।

तत्साधनं शाक्यनाथेन
भाषितम्।

 

प्रथमं तावद् योगी
विजने मनोऽनुकूलप्रदेशे मृदुसुकुमारासने निषण्णः सुगन्धेन मण्डलं कृत्वा पञ्चोपहारपूजा
करणीया। ततः सर्वधर्मनैरात्म्यं भावयित्वा। आत्मानं हुंकारेण वज्रज्वालानलार्कं भावयेत्।
तस्य कण्ठे ह्रीःकारेण पद्मं तस्योपरि दलाग्र आकारेण चन्द्रमण्डलं तस्योपरि

हुंकारेण पञ्चसूचिकवज्रम्।
तद् वज्रं जिह्वायां रिणं भवति। वज्रजिह्वेति। तेन वज्रजिह्वा भवति। मन्त्रजापक्षमो
भवेत्।

हस्तद्वयस्य मध्ये
सिताकारेण चन्द्रमण्डलं तस्योपरि हुंकारेण पञ्चसूचिकवज्रं। तद् वज्रं करमध्ये निलीयते
वज्रहस्तो भवति।

सर्वमुद्राबन्धक्षमो
भवेत्।

 

()

 

ततो रक्षाचक्रभावना
कर्तव्या।

ॐ गृह्ण वज्रसमये
हुं वं। इति ब्रुवन् क्रोधतेरिन्तिरीं बध्नीयत्।

वज्रबन्धं तले कृत्वा
च्छादयेत् क्रुद्धमानसः॥

गाढम् अङ्गुष्ठवज्रेण
क्रोधतेरिन्तिर् स्मृता॥

ततो वज्रार्धासननिषण्णो
वज्रतेरिन्तिरीं बद्ध्वा

वज्रमालाभिषेकं
गृह्णीयात्।

 

ॐ वज्रज्वालानलार्क
हुं अभिषिञ्च माम् इति।

वज्रबन्धेऽङ्गुष्ठद्वयं
सहितोत्थितं वज्रबन्धस्योपरि श्लिष्ठं धारयेत्। वज्रतेरिन्तिरी।

ॐ टुं इति। अनेन
द्व्यक्षरकवचेन कवचयित्वा।

ॐ वज्रज्वालानलार्क
हुं इत्य् उदीरयेत्।

वामवज्रमुष्टिं
हृदये कृत्वा दक्षिणवज्रमुष्टिम् उल्लालयन् सर्वविघ्नान् हन्यात्।

ततो वज्रानलेन मुद्रासहितेन
विघ्नदहनादिकं कुर्यात्।

ॐ वज्रानल हन दह
पच मथ भञ्ज रण हुं फट् इत्य् उदीरयेत्। अभ्यन्तरवज्रबन्धेऽङ्गुलिज्वालागर्भेऽङ्गुष्ठवज्रम्
उत्थितम् इयं वज्रानलमुद्रा।

 

तद् अनु। वज्रनेत्रि
बन्ध सर्वविघ्नान् इति। मुद्रायुक्त्या सर्वविघ्नबन्धं कुर्यात्।

वज्रबन्धं बद्ध्वाङ्गुष्ठद्वयं
प्रसार्य समं धारयेत्। वज्रनेत्रिमुद्रा।

प्रसारितवज्रबन्धं
भूम्यां प्रतिष्ठाप्याधोबन्धं कुर्यात्।

ॐ वज्र दृढो मे
भव रक्ष सर्वान् स्वाहा।

वज्रभैरवनेत्रेण
मुद्रासहितेनोर्ध्वबन्धं कुर्यात्।

ॐ हुलु हुलु हुं
फट्। इति।

वज्रमुष्टिद्वयं
बद्ध्वालातचक्रं भ्रामयित्वा शिरसोपरि

तर्जन्यङ्कुशाकारेण
धारयेत्। वज्रभैरवनेत्रमुद्रा। तस्याधस्ताद्

वज्रयक्षेण मुद्रासहितेन
पुनर् बन्धं कुर्यात्

 

()

 

ॐ वज्रयक्ष हुं
इति। वज्राञ्जलेर् अङ्गुष्ठद्वयम् प्रसारितं तर्जनीद्वयं दंष्ट्रा। वज्रयक्षमुद्रा।

वज्रोष्णीषेण मुद्रायुक्तेन
पूर्वां दिशं बन्धयेत्।

ॐ द्रुं बन्ध हं
इति। द्रुं इति वा।

वज्रमुष्टिद्वयं
कन्यसाशृङ्खलाबन्धेन तर्जनीद्वयसूचीमुखं परिवर्तोष्णीषे स्थापयेत्। वज्रोष्णिषमुद्रा।

पुनर् वज्रपाशेन
ताम् एव बन्धयेत्।

हुं वज्रपाशे ह्रीः
इति। वज्रमुष्टिद्वयेन बाहुग्रन्थिं

कुर्यात्। वज्रपाशमुद्रा।

वज्रपताकया पश्चिमां
दिशं बन्धेत्।

ॐ वज्रपताके पतंगिनि
रटेति। वज्रबन्धेऽङ्गुष्ठसत्त्वपर्यङ्कसूचीं

कृत्वाग्रासमानामविदारितान्त्यपटाग्री।
वज्रपताकायाः।

दिग्विदिक्ष्व्
अध ऊर्ध्वञ् च विघ्ननिकृन्तनं कुर्यात्।

वज्रकाल्योत्तरां
दिशं बन्धेत्।

 

ॐ वज्रशिखरे रुट्
मट्। इति। वज्रमुष्टिद्वयेन पर्वतोत्कर्षणाभिनयाकारं

वज्रशिखरायाः।

वज्रकर्मणा मण्डलबन्धं
कृत्वा प्राकारं दद्यात्। हुं वज्रकर्मेति। पुनर् अभ्यन्तरप्राकारं वज्रहुंकारेण हुं
इति। वज्रमुष्टिद्वयं बद्ध्वा बाहुवज्रं समाधाय कनिष्ठाङ्कुशबन्धिता त्रिलोकविजयनामतर्जनीद्वयं
तर्जनी। वज्रहुंकारस्य। इयम् एव मध्याग्रद्वयं वज्रं वज्रकर्मणः।

 

()

 

ततो वज्रचक्रमुद्रया
सर्वदुर्गतिप रिशोधनमण्डलं पुरतो निष्पादयेत्।

ॐ वज्रचक्र हुं।
इति।

वज्रमुष्टिद्वयं
बद्ध्वा द्व्यग्रान्त्यावज्रबन्धनात्॥

वज्रचक्रेति विख्याता
सर्वमण्डलसाधिका॥

अनया सर्वदिक्षु
प्रदक्षिणतया भ्रामयित्वा सर्वमण्डलनिर्माणं भवति। इमाम् एव मुखे न्यस्य निरीक्षमाणोऽष्टौ
वारान् वज्रचक्रं जपेत्।

ततः प्रत्यक्षम्
इव मण्डलं बुद्ध्यालग्य पुष्पादिभिः सम्पूज्य सर्वदिक्षु पञ्चमण्डलकेन प्रणमेद् अनेन।

ॐ सर्ववित् कायवाक्चित्तप्रणामेन
वज्रबन्धनं करोमीति। ततश् चतुःप्रणामं कुर्यात्। तद्यथा।

 

सर्वशरीरेण वज्रञ्जलिप्रसारितेन
पूर्वस्यां दिशि प्रणमेद् अनेन।

ॐ सर्ववित् पूजोपस्थानायात्मानं
निर्यातयामि।

सर्वतथागतवज्रसत्त्वाधितिष्ठस्व
माम्। इति।

ततस् तथैवोत्थाय
वज्राञ्जलिं हृदि कृत्वा दक्षिणस्यां दिशि ललातेण भूमिं स्पृशन् प्रणमेद् अनेन।

ॐ सर्ववित् पूजभिषेकायात्मानं
निर्यातयामि।

सर्वतथागतवज्ररत्नाभिषिञ्च
माम्। इति।

ततस् तथैवोत्थाय
वज्रञ्जलिबन्धेन शिरसा पश्चिमायां दिशि मुखेन भूमिं स्पृशन् प्रणमेद् अनेन।

ॐ सर्ववित् पूजाप्रवर्तनायात्मानं
निर्यातयामि।

सर्वतथागतवज्रधर्म
प्रवर्तय माम्। इति।

ततस् तथैवोत्थितो
वज्राञ्जललिं शिरसोऽवतार्य हृदि कृत्वोत्तरस्यां दिशि मूर्ध्ना भूमिं स्पृशन् प्रणमेद्
अनेन।

ॐ सर्ववित् पूजाकर्मणा
आत्मानं निर्यातयामि।

सर्वतथागतवज्रकर्म
कुरुष्व माम्। इति।

जानुमण्डलद्वयं
पृथिव्यां प्रतिष्ठाप्य वज्राञ्जलिं हृदि कृत्वा सर्वपापं प्रतिदेशयेत्।

 

(१०)

समन्वाहरन्तु मां
दशसु दिक्षु सर्वबुद्धबोधिसत्त्वाः सर्व तथागतवज्रमणिपद्मकर्मकुलावस्थिताश् च सर्वमुद्रामन्त्रविद्यादेवता
अहम् अमुकवज्रो दशसु दिक्षु सर्वबुद्धबोधिसत्त्वानां पुरतः सर्वतथागतवज्रमाणिपद्मकर्मकुलावस्थितानां
सर्वमुद्रामन्त्रविद्यादेवतानां च पुरतः सर्वपापं प्रतिदेशयामि।

 

विस्तरेण दशसु दिक्ष्व्
अतीतानागतप्रत्युत्पन्नानां सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकसम्यग्गतसम्यक्प्रतिपन्नानां
सर्वसत्त्वनिकायानां च सर्वपुण्यम् अनुमोदयामि। दशसु दिक्षु सर्वबुद्धान् भगवतः। अप्रवर्तितधर्मचक्रान्
अध्येषे धर्मचक्रप्रवर्तनाय। दशसु दिक्षु सर्वबुद्धान् भगवतः परिनिर्वातुकामान् याचेऽपरिनिर्वाणाय।

ततः पुष्पमुद्रां
बद्ध्वैवं वदेत्।

 

ॐ सर्ववित् पुष्पपूजामेघसमुद्रस्फरणसमये
हुं। इति।

धूपमुद्रां बद्ध्वैवं
वदेत्।

ॐ सर्वविद् धूपपूजामेघसमुद्रस्फरणसमये
हुं।

दीपमुद्रां बद्ध्वैवं
वदेत्।

ॐ सर्वविद् आलोकपूजामेघसमुद्रस्फरणसमये
हुं।

गन्धमुद्रां बद्ध्वैवं
वदेत्।

ॐ सर्वविद् गन्धपूजामेघसमुद्रस्फरणसमये
हुं।

सम्पुटाञ्जलिं बद्ध्वैवं
वदेत्।

ॐ सर्वविद् बोध्यङ्गरत्नालंकारपूजामेघसमुद्रस्फरणसमये
हुं। इति।

ॐ सर्वव्ल्द् हास्यलास्यरतिक्रीडासौख्यानुत्तरपूजामेघसमुद्रस्फरणसमये
हुं। इति।

ॐ सर्वविद् अनुत्तरवस्त्रपूजामेघसमुद्रस्फरणषमये
हुं। इति।

 

(११)

 

ततः सर्वसत्त्वसंसारदुःखम्
अनुस्मृत्य भगवतो वज्रसत्त्वस्य

कर्ममुद्रां बद्ध्वा
करुणावशेन सर्वसत्त्वोत्तारणाय बोधिचित्तम्म्

उत्पादयेत्। अतीर्णतारणायामुक्तमोचनायानाश्वस्ताश्वासनायापरिनिर्वृतपरिनिर्वातनाय
सकलसत्त्वधातोः संसारसमुद्राद् उत्तारणाय च।

 

ॐ सर्वविद् वज्रपूजामेघसमुद्रस्फरणसमये
हुं। इति। ततो लास्यामुद्रं बद्ध्वैवं वदेत्।

सर्वसत्त्वाः सर्वोपकरणसमन्वागता
भवन्तु। इच्छामात्रप्रतिबद्धसर्वसम्पत्तयः।

ॐ सर्वविद् महावज्रोद्भवदानपारमितापूजामेघसमुद्रस्फरणसमये
हुं। इति।
(वज्र-)मालामुद्रां बद्ध्वैवं वदेत्।

सर्वसत्त्वाः सर्वाकुशलकायवाग्मनस्कर्मान्तविगता
भवन्तु।

सर्वकुशलकायवाग्मनस्कर्मान्तसमन्वागता
भवन्तु।

 

ॐ सर्वविद् अनुत्तरमहाबोध्याहारशीलपारमितापूजामेघसमुद्रस्फरणसमये
हुं। इति।

गीतामुद्रां बद्ध्वैवं
वदेत्।

सर्वसत्त्वाः सर्वलक्षणनुव्यञ्जनेन
समलंकृतगात्रा भवन्तु।

परस्परतो नित्यम्
अभयावैरप्रतिपन्ना हृदयनयनाभिरामा

गम्भीरधर्मक्षान्तिकाश्
च।

ॐ सर्वविद् अनुत्तरमहाधर्मावबोधक्षान्तिपारमितापूजामेघसमुद्रस्फरणसमये
हुं। इति।

नृत्यामुद्रां बद्ध्वैवं
वदेत्।

सर्वसत्त्वा बोधिसत्त्वचर्याभियुक्ता
भवन्तु ई बुद्धतत्त्वपरायनाः संसारापरित्यागवीर्ययुक्ताः।

ॐ सर्ववित् संसारापरित्यागवीर्यपारमितापूजामेघसमुद्रस्फरणसमये
हुं। इति।

पुष्पामुद्रां बद्ध्वैवं
वदेत्।

सर्वसत्त्वाः सर्वक्लेशोपक्लेशविगता
भवन्तु। सर्वध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाविद्यावशितासंपन्नाः।

ॐ सर्वविद् अनुत्तरसौख्यविहारध्यानपारमितापूजामेघसमुद्रस्फरणसमये
हुं। इति।

 

(१२)

धूपामुद्रां बद्ध्वैवं
वदेत्।

सर्वसत्त्वाः सर्वलौकिकलोकोत्तरप्रज्ञाज्ञनसमन्विता
भवन्तु। चतुःप्रतिसंवित्प्राप्ताः सर्वशास्त्रशिल्पज्ञानकलायोगगुणगुह्यविधिज्ञास् तत्त्वदर्शिनः
सर्वक्लेशज्ञेयावरणसमुछेदज्ञानप्राप्ताः।

ॐ सर्वविद् अनुत्तरक्लेशछेदमहाप्रज्ञापारमितापूजामेघसमुद्रस्फरणसमये
हुं। इति।

दीपामुद्रं बद्ध्वैवं
वदेत्।

सर्वसत्त्वाः सर्वापायविगता
भवन्तु।

ॐ सर्ववित् सर्वापायविशोधनि
ज्ञानालोकप्रणिधानपारमितापूजामेघसमुद्रस्फरणसमये हुं। इति।

गन्धामुद्रां बद्ध्वैवं
वदेत्।

सर्वसत्त्वः सर्वाज्ञानविगता
भवन्तु।

ॐ सर्ववित् सर्वापायगन्धनाशनि
वज्रगन्धोपायपारमितापूजामेघसमुद्रस्फरणसमये हुं। इति।

दशसु दिक्ष्व् अशेषसर्वतथागतपादमूलगतम्
आत्मानम् अधिमुच्य कायपरिचर्यार्थम्।

ॐ सर्ववित्  कायनिर्यातनपूजामेघसमुद्रस्फरणसमये हुं। इति।

 

असमाचलेत्यादि।
सर्वत्र जिह्वाशतमुखेन स्तोत्रोपहारम् अधिमुच्य।

ॐ सर्वविद् वाग्निर्यातनपूजामेघसमुद्रस्फरणसमये
हुं। इति।

सर्वबोधिसत्त्वैकाशयप्रयोगतया
धर्मसमताम् अधिमुच्य।

ॐ सर्ववित् चित्तनिर्यातनपूजामेघसमुद्रस्फरणसमये
हुं। इति।

अभावस्वभावाः सर्वधर्माः
शून्यतानिमित्ताप्रणिहिताकारा इह्य्

अधिमुच्य।

ॐ सर्वविद् गुह्यनिर्यातनपूजामेघसमुद्रस्फरणसमये
हुं। इति।

एवं विंशतिप्रकारपूजया
सर्वतथगतान् संपूज्यात्मानं निर्यातयेत्।

आत्मानं सर्वबुद्धबोधिसत्त्वेभ्यो
निर्यातयामि। सर्वदा सर्वकालं प्रतिगृह्णन्तु मां महाकरुणिका नाथा महासमयसिद्धिञ् च
प्रयच्छन्तु। तच् च कुशलमूलं सर्वसत्त्वसाधरणं कर्तव्यं। अनेन कुशलमूलेन सर्वसत्त्वाः
सर्वलौकिकलोकोत्तरविपत्तिविगता भवन्तु।

(१३)

 

सर्वलौकिकलोकोत्तरसम्पत्तिसमन्वागताश्
च भवन्तु।

सहैव सुखेन सहैव
सौमनस्येन बुद्धा भवन्तु नरोत्तमा इति।

अनेन चाहं कुशलकर्मणा
भवेय बुद्धो॥

न चिरेण लोके देशये
धर्मं जगतो हिताय॥

मोचये सत्त्वान्
बहुदुःखपीडितान् इति॥

अनुत्तरायां सम्यक्सम्बोधौ
परिणामाय संवरं गृणीयात्।

उत्पादयामि परमं
बोधिचित्तम् अनुत्तरम्॥

यथा त्रैयध्विकनाथाः
सम्बोधौ कृतनिश्चयाः॥

त्रिविधां शीलशिक्षां
च कुशलधर्मसंग्रहम्॥

सत्त्वार्थक्रियाशीलं
च प्रतिगृह्णाम्य् अहं दृधम्॥

बुद्धं धर्मं च
सङ्घं च त्रिरत्नाग्रम् अनुत्तरम्॥

अद्याग्रेण ग्रहीष्यामि
संवरं बुद्धयोगजम्॥

वज्रघण्टां च मुद्रां
च प्रतिगृह्णामि तत्त्वतः॥

आचार्यं च ग्रहीष्यामि
महावज्रकुलोच्चये॥

चतुर्दानं प्रदास्यामि
षट्कृत्वा तु दिने दिने॥

महारत्नकुले योगे
समये च मनोरमे॥

सद्धर्मं प्रतिगृह्णामि
बाह्यं गुह्यं त्रियानिकम्॥

महापद्मकुले शुद्धे
महाबोधिसमुद्भवे॥

संवरं सर्वसंयुक्तं
प्रतिगृह्णामि तत्त्वतः॥

पूजाकर्म यथाशक्त्या
महाकर्मकुलोच्चये॥

उत्पादयित्वा परमं
बोधिचित्तम् अनुत्तरम्॥

गृहीतं संवरं कृत्स्नं
सर्वसत्त्वार्थकारणात्॥

अतीर्णान् तारयिष्याम्य्
अमुक्तान् मोचयिष्याम्य् अहम्॥

अनाश्वस्तान् आश्वासयिष्यामि
सत्त्वान् स्थापयामि निर्वृत्ताव् इति।

तत आकाशस्थं मण्डलं
देवादिभिः पूज्यमानं विचिन्तयेत्।

पञ्चोपहारादिना
पूजयेत्। सम्यक् प्रपूज्य बुद्धानां गुणवर्णानां

स्तुतिं कुर्यात्।

अहो बुद्ध अहो बुद्ध
सस्धु बुद्ध कृतोत्तम॥

सर्वदुर्गतिं संशोध्य
सत्त्वानां बोधिः प्राप्यते॥

(१४)

 

तत ॐ वज्रञ्जलीति।
वज्रबन्धनं हृदये स्फोटयेत्।

ॐ सर्वविद् वज्रबन्ध
त्राट् ब्रुवन्।

वज्रावेशमुद्रां
बद्ध्वा।

ॐ तिष्ठ वज्र दृढो
मे भव शाश्वतो मे भव हृदयं

मेऽधितिष्ठ सर्वसिद्धिं
च मे प्रयच्छ हुं ह ह ह ह होः। इति।

ॐ वज्रमुष्टि वं।

सत्त्ववज्रीं बद्ध्वा।

ॐ सर्ववित् शोधने
शोधने सर्वपापान् अपनय हुं।

पापाकर्षणमन्त्रः।

वज्रबन्धं दृधं
बद्ध्वा वज्रमुद्राधिष्ठान्तरात्।

समुत्क्षिपेत् क्षणाड्
ऊर्ध्वं पतितोत्क्षेपणं परम्। इति।

ॐ सर्ववित् सर्वापायविशोधनि
हुं फट्।

पापविशोधनमन्त्रः।

वज्रबन्धं दृधीकृत्य
मध्यमा मुखसहिता॥

चतुरन्त्यमुखासक्ता
पापं स्फोटयति क्षणात्॥

ॐ सर्ववित् त्राट्
हुं।

सत्त्ववज्रीं बद्ध्वा।

ॐ सर्ववित् सर्वावरणविशोधने
मुः हुं फट्।

उद्धरणलक्षणं।

ततः पश्चाद् योगिनो
हृदयमध्येऽकारेण चन्द्रमण्डलं तस्योपरि।

ॐ मुने मुने महामुनये
स्वाहा।

ॐ नमः सर्वदुर्गतिपरिशोधनराजाय
तथागतायार्हते सम्यक्सम्बुद्धाय। तद्यथा।

ॐ शोधने शोधने सर्वपापविशोधनि
शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा।

एतेन मन्त्रेण दुर्गतिपरिशोधनमण्डलं
परिनिष्पन्नं भवति। ततो वज्राङ्कुशद्यैर् आकृष्य प्रवेश्य बद्ध्वा वशीकृत्याकाशमण्डलपूजां
कृत्वा हृदयमण्डले निवेषयेत्। द्वयमण्डले नैकमण्डलं भवतीति। निष्पन्नयोगो भूत्वा समयमण्डलं
देवतापरिपूर्णं भवति। तत्र मण्डलमध्ये चक्रवर्तिरूपं

आत्मभावं शाक्यसिंहं
विभावयेत्। ततः शाक्यमुनेर् हृद्यकारेण चन्द्रमण्डलं भावयेत्। चन्द्रमण्डलमध्ये।

 

(१५)

 

ॐ मुने मुने महामुनये
स्वाहा।

ततो वज्रहेतुकर्ममुद्रया
मण्डलं निर्माय।

ॐ सर्वविद् वज्रचक्र
हुं। इति।

सत्त्ववज्रीं बद्ध्वैव
मध्याङ्गुलिद्वयेन मालाम् आदाय मनसा प्रविशेत्। समये हुं इत्य् अनेन तां च मालां स्वशिरसि
क्षिपेत्। अनेन प्रतिच्छ वज्र होः। इति। ततः स्वशिरसि बन्धेद् अनेन।

ॐ प्रतिगृह्ण त्वम्
इमां सत्त्व महाबलेति॥

मुखबन्धं चानेन
मुञ्चेत्।

ॐ वज्रसत्त्वः स्वयं
तेऽद्य चक्षूद्घाटनतत्परः॥

उद्घाटयति सर्वाक्षो
वज्रचक्षुर् अनुत्तरम्॥ इति।

हे वज्र पश्य। इति।

ततो महामण्डले तावत्
पश्येद् यावद् भगवन्तं शाक्यमुनिम्।

पुनः सत्त्ववज्रीं
बद्ध्वा हृदये मुङ्चेत्। वज्राधिष्टितकलशाद् उदकाभिषेकं वज्रमुष्ट्या दद्यात्।

ॐ सर्वविद् वज्राभिषिञ्च
माम्। इति।

पुनर् वज्रधात्वीश्वर्यादिमुद्रयाभिमुद्रयेत्।

ॐ सर्वविद् वज्रधात्वीश्वरि
हुं अभिषिञ्च माम्।

ॐ सर्वविद् वज्रवज्रिणि
हुं अभिषिञ्च माम्।

ॐ सर्वविद् रत्नवज्रिणि
हुं अभिषिञ्च माम्।

ॐ सर्वविद् धर्मवज्रिणि
हुं अभिषिञ्च माम्।

ॐ सर्ववित् कर्मवज्रिणि
हुं अभिषिञ्च माम्।

ॐ टूं टूं टूं वज्र
तुष्य होः।

द्व्यक्षरकवचेन
कवचयित्वा। ततः स्ववज्राभिषेक्ं गृह्णियात्।

अद्याभिषिक्तस्
त्वम् असि बुद्धैर् वज्राभिषेकतः॥

इदम् तत् सर्वबुद्धत्वं
गृह्ण वज्रसुसिद्धये॥

ॐ वज्राधिपति त्वाम्
अभिषिञ्चामि तिष्ठ वज्रसमयस् त्वं

वज्रनामाभिषेकतः।

ॐ वज्रसत्त्व त्वाम्
अभिषिञ्चामि।

इदं तत् सर्वबुद्धत्वं
वज्रसत्त्वकरे स्थितम्॥

त्वयापि हि सदा
धार्यं वज्रपाणिदृढव्रतम्॥

ॐ सर्वतथागतसिद्धिवज्रसमय
तिष्ठैष त्वां धारयामि वज्रसत्त्व हि हि हि हि हुं। इति।

ॐ सर्वविद् वज्राधिष्ठानसमये
हुं।

आत्माधिष्ठानमन्त्रः।

 

(१६)

 

वज्रर्नुष्टिद्वयं
बद्ध्वाङ्गुष्ठमध्यमाकनिष्ठोर्ध्वं स्थित्वा मुखे श्लिष्येत् तर्जन्यनामिकासत्त्वपर्यङ्कं
कृत्वा। वज्रमुद्रा। हृत्कण्ठललाट ऊर्णभ्रूमध्ये नासिकाकर्णकटिजानुपादद्ववे जंघायां
चक्षुर्द्वये गुह्येऽधिष्ठाणं तु कारयेत्।

ततः स्वकायसमय अकारेण
चन्द्रमण्डलम्। सर्वबीजसमुत्पन्नचिह्नाहंकारं मन्त्रम् उद्वहन्।

ॐ सर्वविद् जः हुं
वं होः समयस् त्वं समय होः।

ॐ मुने मुने महामुनये
स्वाहा। त्रिर् उच्चारयेत् सामान्यम् अपि।

 

ततः स्वकाये वज्रसमाजमुद्रां
बद्ध्वा।

जः हुं वं होः प्रवर्तयेत्।

यथास्थानेष्व् आकृष्य
प्रवेश्य बद्ध्वा वशीकुर्यात्।

स्वहृदि हुंकारयोगेन
पञ्चसूचिकवज्रम्।

समयं तु प्रवक्ष्यामि
शाक्यसिंहस्य मुद्रया॥

समाध्यग्रस्थितो
मध्ये मुद्रासमय उच्यते॥

वज्रबन्धं दृधीकृत्य
मध्यमा मुखसंहिता॥

वज्रोष्णीषमुद्रा।

सैव मध्यमा रत्नं
तु पद्माकारं तु मध्यमा॥

सैव मध्यमा वज्रं
तु शेषा ज्वालांगुलीकृता॥

सैवांगुली ज्वालाकृता
तेज उष्णीषमुद्रया॥

सैव तु समानामिका
कनिष्ठाद्वयम् उत्सृजेत्॥

तर्जनी पद्मपत्त्रं
तु मध्यमा वज्रम् उत्थिता॥

सैव पुरतः स्थित्वा
वज्रपञ्जरकारका॥

हृदये तु समांगुष्ठा
सुप्रसारितमालिनी॥

अञ्जल्यग्रमुखोद्धान्ता
नृत्यतो मूर्ध्नि संपुटा॥

वज्रबन्धं त्व्
अधोदानात् स्वाञ्जलिस्थोर्ध्वदायिका॥

समांगुष्ठनिपीडा
च सुप्रसारितलेपना॥

वज्रमुष्टिद्वयं
बद्ध्वा तर्जन्यंगुष्ठमध्यमाः॥

प्रत्येकम् अप्य्
अन्योन्यम् अभिमुखं धारयेत्॥

एकतर्जनीं संकुच्य
द्व्यंगुष्ठौ ग्रन्थिं बन्धितौ॥

अंगुष्ठाग्रकटिबन्धा
वज्रमुष्ट्यग्रसंहिता॥ इति।

धर्ममुद्रां भावयेत्
कण्ठे पद्मेन्दुमण्डले॥

पूर्वम् उत्सर्गस्मन्त्रेण
धर्ममुद्रा विधीयते॥

कर्ममुद्रा हृदये
विश्ववज्रम्॥

 

(१७)

 

धर्मचक्रं यथोक्तस्य
शाक्यराजस्य मुद्रया॥

भूस्पर्शवरदध्यानम्
अभयाद्या यथाक्रमम्॥

तेजोष्णीषस्य मुद्रया
समाध्यग्रावस्थिता॥

दक्षिणबाहुदण्डा
च हृद्वामखड्गधारिणी॥

वामतर्जनीम् उत्सृज्य
दक्षिणेन प्रसारयेत्॥

द्वयहस्तेन संमील्य
चत्राकारेण धारयेत्॥

कर्ममुद्राविधिर्
येन नवसम्बुद्धतायिनाम्॥

वज्रगर्वप्रयोगेण
नमेद् आशयकम्पितैः॥

मालाबन्धा मुखोद्धान्त
नृत्यतः परिवर्तिता॥

वज्रमुष्टिप्रयोगेण
दद्याद् धूपादयस् तथा॥

तर्जन्यंकुशबन्धेन
कनिष्ठायां महांकुशी॥

बाहुग्रन्थिकटग्राभ्यां
पृष्ठयोश् च निपीडयेत्॥

अथातः संप्रवक्षामि
बोधिसत्त्वमहात्मनाम्॥

कर्ममुद्राप्रबन्धेन
यथानुक्रमलक्षणम्॥

 

वज्रमुष्टिद्वयं
बद्ध्वान्योन्यं सहनि मीलयेत्॥

तर्जनीमध्यमाकुञ्च्य
पुष्पकारेण धारयेत्॥

मैत्रेयस्य मुद्रा।

वाममुष्टिं कटौ
न्यस्य दक्षिणं बाहुपार्श्वतः॥

तर्जनीमध्यमोत्सृज्य
नेत्राकरेण धारयेत्॥

अमोघदर्शिनः।

वज्रमुष्टिद्वयं
बद्ध्वा तर्जनीस् संप्रसारयेत्॥

सव्येनांकुशं संधार्य
सर्वापायजहस्य च॥

वाममुष्टिं कटिं
न्यस्य दक्षिणदण्डम् आकृतिः।

धारयेद् ऊर्ध्वतश्
चैव सर्वशोकतमस्य च॥

वामे नाभस्थिता
मुष्टिर् गजपुष्करम् आकृतिः॥

धारयेद् दक्षिणे
हस्ते गन्धहस्तिनो मुद्रया॥

वाममुष्टिं कटिं
न्यस्य दक्षिणे खड्गकारतः॥

शूरंगमस्य।

वाममुष्टिं हृदि
धार्य दक्षिणम् ऊर्ध्वं भ्रामयेत्॥

गगनगञ्जस्य।

वज्रमुष्टिद्वयं
बद्ध्वा दक्षिणेन तु धारयेत्॥

ध्वजगृहिताकारेण
ज्ञानकेतोश् च मुद्रया॥

द्वयहस्तेन संधार्य
कलशाकारेण धारयेत्॥

अमृतप्रभस्य।

 

(१८)

 

वाममुष्टिम् उरौ
स्थित्वा दक्षिणमुष्टिं पार्श्वतः॥

प्रसार्य कनिष्ठांगुष्ठौ
चन्द्ररेखा तु आकृतिः॥

चन्द्रप्रभस्य।

द्वयहस्तं हृदि
देशे पद्माकारं विकासयेत्॥

अन्योन्यं मुखम्
आसज्य भद्रपालस्य मुद्रया॥

वज्रमुष्टिद्वयं
बद्ध्वा कवचाकारेण धारयेत्॥

स्तनद्वये च संधार्य
जालिनीप्रभमुद्रया॥

वाममुष्टिः कटिं
न्यस्तो दक्षीणहृदयस्थितः॥

मध्यमांगुलिम् उत्सृज्य
वज्रगर्भस्य मुद्रया॥

वाममुष्टिर् हृदि
न्यस्तो वरदाकारं दक्षिणे॥

अक्षयमतेर् मुद्रा।

वामे नाभस्थिता
मुष्टिर् दक्षिणे चोटिकां ददन्॥

प्रतिभानकूटस्य।

वाममुष्टिं कटिं
धार्य दक्षिणरत्नमुष्टिका॥

समन्तभद्रस्य।

चिह्नरहितेन विधिना
कर्ममुद्रा चोक्तिता॥

हृदये वज्रं संधार्य
पञ्चसूचिकरूपिणम्॥

उत्सर्गेषु यथाधार्य
मुद्रासायुधधारिणाम्॥

वज्रघण्टाधरो भूत्वा
हृदये वज्रं धारयेत्॥

महामुद्रेति बोद्धव्या
बोधिसत्त्वमहात्मनाम्॥

उत्सर्गेषु यथगृह्य
मुद्राप्रहरणधारिणाम्॥

यां यां मुद्रां
तु बध्नीयाद् यस्य यस्य महात्मनः॥

जपन् तु हृदयार्थेन
भावयेत् तु स्वम् आत्मानम्॥

 

चतुर्मुद्रा विधातव्या
देवतासर्वमुद्रितुम्॥

सर्वज्ञगुणसम्पन्नाः
सर्वसत्त्वार्थकारणत्॥

सर्वदुर्गतिं संशोध्य
सत्त्वानां बोधिः प्राप्यते॥

अथ मन्त्रं प्रवक्षामि
सर्वदुर्गतिमण्डले॥

मुद्रामन्त्रप्रवोगेण
सर्वकार्यक्षमो भवेत्॥

प्रतिप्रतिवज्रनृत्यं
कृत्वा मन्त्रैश् चोदाहृतम्॥

ॐ नमः सर्वदुर्गतिपरिशोधनराजाय॥

तथागतायार्हते सम्यक्सम्बुद्धाय
तद्यथा॥

ॐ शोधने शोधने सर्वपापविशोधने
शुद्धे॥

विशुद्धे सर्वकर्मावरणविशुद्धे
स्वाहा॥

 

(१९)

 

वामवज्रमुष्ट्या
वज्रघण्टाम् आदाय दक्षिणहस्तेन वज्रं सगर्वम् उल्ललयन् एवं वदेत्। वज्रवाचाटक्कि हुं
जः जः जः।

स्वहृद्य् उत्कर्षणयोगेन
धारयेत्। टक्कि जः होः इति वदेत्।

तदनु शताक्षरेणदृढीकृत्य।
एतेन दशभूमीश्वरबोधिसत्त्वसदृशो भवति। तान् दृष्ट्वा सर्वपूजाम् प्रपूजयेत्।

ततः ताभिः सर्वाभिः
स्तुतिभिः सम्पूजयेत्।

नमस् ते शाक्यसिंहाय
धर्मचक्रप्रवर्तकः॥

त्रैधातुकं जगत्सर्वं
शोधवेत् सर्वदुर्गतिम्॥

नमस् ते वज्रोष्णीषाय
धर्मधातुस्वभावतः॥

सर्वसत्त्वहितार्थाय
आत्मतत्त्वप्रदर्शकः॥

नमस् ते रत्नोष्णीषाय
समतातत्त्वभावनैः॥

त्रैधातुकं स्थितं
सर्वम् अभिषेकप्रदायकः॥

नमस् ते पद्मोष्णीषाय
स्वभावप्रत्यवेक्षकः॥

आश्वासयति सत्त्वेषु
धर्मांऋतप्रवर्षणैः॥

नमस् ते विश्वोष्णीषाय
स्वभावकृत्यानुष्ठितः॥

विश्वकर्मकरो ह्य्
एषां सत्त्वानां दुःखशान्तये॥

नमस् ते तेजोष्णीषाय
त्रैधातुकम् अवभासयेत्॥

सर्वसत्त्वेष्व्
अपायेषु सत्यदृष्ट्वा करिष्यति॥

नमस् ते ध्वजोष्णीषाय
चिन्तामणिध्वजधरः॥

दानेन सर्वसत्त्वानां
सर्वाशा परिपूरयेत्॥

नमस् ते तीक्ष्णोष्णीषाय
क्लेशोपक्लेशछेदकः॥

चतुर्मारबलभग्नं
सत्त्वानां बोधिः प्राप्यते॥

नमस् ते छत्रोष्णीषाय
सितातपत्रशोभनम्॥

त्रैधातुकं जगत्सर्वं
धर्मराजत्वम् प्राप्यते॥

 

(२० )

 

ईस्या माला तथा
गीता नृत्या देव्यश् चतुष्टयाः॥

पुष्पा धूपा च दीपा
च गन्धा देवी नमोऽस्तु ते॥

द्वारमध्ये स्थिता
आवेशोऽंकुशः पाशस् स्फोटकः॥

श्रद्धाद्यभावनिर्जाता
द्वारपाला नमोऽस्तु ते॥

वेदिकादौ स्थिता
ये च चत्वरद्वारपार्श्वतः॥

मुदितादौ दशे स्थित्वा
बोधिसत्त्व नमऽस्तु ते॥

ब्रह्मेन्द्रौ रुद्रचन्द्राद्यैर्
ईकपालचतुर्दिशम्॥

अग्निराक्षसवायुश्
च भूताधिप नमोऽस्तु ते॥

अनेन स्तोत्रराजेन
संस्तुत्य मण्डलाग्रतः॥

वज्रघण्टाधरो मन्त्री
इदं स्तोत्रम् उदाहरेत्॥

पश्चाद् आत्मदेहेषु
आत्ममण्डं कल्पयेत्॥

एवं भावयमानां वै
मण्डलम् आदियोगतः॥

आदियोगनामसमाधिः।

ततो मण्डलराजाग्रीनाम
प्रवक्ष्यामि।

ॐ अकारो मुखं सर्वधर्मानाम्
आद्यनुत्पन्नत्वात्।

तदर्थाधिमोक्षतो
दशदिक्सर्वलोकधातुषोडशशून्यतम् अधिमुच्य शून्यताहंकारम् आत्मानं पश्येत्।

ततो हुंकारेण निष्पन्नवज्रेण
वायुमण्डलं तस्योपरि रंकरेणाग्निमण्डलं तस्योपरि वंकारेण महोदधिं तस्योपरि कंकारेण
काञ्चनमण्डलं तद्मध्ये हुं सुं हुं इति।

तेन सुमेरुं चतुरस्रं
रत्नमयं सर्वरत्नविभूषितं निष्पाद्य। ॐ वज्र दृधेत्यादिना वज्रबन्धेनाधितिष्ठेत्। तस्योपरि
वज्रहेतुकर्ममुद्रया भूंकार-

सितनिष्पन्नवज्रमणिरत्नशिखरकूटागारम्।

चतुरस्रं चतुर्द्वारं
चतुस्तोरणभूषितम्॥

चतुष्कोणेषु सर्वेषु
द्वारनिर्यूहसंधिषु॥

चन्द्रार्कवज्रचिह्नितं
हारार्धहाररचितम्॥

चतुस्सूत्रसमायुक्तं
पटस्रग्दामभूषितम्॥

अभ्यन्तरमण्डलम्
अष्टारचक्रं वज्रावलीपरिवृतम्।

तस्य नाभोपरि सिंहासनं
तस्योपरि चन्द्रमण्डलम्।

चक्राष्टारमध्येषु
चन्द्रंअण्डलं देवतास्थानम्।

 

(२१ )

 

बाह्यमण्डलस्य देवतास्थानं
पटिकायाम् अष्टाविंशतिचन्द्रमण्डलं

पश्येत्। सिंहासनोपरि
चन्द्रमण्डले। अकारादिककाराद्यक्षरप्रज्ञोपायस्वरूपं

द्रवीभूतम् आकाशस्फरणक
समाधिसमापन्नं बोधिचित्तस्वरूपेण सत्त्वार्थहेतुसम्पन्नमन्त्ररूपं भवति।

 ॐ मुने मुने महामुनये स्वाहा।

 अनेन मन्त्रेण श्रीशाक्यसिंहराजनिष्पन्नो भवति।

सर्वनीवारणं नाम
समाधिसमापन्नः।

ततस् समाधिसमापन्नो
बुद्धो भगवान् तस्य मुद्रामन्त्रम् उदाहरेत्।

वज्रमुष्टिद्वयं
बद्ध्वा परिपाट्या विकासयेत्॥

मुद्रेयं धर्मचक्रस्य
सर्वसंसारछेदनी॥

तद्यथेति दृष्टान्तः।

यथा पद्मेषु आसक्ता
भ्रमराद्या विबन्धिताः॥

तथा पद्मविकासेन
विबन्धा दुःखमोचिताः॥

तथैव दुःखसंसारे
विबन्धास् त्रिभवे गतौ॥

एवं विबन्धा मुच्यन्ते
शाक्यसिंहकृपात्मनः॥

ततश् शाक्यमुनेर्
हृदयेऽकारेण चन्द्रमण्डलम्।

ततश् चन्द्रमण्डले
सर्वासां मन्त्राणि निष्पाद्यन्ते। वज्रोष्णीषम्

आरभ्य यावद् वज्रावेशपर्यन्तं
भावयेत्।

ततो मन्त्राणि भवन्ति।

ॐ नमस् सर्वदुर्गतिपरिशोधनराजाय
तथागतायार्हते सम्यक्सम्बुद्धाय। तद्यथा।

ॐ शोधने शोधने सर्वपापविशोधने
शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा। इदं मन्त्रम् उदाहरेत्।

 

(२२ )

 

अथातः संप्रवक्षामि
परिपाट्या यथाक्रमम्।

ॐ वज्र हुं फट्।

निश्चार्य मुखद्वारेण
निर्गत्य पञ्चश्स्मिकम्॥

समन्ततो दशसु दिक्ष्व्
अवभास्य सर्वसत्त्वानाम्॥

दुःखस्यान्तं करिष्यति
पुनर् आगत्य रश्मीनाम्॥

प्रविश्य हृदये
ततः॥

मन्त्ररश्मिद्वयं
मील्य निष्पन्नरूपसम्भवम्॥

अभ्यन्तरमण्डलस्य
चक्रारे पूर्वदिशि पद्मचन्द्रस्थः॥

वज्रोष्णीषस् तथागतो
हृदयद् अवतीर्य निषीदेत॥

हितार्थतः।

शुक्लवर्णप्रभादिव्यो
मुद्राभूस्पर्ससंस्थितः॥

एवं रश्मिस्फरणसंहारपूर्वोक्तेन
सर्वशः॥

स्फरणसंहारयोगेन
मन्त्ररश्मिनिमिलनम्॥

बिम्बनिष्पत्तिसंपूर्णहृदयाद्
अवतीर्य च॥

निषीदेत यथास्थाने
दक्षिणारेषु सुस्थितः॥

ॐ रत्नोत्तम त्रं
उत्सृजेत्।

 

पद्मस्थचन्द्रमध्येषु
रत्नोष्णीषस् तथागतः॥

अवतीर्य हृदयाद्
बुद्धत्लक्षणैः समलंकृतः॥

नीलवर्णस्वभावं
तु मुद्रेयं वरदस्य तु॥

त्रैधातुकम् अशेषं
तु सर्वसत्त्वाभिषेकदः॥

पूर्ववत् स्फरणसंहारं
बिम्बोत्पत्तिक्रमेण च॥

ॐ पद्मोत्तम ह्रीः
उत्सृजेत्।

ततः पश्चिमारस्थपद्मोपरि
चन्द्रमण्डले॥

रश्मिबीजेन निष्पन्नः
पद्मोष्णीषस् तथागतः॥

हृदयाद् निर्गतो
भूत्वा निषीदेद् अनुशासकः॥

पद्मरागप्रभादिव्यो
ध्यानमुद्राव्यवस्थितः॥

ॐ विश्वोत्तम अः
उत्सृजेत्।

उत्तरे चक्र आरस्थपद्मोपरीन्दुमण्डले॥

अवतीर्य हृदयाद्
बुद्धो विश्वोष्णीषस् तथागतः॥

हरितवर्णप्रभाज्वाल्वो
मुद्रा चास्याभयप्रदः॥

विश्वकर्मकरो बुद्धः
सत्त्वान् संसाराद् उत्तरेत्॥

 

(२३ )

ओंकारेणोत्सृजेद्
बुद्धस् तेजोष्णीषस् तथागतः॥

आग्नेयारे स्थितः
सम्यक् पद्मस्थचन्द्रमण्डले॥

सव्येन सूर्यं संगृह्य
वामहस्ते कटिस्थितः॥

शितरक्तकवर्णाभस्
त्रैधातुकम् आभासयेत्॥

हुंकारबीजसंजातो
ध्वजोष्णीषस् तथागतः॥

उत्सृजेद् हृदयातीर्णो
नैरृत्यारे निषण्णकः॥

पद्मस्थचन्द्रबिम्बे
च रक्तक्ऱ्ष्णकवर्णिकः॥

चिन्तामणिध्वजं
धार्य सत्त्वमात्सर्यशोधकः॥

धीःकारबीजनिष्पन्नस्
तीक्ष्णोष्णीषस् तथागतः॥

क्लेशोपक्लेशान्
संछेद्य वायव्यारे च उत्सृजेत्॥

पद्मचन्द्रे निषीदेश्
च मुद्रास्य खड्गदक्षिणः॥

गगनवर्णनिभकायो
वामे पुस्तकधारिणः॥

क्रींकारबीजनिर्जातश्
छत्रोष्णीषस् तथागतः॥

धर्मस्वामी च सत्त्वानाम्
ईशानारे च उत्सृजेत्॥

कुन्देन्दुवर्णसन्निभो
मुद्रेयं छत्रधारिणः।

सर्वे ते विश्वपद्मस्था
निषण्णाश् चन्द्रमण्डले॥

हुं त्रां ह्रीः
अः।

तेन मन्त्रेण उच्चार्य
हृदयाद् उत्सृजन्ति च॥

चतुर्षु कोणस्थानेषु
पद्मस्थचन्द्रमण्डले॥

लास्यादिदेव्यश्
चतस्रः कुलवर्णकधारिण्यः॥

सितं पीतं रक्तं
विश्ववर्णकम्॥

तेषां मुद्रा विधीयते
यथोक्तितम्॥

तेनैव मन्त्रम्
उच्चार्य उत्सृजेद् हृदयाद् अपि॥

धूपादिदेव्यश् चतस्रः
पद्मस्थचन्द्रमण्डले॥

चतुर्षु कोणसर्वेषु
वर्णकुलक्रमेण तु॥

ॐ सर्वसंस्कारपरिशुद्धे
धर्मते गगनसमुद्गते

स्वभावविशुद्धे
महानयपरिवारे स्वाहा। 

मन्त्रेण उत्सृजेत्
पूर्वद्वारपार्श्वद्वये स्थिताः॥

मैत्रेयादिचतुष्कस्य
पद्मस्थचन्द्रमण्डले॥

सत्त्वपर्यंकिनः
सर्वे मुद्रावर्णक्रमेण तु॥

पीतवर्णप्रभादिव्यो
नागपुष्पकदक्षिणे॥

वामेन कुण्डिकां
गृह्य मैत्रीचित्तविशुद्धितः॥

द्वितीयोऽमोघदर्शी
तु पीतवर्णप्रभोज्वलः॥

वामहस्तकटिन्यस्तो
दक्षिणपद्मनेत्रकः॥

 

(२४ )

तृतीयो बोधिसत्त्वश्
च नाम्नापायजहस्य च॥

श्वेतवर्णप्रभाज्वलो
मुद्रा अंकुशधारिणः॥

चतुर्थः सर्वशोकतमनिर्घातानमतिस्
तथा॥

सितपीतमिश्रवर्णाभो
मुद्रा दण्डधारिणः॥

वाममुष्टिकटिन्यस्तः
सत्त्वपर्यंकिना स्थितः॥

चत्वारो बोधिसत्त्वाश्
च दक्षिणद्वारे प्रतिष्ठिताः॥

प्रथमो गन्धहस्ती
च सितश्यामश् च वर्णकः॥

मुद्रेयं दक्षिणहस्ते
गन्धशंखं प्रपूरितम्॥

वामहस्तकटिन्यस्तः
सर्वावरणशोधनः॥

द्वितीयो शूरंगमो
नाम सर्वक्लेशप्रमोचकः॥

स्फटिकवर्णप्रभादिव्यो
मुद्रेयं खड्गधारिणः॥

वामहस्तकटिन्यस्तः
सत्त्वानां दुःखशन्तकः॥

तृतीयः गगनगञ्जः
सर्वाभरणभूषितः॥

सितपीतमिश्रवर्णभः
सर्वावरणवर्जीतः॥

मुद्रेयं दक्षिणहस्ते
पद्मस्थधर्मगञ्जतः॥

वामहस्तकटिन्यस्तः
सर्वाकाशधनधरः॥

चतुर्थो ज्ञानकेतुश्
च सर्वाशापरिपूरकः॥

नीलवर्णकसंकाशश्
चिन्तामणिध्वजधरः॥

वाममुष्टिकटिन्यस्तः
दारिद्रदुःखमोचकः॥

पश्चिमद्वार आसीनः
पद्मस्थचन्द्रमण्डले॥

प्रथमम् अमृतप्रभश्
चन्द्रवर्णविराजितः॥

अमृतकलशं संधार्य
मुकुटं रत्नपाणिना॥

वाममुष्टिकटिन्यस्तो
विस्तीर्णम् आयुर्दायकः॥

द्वितीयश् चन्द्रप्रभो
नामाज्ञानतमध्वंसकः॥

शुक्लवर्णतनुदिव्यो
मुद्रा दक्षिणपाणिना॥

पद्मस्थचन्द्रबिम्बं
तु वाममुष्टिकटिस्थितः॥

 

(२५ )

 

तृतीयो भद्रपालेति
सितरक्तं तु वर्णिकः॥

सर्वधर्मप्रकाशको
मुद्रा दक्षिणपाणिना॥

ज्वलितरत्नं संधार्य
वाममुष्टिकटिस्थितः॥

चतुर्थो बोधिसत्त्वश्
च जालिनीप्रभसंज्ञितः॥

रक्तवर्णप्रभादिव्यो
वज्रपञ्जरधारिणः॥

प्रथमबुद्धपुत्रस्
तु वज्रगर्भेतिनामतः॥

सितनीलवर्णसंयुक्तो
मुद्रा दक्षिणपाणिना॥

उत्पलं वज्रसंयुक्तं
वाममुष्टिकटिस्थितः॥

द्वितीयो अक्षयो
नाम मतिर् अन्तेषु संस्थितः॥

कुन्देन्दुवर्णसंकाशो
मुद्राहस्तद्वयेन तु॥

ज्ञानकलशं संधार्य
सर्वसत्त्वान् प्रपीनयेत्॥

तृतीयो बुद्धपुत्रश्
च प्रतिभाकूटसंज्ञिरः॥

रक्तवर्णप्रभाज्वालो
मुद्रा दक्षिणपाणिना॥

पद्मस्थरत्नकूटं
तु वाममुष्टिकटिस्थितः॥

चतुर्थो बोधिसत्त्वश्
च समन्तभद्रनामतः॥

सुवर्णवर्णसंकाशो
मुद्रा दक्षिणपाणिना॥

रत्नमञ्जरिकास्दिव्यं
वाममुष्टिकटिस्थितः॥

एवं रूपेण संयुक्ता
बोधिसत्त्वकृपात्मनः॥

मण्डलराजाग्री नामसमाधिः।

 

(२६ )

 

ॐ मुने मुने महामुनये
स्वाहा।

ॐ नमस् सर्वदुर्गतिपरिशोधनराजाय
तथागतायार्हते सम्यक्सम्बुद्धाय। तद्यथा।

ॐ शोधने शोधने सर्वपापविशोधने
शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा।

अनेन मन्त्रेण श्रीशाक्यसिंहराजप्रमुखसप्तत्रिंशद्देवतापरिपूर्णं
भावयेत्।

ततः पश्चाद् ज्ञानमण्डलम्
आकर्षयेत्।

द्वारोद्घाटनं कृत्वा
मन्त्रमुद्रासमायुतः॥

वज्रमुष्टिद्वयं
बद्ध्वा तर्जनी द्वे प्रसारयेत्॥

कनिष्ठां शृंखलीकृत्य
द्वारोद्घातनमुद्रया॥

ॐ सर्वविद् द्वारम्
उद्घाटय हुं।

द्वारोद्घाटनमन्त्रमुद्रया
द्वारम् उद्घाटयेत्।

वज्रचक्रमुद्रया
मण्डलं परिकल्पयेत्।

ॐ सर्वविद् वज्रचक्रे
हुं।

बाहुभ्यां वज्रबन्धेन
वज्रचटकविमोक्षणे।

श्रीशाक्यराजयोगात्मा
सर्वबुद्धान् समाजयेत्॥

वामे चटकतालेन समतालेन
सिद्ध्यति॥

दक्षिणेन तु तालोक्तं
संनिपाताव् उभाव् अपि॥

 

ॐ वज्रसमाज जः हुं
वं होः।

अस्या आज्ञाया मात्रेण
सपर्षच्चक्रसंचयः॥

सर्वबुद्धाः समायान्ति
का कथान्येषु वर्त्तते॥

ततोऽग्रत आकाशदेशे
मण्डलचक्रं दृष्ट्वा वज्रयक्षमन्त्रेण।

जप्तार्घभाजने स्थितगन्धवारिणा
सम्प्रोक्ष्याचमनं दद्यात्।

ततोऽर्घमुद्रयार्घं
दद्यात्। ततः पाद्यमुद्रया पाद्यं दद्यात्। ततः।

वज्रपुष्पे हुं।

वज्रधूपे हुं।

वज्रदीपे हुं।

वज्रगन्धे हुं।

वज्रयक्षमन्त्रेण
विघ्नान् उत्सार्य मण्डलेषु प्रवेशयेत्।

 

(२७ )

ततश् चतुर्मुद्राः।

प्रथमं पूर्वोक्तविधिमुद्रया
समयमुद्रा निबन्धयेत्।

ततः पूर्वोक्तमन्त्रेण
धर्ममुद्रा विधीयते। ततः कर्ममुद्रामन्त्रेण

कर्ममुद्रां बध्नीयात्।
ततो महामुद्रामन्त्रेण महामुद्रां बध्नीयात्।

 

ततो वज्रोष्णीषादितथागतैः
सत्त्ववज्रीरत्नवज्रीधर्मवज्रीकर्मवज्रीं स्फारयित्वा समाण्डलेयदेवताश्रीशाक्यराजप्रमुखवज्रावेशपर्यन्तम्

अभिषेकं दद्यात्।

पञ्चभिषेकाधिपतिदशपर्यन्तं
दद्यात्। अभिषेकानन्तरम्।

ॐ सर्वतथागतधूपपूजामेघसमुद्रस्फरणसमये
हुं।

ॐ सर्वतथागतपुष्पपूजामेघसमुद्रस्फरणसमये
हुं।

ॐ सर्वतथागतदीपपूजामेघसमुद्रस्फरणसमये
हुं।

ॐ सर्वतथागतगन्धपूजामेघसमुद्रस्फरणसमये
हुं।

 

ततो लास्यादिचतुष्टयेन
पूजयेत्।

वज्रं उल्लालयन्
वज्रवाचाशताक्षरपूर्ववत् स्तुतिं कुर्यात्। ततः।

असमाचलासमितसारधर्मिणः।

करुणात्मका जगति
दुःखहारिणः।

असमन्तसर्वगुणसिद्धिदायिनः॥

असमाचलासमवराग्रधर्मिणः॥

गगने समोपमगता न
विध्यते॥

गुणरेणुरेणुकणिकाप्य्
असीमिके॥

स्फुटसत्त्वधातुवरसिद्धिदायिषु॥

विगतोपमेषु असमन्तसिद्धिषु॥

सततामला करुणवेगतोत्थिता॥

प्रणिधानसिद्धिर्
अनिरोधधर्मता॥

जगतोऽर्थसाधनपरासमन्तिनी॥

सततं विरोचति महाकृपात्मनाम्॥

न निरोधतां करुणचारिकाचरा॥

व्रजते त्रिलोकवरसिद्धिदायिका॥

अमितामितेषु सुसमाप्तितां
गता॥

सुगतिं गतेष्व्
अपि अहो सुधर्मता॥

 

(२८ )

 

समयाग्रसिद्धिवरदा
ददन्तु मे॥

वरदानता सुगतितां
गता सदा॥

सकलत्रिलोकवरसिद्धिदायिका॥

सुगतत्रियाध्वगतिता
अनावृता॥

 

सर्वत्र जिह्वाशतमुखेन
स्तोत्रोपहारम् अधिमुच्य वज्रघण्टाधरः स्तुतिं कर्यात्।

ततो दशसु दिक्षु
सर्वतथागतबोधिसत्त्वेभ्यो लौकिकलोकोत्तरबाह्यदेवताभ्यश् च सर्वपूजाभिर् बलिविधिम् उपकरणेन
सहितं बलिं दद्यात्।

सुबहुपाथां पठेत्।

आदौ चटादिशब्देनाकर्षयेत्
पापराशयः॥

त्रिलोकविजयमुद्रेण
त्र्यक्षरादिसमन्वितम्॥

सर्वापायसमापत्तिलोकधातुम्
अशेषतः॥

आकर्षणम् उद्धरणबन्धविनाशनानि॥

चत्वारि मन्त्राणी
सुयोजनानि।

ताद्यादिमन्त्रैः
सितसर्षपताडमानैः।

प्रक्षाल्यम् अस्थि
सितवस्त्रसहितम्॥

ॐ शोधन इत्यादिमन्त्रेण
उदकेन क्षालयेत् त्रयभवनमलम्।

ॐ कंकणीत्यादिमन्त्रेण
क्षालयेत् पञ्चगव्येन।

ॐ रत्ने रत्न इत्यादिमन्त्रेण
क्षलयेत् सर्वगन्धतः।

ॐ अमोघावरणेत्यादिमन्त्रेण
क्षलयेत् क्षीरगावितः।

ॐ अमृते अमृत इत्यादिमन्त्रेण
क्षालयेत् मद्यम् उत्तमम्।

ॐ पूण्ये पूण्य
इत्यादिमन्त्रेणोदकेन क्षालयेत् अन्तरान्ततः।

पुनर् मंगलगाथां
पाठयेद् अभिषिञ्चेत्।

मार्गशोधनं कर्तव्यम्।
धूपादिदेयाश् चतुर्विधमन्त्राः।

 

(२९ )

 

हस्तमात्रम् इदं
कुण्डं कर्तव्यं होमयेत् ततः॥

अनुस्मृत्य च तं
सत्त्वम् अपायगतिसंस्थितं॥

होमयेत् शुभसंतानः
पापावरणशान्तये॥

घृतक्षीरसमाक्षिकैर्
लाजासर्षपमिश्रितैः॥

तिलतण्डुलव्रीह्यादि
समिधासु करद्वयम्॥

अन्यान्य् अपि तु
कर्माणि यथा पूर्वं तथा कुर्यात्॥

तेन सम्पद्यते क्सिप्रं
सत्त्वानां च सुखावहम्॥ इति।

कर्मराजाग्रीनामसमाधिः।

 

तस्मिंश् च सत्त्वे
कृते सति। ततस् ते नारकदुःखाद् विमुक्ताः सन्तस् तुषितेषु सर्वसत्त्वहितकारिणः। सुगतवद्
उत्पन्नाः। तत इन्द्रेण सहितमहायशसो देवा नृत्यन्तोऽनन्तैः पूजामेघैर् इह जन्मनि तथागतपूजार्थं
पुरस्कृत्य देवगणा उत्पातितबोधिचित्ता दिव्यनानाविधपुष्पधूपदीपगन्धछत्रध्वजपताकादिभिर्
अनेकाकाराभिश् च शोभितम्। वस्त्ररत्नवर्षादिभिश् च परिपूरितं कुर्वन्ति स्म नन्दनवनम्।
ततो महाश्चर्यं भूतम्।

 

(३० )

 

II

 

अथ भगवान् वज्रापणिर्
बोधिसत्त्वो भगवतोऽधिष्ठानेन मन्त्रकल्पराजोत्तरकल्पम् अभाषत। वीरासनाद् उत्थाय प्रहर्षन्
वज्रम् उल्ललयन् शाक्याधिपं नन्दन् मुनीश्वरं प्रणम्य

सर्वावरणविशोधनवज्रं
नाम समाधिं समापद्येदं दुर्गतिपरिशोधनं नाम हृदयं स्वहृदयाद् निश्चचार।

ॐ सर्वपापदहनवज्र
हुं फट्।

ॐ सर्वापायविशोधनवज्र
हुं फट्।

ॐ सर्वकर्मावरणानि
भस्मीकुरु हुं फट्।

ॐ भ्रुं विनाशयावरणानि
हुं फट्।

ॐ द्रुं विशोधयावरणानि
हुं फट्।

ॐ ज्वल ज्वल धक
धक हन हनावरणानि हुं फट्।

ॐ स्रुं सर सर प्रसर
प्रसरावरणानि हुं फट्।

ॐ हुं हर हर सर्वावरणानि
हुं फट्।

ॐ हुं फट् सर्वावरणानि
स्फोटय हुं फट्।

ॐ भृत भृत सर्वावरणानि
हुं फट्।

ॐ त्रट त्रट सर्वावरणानि
हुं फट्।

ॐ छिन्द छिन्द विद्रव
विद्रव सर्वास्वरणानि हुं फट्।

ॐ दह दह सर्वनरकगतिहेतुं
हुं फट्।

ॐ पच पच सर्वप्रेतगतिहेतुं
हुं फट्।

ॐ मथ मथ सर्वतिर्यग्गतिहेतुं
हुं फट्।

ततस् तेषाम् उपकरणान्य्
अभाषत।

ॐ सर्वपापविशोधनि
धम धम धूपय हुं फट्।

ॐ सर्वदुर्गतिविशोधनि
पुष्पविलोकिनि हुं फट्।

ॐ सर्वापायविशोधनि
ज्ञानालोककरि हुं फट्।

ॐ सर्वापायगतिनाशनि
गन्ध हुं फट्।

ॐ नरकगत्याकर्षनि
हुं फट्।

ॐ सर्वनरकगत्युद्धरणि
हुं फट्।

ॐ सर्वापायबन्धनविमोचनि
हुं फट्।

ॐ सर्वापायगतिगहनविनाशनि
हुं फट्।

 

(३१ )

ततो मण्डलम् अभाषत।

चक्रान्तरं तु मण्डलम्
अष्टारैश् च सुभूषितम्॥

नाभिनेमिकसंयुक्तम्
अभ्यन्तरावरणिकम्॥

संलिख्य नाभौ शाक्याधिपेन्द्रमुनिं
संलिखेत्॥

ततो वीराग्रतो लिखेद्
वज्रपाणिं महाबलम्॥

पृष्थतोऽभिसंलिखेच्
चक्रवर्तिनं च॥

 

दक्षिणे जयोष्णीषं
च वामतो विजयं लिखेत्॥

तेजोराशिम् अप्य्
आग्नेयां सितातपत्रम् ऐशान्याम्॥

विकिरिणंश् चैव
वायव्यां नैरृत्यां विध्वंसकं लिखेत्॥

ततो बाह्यं संलिखेत्।

चतुरश्रं चतुर्द्वारं
चतुस्तोरणशोभितम्॥

वीरेणांकुशपाशस्फोटघण्टाः
स्थापनीयाः॥

सर्वकोणेषु पुष्पादयो
लेख्याः॥

 

ततः स्रग्गन्धगन्धादिना
स्वकायम् अनुलेपयेत्॥

तथैव वज्राचार्यः
प्रविशेत्। जः हुं वं होः। भगवन् एहि महाकरुणिक दृश्य होः। इति। सर्वदेवान् आकर्षयेत्।
तथैव प्रवेश्याभिषिक्ताः सर्वदुर्गतिभ्यो विमुक्ताः स्वर्गलोकोत्तर भूमिषूद्पद्यन्ते।
सर्वसिद्धयोऽपि सिद्ध्यन्ति। सम्यक्सम्बोधिश् चावश्यं प्राप्यते। पूर्ववत् सर्वकर्माणि
कुर्वन्ति। सर्वत्राप्रतिहता भवन्ति। उन्मार्जनेन सर्वज्वरग्रहादीन् मोक्षयन्ति। वज्रपाणिर्
हुंकारेण सर्वकर्माणि करोति। अन्यकल्पविधिनापि सर्वसाधको भवति। देवनागयक्षगन्धर्वासुरराक्षसादीनां
दुर्गतिवशीभूतानां सर्वप्रतिबिम्बादिकम् अभिलिख्य जपहोमाभिषेकैः सर्वदुर्गतिभ्यो मुक्तिर्
भवति।

अथ भगवन् वज्रधरः
सिंहावलोकितेन भगवतो मुखम् अवलोक्य प्रणम्यैतद् अवोचत्। भगवन् परममुद्रालक्षणम् उत्तमम्
आभाषे करुणावेदनावशगचित्तेन सर्वजिना अधिष्ठानं कुर्वन्ति।

 

(३२ )

समाधिस्थो ईलाटेऽञ्जलिं
कृत्वा प्रणमेत्। बुद्धानां प्रणाममुद्रा। योगवित् कण्ठप्रदेशेऽञ्जलिं मुकुलितपद्मकृतिं
कुर्यात्। पद्मकुले पद्ममुद्रा। हृदि वज्राञ्जलिं कृत्वा मध्यमांगुलीसूचीयोजयति। वज्रकुले
समयमुद्रा। वामहस्तम् उत्तानम् उत्संगे स्थापयित्वा तस्योपरि दक्षिणं व्यवस्थाप्यांगुष्ठद्वयं
योजयित्वा शान्तं दृष्ट्वा निरीक्षयेत्। इयं तथागतकुले समाधिमुद्रा समयः।

 

तं एव परिवर्त्यान्योन्यं
योजयित्वा कनिष्ठांगुष्ठकानि शृंखलाकाराणि

बद्ध्वा हृदि स्थापयेत्।
इयं वज्रकुले समयमुद्रा। पूर्णाञ्जलिं कृत्वा कन्यसांगुष्ठौ सूचिं धारयेच् चेषान् प्रसारयेत्।
इयं पद्मकुले पद्ममुद्रा।

 

वज्रबन्धं दृधीकृत्य
मध्यमांगुलिं वज्रसूचीकृत्य कन्यसांगुष्ठौ प्रसारयेत्। इयं वज्रपाणेर् वज्रमुद्रा।
तस्या एव कनिष्ठांगुष्ठद्वयं तथैव कृत्वा तर्जन्यनामिके पद्मपत्राकारैः कुर्यात्। इयं
सर्वदुर्गतिपरिशोधनराजस्य सर्वशोधन मुद्रा। तस्या एव तर्जन्यनामिके रत्नाकारं कुर्यात्।
इयम् अभिषेकमुद्रा। कन्यसांगुष्ठौ पृथक् पृथग् योजयित्वा शेषाः प्रसारिताः। सर्वप्रसहनमुद्रा।
वामहस्तस् तथैव परिवर्तितः सर्वकर्मिकमुद्रा। अञ्जलेर् ऊर्ध्वक्षेपाद् धूपमुद्रा।

तस्या एवाधःक्षेपात्
पुष्पमुद्रा।

सैव शंखाकारो गन्धमुद्रा

एताम् एव प्रसारितां
धारयेद् बलिमुद्रा।

तस्या एव मध्यमाद्वयाद्
अन्तरम् अर्पणमुद्रा।

वज्रबन्धमध्यमाद्वयं
मध्ये पर्वभंगं कृत्वा सर्वांगुलीः प्रसारयेद् विकीरिणमुद्रा।

तस्या एव कन्यसाद्वयांगुष्ठद्वयम्
आकृष्टं विध्वंसनमुद्रा।

सैवञ्जलिः प्रभाकारस्
तेजोराशिमुद्रा।

ताम् एवोष्णीषस्थाने
भ्रामयेत् सितातपत्रमुद्रा।

वज्रबन्धे कन्यसांगुष्ठद्वयं
शृंखलाकारेण बद्ध्वोर्ध्वं

भ्रामयेत्। चक्रमुद्रा।

 

(३३ )

 

वज्रबन्धे मध्यमे
वज्राकारेण तर्जन्यो रत्नाकारौ कृत्वा शेषाः प्रभाकारा जयोष्णीषमुद्रा।

तथैव तर्जनीद्वयं
वज्रीकृत्य शेषांगुल्यो बद्ध्वा वज्राकाराः कुर्याद् विजयास्य।

दक्षिणेन वरदा वामेनाभयदा
तथागती।

वज्रबन्धे तर्जनीद्वयं
वज्राकारं कुर्याद् वज्रमुद्रा।

एतस्या एवांगुलदक्षिणतर्जन्याकृष्टांकुशी।

सैव रोपाकारा शरः।
सैवाग्रांगुष्ठा स्थापिता साधुमतेः।

सैव मध्ये भग्ना
रत्नम्।

तस्या एवंगुलयः
प्रभाकारास् तेजः।

ताम् एवोष्णीषे
स्थापयेत् केतुमुद्रा।

ताम् एवाग्रतः स्थापयेद्
वाशमुद्रा।

सैव पद्माकारा पद्मा।

सैवाग्राकृष्टा
खड्गः।

ताम् एव वलयाकारां
कुर्याच् चक्रम्।

ताम् एव पद्मपत्राकाराम्
जिह्वा।

सैवाग्रप्रसारिता
विश्वा।

सैव सुप्रसारिता
रक्षा।

सैवग्रतः कुंचिता
यक्षा।

सैवाकुंचिता बन्धम्।

तस्या एव तर्जनीद्वयम्
कुंचितम् अंकुशम्।

सैवाग्रग्रस्ता
पाशः।

सैवान्योन्यं ग्रन्थिता
स्फोटः।

ताम् एव चालयेद्
तोषा।

 

अथ खलु भगवान् वज्रपाणिस्
तं शक्रब्रह्माप्रमुखं महापर्षद्मण्डलम् अवलोक्य सधुकारैः संतोष्य साधु साधु शक्रप्रमुखा
देवपुत्रा यद् युष्माकम् ईदृशं प्रतिभानं सजातं तत् साधु प्रतिपद्यध्वं देशयामि।

 

(३४ )

अथ खलु भगवान् वज्रपाणिः
सर्वामितायुस्स्फरणसम्भववज्रं नाम समाधिं समापद्यापरिमितायुःपुण्यज्ञानसम्भारवर्धनं
नाम सर्वतथागतहृदयं स्वहृदयाद् निश्चचार।

ॐ पुण्ये पुण्ये
महापुण्येऽपरिमितपुण्येऽपरिमितायुःपुण्यज्ञानसम्भारोपचयकारिणि स्वाहा।

अस्यां सर्वतथागतहृदयधारण्यां
भाषितमात्रायां सर्वापायाः

प्रशान्ता मोचितश्
चात्मा सर्वे नरकप्रेततिर्यग्गतिपन्नाः सत्त्वाः प्रजानन्ति।

सर्वे च ईकधातवोऽवभासिता
अवभास्य च द्वादशकारं बुद्धकृत्यं कृत्वा तस्मिन् एव सर्वतथागतहृदयधर्माक्षरे

प्रविष्टान्य् अभूवन्।

अथ खलु भगवान् पुनर्
अप्य् अमितायुर्वज्रप्रभाकरीं नाम समाधिं समापद्येमं सर्वतथागतायुर्वज्रं नाम हृदयधारणीम्
अभाषत।

 

ॐ अमृतेऽमृतेऽमृतोद्भवेऽमृतसम्भवेऽमृतविक्रान्तगामिनि

सर्वक्लेशक्षयंकरि
स्वाहा।

अथास्याम् भाषितमात्रायां
तथैव सर्वसत्त्वानां सर्वदुःखानि  प्रशान्तानि।

अथ भगवान् पुनर्
अप्य् अमोघावरणविनाशनीं नाम समाधिं समापद्येमं सर्वतथागतावरणत्रोटनं नाम हृदयधारणीं

स्वहृदयाद् निश्चचार।

 

ॐ कंकणि कंकणि रोचनि
रोचनि त्रोटनि त्रोटनि प्रतिहन प्रतिहन सर्वकर्मपरम्पराणि सर्वसत्त्वानां स्वाहा।

अस्यां भाषितमात्रायां
तथैव सर्वम् अभूत्।

अथ खलु भगवान् पुनर्
अपि सर्ववरणविमलविशुद्धिवज्रं नाम समाधिं समापद्येमां सर्वतथागताशेषावरणविनाशनीं नाम
हृदयधारणीं स्वहृदयाद् निश्चचार।

ॐ रत्ने रत्ने महारत्ने
रत्नसम्भवे रत्नकिरणे रत्नमालाविशुद्धे

शोधय सर्वपापं हुं
फट्।

अस्यां भाषितमात्रायां
सर्वमारभवनानि ध्वस्तानि विध्वंसितान्य्

अभूवन्।

 

(३५ )

अथ खलु भगवान् पुनर्
अप्य् अमोघाप्रतिहतसर्वावरणविध्वंसनिनामसमाधिं समापद्येमां सर्वतथागतहृदयधारणीं स्वहृदयाद्
निश्चचार।

ॐ अमोघाप्रतिहतसर्वावरणविनाशनि
हर हर हुं फट्।

 

अस्यां भाषितमात्रायां
सर्वोपमलोकधातुः कंपितः प्रकंपितः संप्रकंपितश् चलितः प्रचलितः संप्रचलितः क्षुभितः
प्रक्षुभितः संप्रक्षुभितः।

अनेकान्य् आश्चर्याद्भुतानि
लोके संदृश्यन्ते स्म।

तथैषां मण्डलं भवति।

चतुरस्रं चतुर्द्वारं
चतुःपार्श्वे समन्वितम्॥

चतुस्तोरणसंयुक्तं
नेमिनिर्यूहसंयुतम्॥

तस्याभ्यन्तरतो
लेख्यं चक्रमण्डलम् उत्तमम्॥

चतुरारसमायुक्तं
नाभिमण्डलम् उत्तमम्॥

तस्य मध्ये लिखेद्
नाथं वज्रपाणिं महाबलम्॥

वज्रघण्टाकरं सौम्यं
पूर्णेन्दुहसिताननम्॥

पूर्वारमध्यभागेषु
लिखेद् अक्षोभ्यनायकम्॥

दक्षिणेन लिखेद्
रत्नं पश्चिमेनाम्बुजोत्तमम्॥

उत्तरेणमोघाख्यातं
लिखेद् वीरम् महाबलम्॥

चक्रवर्तिकृतटोपान्
ईखेत् सर्वतथागतान्॥

चन्द्रमण्डलसंकाशान्
सर्वाभरणभूषितान्॥

वरदाभयहस्तान् तु
वज्रपर्यंकसुस्थितान्॥

कोणभागेषु सर्वेषु
लेख्या धूपादयस् तथा॥

द्वारपालाश् च ते
ईख्याः क्रुद्धाः क्रोधपरायणाः॥

ततः प्रविश्य स्वयं
योगी आकर्षयेद् मन्त्रदेवताः॥

जः हुं वं होः भगवन्
वज्र एह्य् एहि समयस् त्वम्॥

ततश् चागतं नाथं
पूजयित्वा समासतः॥

प्रवेशयेद् मृत्यूहानाय
मृत्यूरगभयानि च॥

ॐ वज्रसमये हुं।

वज्रतेरिन्तिरीं
बद्ध्वा प्रवेशयेद् रत्नकरान्वितम्॥

पुष्पमालान्वितो
वापि क्षेपयेद् मण्डले तु तम्॥

ॐ प्रतीच्छ वज्र
ःउं।

 

(३६ )

ततः समयं देयम्।
ॐ वज्रसमये हुं।

ततोऽनेनोद्घाटयेद्
वज्रम्। ॐ वज्रहासोद्घाटय हुं।

ततोऽनेन दर्शयेत्।
ॐ वज्र दृश्य होः।

ततोऽभिषेकम् अनेन
दद्यात्।

ॐ वज्राभिषिञ्च
हुं। ॐ बुद्धाभिषिञ्च ॐ। ॐ रत्नाभिषिञ्च त्रां।

ॐ पद्माभिषिञ्च
ह्रीः। ॐ कर्माभिषिञ्च अः। ततः कलशाभिषेकं दद्यात्।

ॐ वज्रकलशाभिषिञ्च
हुं। ॐ बुद्धकलशाभिषिञ्च ॐ।

ॐ रत्नकलशाभिषिञ्च
त्रां। ॐ पद्मकलशाभिषिञ्च ह्रीः।

ॐ कर्मकलशाभिषिञ्च
अः।

ॐ मालाभिषिञ्च त्रं।
ॐ वज्रपटावलम्बनाभिषिञ्च त्रीं।

ॐ बुद्धमुद्राभिषिञ्च
ॐ। ॐ वज्रमुद्राभिषिञ्च हुं।

ॐ रत्नमुद्राभिषिञ्च
त्रां। ॐ पद्ममुद्राभिषिञ्च ह्रीः।

ॐ कर्ममुद्राभिषिञ्च
अः।

ॐ वज्रनामाभिषिञ्च
ॐ हुं त्रां ह्रीः अः। ॐ कर्माभिषिञ्च हुं अः।

ॐ वज्रचक्राभिषिञ्च
हुं भ्रूं।

ॐ वज्रचक्राधिपतिस्
त्वाम् अभिषिञ्च
(येत्) ॐ ॐ ॐ। हुं हुं हुं।

त्रां त्रां त्रां।
ह्रीः ह्रीः ह्रीः। अः अः अः।

ॐ वज्रधारिण्य्
अभिषिञ्च हुं। ॐ तथागतधारिण्य् अभिषिञ्च ॐ।

ॐ रत्नधारिण्य्
अभिषिञ्च ट्रां। ॐ पद्मधारिण्य् अभिषिञ्च ह्रीः।

ॐ कर्मधारिण्य्
अभिषिञ्च अः।

ॐ सर्वतथागतगुह्याभिषिञ्च
ॐ। ॐ वज्रगुह्याभिषिञ्च हुं।

ॐ रत्नगुह्याभिषिञ्च
त्रां। ॐ पद्मगुह्याभिषिञ्च ह्रीः।

ॐ कर्मगुह्याभिषिञ्च
अः।

ॐ प्रज्ञोपायसमायोगाभिषिञ्च
हुं अः।

 

(३७ )

एवम् अभिषिञ्च्यायुर्वर्धनिं
विद्यां दद्यात्।

ॐ वज्रायुषि हुं
अः।

अस्यः साधनं भवति।

वज्रायुर् भगवान्
चन्द्रमण्डलारूढश् चन्द्राभः सर्वाभरणमण्डितः।

अभयहस्तो वरदश्
च। अमृतम् क्षरन्तम्। तस्याधस्तात् साधकं प्रसारितांजलिहस्तम् ऊर्ध्वमुखं भगवन्तं निरीक्षयन्तं
लिखेत्। पञ्चोपचारेण पूजां कृत्वा तस्याग्रतः शतसहस्रं जपेत्।

 

ततः पूर्णमास्यां
महतीं पूजां कृत्वा कपिलागोघृतं नवे भाण्डे स्थाप्य वामवज्रेणाक्रम्य भगवन्तम् प्रध्यायन्
सकलां रात्रीं जपेत्। ततो गन्धं विनस्यति। अपूर्वं वा गन्धम् उद्वहति। ऊष्मा धूमः शिखा
वा निश्चरति। रश्म्युल्का प्रमुञ्चति। एवम् आदिभिर् निमित्तैस् तद् घृतं नवनीतं तैलं
व। उदकं दधि क्षीरं मद्यं रुधिरं वसां

अस्थिकां वा। मांसं
वान्यतमं वा संप्रसाध्य प्रत्यूषे रक्षादिकं च कृत्वा। आत्मानंश् च संशोध्य पिबेद्
भक्षयेत्। यथा निमित्तेन यावदा चन्द्रार्कायुर् भवति। वज्रसत्त्वश् चेति। अधमेनाधमा
सिद्धिर् भवेत्। नात्र संशयः। निर्मित्तेन भवेल् लोके निर्व्याधिर् मेधान्वितः।  वलिपलितसुखात्मा दृढकायः शतायुः अन्यान्य् अपि कर्माणि
शान्तिपुष्टिवशादिकं करोत्य् अविचारेण जापमात्रात्। न संशयः।

 

अथ चत्वारो महाराजानो
भगवन्तं वज्रपाणिं प्रणिपत्यैवम् आहुः। वयम् अपि भगवन् सर्वसत्त्वानाम् अर्थाय हिताय
सुखाय स्वकस्वकानि हृदयानि भाषयामः।

आज्ञापयतु भगवान्
आज्ञापयतु वज्रधृक्। साधु साधु

महाराजानो देशयध्वम्
अहम् अनुमोदे। अधितिष्ठामि स्वसमयम्।

 

अथ वैश्रवणो महायक्षराजा
भगवदनुज्ञातोऽनुमोदितोऽधिष्ठितस् स्वहृदयं स्वहृदयाद् निश्चचार। ॐ वैः। अथऽधृतराष्ट्रस्
तथैव स्वहृदयम् अभाषत। ॐ धृः। अथ विरूढकः कुम्भाण्डमहाराजा स्वहृदयम् अभाषत। ॐ विः।
अथ विरूपाक्षो नागमहाराजा तथैव स्वहृदयम् अभाषत। ॐ क्षः।

 

(३८ )

 

अथ तेषां मण्डलं
भवति।

चतुरस्रं चतुर्द्वारं
पञ्चमण्डलमण्डितम्॥

तस्य मध्ये लिखेद्
नाथं वज्रपाणिं सगर्वितम्॥

तस्य वामे पार्श्वे
तु लिखेद् वैश्रवणं शुभम्॥

गदानकुलिकाहस्तं
रत्नाभरणमण्डितम्॥

स्थूलं सिंहासनारूढं
हेमवर्णं महाद्युतिम्॥

भद्रकुम्भादिरत्नौघवर्षयन्तं
लिखेद् बुधः॥

पुरतो धृतराष्ट्रं
तु विणावादनतत्परम्॥

ललितं श्यामवर्णं
तु सर्वाभरणभूषितम्॥

दक्षिणेन लिखेद्
वीरं खड्गहस्तं विरूढकम्॥

पश्चिमेन विरूपाक्षं
वज्रपाशधरं परम्॥

फणैः सप्तभिः संपूर्णं
ईहिताक्षिभिर् निर्गतम्॥

द्वारदेशेषु सर्वेषु
द्वारपालास् तथैव च॥

ततः प्रविशेत् स्वयं
मन्त्री मुद्रया चक्रसंज्ञया॥

आकर्षयेद् भगवन्तं
ततो राज्ञः समाहरेत्॥

आकृष्य पूजयेद्
विद्वान् अर्घपात्रैर् यथाविधि॥

ततः प्रवेशयेच्
छिष्यान् पुष्पमालाविभूषितान्॥

राजानं क्षत्रियं
वापि ब्राह्मणादिकम् एव वा॥

मन्त्रेणानेन मन्त्रज्ञो
मुद्रया वज्रधारया॥

 

ॐ वज्रसमये ःउं।

ततः पुष्पं रत्नं
वा क्षेपयेद् अनेन च।

ॐ वः प्रतीच्छध्वं
महोत्तमाः।

पतति यस्य राजस्य
सोऽस्य सिध्यति नान्यथा॥

ततोऽभिषिञ्चेत्
कलशैश् चतुर्भिः कोणसंस्थितैः॥

पञ्चमं वज्रपाणेस्
तु मुद्रयैवाभिषिञ्चयेत्॥

एवम् आदिक्रमेणैव
मण्डलख्याभिषिञ्चनात्॥

अथ राजाभवते राजा
राजा भवते महान्॥

जम्बुद्वीपपतिश्
श्रीमान् चतुर्द्वीपपतिर् वरः॥

चतुरभिषेकाच् च
चतुर्द्वारप्रवेशनात्॥

तस्याहं वज्रधरो
राजा पालयामि स्वपुत्रवत्॥

वयं चतुर्महाराजाः
पालयामः सततं नृपम्॥

सभृत्यपरिजनन् तु
सराष्ट्रपुरमण्डलम्॥

दुष्टान् तस्य हनिष्यामः
परराष्ट्रं च तस्य च॥

व्याधिमृत्युभयं
चापि दुर्भिक्षम् ईत्यु पद्रवम्॥

वैश्रवणः कुरुते
पुष्टिं धृतराष्ट्रस् तु शान्तिकम्॥

 

(३९ )

 

विरूढकोऽकलमृत्युं
हन्यात् सपशुबान्धवान्॥

विरूपाक्षः कुरुते
क्षेमं दुर्भिक्षादिविनाशनम्॥

संक्षेपतो वयं तस्य
सर्वाशां सर्वचिन्तितम्॥

करोम वज्रपाणिस्
तु द्रोहं यदि न निश्चयात्॥

 

अथ दशदिग्लोकपाला
भगवन्तं प्रणिपत्यैवम् आहुः॥

वयम् अपि भगवन्
सर्वसत्त्वहितसुखाय॥

स्वकस्वकानि हृदयानि
प्रददामः॥

साधु साधु लोकपालाः
साधु साधु वदतेति॥

अथेशानो भूताधिपतिर्
हृदयं ददाति।

ॐ इ। ॐ ई। ॐ अः।
ॐ यः। ॐ ऋः। ॐ वः। ॐ यः। ॐ कुः। ॐ आः। ॐ व्रः।

 

अथैषां मण्डलं भवति।

मण्डल्लं पूर्ववद्
लिखेद् मध्ये नाथं तथैव च॥

दिक्पालास् तु स्वदिग्भागे
स्थापयेत् पुरतो द्वयम्॥

आदित्यं वराहरूपन्
तु द्वारपालास् तथैव च॥

ततश् चाकृष्य तान्
सर्वान् पूजयेत् सर्वपूजया॥

ततः प्रवेशयेत्
शिष्यान् प्रविश्य स्वयम् एव तु॥

अभिषिञ्चयेत् कलशैश्
च दिक्पालादिमन्त्रितैः॥

ततो दद्याद् धृदयं
साधनाय हितैषणतः॥

सिध्यन्तेऽविचाराश्
च दिक्पालास् स्वदिक्स्थिताः॥

अथ ते तुष्टा एवम्
आहुः। यः कश्चिद् भगवन् राजा क्षत्रियो वा मूर्ध्न्य् अभिषिक्तः। एतद् मण्डलं प्रविश्याभिषेकं
गृह्णेत्। अन्यो वा श्राद्धः कुलपुत्रो वा कुलदुहिता वा। तस्य वयं भगवन् सर्वदा सर्वत्र
रक्षावरणगुप्तिं संविधास्यामः। परराष्ट्राणि च वर्धयिष्यामः कालेन कालं वर्षिष्यमः।
सस्यपुष्पफलानि च निष्पादयिष्यामः।

अथ यमो महाधर्मराजा
भगवन्तं प्रणम्यैवम् आह। अहं भगवन् तस्य महाराज्ञ आयुर् ददामि। अष्टकालमरणानि प्रतिबाधयामि।

 

(४० )

 

नैरृतो महाराक्षसाधिपतिर्
एवम् आह। अहं भगवन् तस्य राज्ञो राजपुत्रस्य ब्राह्मणस्य क्षत्रियस्य वान्यतरेषु वा
मनुष्येषु न व्याधिप्रेतपिशाचभयं न राक्षसभयादिकं नाकालमृत्युभयं

करिष्यामि। सर्वदा
रक्षावरणगुप्तिं करिष्यामि।

अथ वरुणो महाराजैवम्
आह। अहं भगवन् तस्य महाराज्ञः सर्वदा सर्वत्र सर्वविषवं प्रतिपालयिष्यामि। आरक्षां
च करिष्यामि। सस्यानि च निष्पादयिष्यामि। नागदोषानि च न प्रयच्छामि। विषाशनीन् च नोत्सृजामि।
सर्वाकालमरणानि च प्रतिबाधयामि।

 

अथ वायव्याधिपतिर्
एवम् आह।

अहम् अपि भगवन्
तस्य महासत्त्वस्य सर्वदा वायुभयं नोत्सृजामि। नाकालवातं चोत्सृजामि। सर्वसस्यपुष्पफलानि
च परिनिष्पादयिष्यामि। सर्वभयञ् च प्रतिबाधयामि।

अथ कुवेरो महायक्षराजा
भगवन्तं नमस्यैवम् आह।

 

अहं भगवन् तस्य
महासत्त्वस्याष्टाशीतिभिर् महायक्षसेनापतिभिः सहागत्य सर्वकालोद्योगेन सर्वदा सर्वभयं
प्रतिबाधयामि। सर्वधनधान्यसमृद्धिञ् च करोमि।

स्वजनपरिजनदेशविषयभृत्यबन्धुबान्धवमित्रपुत्रदुहितृ-

भार्यादिरक्षां
च करोमि। गोगव्यखरोष्ट्रमेषगजवाजिच्छागदिरक्षां

करोमि।

 

अथेशानः सर्वभूताधिपतिर्
भगवन्तं प्रणिपत्यैवम् आह। अहं भगवन् तस्य राज्ञो राजपुत्रस्य क्षत्रियस्य ब्राह्मणस्य
वा। इहामुत्र परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं
विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं दिग्बन्धं वज्रप्राकारं वज्रकीलनं वज्रपञ्जरं
च करोमि। सर्वकार्येषु प्रत्युपस्थापयामि। कार्येष्व् अकार्येषु निमित्तं च दर्शयामि।
स्वप्ने च सर्वम् शुभं कथयामि। साधयतोऽविघ्नेन सर्वसिद्धिं च दास्यामि।

 

(४१ )

 

अथाकाशचारी खत्गपतिर्
भगवन्तं प्रणिपत्यैवम् आह। अहं भगवन् सर्वदा सर्वं च पथिगतस्य राज्ञो राजपुत्रस्य राजामात्यस्य
ब्राह्मणस्य क्षत्रियस्य वा स्वयम् आगत्य सर्वपरिवारेण रक्षावरणगुप्तिं संविधास्यमि।
सर्वावरणें प्रतिवारयामि। सर्वव्याधिम् अपनयामि। सर्वदा चानुबद्धो भवति। अथ पातालाधिपतिर्
महावराहो भगवन्तं नमस्यैवम् आह।

अहं भगवन्तस्य नराधिपतेश्
च नृपसुतस्य वा द्विजातेर् द्विजसुतस्य वा क्षत्रियवैश्यशूद्रस्य वान्यतरस्य श्राद्धस्य
कुलपुत्रस्य कुलदुहितुर् वा सर्वदा सर्वार्थं निष्पादयिष्यामि। सर्वभयेषु च रक्षां
करिष्यामि। अनेनापि परित्रायिष्यामि।

 

अथाष्टौ महाग्रहाः
सनक्षत्रपरिवारा एवम् आहुः। वयं भगवन्

सपेरिवाराः स्वकस्वकानि
हृदयानि ददामः। तद् भगवान् अधितिष्ठतु। साधु साध्व् अधितिष्ठंतु मया भाषध्वं महाग्रहः।
अथादित्यादयो महाग्रहा भगवन्तं नमस्याभाषन्त।

ॐ आः। ॐ सोः। ॐ
अः। ॐ बुः। ॐ बृः। ॐ शुः। ॐ साः। ॐ राः।

अथैषां मण्डलं भवति।

मध्ये भगवन्तं वज्रपाणिं
त्रैलोकविजयरूपं संलिख्य।

समन्ताच् चत्वारो
महासमुद्रान् लिखेत्॥

शुक्रंतु तस्य पुरतः
सोमं प्ऱ्ष्ठतो लिखेत्॥

दक्षिणे बृहस्पतिं
लिखेद् वामतश् च बुधं लिखेत्॥

अग्निस्थाने तु
चांगारम् आदित्यं वायव्यां दिशि॥

शनिश्चरं तु ऐशान्यां
राहुं राक्षससन्निधौ॥

नक्षत्रं सर्वत्र
ईख्यं समन्ताद् बाह्यमण्डले॥

द्वारे द्वारे तथा
द्वारीं ईखेच् च क्रोधमानसम्॥

वज्रधार्या प्रविश्य
सर्वान् आवाहयेत्॥

वज्रंकुशादिभिर्
इति ततश् शिष्यान् प्रवेशयेत्॥

ॐ वज्र हन हुं फट्।

ॐ वज्रग्रहसमये
हुं फट्।

ॐ वज्रग्रह प्रतीच्छ
समये हुं।

ततोऽष्टभिः कलशैर्
अभिषिञ्चेत्॥

 

(४२ )

अष्टग्रहाभिमन्त्रितैः॥

ततो वज्रमुद्रयाभिषिञ्चेत्॥

ततस् सर्वग्रहं
साधयेत्॥

अथ ते महाग्रहा
भगवन्तं नमस्यैवम् आहुः। वयं भगवन् अष्टौ महाग्रहास् तस्य महाराज्ञो राजपुत्रस्य वा
सर्वदा सर्वत्र तथैव सर्वम् करिष्यामः। अथ नक्षत्रक्षणलवमुहूर्तकरण तिथियोगराशिलग्नविष्टिमण्डलादिदेवतास्
तथैव नमस्यैवम् आहुः। वयम् अपि भगवन् सर्वदा तस्य महासत्त्वस्याज्ञां नोत्सृजामः। भृत्यवत्
प्रतिपालयामः। सर्वनगरनिगमजनपदराष्ट्रराजधानीं च प्रतिपालयामः। उत्पन्ने तु महाभये
युष्माकं पूजयिष्यति तस्यावश्यं तद् भयं न भविष्यति।

 

अथाष्टौ महानागाः
फुंकारध्वनिना भगवन्तं संतोष्यैवम् आहुह्।

वयं भगवन् सर्वेषां
गुह्यहृदयं दास्यामः।

साधु साधु महानागा
ददध्वं हृदयं वरम्।

अथ ते तुष्टा महानागा
भगवन्तं नमस्यैवम् आहुः।

ॐ फुः। ॐ फः। ॐ
फुं। ॐ फां। ॐ फिः। ॐ फेः। ॐ फैः। ॐ फौः।

 

अथैषां मण्डलं भवति।

अष्टपत्रं महापद्मं
संलिखेच् छ्वेतवर्णकम्॥

तस्यमध्ये लिखेद्
नाथं वज्रपाणिं सुक्ऱ्ष्णकम्॥

समन्तात् सप्तफणं
तर्जयन्तं महोरगम्।

अनन्तं तक्षकं चैव
कर्कोटं कुलिकं तथा॥

वासुकिं शंखपालं
च पद्मं वै वारुणं तथा॥

एते लेख्याः समासेन
पत्रे पत्रे फणज्वलाः॥

सप्तसप्तफणा लेख्याः
सभार्याः कण्ठसमागमाः॥

कलशाष्टकं संस्थाप्य
बलिनैवेद्यशोभितम्॥

घृतक्षीरसमाक्षिकंकृत्रिमाश्
चापि भेदकाः॥

ततः संप्रविश्य
वज्रात्माकर्षयेत् पाणिना फणैः॥

फुंकारसहितैस् तु
जः हुं वं होः प्रवर्तयेत्॥

ततः प्रवेश्य तान्
सर्वान् राजं क्षत्रियम् एव वा। अभिषिञ्चेत् फुंकारैर्

विषदोषमलापहैः।

ततः सिध्यन्ति सर्वे
ते नागा नामग्रहाद् अपि॥

 

(४३ )

 

अथ ते समन्तं तुष्टा
भगवन्तं नमस्य च॥

प्रणिधानं प्रकुर्वन्ति
स्थित्वा प्राञ्जलयः पुरः॥ 

 

वयं भगवतः शासनाभिरतस्य
यद् इदं मण्डलं प्रविष्टस्य विसंवादयामः। तदा भगवन्तम् एव विसंवादयामः।

तदास्माकं तप्तवालुका
भविष्यन्तु। आदीप्तेन वज्रेणास्माकं मूर्ध्नि स्फुटिष्यन्ति। सततं समितं च तस्य महासत्त्वस्य
रक्षावरणगुप्तिं करिष्यामः। महौजोबलवीर्यं क्षेप्स्यामः। निर्विषं चापि विषं करिष्यामः।
कालेन कालं वर्षयिष्यमः। सर्वसस्यानि निष्पादयिष्यामः। सर्वपरराष्ट्त्राणि च विकालवृष्टिम्
उत्सृजामः। सर्वभयं विनाशयिष्यामः। जिनाज्ञया वज्रधराज्ञया प्रतिपालयिष्यामः।

अथ साधनं भवति।

फुंकारं जपेल् लक्षं
ध्यात्वा वज्रधरं प्रभुम्॥

सितांशुमालिनं दिव्यं
शिखायं फणावस्थितम्॥

ततो विषं गृह्य
ध्यात्वा फुंकारमण्डलम्॥

रश्मिमालाकुलं दिव्यं
फुंकारं तत्र चिन्तयेत्॥

आकर्षयेद् हृतकृतिफणिपाशाकृतिकारेण॥

फुंकारवातेन समीरयेत्
तं विषं समस्तम्॥

तनुरस्थिमांसगम्॥

ततः सर्वकर्माणि
कुर्याद् विषज्वरगरादिकम्॥

मुष्ट्या वै हरेत्
सर्वं किं पुनः फणमुद्रयेति॥

 

अथ महाभैरवो महादेवाधिपतिर्
अष्टभिर् महामतृकाभिः परिवृतो भगवन्तं प्रणिपत्यैवम् आह। मद्भयान् मातृकाभयाच् च भगवन्
सर्वदेवनागादयः संत्रस्ता वित्रस्ताः प्रत्रस्ता अधोमुखीभूता निमग्ना नष्टचेतसः परिभ्रमन्ति
तु तेषां हितार्थाय हृदयं प्रदास्यामि। तत् साधु भगवान् अधितिष्ठतु। साधु साद्बु महाभैरव
सुभैरव भाषस्व स्वहृदयं दिव्यमातृकाणं च सर्वासाम्।

 

(४४ )

अथ महाभैरवः सुभैरवनादं
नदन् एवम् आह।

ॐ भैरवैः भीः स्वाहा।

ॐ भाः स्वाहा। ॐ
भीः स्वाहा। ॐ भूः स्वाहा। ॐ भेः स्वाहा।

ॐ भैः स्वाहा। ॐ
भोः स्वाहा। ॐ भं स्वाहा। ॐ भः स्वाहा।

 

इत्य् एते भगवन्
अष्टौ भैरवाः समाज्ञाकराः।

अथैषां मण्डलं भवति।

अष्टारं महाचक्रं
लिख्य मध्ये निवेशयेत्॥

वज्रपाणिं महाक्रोधं
त्रिलोकविजयावहम्॥

तस्य पादतले क्रुद्धं
भैरवानां महाधिपम्॥

लिखित्वा भैरवीयुक्तं
लिखेद् अन्यान् यथासुखम्॥

आरमध्येषु सर्वेसु
लिखेद् भैरवम् अष्टकम्॥

मातृकाभिश् च समायुक्तं
तत्क्रोधास्यक्रुद्धमानसम्॥

द्वारे द्वारे तथैवेह
लिखेद् द्वारिं सुक्रोधनम्॥

ततो वाह्यांकुशादिभिः
पूजयित्वा कपालया रुधिरपूर्णया॥

मद्यं मांसं बलिं
दिव्यं रुधिरपूर्णभाजनम्॥

कपालं मुण्डनखण्डं
चाष्टौ कलशान् पूरितान्॥

रुधिरैर् आसवैर्
वापि स्थापयेत् तस्य मण्डले॥

ततः प्रवेशयेच्
छिष्यान् त्रिलोकविजयापरः॥

अभिषिञ्चेत् कपालेन
कलशैर् अपि चाष्टभिः॥

ततः कर्माणि दद्यात्।

मातृकागृह एकलिंगे
वा त्रिलोकमथने वरम्॥

पूजां कृत्वा यथान्यायं
जपेल् लक्षचतुष्टयम्॥

ततो नादं प्रश्रुयते
भैरवस्य महात्मनः॥

निर्भीर् अर्घं
प्रयच्छेत् कपालेन सुरक्तिना॥

ततः पश्यति तं क्रुद्धं
भैरवं दुष्टमानसम्॥

मातृकागणसंपूर्णम्
अष्टभिर् भैरवैर् वृतम्॥

तं दृष्ट्वा निर्भयो
भूत्वा दद्याद् मांससुपूरितम्॥

कपालं वासवैः पूर्णं
हुंकारम् अनुस्मरेण॥

ततस् तुष्टः प्रसिध्येत
भैरवो दुष्टघातकः॥

ब्रूयात् किम् इच्छेति
तद् दद्यात् तुष्टमानसः॥

रसरसायनं द्रव्यं
खड्गं चक्रं त्रिशूलकम्॥

स्वर्गमर्त्यपातालं
राज्यं द्वीपचतुष्टयं चापि॥

 

(४५ )

ततस् तं वज्रहुंकारम्
अधिष्ठाय गन्धपुष्पादिभिर् अभ्यर्च्य स्रग्विणं सुरभिताननं च कृत्वोत्तमां दक्षिणाम्
आदाय बहिः स्थितकलशोदकेनाभिषिञ्च्य। ॐ गृह्ण वज्रसमय हुं वं इत्य् अनेन क्रोधतेरिन्तिरीं
स्वयं बद्ध्वा शिष्येण बन्धयेत्।

 

वज्रबन्धं तले कृत्वा
छादयेत् क्रुद्धमानसः॥

गाढम् अंगुष्ठवज्रेण
क्रोधतेरिन्तिरी स्मृता॥

 

ततस् तयैवांगुष्ठाभ्यां
पुष्पमालां ग्राहयित्वा प्रवेशयेद् अनेन हृदयेन। ॐ वज्रसमयं प्रविशामीति। पूर्वदवरे
च वज्रांकुशेन तम् आकर्षयेत्। दक्षिणेन पाशेन प्रवेशयेत्।

पश्चिमेन स्फोटेन
बध्नीयात्। उत्तरे वज्रावेशेन वेशयेत्। पुनः

पूर्वद्वारेन प्रवेश्यैवं
वदेत्। अभ्यर्च्य सर्वतथागतकुले प्रविष्टस् तद् अहं तु वज्रज्ञानर्न् उत्पादयिष्यामि।

 

येन ज्ञानेन सर्वतथागतसिद्धिर्
अपि प्राप्स्यसे। किम् अन्या सिद्धिः। न च त्वयादृष्टमण्डलस्य पुरतो वक्तव्यम् मा ते
समयो व्यथेद् इति।

 

ततः स्वयं वज्राचार्यः
क्रोधतेरिन्तिरीम् एवम् ऊर्ध्वमुखीं बद्ध्वा वज्रं शिष्यस्य मूर्ध्नि स्थाप्यैवं वदेत्।
अयं ते समवत्वज्रो मूर्ध्निं ते स्फारयेद् यदि त्वं कस्यचिद् ब्रूयाः। ततस् तयैव समयमुद्रयोदकं
शयथा हृद येन सत्कृत्य परिजप्य तस्मै वज्रशिष्याय पाययेद् इति। तत्रेदं शयथा हृदयम्।

वज्रसत्त्वः स्वयं
तेऽद्य हृदये समवस्थितः॥

निर्भिद्य तत् क्षणं
यायाद् यदि ब्रूया इमं नयम्॥

वज्रोदक। इति। ततः
शिष्याय ब्रूयाद् अद्य प्रभृति तेऽहं वज्रपाणिर् यद् अहं ब्रूयाम् इदं कुरु तत् कर्तव्यं
न च त्वयाहम् अवमन्तव्यो मा ते विषमापरिहारेण कालक्रियां कृत्वा नरके पतनं स्याद् इति।

 

(४६ )

 

तद् अनु अकारं वज्ररश्मिमालायुक्तं
स्वहृदि चिन्तयेत्। ततः शिष्यहृदूर्णाकण्ठमूर्ध्निषु चन्द्रमण्डलस्थपञ्चसूचिकं ज्वालावज्रं
रत्नं पद्मं विश्ववज्रं च चिन्तयेत्। एभिर् यथाक्रमेण हुं त्रां हृः अः इति।

 

कपाटोद्घाटनमुद्रया
स्वकीयं शिष्यहृदयं चोद्घाट्य स्वहृदयाद् अकारम् निश्चार्य शिष्यहृद्गतवज्रमध्ये बुद्ध्या
प्रवेश्य सर्वकायम् आपूर्यमाणं चिन्तयेत्। एवं वदेत्। ब्रूहि सर्वतथागताश् चाधिष्ठन्तां
वज्रसत्त्वो मे आविशतु। ततस् वर्तमानेन वज्राचार्येण क्रोधतेरिन्तिरीं बद्ध्वेदम् उच्चारयितव्यं।

अयन् तत् समयवज्रं
वज्रसत्त्व इति स्मृतम्॥

आवेशयतु तेऽद्यैव
वज्रज्ञानम् अनुत्तरम्॥

वज्रावेश अः इति।
१०।२०।३०।४०।५०।६०।७०।८०।९०।१०० वारानुच्चार्य नियतम् आविशति।

ततः क्रोधमुष्टिं
बद्ध्वा सत्त्ववज्रीमुद्रां स्फोटयेद् इदम् उदीरयेत्।

ॐ सुम्भनि सुम्भनि
हुं। ॐ गृह्ण गृह्ण हुं। ॐ गृह्णापय गृह्णापय हुं।

ॐ आनय होः भगवन्
वज्रराज हुं फट्। अः अः अः अः।१०।२०।३०।४०।५०।६०।७०।८०।९०। शतवारान् उच्चारयेत्। भगवता
च वज्रवातमण्डल्या च वज्रहुंकारेण रक्तवर्णज्वालाप्रभेणापूर्यमाणं चिन्तयेत्। पुनर्
अपि यद्य् आवेशो न भवति। ततो घण्टासहितां वज्रवेशसमयमुद्रां बद्ध्वा वामपादेन तस्य
दक्षिणपादम् आक्रम्योपर्य् आकाशदेशे वैरोचनं श्रीवज्रहुंकारस्योपरि तस्यैवावेशनाय क्रुद्धहुंकाररश्मिसमूहेनाक्रम्यमाणं
अधस्ताच् च वज्रवातमण्डया हुंकारेणोत्थाप्यमानम् एवं पूर्वदिदिक्स्थितैर् अक्षोभ्यादिभिः।
हुं त्रां हृः इति स्वबीजरश्मिव्यूहैः सम्पात्यमानं

चिन्तयंस् तम् आवेशयेत्।
हुं वज्रावेश अः शतधो च्चारयेत्।

अथ पापबहुत्वाद्
आवेशो न भवति। तदा पापस्फोटनमुद्-

 

(४७ )

रया तस्य पापानि
स्फोटयेत्। ततः।

समिद्भिर् मधुरैर्
अग्निं प्रज्वाल्य सुसमाहितः॥

निर्दहेत् सर्वपापानि
तिलहोमेन तस्य तु॥

 

 ॐ सर्वपापदहनवज्राय स्वाहा। इति दक्षिणहस्ततले कृष्णतिलैः
पापप्रतिकृतिं कृत्वा हुंकारं मध्ये विचिन्त्य। तर्जन्यंगुष्ठाभ्यां होमयेत्। ततो होमकुण्डान्
निर्गत्य ज्वालाकुलैर् वज्रैस् तस्य शरीरे पापं दह्यमानं चिन्तयेत्। ततः पुनर् वज्रावेशं
तथैवं बद्ध्वावेशयेत्।

नियतम् आविशति।
एवम् अपि वस्यावेशो न भवति तस्याभिषेकं न कुर्याद् इति। आविष्टस्य च पञाभिज्ञादिनिष्पत्तिस्
तत् क्षणाद् एव भवति। ततः समाविष्टं ज्ञात्वा पुनः। ॐ वज्रसत्त्वसत्त्वसंग्रहादिगीतिम्
उच्चार्य। क्रोधमुष्ट्या तथैव सत्त्ववज्रीमुद्रां स्फोटयेत्। स चेद् आविष्टो वज्रसत्त्वक्रोधमुद्रां

बध्नीयत्। तदाचार्येण
वज्रमुष्टिं क्रोधमुद्रां बध्नीयात्। एवम् यावत् स चेत् वज्रहासमुद्रां बध्नीयात्।

तदा वज्रधर्मक्रोधमुद्रां
बन्धयेद् इत्य् एवं सांनिध्यं कल्पयन्ति। ततस् तस्य जिह्वायां वज्रं विचिन्त्य। ब्रूहि
वज्र। इति वक्तव्यम्। ततः सर्वं कथयति। ततस् तां मालां महामण्डले क्षेपयेत्। प्रतिच्छ
वज्र होः। इति। ततो यत्र

पतति सोऽस्य सिद्ध्यति।
ततस् तं मालां तस्यैव शिरसि बन्धयेत्। ॐ प्रतिगृह्ण त्वम् इमाम् वज्रसत्त्व महाबल।
इति। ततो मुखबन्धं मुञ्चेद् अनेन।

ॐ वज्रसत्त्वः स्वयं
तेऽद्य चक्षूद्घाटनतत्परः॥

उद्घाटयति सर्वाक्षो
वज्रचक्षुर् अनुत्तरम्॥ इति। हे वज्रपश्य। इति। ततो महामण्डलवज्रांकुशाद् आरभ्य यावद्
वैरोचनपर्यन्तं दर्शवेत्। ततस् तिष्ठ वज्रेत्यादिना शिष्यप्रवेशमुद्रां मोक्षयेत्।

ततो बाह्यमण्डलाभ्यन्तरे
चन्द्रमण्डलं पूर्वद्वाराभिमुखं संलिख्य बाह्यतो वा शिष्यं श्रीवज्रहुंकारमुद्रया सत्त्ववज्रादिभिश्
चाधिष्ठाय महामुद्रया ततः प्रतिष्ठाप्याभिषिञ्चेत्।

 

(४८ )

 

गन्धपुष्पादिभिर्
अभ्यर्च्यार्घं दत्वा। छत्रध्वजपताकादिभिस्

तुर्यशंखनिनादितैश्
च।

ततो मालगाथाभिर्
अभिनन्द्यादौ तावेद् उदकाभिषेकेन ततो मुद्राभिषेकेन मुकुटपट्टवज्राधिपतिनामाभिषेकैश्
चाभिषिञ्चेत्। पुनः पुष्पादिभिर् लास्याद्यष्टविधपूजया च पूजयेत्। शिष्येणाचार्यं वलितवज्रांजलिना
प्रणम्योत्तमां दक्षिणं दत्वा पुष्पाद्यभिषेकाश् च ग्राह्या इति।

आचार्याभिषेकं तु
श्रीवज्रहुंकारमुद्रया तथैव प्रतिष्ठाप्य

यथा

निर्दिष्टेषु स्थानेषु
समयमुद्राभिस् तस्य काये श्रीवज्रहुंकारादीन् न्यस्य। पुनर् अपि अनेनाष्टोत्तरशतसहस्रपरिजप्तं
विजयकलशं कृत्वा।

ॐ वज्राधिपति त्वाम्
अभिषिञ्चामि दृढो मे भव जः हुं वं होः हुं फट् इति। तत इमं चोदीरयन्। ॐ वज्राभिषिञ्च।
इति चोदकाभिषेकं वज्रमुष्टिनोदकं विजयकलशाद् गृहीत्वा दद्याद् इदं च ब्रूयात्॥

इदं ते नारकं वारि
समयातिक्रमाद् दहेत्॥

समयाभिरक्षात् सिद्धिः
सिद्धं वज्रामृतोदकम्॥

वज्रघण्टं च मुद्रां
च यद्य् अमण्डलिनो वदेत्॥

हसेद् वाश्रद्धदानेन
जनसंगणिकास्थितः। इति।

ततः सर्वविधिम्
अनुष्ठाय नामाष्टशतेन संस्तुत्य गाथापञ्चकेनानुज्ञं दत्वोद्गतव्याकरणेन सर्वशिष्यान्
सर्वशिष्यान् व्याकुर्याद् इति।

अथ गुह्याभिषेको
भवति। आचार्याभिषेकार्हं प्रवेश्य सर्वमण्डलं

तु तत् कुरुष्व।
इति।

अनेककर्मसंसिद्धिं
सिद्धिं चापि यथेप्सिताम्॥

प्राप्नोति नियतं
कृत्स्नाम् अधमोत्तममध्यमाम्॥

निर्विघ्नेन परां
भूमिं किं पुनः क्षुद्रसिद्धयः।

बुद्धत्वं बोधिसत्त्वत्वं
वज्रसत्त्वत्वम् अदुर्लभम्॥ इति।

यस्य सिद्धिर् निर्जायते
यस्य पापा महाग्रहाः॥

विघ्ना विनायकाश्
चापि मृत्यवो मारकायिकाः॥

 

(४९ )

 

नानाभयशस्त्रैस्
तीव्राः सिद्धिकर्मविधारिणः॥

ते तस्य नश्यन्ति
नापि जायन्ते च महोत्तमा॥

होमकर्मविधानेन
ध्रुवम् आशु प्रसिद्धयः॥

देवताश् च महातुष्टीं
प्रलभन्ति क्षणेन च॥

ईत्युपद्रवदोषादि
दूरं गुरुतरं भृशम्॥

नश्यन्ति तत्र देशेऽस्मिन्
व्याधिज्वरग्रहादिकम्॥

परचक्रा विनश्यन्ति
दुर्भिक्षाश् च सरौरवाः॥

देवा नागा महोत्साहाः
पालयन्ती सुखेन तु॥

चतुरश् च महाराजाः
पालयन्ति महर्द्धिकाः॥

लोकपालाः सनक्षत्रा
यक्षाश् चापि ग्रहादिकाः॥

अथ शक्रब्रह्मादयो
देवाः प्रणिपत्य मुहुः॥

पूजां नानाविधां
कृत्वा रत्नछत्रादिभिर् वराम्॥

वज्रपाणिं जिनाधृष्टं
संस्तुवुर् मुदिताश्रयाः॥

सर्वबुद्धादिसम्बुद्धं
सर्वाज्ञानमलापहम्॥

वज्रवज्रधरो राजा
वज्रवज्रसवज्रधृक्॥

वज्रकायो महाकायो
वज्रपाणिर् नमो नमः॥

वज्रवज्राग्रवज्राग्रो
वज्रज्वालो महाज्वलः॥

वज्रवेशो महावेशो
वज्रायुधो महायुधः॥

वज्रपाणिर् महापाणिर्
वज्रवाणः सुवेधकः॥

वज्रतीक्ष्णो महातीक्ष्णो
महामहान् महोदधिः॥

वज्रपद्मो महाबोधो
बौधिबुद्धः स्वयं भुवः॥

वज्रोदारो महोदारो
वज्रमायाविशोधकः॥

वज्रहेतुर् महायक्षो
वज्रपद्मविशोधकः॥

वज्रक्रोधो महाचण्डो
वज्रारिदुष्टहा विभुः॥

वज्रभीमो महारक्षो
वज्रांकुशश् चामोघकृत्॥

वज्रवेतालो वेतालो
वज्रराक्षसभक्षकः॥

वज्रयक्षो महायक्षो
वज्रग्रहो ग्रहोत्तमः॥

भीषणो रौद्रो रुद्रो
भैरवभीकरः॥

असाध्यः साधकः साधुः
वज्रसाधुप्रहर्षकः॥

वज्रप्रीतिर् महाप्रीतिर्
वज्रायुधवशं करः॥

वज्रतेजो महातेजो
ज्वालाप्रभयमान्तकृत्॥

वज्रघोरो महाघोरो
घनप्रभो महाघनः॥

 

(५० )

 

आकाशसमसर्वाशः सर्वाशापरिपूरकः॥

वज्राभिषेकतत्त्वाग्रो
वज्रध्वजो गुणोदधिः॥

वज्रज्ञानं महाज्ञानं
विद्याकोटिगणार्चितः॥

हालाहलमहाकालः कोलाहलविलासकः॥

वज्रकामो महाकामः
कषायकरिनाशकः॥

वेलाचपलदोलाग्रो
विद्युज्जिह्वास्फुरद्मुखः॥

वज्रानलो प्रचण्डास्यश्
चण्डप्रद्योतद्योतकः॥

सहस्रसूर्यप्रभास्यो
लोहिताक्षो भयानकः॥

क्रोधानेकस्फरद्रश्मिर्
भुजानेकशतायुधः॥

मुखानेकसहस्रांगः
कुटिलः कुटिलांगकः॥

अनंगश् चित्तधर्मात्मा
विकल्पाशेषवर्जितः॥

अविद्याघातको ब्रह्मा
रागद्वेषमलान्तकः॥

रागो द्वेषो महामोहो
भवाभवविशोधकः॥

शान्तो दान्ते महाशुद्धो
बुद्धो बुद्धप्रबोधकः॥

बुद्धात्मा बुद्धरूपी
च वज्रसत्त्वः सुवज्रजः॥

समन्तभद्रो महाभद्रः
सर्वलक्षणलक्षितः॥

सर्वधातुमयो व्यापी
सर्ववज्रमयः शुचिः॥ इति।

येन लिखेत् पठेद्
वापि धारयेद् अर्थतः सदा॥

स्मरेत् शृणुयद्
वापि वज्रपाणिसमो भवेत्॥ इति।

इदम् अवोचद् भगवान्
आत्तमनः।

शक्रब्रह्मादिदेवपर्षत्
सदेवमानुषासुरगन्धर्वयक्षसादिभिर्

हितसुखप्राप्तये
भगवतो भाषितम् अभ्यनन्दन् इति॥

आर्यसर्वदुर्गतिपरिशोधनतेजोराजस्य
तथागतस्यार्हतः सम्यक्सम्बुद्धस्य कल्पैकदेशः समाप्तः॥

 

(५१ )

 

अथ ब्रह्मादयो देवाः
संहृष्टमनसो भगवन्तं नमस्यैवम् आहुः। यो भगवन् अपायोपपन्नानां सत्त्वानाम् अर्थाय हिताय
सुखाय। एतं कल्पराजं लिखिष्यति ईखापयिष्यति।

किं पुनर् यथानिर्दिष्टम्
अविकल्पयतः करिष्यति। वयं ब्रह्माद्दयो देवास् तस्य कुलपुत्रस्य कुलदुहितुर् वा भृत्यवत्
परिपालयिष्यामः। यश् च राजैव राजपुत्रो वा राजामात्यो वा यथापठितुम् मन्त्रं वर्तयिष्यति
तस्य राजवृद्धिं करिष्यामः। विषयदेशांश् च जनपरिवारजनसस्यादिरक्षां च करिष्यामः। बहुधनधान्यसमृद्धिं

करिष्यामः। स्त्रीपुरुषदारकदारिकासंपदं
च करिष्यामः। ऋद्धिं च स्फीतं च सुभिक्षं च क्षेमं च करिष्यामः। यश् चेदं कल्पराजं
श्राद्धो ध्वजाग्रावरोपितं कृत्वा नगरनिगमादिषु प्रवेशयेत् स्वयं वा प्रत्युद्गच्छेद्
धस्तिस्कन्धावरोपितं च कृत्वा सर्वग्रामनगरादिकं

भ्रामयेत्। सर्वमृत्यूपद्रवं
च नश्यति। तस्य महासत्त्वस्य पदं ज्ञास्यामो भृत्यत्वेन पुत्रत्वेन वा। यत्र पापं प्रचरिष्यति
तत्र भगवान् वज्रपाणिः स्वयम् एव सम्भोगिकैः कायैर् वज्रसत्त्वरूपेण व्यवस्थित इति
मन्यामः। स एव भगवान् वज्रसत्त्वः समन्तभद्रः सर्वाशापरिपूरकः कल्पराजरूपेण विहरतीति
मन्यामः। सर्वतथागताश् च सपरिवारा विहरन्त इति। मन्यामः। तम् च पृथिवीप्रदेशं चैत्यभूतं
मन्यामः।

पूजयामो वन्दयामः।
आरक्षिष्यामः। यश् चैनं कल्पराजं प्रचरिष्यति वज्राचार्यमहातपा तस्य वयं ब्रह्मादयो
देवा भृत्या भवामः। चेटत्वेनोपतिष्ठामः। किंकरत्वेनोपतिष्ठामः। सर्वाज्ञात्वे करिष्यामः।
सर्वहितं सुखं च करिष्यामः। सर्वसिद्धिं च प्रयच्छामः। संक्षेपतश् च भगवन् तस्य पादरजांसि
शिरसा धारयामः।

 

(५२ )

वन्दयामो भगवन्
पूजयामो भगवन् तस्य पृष्ठतश् चानुगच्छामः। ये भगवन् सत्त्वा मण्डलेऽभिषिक्तास् तेऽस्माकं
प्रभुर् इति मन्यामः। वज्रपाणिर् इति मन्यामः।

वज्रसत्त्व इति
मन्यामः। महासुखसमन्तभद्र इति मन्यामः। तथागतश् चेति मन्यामः।

अथ भगवान् वज्रपाणिस्
तान् ब्रह्मादीन् देवान् एवाह। साधुसाधु ब्रह्मादयो देवा येन धर्मगौरवेणैव भूतं प्रतिज्ञां

कुर्वतस् तत् साधु
प्रतिपद्यध्वम् इति।

 

(५३ )

 

III

 

अथ भगवान् वज्रपाणिः
सर्वमन्त्रविद्याहृदयदृढीकरणार्थं

स्वहृदयम् अभाषत।

ॐ भ्रूं त्रूं वज्रपाणि
दृढं तिष्ठ हुं। ॐ हुं। ॐ वज्र हुं फट्। ॐ 
दृढवज्र हुं। ॐ वज्र हुं सः।

ॐ वज्र हुं स्रः।

 

अथास्य मण्डलं भवति।

मण्डलं पूर्ववल्
लिख्य मध्ये वज्रं समालिखेत्॥

अथ वा वज्रसत्त्वं
तु समन्तभद्रं महासुखम्॥

पुरतो वज्रपाणिं
तु दक्षिणे रत्नपाणिनम्॥

पश्चिमे पद्मपाणिं
तु विश्वपाणिं तु चोत्तरे॥

बाह्यतो मण्डलीकृत्य
सर्व बुद्धान् निवेशयेत्॥

तस्य बाह्ये तु
सत्त्वाख्यं संलिखेद् तु यथाक्रमम्॥

तद्बाह्येऽपि लिखेत्
सत्त्वान् मैत्रेयादीन् महोत्तमान्॥

तद्बाह्ये तु लिखेद्
भिक्षून् आनन्दादीन् मुनीन् तथा॥

ब्रह्मादींश् च
लिखेद् बाह्ये सभार्यायन्त्रत्मण्डितान्॥

ग्रहनक्षत्रचन्द्रसूर्यं
चतुर्नामवीरजिनाम्॥

दिग्लोकपालानां
संलिखेद् अस्मिन् मण्डले॥

बाह्यतस् तु नारकादीन्
तिर्यगुपमाम्॥

द्वारे द्वारे तथैवापि॥

दिनेष्व् एतेषु
दशसु प्रयत्नतो मण्डलं लिखेत्॥

कृष्णपक्षेऽपि यद्बल्यो
मण्डलं न विरुध्यते॥

पञ्चम्याम् अथ सप्तम्यां
पूर्णमास्यां विशेषतः॥

शस्यते पद्महस्तस्य
मण्डलानां क्रियाविधिः॥

यानि च क्रूरकर्मासु
तान्य् आलिखेत् कृणेऽपि॥

क्रोधानां मण्डलानि
च पूर्णमास्यां विशेषेण॥

शस्यन्ते जिनमण्डलाः॥

 

(५४ )

 

अथाधिवासानं कुर्यात्
स्वोभूते मण्डलोद्यमे॥

दिग्भागं लक्षयेत्
पूर्वम् उदयेन विवस्वतः॥

ततो मण्डलविन्यासं
मनसा परिकल्पयेत्॥

मन्त्रतन्त्रोदितं
स्निग्धं मन्त्ररूपशुभं शुचि॥

मनोऽनुकूलं भोक्तव्यं
स्वशिष्यैः सह मात्रया॥

ततः प्रदोषे सुस्नातः
शिताम्बरधरः शुचिः॥

सह शिष्यैर् गुरुर्
धीमान् आगच्छेन् मण्डलान्तिकं॥

सूपलिप्ते सुसंमृष्टे
प्रदेशे मण्डलस्य तु॥

महाक्रोधाभिजप्तेन
प्रोक्षिते गन्धवारिणा॥

मध्येऽधिवासनां
कुर्यात् कुलानां हृदयेन तु॥

मण्डलाधिपमन्त्रेण
सर्वकर्माणि कारयेत्॥

गन्धमण्डलकं कृत्वा
मेदिन्यां द्वादशंगुलम्॥ 

सप्तशः पाणिनालभ्य
जपेन् मण्डलविद्यया॥

देवतानां तु पश्चान्
महतां नाम बोधिया॥

हृदयेन यथाभागं
गन्धपुष्पादिपूजनम्॥

कृत्वा बल्ल्श्
च दातव्यो धूपश् चैवाभिमन्त्रितः॥

लतोऽभिमन्त्रयेत्
तोयं चन्दनेन विमिश्रितम्॥

तस्मिन् देयानि
पुष्पाणि धूपयेच् च विधानतः॥

औदुम्बरं दन्तकाष्टम्
अश्वत्थं वापि निर्व्रणम्॥

नातिकृशं नातिस्थूलं
द्वादशांगुलसंमितम्॥

क्षालितं गन्धतोयेन
सूत्रकेन विवेष्टितम्॥

धूपितं गन्धदिग्धं
च जपेद् आलभ्य पाणिना॥

हृदयं च बहुशः सप्तशो
वा कुलस्य तु॥

शिष्याणां परिमाणेन
दन्तकाष्ठादिसंग्रहः॥

एकाद्यानि च कर्याणि
अग्रेणैव खादयेत्॥

ततो रक्षां दृढं
कृत्वा शिष्याणाम् आत्मना बुधः॥

होमकर्म सघृताक्ताभिः
समिद्भिश्च॥

तिश् च घृतमिश्रितैर्
घृतैर् आहुतिहोमैश् च॥

दध्यन्नेन च होमयेत्॥

 

(५५ )

 

प्रथमं विघ्नशान्त्यर्थं
ततोऽनुहृदयेन च॥

ततोऽनुशान्तिहोमं
च कुर्याच् छान्तिं वा पापस्य॥

ततः शिष्यान् परीक्षयेद्
विधिना चाधिवासयेत्॥

तदहः शक्तितः कुर्यात्
संवरं ग्रहणं तथा॥

तेषाम् एवं विधानं
तु शुचीनां शुक्लवाससाम्॥

प्राङ्मुखानाम्
निषण्णानाम् आरभेद् अधिवासनाम्॥

आदौ त्रिशरणं दद्याद्
बोधिचित्तं ततो गुरुः॥

उद्पादयेद् अनुत्पन्नम्
उत्पन्नं स्मारयेत् पुनः॥

ततः क्रोधाभिजप्तेन
वारिणभ्युक्षयेच् छिरः॥

शिरसि आलभ्य जपेत्
सप्तवारान् समाहितः॥

विद्यारजस्य हृदयं
गन्धदिग्धेन पाणिना॥

आलभ्य भयं वर्तेत
सप्तवारं विचक्षणः॥

चक्रवर्तिजिनकुले
विद्याराजैकम् अक्षरम्॥

हयश्वेताम्बुजकुले
विद्याराजो दशक्षरः॥

सुम्भतथावज्रकुले
विद्याराजो महर्द्धिकः॥

युक्तश् चतुर्भिर्
हुंकारैः प्रचण्डः सर्वकर्मसु॥

कुलत्रयेषु सामान्यः
क्रोधो ह्य् अमृतकुण्डलिः॥

सर्वविघ्नविनाशाय
गुह्यकाधिपभाषितः॥

सर्वकर्मिकमन्त्रेण
मूर्ध्न्य् आलभ्य ततो जपेत्॥

प्रोक्षयेच् चापि
तेनैव धूपनेन च धूपयेत्॥

अभिषेकाय कलशं सर्वव्रीह्यादिसंयुतम्॥

स्तोकं तोयस्य निक्षिप्य
विद्याराजाभिमत्रितम्॥

अधिवासयेद् विधिवद्
दत्वार्घं गन्धवारिणा॥

कुसुमानि विनिक्षिप्य
धूपनेनाधिवासयेत्॥

[अहन्य् अहनि त्रिसंध्यं
तत्सम्यक् परिजपेद् बुधः
]

तेनाभिषेकं कुर्वीत
पुनर् जप्तेन मण्डले॥

शिष्याणां तु समग्राणां
अञ्जल्या उत्तरामुखम्॥

दन्तकाष्ठं ततो
दद्याद् आसनानां यथाक्रमम्॥

खादयन् प्राङ्मुखान्
शिष्यान् दन्तकाष्ठादि बाह्यतात्॥

स्फुटयेत् पूर्णं
खादित्वा क्षिपेयुश् च न पार्श्वतः॥

 

(५६ )

 

सम्यक् क्षिप्तं
दन्तकाष्ठं पतेद् अभिमुखं यदा॥

ज्ञेयात् तस्योत्तमासिद्धिर्
यस्य चापि उन्मुखं भवेत्॥

प्रागग्रेण तथा
सिद्धिर् मध्यमा परिकीर्तिता॥

उदङ्मुखेन तु चक्षु
विद्यासिद्धिस् तु लौकिकी॥

दन्तकाष्ठं भवेत्
क्षिप्तं कथञ्चिद् यदाधोमुखम्॥

तदा पातालसिद्धिः
स्याद् भवान् नास्त्य् अत्र संशयः॥

शिष्याणाम् उपस्पृष्ठानाम्
आसीनानां तु पूर्ववत्॥

सर्वकर्मिकमन्त्रेण
दद्याद् गन्धोदकं गुरुः॥

एकैकस्य तु पानाय
दद्याच् चुलुकत्रयम्॥

तत्रैव पीत्वा व्युत्थाय
एकानेकभिर् आचरेत्॥

ततह् पूजं पुनः
कृत्वा धूपम् उत्क्षिप्य पाणिना॥

अध्येषयेद् मतिमान्
भक्तिम् आस्थाय देवताम्॥

पूर्वम् आमन्त्रयेद्
मन्त्रं यस्य तद् मण्डलं भवेत्॥

तेनानुक्रमयोगेन
देवतानां निमन्त्रणम्॥

भगवन् अमुकनाम विद्याराज
नमोऽस्तु ते॥

स्वोऽहं लिखितुम्
इच्छामि मण्डलं करूणात्मकम्॥

शिष्याणाम् अनुकम्पाय
युष्माकम् पूजनाय च॥

तन् मे भक्तस्य
भगवन् प्रसादं कर्तुम् अर्हसि॥

समन्वाहरन्तु मां
बुद्धा ईकनाथाः कृपालवः॥

अर्हन्तो बोधिसत्त्वाश्
च या चान्या मन्त्रदेवता॥

देवतालोकपालाश्
च ये च भूतमहर्द्धिकाः॥

सासनाभिरताः सत्त्वा
ये केचिद् दिव्यचक्षुषः॥

अहम् अमुकनाम्ना
तु अमुकं मण्डलं शुभम्॥

स्वभूते तु करिष्यामि
यथाशक्त्युपचारतः॥

अनुकम्पाम् उपादाय
सशिष्यस्य तु तन् मम॥

मण्डले सहिताः सर्वे
सानिध्यं कर्तुम् अर्हथ॥

एवम् उक्त्वा तु
या वाचा नमस् कृत्वा भगवतः॥

स्तोत्रोपहारं कृत्वा
च ततः कुर्याद् विसर्जनम्॥

विरागप्रतिसम्युक्तां
शिष्याणां धर्मदेशनाम्॥

कृत्वा प्राच्छिरसो
धीमान् स्थापयेत् कुशलं स्तरे॥

प्रभातायां ततो
रात्र्यां पृच्छते स्वप्नदर्शनम्॥

श्रुत्वा दिने निर्विशंकः
शुभं वा यदि वाशुभम्॥

बुद्धधरो राजानां
समयेत् सप्तकुलानि तु॥

 

(५७ )

 

ततस् त्वं संअयं
पुत्र संवरं जिनभाषितम्॥

श्रद्धया गुरोराज्ञां
च पालय प्राणिनो न त्वया घात्याः॥

नादत्तं ग्राह्यं
काममिथ्या न कार्या सिद्धिम् इच्छताम्॥

न मद्यं पेयं मांसादि
भक्षं नैव कदाचन॥

सत्त्वानाम् अहितं
न कार्यं त्याज्यं रमत्रयं न च॥

बोधिचित्तहृन्मुद्रा
तु गुरुदेवास् तथैव च॥

अलंघ्या गुरोर्
आज्ञा यतः पापं तु लंघयेत्॥

न लंघयेच् च निर्माल्यं
तच्छयां नाक्रमेत्॥

मुद्राकारान् तथैव
च॥

न निन्दयेद् मन्त्रदेवतां
ग्रहकर्माणि न कुर्वीत॥

तीर्थिकांश् च न
निन्दयेत्॥

संक्षेपतो विमतिकांक्षा
विचिकित्सा न कार्य॥

आत्मतन्त्रदेवादिषु
तथैव च॥

दृढश्रद्धया यथावत्
सर्वविदाभिषेकतः॥

कुम्भादिभिः समग्रैर्
दशानां दशाभिषेको यथेच्छम्॥

ततो वज्रघण्टाश्
च हस्ते दातव्याः॥

ततश् चक्रादिसप्तरत्नानि
गृहीत्वा॥

राज्यैश्वर्यादिचक्रवर्तित्वप्राप्तये॥

पापस्फोटनाय चाभिषिञ्चेत्॥

मन्त्रसाधयितुकामस्य
शिष्यस्याज्ञां श्रावयेत्॥

ततः श्रद्धया शिरसा
प्रणम्य विद्यमानद्रव्यम्॥

गुरवे देयम्॥

रत्ननिधानव्रीहिहिरण्यसुवर्णवाहनगृहाः॥

आसनदारकदारिकापुरुषस्त्रियो
देयाः॥

ग्रामनगराणि च यथेप्सितानि॥

स्वचित्तप्रसादेन
दक्षिणानि वेशयेत्॥

आशुसिद्धये गुरवे
संक्षिप्त आत्मानम् अपि निवेदयेत्॥

इहैव जन्मन्य् अनवशेषसुखानि
परलोके चोत्तमसुखम्॥

बुद्धत्वं प्राप्यते
किं पुनर् देवसुखम्॥

सर्वबुद्धसमं गुरुं
वज्राचार्यनिन्दया॥

नित्यदुःखावाप्तिर्
इति आचार्यं न निन्दयेत्॥

वज्रभातृभगिनीमाता
योगी न निन्दयेत्॥

उपनाहं च न कुर्यात्॥
रत्नत्रयोपकरिणो न क्षमेत्॥

गुरुनिन्दकान् दुष्टान्
समयातिक्रमिणोऽपि तथैव च॥

एवमाद्यपकारकांश्
च॥

एअं सन्ति सर्वविद्भाषितां
सिद्धिम् आप्नोति॥

 

(५८ )

 

सर्वसत्त्वानुकंपी
सिद्धिं प्राप्नोति शिग्रजाम्॥

अथ खलु भगवान् देवेन्द्रसदेवलोकहितसुखार्थाय
साधनविधिम् अभाषत। पटे भगवन्तं सर्वविदं तथैव लिखेत्। दक्षिणे सर्वदुर्गतिपरिशोधनराजं
तथागतम्। वामे शाक्यमुनिम्। सर्वदुर्गतिपरिशोधनस्याधस्ताद् आर्यावलोकितेश्वरं चन्द्रार्कवर्णपद्मपाणिम्।
शाक्यमुनेर् अधस्ताद् वज्रपाणिम्। तयोर् मध्ये भैषज्यराजं नीलवर्णम् एकेन हस्तेन हारितकीफलं
धारयन्तम् अपरेण वरदं कारयन्तम्। हयग्रीवत्रैलोक्यविजयौ च दुष्टदमनतत्परौ

स्वदेवताभिमुखौ
लिखेत्। तयोर् मध्ये ईचनामामकीपाण्डुर वासिनीताराः स्वचिह्नकरा लिखेत्। ताषाम् अधस्तात्
पुष्करिणीं मकरमत्स्यश्वेतमण्डुकादिसहिताम् अनेकजलजपुष्पपरिपूर्णां

लिखेत्। धूपदीपगन्धमाल्यनैवेद्यपुष्पफलानि
नानाप्रकाराणि च लिखेत्। अधस्ताच् च साधकम् अञ्जलिं कृत्वा प्रणमन्तं लिखेद् निषण्णम्।

 

ततः पटसत्याधिष्ठानम्
अवलम्ब्य चक्षुरुन्मीलनं कृत्वा पूजयेत्। ततो यदि निमित्तं पश्येत् सिद्ध्यति शीग्रम्।
यदि न पश्येच् चिरं सिद्ध्यति। हसितुंकर्मशब्दं च घण्टाध्वनिगर्जितम् एव च॥

भिक्षुब्राह्मणकन्याश्
च फलानि च दृष्ट्वा शीघ्रम्॥

सिध्यत्य् उत्तममध्यमाधमसिद्धिषु॥

ततः पटं मन्त्रमुद्राभिर्
अधितिष्ठेत्॥

यथाप्राप्तेन च
पूजयेत् तस्याग्रतो निषद्य॥

त्रैलोक्यविजयेनात्मरक्षादिकं
कृत्वा॥

आत्मतत्वं च ध्यात्वा॥

लक्षत्रयं षट्लक्षाणि
वा जपेद् यावत् सिद्धिनिमित्तं भूतम्।

ततो विवेकस्थानेऽष्टौऽशतानि
पूरयेत्। मन्त्रं चानूनाधिकं जपेत्।

ततो जपावसाने मण्डलं
पूर्ववच् चिन्तयित्वा।

विपुलां च पूजां
कृत्वा रात्रीम् एकां जपेत्।

 

(५९ )

ततः प्रधानं च तत्पुत्रं
च देवांश् च यदि पश्यति।

तदा यथाभाजनम् ईप्सितोत्तमसिद्धिं
विज्ञापयेत्।

देवता नित्यं तुष्टाः
सिद्धिफलं तस्य ददति।

नमस्कृत्य च सिद्धिम्
उत्तमादिकां गृह्णीयात्।

गुरुरत्नत्रयस्वभागं
दत्वा।

ततो नित्यं विचरेत्
तदभावेषु प्राज्ञः।

 

गृहीत्वा स्वयं
समाचरेत्। सर्वसत्त्वहितकारी चानेककल्पं तिष्ठेत्। असिद्धौ सर्वकर्मकरो भवेत्। यक्षनक्षत्रग्रहादयो
वचनमात्रेण भृत्यवच् छान्तिकादिसर्वकर्मकरा भवन्ति।

 

अथ खलु देवेन्द्रो
भगवन्तम् एतद् अवोचत्। भगवन् पापकारिणां नारकादिवशीभूतानां सत्त्वानां नारकादिदुःखप्रहाणाय
कथं प्रतिपत्तव्यम्। भगवान् आह। देवेन्द्र शृणू नारकवशगतसत्त्वानां महापापकारिणां तेषां
यथा नारकदुःखेभ्योऽनायासतो मुक्तिर् भवति तथा शृणु। तथैव मण्डलं लिखित्वाष्टोत्तरशतजप्तैः
कलशैः पूर्ववद् अभिषेकं कल्पयेत्। ततः सर्वपापगताः सर्वनारकादिदुःखेभ्यः

शीघ्रं विमुच्यन्ते।
ते च विमुक्तपापमहात्मानः शुद्धावासदेवेषूत्पन्नाः। सततं बुद्धधर्मसंगीतिं प्राप्नुवन्ति।
अवैवर्तिकभूमिप्रतिष्ठिताश् च क्रमेण बोधिं साक्षात् कुर्वन्ति।

तत्प्रतिबिम्बं
वा नाम च कुंकुमेन लिखित्वा॥

अपायत्रयमहाभयात्
सत्त्वानां मोक्षणाय॥

मन्त्री परहिते
रतः कृपाया अभिषिञ्चेत्॥

ततः स योगी मन्त्रमुद्राभिर्
अभिषिञ्चेत्॥

देवतारूपं कल्पयित्वा
चैत्यमध्ये स्थापयेत्॥

स्वपरदेवताहृदयं
तधृदये प्रदेशे लिखित्वा॥

देवतातुल्यचित्तम्
उत्पाद्य गृहे वा स्थापयेत्॥

तन्नाम च विदर्भ्य
मन्त्रं कुंकुमेन लिखित्वा॥

 

(६० )

 

चैत्यकर्म कुर्याद्
यावल् ईक्षं परिपूर्णम्॥

महापापिनः पापक्षयाय
कोटिम् अपि पूरयेत्॥

एवं कृते तेऽवश्यं
नरकाद् मुक्ता भवन्ति॥

तथा तिर्यग्भ्यश्
च मुक्ता देवनिकायेषूत्पद्यन्ते॥

तन्नाम च विदर्भ्य
यथोक्तमन्त्रं सहस्रं जपेत्॥

कदाचित् शतसहस्रम्
अपि पूरयेद् यावत् कोटिम् अपि पूरयेत्॥

देवनिकायेषूत्पद्यन्ते॥

तन्नाम विदर्भ्य
कुशलो ईक्षशतं वा यावच् छतसहस्रम्॥

होमं कुर्यान् महानरकपापमुक्ता
भवन्ति॥

यावन् निमित्तं
ज्वलिताग्नीस्थाने समुत्पद्यते॥

तिलश्वेतसर्षपतण्डुला
अजाक्षीरसंयुक्ताः॥

समिधाश् च गन्धाक्तास्
तावद् यथाविधि होतव्याः॥

ततस् ते नियतं देवनिकायेषूत्पन्ना
निमित्तम् उपदर्शयन्ति।

कदाचिद् देवोत्तमा
उत्पन्ना अथ वा कुण्डमध्ये श्वेतप्रदक्षिणज्वाला

निर्मलोर्ध्वज्वलनम्।
अवकीर्णसंदत्तज्वलनं विद्युदिव निर्मलं स्थिरम्। एतान्य् अगनिमित्तानि पश्यति। अथ वैश्वानलतात्मानं
तथैव दर्शयन्ति। चन्द्रवन्निर्मलं शुक्लमुखवर्णज्वलितम्। एतन्निमित्तदर्शनात् तेषां
नरकादि विमुक्तिपापस्फोटनस्वर्गोत्पत्तयो ज्ञातव्याः।

चतुर्हस्तप्रमाणं
च यथाविधि कुण्डं खनेत्॥

पर्यन्ते वज्रपरिवृतम्
लिखेन् मध्ये चक्रम्॥

य्यथावत् पञ्चकुलमुद्राः
स्वदिक्षु लिखेत्॥

तथावत् सत्त्वानां
लोकाधिपं च लिखेत्॥

अतः पूर्णकलशा बलिपूर्णभाजनानि॥

चाष्टौ षोडशं वा
स्थाप्यानि भक्षभोजननैवेद्यानि च।

पुष्पमालादयस् तथैव
च वितानध्वजपटादिभिर् उत्तमछत्रैश् च। सम्यग्विभूषणीयम्।

एवम् उत्तमहोमकुण्डे
सम्यक् होतव्यम्।

ईखित्वैवं विधिज्ञो
देवगणम् आकर्षयेत्॥

मन्त्रज्ञो मन्त्रमुद्रयार्घ
उपढौकनीयः॥

 

(६१ )

 

संक्षेपतः पूजां
कृत्वा देव-
[गणनागयक्षगन्धर्व्-]आवस्थितः।

कर्पूरचन्दनकुंकुमवस्त्रालंकारभूषितोऽभिमन्त्रितधूपं
धूपयेत्। पुष्पमालादिभिश् च पूजयेत्। चूडायां बाहौ च तथैव मन्त्रं लिखित्वा बन्धयेत्।
हृत्कण्ठमुखप्रदेशे सर्वविद्याधिष्ठनं कुर्यात्। ललाटोर्णाकर्णद्वये शिरःशिखाबाहुद्वये।
नासाकटिजानुपादनासिकाग्रचक्षुर्द्वये। गुह्येन्द्रियप्रदेशेष्व् एवम्

अन्येष्व् अपि मन्त्राक्षराण्य्
एकान्तशुभानि- विन्यसेत्। ततो दुर्गतिपरिशोधनायासनसहितं तन्मध्ये स्थापयेत्।

ततश् च मन्त्र्य्
अभिमन्त्रितवस्त्रेण छादयेत्।

ततो हुतभुजं सम्यक्प्रज्वाल्य।
सहस्रज्वाल्य। सहस्रज्वालाकुलकायं

कुण्डेन्दुसन्निभं
शान्तम् अनन्तम् अग्निम् आकृष्यार्घं परिकल्पयेत्। तथैव च बुद्धिमान् अग्रतः प्रतिमादिकं
स्थापयेत्। तथागतगणं तथैवाकृष्यार्घादिकं परिकल्पयेत् तथैव यथोक्तपूजा कर्तव्या।

तत आहुतिं हव्यं
पूरयित्वा ज्वलनाय परिकल्पयित्वा जिनादिनीम्

अष्टोत्तरशतं परिकल्पयेत्।
ततः शोधनमन्त्रराजस्यैकविंशतिम् आहुतिं परिकल्पयेत्।

ततश् चाकृष्य श्वेतमुखम्
उपकरणैर् वा वारत्रयम् अर्घादिना

च पूजयेत्। वज्रपाणिं
पद्मपाशधरं त्रैलोक्यरूपं पादपद्माक्रान्तपापं सर्वालंकारालंकृतं सम्बुद्धकिरीटिनं

चिन्तयेद् अथ वा
लिखेत्। तस्य हृदयेन शतसहस्रं यावत् कोटिं वा जुहुयात्।

 

(६२ )

 

निमित्ते च समुत्पन्ने
पापसंततिप्रहाणं तथैव ज्ञातव्यम्। ततो भस्मीभूतं वज्रसंहारमन्त्रेण यथाविधि संहरेत्।
भस्माम्य् अस्थिरजांसि च गन्धोदकपञ्चगव्यसहितानि शोधनमन्त्रेण ईक्षं जप्त्वा पिण्डीकृत्य
कर्पूरगन्धमृद्भिर् मिश्रीत्कृत्य प्रतिमां चैत्यदेवतां वा कुर्यात्। एकद्वित्रिचतुःपञ्चवारं
वाष्टोत्तरशतवारं वा।

मन्त्रमुद्राभिर्
अधिष्ठाय ईक्षद्वयं जपेत्॥

ततश् चैत्यं ज्वलति
प्रतिमा वा हसति॥

गन्धधूपप्रभा जिघ्रति
पश्यति देवादीं नानाप्रकारां यस्य ऋद्धिप्रातिहार्याणि च पतन्ति पुष्पादीनि। शंखभेरीवंशवीणादीनां
च शब्दाः श्रूयन्ते।

कदाचिद् देवतानि
निमित्तानि पापबहलतया यदि न पश्येत् तदाष्टौ

लक्षसहस्राणि जपेत्।

यावन् निमित्तं
भवति तथागतं पूजयित्वा॥ सुसमाहितो जपेत्।

ततोऽन्ते रात्रीम्
एकां विधिज्ञो जपेत्।

तदावश्यं पापविशुद्धात्मा
पश्यति।

देवतारूपकायं तत्सन्तानं
परिजानाति।

एतानि निमित्तानि
ज्ञात्वा अविकल्पचित्तो।

मैत्रीकृपापरीतः
सर्वकर्माणि कुर्यात्।

एवम् अपि यदि न
सम्भवति तदा तन्नाममात्रं ईखित्वा चैत्यमालां कुर्यात् प्रतिमं वा कृत्वा। होमाभिषेककृते
सति। नियतं

स्वर्गेषूत्पद्यन्ते।
भस्मसर्षपवालुकादींश् च नाम विदर्भ्याभिमन्त्र्य समुद्रगामिन्यां नद्यां क्षिपेत्।
ततः पापीयसोऽपि दुर्गति विमोक्षति।

उत्तमकुशलबीजम्
उत्पादितवतो बुद्धत्वफलसमन्वागतस्य दानशीलक्षन्तिवीर्यध्यानप्रज्ञाहेतुप्रभावितस्य
पुण्यवतो लोकस्य दुर्गति भग्नेति।

कः पुनः वादो नात्र
संशयः।

यश् चानुत्पादितकुशलमूलो
यश् च नास्तिकदॄष्टिर् बोधिमार्गाद् निवृत्तस् तस्य शासनविद्वेषिणोऽपकारिणः पापानभिज्ञस्यमातृ
पितृविप्रियचित्तस्य बोधिचित्तनिसृतवीतरागघातकस्य देव ताबुद्धधर्म-

 

(६३ )

 

संघमन्त्रमुद्रागणादिनां
च नास्तित्वाऱ्ष्ट्यादीनां च पापीयसाम्

एषां प्रज्ञोपायाभावे
मुक्तिर् नास्तीति सुगतजिनैर् भाषितम्। अथ शक्रादय उत्पलपद्मलोचनाः साध्व् इति तोषयन्ति
स्म। संतोषयित्वा पूजयन्ति स्म। शक्रेण च परहितरतेन यथाविज्ञप्तम्।

द्वितीयं त्रिसूचिकवज्रसहितेन
वरदो वामेनैकेन त्रिशूलधारी द्वितीयेन खड्गधारी सर्पयज्ञोपवीतनीलकण्ठो लेख्योऽनेन।

ॐ पशुपति नीलकण्ठ
उमाप्रिय स्वाहा।

अथास्य मुद्रा भवति।
दक्षिणहस्तेन वामस्मुष्टिं कृत्वा कनीयसीम् अंगुष्ठेणाक्रम्य शेषांगुलवज्रलक्षणाः कृत्वानामिकां

तर्जनीं च वज्राकरेण
कञ्चिन् नामयेत्। इयं पशुपतेर् मुद्रा।

विष्नुर् गरुडारूढःकृष्ण्
अवर्णश् चतुर्भुजः। दक्षिणभुजाभ्यां

गदावज्रधरः। वामाभ्यां
शंखचक्रधरः।

वज्रहेमा कनकवर्णा
आसनभुजायुधविष्णुवत्।

वज्रघण्टामयूरारूढो
रक्तवर्णः षड्मुखो दक्षिणभुजाभ्यां

शक्तिवज्रधरः। वामाभ्यां
कुक्कुटघण्टावज्रधरश् च।

वज्रकौमारी वज्रघन्तावद्
एव ज्ञेया।

मौनवज्रो हंसारूढः
कनकवर्णश् चतुर्मुखो दक्षिणभुजाभ्यां वज्रक्षसूत्रधारी। वामाभ्यां दण्डकमण्डलुधारी।

 

वज्रशान्तिर् ब्रह्मवद्
ज्ञेया।

वज्रायुधः श्वेतगजारूढो
गौरवर्णो वामभुजेन विश्ववज्रधरो

दक्षिणेन लोकोत्तरवज्रधरः।

वज्रमुष्टिर् वज्रायुधवज्
ज्ञेया।

वज्रकुण्डली क्रोधश्
च रथारूढो दक्षिणकरेण सपद्मेन

वज्रधरो वामेन सपद्मेनादित्यमण्डलधरो
रक्तवर्णः।

वज्रामृता वज्रकुण्डलिक्रोधवद्
एव।

वज्रप्रभक्रोधः
सितवर्णो हंसारूढो दक्षिणकरेण वज्रधारी

वामेन पद्मचन्द्रधरः।

वज्रकान्तिर् वज्रप्रभक्रोधवत्।

 

(६४ )

 

वज्रदण्डक्रोधः
कच्छपारूढो नीलवर्णो दक्षिण करेण

वज्रधारी वामेन
दण्डधरः।

दण्डवज्राग्री वज्रदण्डक्रोधवत्।

वज्रपिंगलक्रोधऽजारूढो
रक्तवर्णो दक्षिणकरेण वज्रधरो वामेन मानुषम् आदाय भक्षयन् अवस्थितः।

वज्रमेखला वज्रपिंगलक्रोधवत्।

वज्रशौण्डो गणपतिर्
गजवाहनो दक्षिणकरेण वज्रं धारयेद् वामेन लांगलं धारयेद् अवस्थितः। सितवर्णः।

वज्रविणया वज्रशौण्डवद्
अयन् तु विशेषो यद् उत वामकरेण खट्वांगधारिणीति।

वज्रमालो गणपतिः
श्यामवर्णः कौकिलरथारूढो दक्षिणकरेण

वज्रधरो वामेन कुसुममाधरः।

वज्रासना वज्रमालावद्
अयन् तु विशेषो यद् उत वामकरेण शक्तिधारिणीति।

वज्रवशी शुकरथारूढो
गौरवर्णो दक्षिणकरेण वज्रधरो वामेन मकरध्वजधारी।

वज्रवशा वज्रवशीवद्
अयन् तु तस्या विशेषो यद् उत रक्तवर्णेति।

विजयवज्रो गणपतिर्
मण्डुकारूढः सितवर्णो दक्षिणकरेण वज्रधरो वामेन खड्गधरः।

वज्रसेना विजयवज्रवत्।

वज्रमुसलदूतः पुष्पविमानारूढो
गौरवर्णो दक्षिणकरेण वज्रधरो वामेन मुसलधरः।

वज्रदूती वज्रमुसलवद्
अयन् तु तस्या विशेषो यद् उत वामेन खट्वांग- धारिणीति।

वज्रानिलदूतो नीलवर्णो
मृगारूढो दक्षिणकरेण वज्रधारी वामेन पटधारी। वेगवज्रिणी वज्रानिलदूतवत्।

वज्रानलदूतोऽजारूढो
रक्तवर्ण ऊर्ध्वज्वालाप्रभस् त्रिशिखाज्वालो

दक्षिणभुजाभ्यां
वज्रकवचधरो वामाभ्यं दण्डकमण्डलुधरश् च। वज्रज्वाला वज्रानलवत्।

वज्रभैरवदूतो नीलो
वेतालारूढो दक्षिणकरेण वज्रधारी वामेन गदाधारी।

 

(६५ )

 

वज्रविकटा दूती
वज्रभैरववद् अयन् तु विशेषोऽस्या यद् उत वामेन पाशधारिणीति।

वज्रांकुशचेटः शेषनागारूढो
नीलो वराहमुखः। दक्षिणेन

वज्रधरो वामेनांकुशधरः।

वज्रमुखी चेटी पुरुषवाहना
नीला वराहमुखी दक्षिणेन वज्रधरा वामेन खड्गधरा।

वज्रकालचेटको महिषारूढो
नीलो दक्षिणकरेण वज्रधरो वामेन यमदण्डधरः।

वज्रकली चेटी वेतालवाहना
वामकरेण खट्वांगधारिणी दक्षिणकरेण वज्रधारिणी कृष्णवर्णा।

वज्रविनायकचेटक
उन्दुरारूढः सितवर्णो गजमुखो दक्षिणकराभ्यां

वज्रपरशुधरो वमाभ्यां
त्रिशूलधरो दण्डधरश् च। सर्पयज्ञोपवीतः। वज्रपूतना चेटी नीलवर्ण दक्षिणेन वज्रधरा वामेन
सम्मार्जनिकाधरा। उन्दुरारूढा।

नागवज्रचेटको मकरारूढोऽष्टफणः
सितवर्णो दक्षिणेन वज्रधरो वामेन नागपाशधरः।

वज्रमकरा चेटी मकरारूढा
सितवर्णा।  अष्टफणा। दक्षिणेन वज्रधरा वामेन
वज्रांकितमकरधरा।

भीमा श्यामवर्णा
दक्षिणेन वज्रधारिणी वामेन खड्गफेटकधारिणि।

श्री गौरवर्णा दक्षिणेन
वज्रधरा वामेन पद्मधरा।

सरस्वती वीणाहस्ता
वामेन दक्षिणेन वज्रधरा।

 

(६६ )

 

दुर्गा श्यामवर्णा
सिंहारूढा दक्षिणभुजाभ्यां वज्रचक्रधरा वामाभ्यां पट्टिशाशंखधरा।

सर्वासां मातृणां
रुद्रादीनां च वरुणपर्यन्तानां यद् दक्षिणकरेषु वज्रम् उक्तं तत् त्रिसूचिकं ज्ञेयम्
इति। सर्वलौकिककोत्तराश् च देवता वैरोचनसंमुखख्या इति।

ततः सन्ध्याकाले
संप्राप्ते वज्रतेरिन्तिरीं बद्ध्वा नीलपुष्पमालाम् आदाय मण्डलं प्रविशेच् चतुर्हुंकारम्
उदाहरन् वज्रवैरोचनसप्तप्रदक्षिणं च शंखवज्रघण्टां वादयन् कुर्वात्। सर्वमण्डलं चानातिरिक्त
दोशशान्तये निरीक्ष्य मालां भगवतो निर्यात्य वज्रनृत्यं कृत्वा। आदाय स्वशिरसि बन्धेच्
चतुर्हुंकारेणैव।

तथ यथोक्तं यद्
ऊनं परिपूरयेत्॥

विजह्याद् अधिकं
बुद्ध आबाधयेद् वज्रघण्टं॥

सिध्यते न च दुष्यते॥
इति।

ततो मध्ये स्थितो
भूत्वा वज्राचर्यसमाहितः॥

मनसोद्घाटयेच् चैव
वज्रद्वारचतुष्टयम्॥

ॐ वज्रोद्घाटय समये
प्रवेशय हुं। इति।

मुद्रा चास्य भवति।

द्विवज्राग्रांगुली
सम्यक् सम्धार्योत्तानतो दृढम्॥

विधारयेत् सुसंक्रुद्धो
द्वारोद्घाटनम् उत्तमम्॥ इति।

ततोऽंकुशादिभिः
कर्माणि कृत्वा सप्तरत्नमयं कलशं

मृन्मयं वाकालमूलम्
उच्चग्रीवं ईम्बौष्ठं महोदरं दिव्यगन्धोदकं

 

(६७ )

 

सर्वरत्नौषधिसर्वधान्यपरिपूर्णं
सफलं सपल्लवं सद्वस्त्रावबद्धकण्ठकं कृतरक्षं बहिः समन्ताद् दिव्यगन्धानुलिप्तं स्रग्विणं
वज्रांकितम् उपरि महावज्राधिष्ठितं क्रोधतेरिन्तिरीपरिगृहीतया वज्रकुसुमलतया।

 

ॐ वज्रोदक हुं इत्य्
अनेनाष्टोत्तरसहस्राभिमन्त्रितं चतुर्हुंकारेण चाष्टशताभिमन्त्रितं कृत्वा भगवतो वज्रहुंकारस्याग्रतः
संस्थाप्य। प्रवेशद्वाराभिमुखं च बहिर् द्वितीयं कलशं चतुर्हुंकरेणाष्टशतजप्तं स्थापयेत्।

तेनोदकेनात्मशिष्याभिषेकं
कृत्वा। प्रवेशमुद्रां बद्ध्वा न बन्धयेद् वा। प्रवालं जातरूपं च शंखं मुक्तामणिस्
तथा।  सर्वरत्नानि सिंहीव्याघ्रीगिरिकर्णासहदेवाश्
चेति सर्वौषधयः।

तिलान् माषान् यवान्
धान्यान् गोधूमांश् चापि पञ्चमान्।

शब्देन [सर्वव्रीहीणां पञ्च
तान्
] उपलक्षयेत्। तद् अनु चतुःप्रणामादिपूर्वकं संवरं ग्राहयित्वा वज्रयक्षेण
नीलवस्त्राणि परिजप्य सत्त्वोष्णीषेण वस्त्रं द्वारपालैर् मुखवेष्टनं वज्रकवचेनोत्तरीयम्  आबद्धोष्णीषादिक आचार्यः क्रोधतेरिन्तिर्या नीलपुष्पम्
आदाय।

ॐ वज्रसमयं प्रविश्यामीत्य्
उदीरयन् प्रविश्य सर्वतथागतान् विज्ञापयेत्। अहं भगवन् इत्यादिना।

ततो वज्रोदकं पीत्वात्मावेशं
कृत्वा तां मालां महामण्डले

प्रक्षिप्य स्वशिरसि
बद्ध्वा मुखबन्धं मुक्त्वा यथावद् मण्डलं दृष्त्वा तिष्ठ वज्रेत्यादिना प्रवेशमुद्रामोक्षं
च कृत्वा। उदकाभिषेकं पञ्चबुद्धमुकुटं पट्टवज्रमालाधिपतिवज्रना माभिषेकं

 

(६८ )

 

भगवतः सकाशाद् भगवन्तं
प्रणम्य गृहीत्वा। तत्त्वं धर्मसमयं सिद्धिवज्रव्रतं चादाय। पुष्पादिभिर् लास्यादिभिश्
चात्मानं संपूज्य। गाथापञ्चकेनानुज्ञां च तु हुंकारम् उद्गताव्याकरणं चादाय पुनः स्वाधिष्ठानादिकं
कृत्वा यथाभिरुचितजापं च
[ हुंकारवज्रोऽहं ] हुंकारवज्रोऽहम् इति। स्वनामोच्चारणं कृत्वा
वैरोचनमहामुद्रां बद्ध्वा। तन्मन्त्रेण अःकारान्तेन वैरोचनस्थाने तथागतवज्रम् आत्मानम्
आवेशयेत्। वज्रोऽहम् इति वज्राहंकारं विभाव्य। तद् वज्रं वैरोचनं भावयेत्। वज्रधातुर्
अहम् इति। एवं यावद् वज्रवेशमहामुद्रां बद्ध्वोत्तरद्वारे तन्मन्त्रेणाःकारान्तेन वज्राघण्टाम्
आत्मानम् आवेशयेत्। वज्रघण्टाहम् इत्य् अहंकारम् उत्पाद्य तां वज्रावेशक्रोधोऽहम् इति
भावयेद् एवं वज्रेण साधितं भवति। सत्त्ववज्रांकुशीं बद्ध्वा वज्राचार्यः ततः पुनः कुर्वन्
अच्छटासम्घातं सर्वबुद्धान् समाजयेत्।

ॐ वज्रसमाज जः वं
होः इति। एकविंशतिवारं प्रवर्तयेत्। ततः शीघ्रं महामुद्रां वज्रक्रोधसमयम् उच्चारयेत्।
सकृद् वारं नामाष्टकं शतम् उत्तमम्।

ततो वज्रांकुशादिभिः
स्वद्वारेणाकृष्य प्रवेश्य बद्ध्वा वशी

कृत्य यथावच् चतुर्हुंकारेणार्घं
दत्वा। श्रीवैरोचनादीन् समयमुद्राभिर् भद्रकल्पिकपर्यन्तान् साधयेत्। स्वमन्त्रम् उच्चार्य
वदेत्। जः हुं वं होः समयस् त्वं समयस् त्वम् अहम्।

ततः स्वमन्त्रम्
उच्चारयेद् एव सिद्धा भवन्ति॥

अथ समयमुद्रा भवन्ति।

वज्राद् विकर्षसम्भूताः
समयाग्रास् तु कीर्तिताः॥

तासां बन्धं प्रवक्षामि
क्रोधबन्धं अनुत्तरम्॥

बाहुवज्रं समाधाय
कनिष्ठांकुशबन्धिता॥

त्रिलोकविजया नाम
तर्जनी द्वयतर्जनी॥

तथैवाग्रा मुखसंगा
मणिस् तु प्रविकुञ्चिता॥

समोत्थमध्यमा पद्मा
तु मध्याग्रद्वयतर्जनी॥

 

(६९ )

 

तर्जनीद्वयं वज्रं
तु दक्षिणांकुचितांकुशी॥

तथैवाग्रस्तहुंकाराः
साधुकारास् तथैव हि॥

द्व्यग्रसंस्था
भृकुट्यां तु हृदि सुर्याग्रमण्डला॥

प्रसारितभुजा मूर्ध्नि
तर्जनी मुखहासिनी॥

तर्जनी नखसंसक्ता
कोशमुष्टिस् तु दक्षिणा॥

सममध्यगुण्ठचक्रा
तु मुखतः प्रतिनिःषृता॥

तर्जनीमध्ये वज्रा
तु ग्रीवावेष्टिततर्जनी॥

अग्रादिकमहादंष्ट्रा
ग्रस्ताग्रावज्रमुष्टिता॥ इति।

लास्यादीनां तु
वज्रधातु उक्ता एव हुंकृता। तद्यथा।

वज्रबन्धं बद्ध्वा
हृदयं तु समांगुष्ठा॥

सुप्रसारितमालिनी॥

अञ्जल्यग्रमुखोद्धान्ता
नृत्यतो मूर्ध्नि संयुता॥

वज्रबन्धं त्व्
अधोदानात् स्वञ्जलिश् चोर्ध्वदायिका॥

समांगुष्ठा निपीडा
च सुप्रसारितलेपना॥

एकतर्जनी संकोचा
द्व्यंगुष्ठग्रन्थिबन्धिता॥

अंगुष्ठाग्रकटाबन्धा
वज्रमुष्ट्यग्रसंधिता॥

हृदयमण्डले पञ्चसूचिकवज्रं
विचिन्त्य। हुंकारम् एवोच्चारयता

सर्वमुद्रा बन्धनीया।

अथ मुद्राया नियमो
भवति। वैरोचनवज्रहुंकाररत्नहुंकारधर्महुंकारकर्महुंकरस्थाने च। अथ रत्नहुंकारादीनां
मन्त्राणि भवन्ति।

ॐ वज्रभृकुटी क्रोधानय
सर्वरत्नानि ह्रिः फट्।

ॐ वज्रदृष्टिक्रोध
दुष्टान् मारय हुं फट्।

ॐ वज्रविश्वक्रोध
कुरु सर्वविश्वरूपया साधय हुं फट्।

अन्यमुद्राः सत्त्ववज्रीम्
आरभ्य द्रष्टव्याः। तथा हि सर्वविद्योत्तमानां

विजयमन्त्रेत्युक्तम्।
सवज्रहुंकारमुद्रासंग्रहश् च भगवान् वज्रहुंकारो पठ्यते। न चान्या वज्रहुंकारा भवतुम्
अर्हन्ति। सर्वतन्त्रेषु वज्रहुंकारा

निर्दिष्टेति। तद्
अनु तथैव जिह्वायां वज्रं न्यस्य यथा क्रमेण बुद्धवज्रधरादीनां धर्माक्षराणि न्यस्येत्।
एतानि च तानि।

 

(७० )

 

हुंकारो बुद्धवज्रिभ्यां
त्रःकारो वज्रगर्भतः ह्रीःकारो वज्रसेनस्य अःकारो वज्रविश्वतः।

हुं सत्त्ववज्र्यः।
त्रः रत्नवज्र्याः। ई ह्रीः धर्मवज्र्याः। अः कर्मवज्र्याः।

हुं हे त्रां त्रं
हि हृः देः हः। इति वज्रसत्त्वादीनाम्।

महारते हुं। रूपशोभे
हुं। श्रोत्रसौख्ये हुं। सर्वपूज्ये हुं।

प्रह्लादिनि हुं।
फलागमे हुं। सुतेजाग्रि हुं। सुगन्धाग्रि हुं।

आपाही जः हुं। आहि
हुं हुं हुं। हे स्फोट वं हुं। घण्ट अः अः हुं।

इति। वज्रलास्यादीनां
वज्रावेशपर्यन्तानाम् इति।

तदनन्तरम् अःकाराणि
हृदि विश्ववज्रान् निष्पाद्य कर्ममुद्रां

बध्नीयात्। तत्रेमाः
क्रोधमुष्टिद्विधाकृत्य। वामवज्रांगुली ग्राह्या दक्षिणेन समुत्थिता॥

बोध्यग्री नाम मुद्रेयं
बुद्धबोधिप्रदायिका॥ सगर्वोत्कर्षणं

द्वाभ्यां वज्रहुंकारवज्रसत्त्वसत्त्ववज्रीणां।

अंकुशग्रहणसंस्थिता
वाणघटनयोगा च॥

साधुकारं हृदि स्थिता
अभिषेकं द्विवज्रं तु॥

रत्नहुंकारवज्रभृकुटिक्रोधरत्नवज्रीणाम्॥

हृदि सूर्यप्रदर्शनं
वामस्थबाहुदण्डा च॥

तथास्य परिवर्तिता
सव्यापसव्यविकोच॥

धर्महुंकारवज्रधर्मधर्मवज्रीणाम्॥

हृद्वामा खड्गधारिणी
अलातचक्रभ्रमिता॥

वज्रद्वयमुखोट्ठिता
वज्रनृत्यभ्रमोन्मुक्ता॥

कपोतोष्णीषसंस्थिता॥
कर्महुंकारवज्रकर्मकर्मवज्रीणां
,

कवचकनिष्ठादंष्ट्राग्रा
मुष्टिद्वयनिपीडिता॥

वज्रगर्वप्रयोगेण
नमेद् आशयकम्पितैः॥

मालबन्धा मुखोद्धान्ता
नृत्यतो मूर्धनि संस्थिता॥

अध ह्क्षेपोर्द्ध्वप्रक्षेपा
समांगुष्ठनिपीडिता॥

 

(७१ )

गन्धलेपनयोगाच्
च पूजामुद्रा प्रकीर्तिता॥

तर्जन्यंकुशबन्धेन
कनिष्ठाया महांकुशी॥

बाहुग्रन्थिकटाग्राभ्यां
पृष्ठयोश् च निपीडिता॥ इति।  द्वारपालमुद्राः।

सर्वाश् च कर्ममुद्रा
नृत्योद्भवाः।

ततो यथालेखानुसारतो
वैरोचनादीनां महामुद्राबन्धं कुर्यात्। वज्रसत्त्वरत्नधर्मकर्मक्रोधानां या महामुद्रास्
तः सत्त्वरत्नधर्मकर्मवज्रिणाम् अपि वज्राद्यन्तर्गताः स्त्रीरूपधारिण्यश् च तः। यां
यां मुद्रां तु बध्नीयाद् यस्य यस्य महात्मनः।

सर्वमुद्रासमयः।

 

वामतथागतमुष्टिम्
उत्तानं कृत्वा दक्षिणहस्त तर्जन्यंगुष्ठाभ्यां

कन्यसाम् आरभ्य
विकास्य संपुटाञ्जलिं कुर्यात्।

इयं मैत्रेयादीनां
समयमुद्रा। विद्या चैषां पूर्वोक्ता। ताम् एव विद्यां तेषां जिह्वासु न्यसेद् इयं तेषां
धर्ममुद्राः। आकारेण स्वहृदि विश्ववज्रं निष्पाद्य तेषां ईख्यानुसारतो महामुद्रा बद्ध्वा

कर्ममुद्रा भवन्ति।

स्वहृदि पञ्चसूचिकं
वज्रं विचिन्त्य ईख्यानुसारत एव तेषां महामुद्रा बध्नीयाः। सैव विद्या सामान्यैवेति।

कनिष्ठांगुष्थबन्धे
तु वाममध्यांगुलित्रिके त्रिशूके मध्य शूलं तु वज्रमुद्रापरिग्रहं वज्रविद्योत्तमेयं
वज्रशूलेति कीर्तिता।

 

अतः परं प्रवक्षामि
मायावज्रादिसंज्ञिनाम्॥

वज्रबन्धं दृढीकृत्य
वामवज्रं तु बन्धयेत्॥

वज्रमुष्टिर् इति
ख्याता सर्ववज्रकुलेष्व् इयम्॥

द्विधीकृत्य तु
तद् वज्रं सर्वचिह्ननिवेशितम्॥

 

(७२ )

 

सर्ववज्रकुलानां
तु मुद्रासु च निवेशयेत्॥

प्रसारिताग्रपृष्ठस्था
ज्येष्ठांगुष्ठग्रहाधका॥

ॐकारमूर्ध्नि संस्था
तु वज्रत्वरा-प्रतिष्ठिता॥

विद्याराजमहामुद्रागणः।

प्रसारिताग्रीतापाणिर्
हस्तपृष्ठे तथैव च॥

मुष्टिसंस्था भुजद्वा
च मुखतः परिवर्तिता॥

वज्रक्रोधमहामुद्रागणः।

वामांगुष्ठसुसंस्था
तु मालाबन्धनियोजिता॥

दक्षिणेनार्थदायी
च खड्गमुद्राग्रमुष्टिगा॥

महागणपतिमुद्रागणः।

दक्षिणग्रस्तमुसला
प्रसारितभुजस् तथा॥

दक्षिणेज्वाले संदर्श्य
वज्रमुष्टिप्रकंपिता॥

दूतमहामुद्रागणः।

सगर्वमुखदंष्ट्राग्रा
दण्डघातप्रयोजिता॥

बाहुसंकोचलग्ना
च वज्रदक्षिणहारिणी॥

चेटमहामुद्रा।

अथोमादिमातृगणमुद्रा
भवति।

वामवज्रबन्धेन त्रिशूलांजं
तु पीडयेत्॥

अनया बद्धया सम्यक्
सिद्ध्येद् विद्योत्तमः स्वयम्

सर्ववज्रकुलानां
तु वामवज्राग्रसंग्रहम्॥

मुद्राबन्धं प्रवक्षामि
समयानां यथाविधि॥

चक्रसर्वाग्रसंपीदा
घण्टमुद्रा तथैव च॥

तथैवौंकारमुद्रा
तु सिंहकर्णिपरिग्रहा॥

मुद्रा राजनिका
ज्वालापरिग्रहा चैव॥

प्रभासंग्रहम् एव
च॥

दण्डमुष्टिग्रहा
चैव मुखतः परिवर्तिता॥

क्रोधसमयः।

फणामुद्रा च माला
च वज्रावस्तभ्यनामिका॥

मूर्ध्नि स्था चैव
गणिका मण्डलवद्वारफणिका॥

गणिकासमयाः।

बाहुसंकोचवक्त्रा
च पृष्ठतः परिवर्तिता॥

ज्वालास्फुलिंगमोक्षा
च विदारितमुखस्थिता॥

दूतसमयाः।

 

(७३ )

 

द्व्यन्तप्रवेशितमुखी
पीड्य चैव प्रपातिनी॥

बाहुवेष्टनवेष्टा
च सहसाहारिणी तथेति॥

चेटासमया इति॥

ततो महादेवादिजिह्वासु
तद्मन्त्रं न्यस्य। अकारेण स्वहृदि तथैव वज्रं निष्पाद्य। तेषां मुद्रा बद्धाः कर्ममुद्रा
भवन्ति। स्वहृदि पञ्चसूचिकवज्रं विभाव्य। महामुद्रा ईख्यानुसारतो बन्धनीय इति।

 

ततो भगवन्तं वैरोचनं
भद्रकल्पिकं बाह्यवज्रकुलानि च वज्ररत्नाभिषेकेनाभिषिञ्च्य। श्रीवज्रहुंकारादीन् पञ्चबुद्धमुकुटवज्रमालापटाभिःषेकैर्
अभिषिञ्चेत्। ततोऽर्घं दत्वा पूजां कुर्यात्। तत्र तावद् रत्नादिमयान् कलशान् पूर्वोक्तक्षणान्
वज्रादिस्वचिह्नकान् वैरोचनादिमन्त्रैर् अष्टोत्तरशतजप्तान् बाह्यमण्डलं बाह्यतो निवेशयेत्।
पूर्णकुंभाश् च वस्त्रयुगलक्षं दशसहस्रकं शतं प्रत्येकम् एकं वा

सर्वसामान्यम्।
नानाप्रकाराणि वितानानि चतुःकोणे विचित्रपताकावसक्तानि छत्रध्वजपताकाश् च। ॐकारेण श्रीवज्रहुंकारेण
च परिजप्य। वज्रस्फरणम् इत्य् अनेन सर्वदेवतान्

निर्यातयेत्। पुष्पवृक्षशतं
चतुरो वा वृक्षान् सर्वपुष्पाणि च।

वज्रानलेन मुद्रायुक्तेन।

ॐ वज्रपुष्पे हुं
इति च पुष्पमुद्रयाभिमन्त्र्य। सर्वगन्धान् सुवासांश् च विलेपनसुगन्धकान् तथैव वज्रानलेन।
ॐ वज्रगन्धे हुं इत्य् अनया च गन्धमुद्रायुक्तया कर्पूरागुरुतुरुस्कानि चन्दनादिसंमिश्राणि।
तथैव वज्रानलेन ॐ वज्रधूपे हुं इत्य् अनया धूपमुद्रासहितया धूपघटिकालक्षं दशसहस्रं
शतं यथालाभं वा प्रदीपलक्षम् दशसहस्रं शतं सर्वप्रदीपान् प्रदीपवर्तिज्वलितयुक्तं कुण्डं
सहस्रं च दशैकं वा। तथैव वज्रानलेन ॐ वज्रालोके इत्य् अनया प्रदीपमुद्रायुक्तया परिजप्य।
ॐ वज्रस्फरणमित्य् उदीरयन् निर्यातयेत्। बल्युपहारं च लक्षं दशसहस्रं शतं दशसंख्यां
वा स्वस्तिकम् आदितः कृत्वा नानाप्रकाराणि च भक्षाणि। तथैव वज्रानलेन परिजप्य।

 

(७४ )

 

अकारो मुखं सर्वधर्माणां
आद्यनुत्पन्नत्वाद् इत्य् उदीरयन् निर्यातयेत्। दशवाद्यसहस्राणि सहस्रशतं वाद्यानि
दशवाद्यानि

वा हुंकारेण वाद्यमुद्राभिर्
वज्रमुष्टिभ्यां करांगुलिभिर् वाद्याभिनयदशप्रकाराः। तद्यथा वीणावंशामुरजामुकुन्दाकांसाभेरीमृदंगपटहगुंजातिमिलाभिनश्
चेति। वाद्यनटनर्तककुण्डलमुकुटादिपाजाश् च। ॐकारेणाभिमन्त्र्य।

तथा पटावलम्बना
कार्या स्रक् चामरविभूषिता।

हारार्धहाररचितारचितार्धचन्द्रोपशोभिता।
तुरंगहस्तिगोयूथा

दातव्याश् च सुकल्पिताः।

तोरणानि च रम्याणि
घण्टादिसहितानि च। वज्रस्फरणम् इत्य् अनेन।

 

ॐ वज्रसत्त्वसंग्रहाद्
वज्ररत्नम् अनुत्तरं वज्रधर्म गायनैर् वज्रकर्मकरो भवेद् इत्य् उदीरयन्। नृत्यं कृत्वा
वज्रलास्याद्यष्टविधपूजाभिः क्रोधमुष्टिद्वययुक्तकर्ममुद्राभिः सर्वमण्डलं पूजयेत्।
वज्रमुष्टिद्वयं बद्ध्वा तर्जनीद्वयं प्रसार्य क्रोधमुष्टिद्वयं भवति।

 

पुनर् वज्रकुलमण्डललोक्तषोडशकर्ममुद्राभिर्
अपि संपूज्य सर्वक्रोधकुलविज्ञप्तिं कुर्यात्। सर्वसत्त्वार्थं कुरुध्वं सर्वसिद्धय
इति। ततो बाह्यबलिं दद्याद् उत्तरसाधकं मण्डले प्रतिष्ठाप्य। सलाजं सतिलं साम्भः सभक्तं
कुसुमैः सह सतिल कादिभक्तैश् चाकारादिना परिजप्य। पूर्वदिग्भागम् आरभ्य त्रिक्षेपां
गन्धपुष्पधूपदीपार्घं चादाव् अन्ते

दद्यात्। तत्र पूर्वं
तावन् मण्डलानि कारयेत्। तत आवाहयेत्।

ततः समयं दर्शयेत्।
अर्घं च दत्वा गन्धादिभिः संपूज्य

बलिं दद्यात्। ततो
विसर्जयेद् इति।

 

(७५ )

 

तत्रेमे मुद्रामन्त्रा
भवन्ति।

आलीढपदेन स्थितः।
प्राङ्मुखो वामवज्रं दर्शयेत्। दक्षिणं कटिदेशे संधार्य तर्जन्यंकुश्यावाहयेत्। तर्जन्य्
अंकुशरहिता। शक्रस्य समयमुद्रा।

 

प्रत्यालीढपदेन
स्थित्वावाहनमुद्रायस् तर्जनीं प्रसार्य विसर्जनमुद्रा। अथास्य मन्त्रः। नमो वज्रस्य
दिशि वज्रपाणे रक्ष स्वाहा। दक्षिणकरतर्जनी कुण्डलाकारेण कुंचयित्वा मध्यमासूच्यास्
तृतीयपर्वे धारयेद् अंगुष्ठकं च करमध्ये। अग्नेर् आवाहनमुद्रा।

आवाहनमुद्राया अंगुष्ठं
तर्जनीपार्श्वश्रितम्। अग्नेः समयमुद्रा। अस्या एव मुद्रायः करमध्येऽभिमुखाव् अंगुष्ठतर्जनीनखाव्
एकतो योज्यौ विसर्जनमुद्रा। मन्त्रः।

अग्ने एहि एहि कपिल
ज्वल ज्वल दह शिखितो लोल विरूपाक्ष स्वाहा।

 

याम्याम् अभिमुखो
योगी। अभिमुखकरौ कृत्वाभ्यन्तरवज्रबन्धे मध्येऽंगुष्ठयुगलं बहिर् अनामिकाद्वयासक्तसूची
पुनर् अभ्यन्तरे धारयेत्। यमस्यावाहनमुद्रा। अनामिकां पुनर् बाह्यतः सूचीं तथैव कृत्वा।
हृदयेधारयेत्। समयमुद्रा। अनयैवानामिकासूच्या विसर्जनं भवति।

अस्य। मन्त्रः।
यमाय स्वाहा।

नैरृत्याम् अभिमुखः
समपदस्थितो दक्षिणकरमुष्टिं

कृत्वा। मध्यमातर्जन्याव्
एवम् आकुंच्य धारयेत् खड्गाकारेण

संस्थाप्य वामकरं
कटिदेशे धारयेत्। वामतर्जनीं

कुंचयित्वा। नैऋऋत्येर्
आवाहनमुद्रा।

अस्या एव मुद्राया
वामकरं कटिदेशेऽवस्थितं खड्गमुद्रा। नैऋऋतेः समयमुद्रा। आवाहनमुद्रायास् तर्जनीं

प्रसार्य विसर्जनमुद्रा।
मन्त्रोऽस्य। सर्वभूतभयंकरं कुरु कुरु स्वाहा।

 

(७६ )

 

वारुण्यां दिशि
समपदस्थितो दक्षिणकरतर्जन्यंगुष्ठाव् एकतो योजयेद् वाममुष्टिं हृदि संधार्य वामतर्जन्यंकुशेनावाहयेत्।
वरुणस्यावाहनमुद्रा। अस्या एव वामतर्जनीमुष्टियोगतो धारयेत् पाशमुद्रा। आवाहनमुद्रायास्
तर्जनीं

प्रसार्य विसर्जनमुद्रा।
मन्त्रोऽस्य। तृतृपुट तृतृशिखितोलि विरूपाक्ष स्वाहा।

वायव्यां दिश्य्
अभिमुखं स्थित्वा वामकरमध्यमा सूचीमुक्ता

तर्जनी कुण्डलाकारेण
तृतीयपर्वे संदध्याभिमुखं प्रसारयेद् दक्षिणकरं कटिदेशे संस्थाप्य। कुंचितांगुष्ठेन
वायोर् आवाहनमुद्रा। अस्या एवांगुष्ठं पूर्ववत् संधार्य वायोर् समयमुद्रा। आवाहनमुद्राया
अंगुष्ठं प्रसार्य विसर्जनमुद्रा। मन्त्रः। ॐ श्वस खाखे खुखाः स्वाहा।

 

कौबेर्यबिमुखं स्थितः
करद्वयम् अभिमुखं कृत्वाभ्यन्तरवज्रबन्धं कनिष्ठाद्वयसूचीं तस्याः पृष्ठतोऽनामिकायुगलं
पृथक् संधार्य मध्यमासूचीं वज्राकारेण नामयेत् कुबेरावाहनमुद्रा। अस्या एव मुद्राया
मध्यमाद्वयम् अभ्यन्तरवज्रबन्धयोगतो न्यस्य कुबेरस्य समयमुद्रा। आवाहनमुद्राया मध्यमाद्वयं
प्रसार्य विसर्जनमुद्रा। मन्त्रऽस्य। ॐ कुबेराय स्वाहा।

 

ऐशान्यां दिश्य्
अभिमुखं स्थित्वा कराव् एकतो योज्यांजलिं कृत्वा कन्यसानामिकातलवज्रबन्धं कृत्वांगुष्ठयुगलं
मध्यमाश्रितं मध्यमासूच्यो बहिर् वज्राकारेण तर्जनीद्वयं न्यस्य तद् एवाकुंच्योपरि
परस्परनखासक्तं कुर्याद् ईशानावाहनमुद्रा। अस्या एव तर्जन्यौ पूर्ववद् वज्राकारेण धारयेद्
ईशानसमयमुद्रा। आवाहनमुद्रायास् तर्जन्यौ प्रसार्य विसर्जनमुद्रा।

 

(७७ )

 

मन्त्रः। ॐ जुं
जुं शिव स्वाहा।

प्रत्यालीढस्थानस्थोऽंजल्याकारेण
हस्तौ संधार्य। ऊर्ध्वं दृष्ट्वा तर्जनीद्वयांकुश्या ब्रह्मादीनाम् आवाहनमुद्रा। अस्या
एव तर्जनीद्वयं पूर्ववत् संस्थाप्य समयमुद्रा। आवाहनमुद्रायास् तर्जनीद्वयं प्रसार्य
विसर्जनमुद्रा। मन्त्रास् तेषाम्। ॐ ऊर्ध्वं ब्रह्मणे स्वाहा। ॐ सूर्याय ग्रहाधिपतये
स्वाहा। ॐ चन्द्राय नक्षत्राधिपतये स्वाहा।

 

समपदं स्थानम् आस्थाय
हस्तद्वयम् एकतो योज्याविचलान्योन्य् आंगुल्यग्रा संयोज्यांगुष्ठौ वर्तुलाकारेणाधोदृष्टिं
कृत्वा

पृथिव्यादीनां तर्जन्यंकुशाभ्याम्
आवाहनम्। तर्जन्यौ पूर्ववद्

व्यवस्थाप्य समयमुद्रा।
आवाहनमुद्रायाः प्रसारिततर्जनीभ्यां

विसर्जनमुद्रा।
मन्त्रः। ॐ अधः पृथिव्यै स्वाहा। ॐ असुरेभ्यः स्वाहा। ॐ नागेभ्यः स्वाहा।

तत आचमनं स्वमन्त्रैर्
एव सर्वेषां दत्वा। सशिष्यगणस्य

ममाविघ्नं कुरुत
कर्मसिद्धिं च मे प्रयच्छ। इत्य् उक्त्वा सर्वान् विसर्जयेद् इति।

अथ सुबाहुपरिपठितगाथाभ्ल्र्
बलिं दद्यात्।

देवासुराः सर्वभुजंगसिद्धाः॥

तार्क्षाः सुपर्णाः
कटपूतनाश् च॥

गन्धर्वयक्षा ग्रहजातयश्
च॥

ये केचिद् भूमौ
निवसन्ति दिव्याः॥

न्यस्तैकजानुः पृथिवीतलेऽस्मिन्॥

कृतांजर् विज्ञापयामि
तांस् तु॥

सपुत्रदारैः सह
भृत्यसंघैः॥

श्रुत्वा इहायान्तु
अनुग्रहार्थम्॥

ये मेरुपृष्ठे निवसन्ति
भूताः॥

 

(७८ )

 

ये नन्दने ये च
सुरालयेषु॥

ये चोदयास्ते रविमण्डले
च॥

नगरेषु सर्वेषु
च ये वसन्ति॥

सरित्सु सर्वासु
च संगमेषु॥

रत्नालये चापि कृताधिवासाः॥

वापीतटागेषु च पल्वलेषु॥

कूपेषु वप्रेषु
च निर्झरेषु॥

ग्रामघोषेषु सुरकानने
वा॥

शून्यालये देवगृहेषु
ये च॥

विहारचैत्यावसथाश्रमेषु॥

मठेसु शसु च कुञ्जराणाम्॥

ये भूभृतां चित्रगृहे
वसन्ति॥

रथ्यासु वीथीषु
च चत्वरेषु॥

ये चैकवृक्षेषु
महापथेषु॥

महाश्मशानेषु महावनेषु॥

सिंहेभ ऋक्षाध्युषितेषु
ये च॥

वदन्ति घोरास् महाटवीषु॥

द्वीपेषु दिव्येषु
कृतालयाश् च॥

मेरौ श्मशाने निवसन्ति
ये च॥

हृष्टाः प्रसन्नाः
स्रजगन्धमाल्यम्॥

धूपं बलिं दीपं
विधिं च भक्त्या॥

गृह्णन्तु भुंजन्तु
पिबन्तु चेदम्॥

इदं च कर्मं सफलं
जुषन्तु॥

एवं तु कृत्वा ग्रहपूजनं
तु॥

दिगर्चनं त्व् एकमना
प्रकुर्या॥

इन्द्रा तु वज्री
सह देवसंघैः॥

इमं च गृह्णन्तु
बलिं विशिष्टम्॥

अग्निर् यमो नैरृतिर्
भूपतिश् च॥

 

(७९ )

 

अपां पतिर् वायुधनाधिपतिः॥

ईशानभूताधिपतिश्
च देवाः॥

ऊर्ध्वं तु चन्द्रोऽर्कः
पिता महांश् च॥

देवाः समस्ता भुवि
ये च नागाः॥

धराधरा गुह्यगणैः
समेताः॥

प्रतिप्रतित्वेकनिवेदनं
तु॥

स्वकस्वकाश् चैव
दिशासु भूताः॥

गृह्णन्तु तुष्टः
सबलाः ससैन्याः॥

सपुत्रमित्रस्वजनैः
समेताः॥

धूपं बलिं दीपं
पुष्पविलेपनं च॥

भुंजन्तु जिघ्रन्तु
पिबन्तु चेदम्॥

इदं च कर्मं सफलं
जुषन्तु॥ इति।

 

तत्रायं सबाह्याभ्यन्ररे
बलिप्रदानमन्त्रः। अकारो मुखं सर्वधर्माणां आद्यनुत्पन्नत्वाद् इति।

ततो पस्पृश्य पूर्वद्वाराभिमुखावस्थितः
सर्वकर्मिककुण्डमध्ये श्रीत्रैलोक्यविजयमण्डलसर्वदेवतामन्त्रान् उदाहरन् कुसुमैर् निवेश्य।
होमविधिना श्रीवज्रहुंकारमन्त्रेणाष्टोत्तरशतं गोघृतेनाहुतिं दद्यात्। श्रीवैरोचनादिमन्त्रैर्
अपि वज्रावेशक्रोधपर्यन्तैः सप्तसप्ताहुतिः पुनः।

ततो यथावद् अग्निकुण्डे
वैरोचनादीन् पुष्पैर् अवाकृष्य वल्रोचनादिमन्त्रैर् आलिखिते मण्डले स्वस्थानेषु निवेशयेत्।

ततः सर्वतथागतान्
प्रणम्य।

अहम् अमुकनाम्ना
च वज्राचार्यो महातपाः॥

शिष्यान् प्रवेशयिष्यामि
सर्वसत्त्वहितार्थतः॥

अत्र च मण्डलप्रवेशे
पात्रापात्रपरीक्सा न कार्या। तत् कस्य हेतोः। सन्ति भदन्तस् तथागताः केचित् सत्त्वा
महापापकारिणस् त इदं वज्रहुंकारमण्डलं दृष्ट्वा प्रविष्ट्वा च सर्वापायविगता भविष्यन्ति।

 

(८० )

 

सन्ति भगवन्तः सत्त्वाः
सर्वार्थभोजनकामगुणगृद्धाः समयद्विष्टाः पुरश्चरणादीष्टाशक्तास् तेषाम् अप्य् अत्र
यथाकामकरणीया प्रविष्टानां सर्वाशापरिपूर्तिर् भविष्यति।

सन्ति च भगवन्तः
सत्त्वा नृत्यगीतहास्यलास्याहारविहारप्रियतया

सर्वतथागतमहायानधर्मतानवबोधाद्
अन्यदेवकुलमण्डलानि प्रविशन्ति। सर्वाशापरिपूर्तीसंग्रहभूतेषु निरुत्तररतिप्रीतिहर्षसंभवकरेषु
सर्वतथागतकुलमण्डलेषुशिक्षाभयभीतान् न प्रविशन्ति। तेषां अपायमण्डलप्रवेषे यथा वस्थितसुखात्मसमयम्
एव वज्रहुंकारमण्डप्रवेशो युज्यते। सर्वरतिप्रीत्युत्तम सुखसौमनस्याभिवऋद्धनार्थं सर्वापायगतिप्रवेशाभिमुखपथविनिवर्तनाय
च। सन्ति च पुनर् भगवन्तो धार्मिकाः सत्त्वाः सर्वतथागतशीलसमाधिप्रज्ञोत्तमसिद्ध्युपायैर्

बुद्धबोधिं प्रार्थयन्तो
ध्यानविमोक्षादिभिर् भूमिभिर् यत्नतः क्लिष्यन्ते। तेषाम् अत्रैव वज्रहुंकारमण्डले
प्रवेशमात्रेणैव सर्वतथागतत्वम्

अपि न दुर्लभम्।
किम् अंग पुनर् अन्यसिद्धिर् इति विज्ञापयेत्।

ततः शिष्यान् प्रवेशयेत्।
तत्र पञ्चशिक्षापदपरिगृहीतेन

श्रामणेरकभिक्षुसंवरगृहीतेन
वा। आचार्याभिषेकार्हे नाचार्यपादयोः प्रणिपत्यैवं वक्तव्यम्। त्वं मे शास्ता महारतः॥

इच्चाम्य् अहं महानाथ
महाबोधिनयं दृढम्॥

देहि मे समयतत्त्वं
संवरं च ददस्व मे॥ इति।

ततो वज्रयक्षपरिजप्तं
नीलवस्त्रनिवसनोत्तरीयं वज्रांकुशादिद्वारपालचतुष्टयपरिजप्तं मुखवेष्टनं शिष्यं कृत्वा

चतुःप्रणामं कारयेत्।

 

(८१ )

 

पुहः पुष्पकरेण
शिष्येणाचार्यं पुष्पकरेणैव देशनानुमोदनाध्येषणायाचणां च कृत्वा वक्तव्यम्।

देहि मे संवरं विभो॥

समन्वाहरन्तु मां
बुद्धा अशेषा मुनिभास्कराः॥

अहम् अमुकनाम्ना
वै आचार्यसमक्षं स्थितः॥

प्रयिशामि महागुह्यं
बुद्धनाटकसंभयम्॥

अवैवर्तिकचक्रद्यं
महामोक्षपुरं वरम्॥

प्रवेश मां महाचार्य
सर्वगुह्यकुलोच्चयम्॥

ददस्व मे महाभगम्
अवैवर्त्यभिषेचनम्॥

ददस्व मे महाचार्य
लक्षणस्यानुमोदनम्॥

अनुव्यञ्जनसंयुक्तं
बुद्धकायं मनोरमम्॥

ददस्व मे महाचार्य
अभिषेकं महाद्भुतम्॥

आचर्योऽहम् भवेन्
नित्यंसर्वसत्त्वार्थकारणात्॥

तत आचार्येण सर्वकुलविज्ञप्तिः
कार्या।

अयम् एवामुकनाम्ना
बोधिचित्तपरिग्रहः॥

इच्छते गुह्यचक्रेऽस्मिन्
प्रवेष्टां समयसंवरम्॥

तत आचार्येण वक्तव्यम्।

इच्छसे त्वं महात्मन्
महागुह्यकुलं शुद्धं रहस्यं परिगृह्णितुम्।

बुद्धं धर्मं च
सङ्घं च त्रिरत्नशरणं व्रज॥

एतद् बुद्धकुले
रम्ये संवरं भवते दृढम्॥

वज्रं घण्टा च मुद्रा
च त्वया ग्राह्या महामते॥

यद् बोधिचित्तं
तद् वज्रं प्रज्ञा घण्टा इति स्मृता॥

आचार्यश् च गृहीतव्यः
सर्वबुद्धसमो गुरुः॥

एतद् वज्र कुले
शुद्धे संवरं समयोच्यते॥

चतुर्दानं प्रदातव्यं
त्रिदिवे च त्रिरात्रिके॥

आमीषाभयधर्माख्या
मैत्री रत्नकुलोच्चये॥

 

(८२ )

 

सद्धर्मं च त्वया
ग्राह्यं गुह्यं त्रियानिकम्॥

एतत् पद्मकुले शुद्धे
संवरं समयोच्यते॥

संवरं सर्वसंयुक्तं
परिगृह्णीष्व तत्त्वतः॥

पूजाकर्म यथाशक्त्या
महाकर्मकुलोच्चये॥

एतत् पाराजिकाख्याताश्
चतुर्दशम् अतः परम्॥

न त्याज्यं न च
क्षेप्तव्यं मूलापत्तिर् इति स्मृतम्॥

त्रिदिवे च त्रिरात्रौ
च वर्तितव्यं दिने दिने॥

यदा हानिर् भवेद्
योगी स्थूलापत्त्यो भविष्यति॥

प्राणिनश् च न ते
घात्या अदत्तं नैव चाहरेत्॥

नचरेत् काममिथ्यायां
मृषा नैव च भाषयेत्॥

मूलं सर्वस्यानर्थस्य
मद्यपानं विवर्जयेत्॥

अक्रियां वर्जयेत्
सर्वां सत्त्वार्थं विनयेन च॥

साधूनाम् उपतिष्ठेत
योगिनां पर्युपासनम्॥

त्रिविधं कायिकं
कर्म वचसा च चतुर्विधम्॥

मनसा त्रिप्रकारं
च यथाशक्त्यानुपालयेत्॥

मनसा त्रिप्रकारं
च यथाशक्त्यानुपालयेत्॥

हीनयानस्पृहा नैव
सत्त्वार्थं विमुखं न च॥

न संसारपरित्यागी
न निर्वाणरतिः सदा॥

अपमानं न ते कार्यं
देवता न च गुह्यके॥

न च चिह्नं समाक्रम्यं
मुद्रा वाहनम् आयुधम्॥

एतत् समयम् इत्य्
उक्तं रक्षितव्यं त्वया मते॥

तस्यैव चापि वक्तव्यम्
आचार्य तु शृणुष्व मे॥

एवम् अस्तु करिष्यामि
यथा ज्ञापयसे विभो॥

उत्पादयामि परमम्
इत्यादि यावत् सर्वान् स्थापयिष्यामि निर्वृताव् इति॥

यस् तु संवरं न
गृह्णाति तस्य प्रवेशमात्रम् एव दातव्यं।

अद्य त्वम् इत्यादि
न ब्रूयाद् आचार्याभिषेकं च न कुर्यात्।

ततः। ॐ सर्वयोगचित्तम्
उत्पादयामीत्य् अनेन।

उत्पादयित्वा परमं
बोधिचित्तम् अनुत्तरम्॥

वज्रम् अस्य प्रतिष्ठाप्य
हृदये हृदयेन तु॥

सुरते समयस् त्वं
होः वज्रसिद्धि यथासुखम्॥ इत्य् अनेन।

 

(८३ )

 

ततस् तं वज्रहुंकारम्
अधिष्ठाय गन्धपुष्पादिभिर् अभ्यर्च्य स्रग्विणं सुरभिताननं च कृत्वोत्तमां दक्षिणाम्
आदाय बहिः स्थितकलशोदकेणभिषिञ्च्य। ॐ गृह्ण वज्रसमय हुं वं इत्य् अनेन क्रोधतेरिन्तिरीं
स्वयं बद्ध्वा शिष्येण बन्धयेत्।

 

वज्रबन्धं तले कृत्वा
छादयेत् क्रुद्धमानसः॥

गाढम् अंगुष्ठवज्रेण
क्रोधतेरिन्तिरी स्मृता॥

ततस् तयैवांगुष्ठाभ्यां
पुष्पमालां ग्राहयित्वा प्रवेशयेद् अनेन हृदयेन। ॐ वज्रसमयं प्रविशामीति। पूर्वद्वारे
च वज्रांकुशेन तम् आकर्षयेत्। दक्षिणेन पाशेनस्प्रवेशयेत्। पश्चिमेन स्फोटेन बध्नीयात्।
उत्तरे वज्रावेशेन वेशयेत्। पुनः पूर्वद्वारेण प्रवेश्यैवं वदेत्। अभ्यर्च्य सर्वतथागतकुले
प्रविष्टस् तद् अहं तु वज्रज्ञानम् उत्पादयिष्यमि।

 

येन ज्ञानेन सर्वतथागतसिद्धिर्
अपि प्राप्स्यसे। किम् अन्य सिद्धिः। न च त्वयादृष्टमन्ण्डलस्य पुरतो वक्तव्य।

म ते समयो व्यथेद्
इति।

ततः स्वयं वज्राचार्यः
क्रोधतेरिन्तिरीम् एवम् ऊर्ध्वमुखीं बद्ध्वा वज्रं शिष्यस्य मूर्ध्नि स्थाप्यैवं वदेत्।
अयं ते समयवज्रो मूर्ध्निं ते स्फारयेद् यदि त्वं कस्यचिद् ब्रूयाः। ततस् तयैव समयमुद्रयोदकं
शयथा हृद येन सत्कृत्य परिजप्य तस्मै वज्रशिष्याय पाययेद् इति। तत्रेदं शयथा हृदयम्।

वज्रसत्त्वः स्वयं
तेऽद्य हृदये समवस्थितः॥

निर्भिद्य तत् क्षणं
यायाद् यदि ब्रूया इमं नयम्॥

वज्रोदक। इति। ततः
शिष्याय ब्रूयाद् अद्य प्रभृति तेऽहं वज्रपाणिर् यद् अहं ब्रूयाम् इदं कुरु तत् कर्तव्यं
न च त्वयाहम् अवमन्तव्यो मा ते विषमापरिहारेण कालक्रियां कृत्वा नरके पतनं स्याद् इति।

 

(८४ )

 

तद् अनु अकारं वज्ररश्मिमालायुक्तं
स्वहृदि चिन्तयेत्। ततः शिष्यहृदूर्णाकण्ठमूर्ध्निषु चन्द्रमण्डलस्थपञ्चसूचिकं

ज्वालावज्रं रत्नं
पद्मं विश्ववज्रं च चिन्तयेत्। एभिर् यथा क्रमेण

हुं त्रां हृः अः
इति।

 

कपाटोद्घाटनमुद्रया
स्वकीयं शिष्यहृदयं चोद्घाट्य स्वहृदयाद् अकारं निश्चार्य शिष्यहृद्गतवज्रमध्ये बुद्ध्या
प्रवेश्य सर्वकायम् आपूर्यमाणं चिन्तयेत्। एवं वदेत्। ब्रूहि सर्वतथागताश् चाधिष्ठन्तां
वज्रसत्त्वो मे आविशतु। ततस् वर्तमानेन वज्राचार्येण क्रोधतेरिन्तिरीं बद्ध्वेदम् उच्चारयितव्यम्

अयन् तत् समय वज्रं
वज्रसत्त्व इति स्मृतम्॥

आवेशयतु तेऽद्यैव
वज्रज्ञानम् अनुत्तरम्॥

वज्रवेश अः इति।  १०।२०।३०।४०।५०।६०।७०।८०।९०।१०० वारानुच्चार्य नियतम्
आविशति।

ततः क्रोधमुष्टिं
बद्ध्वा सत्त्ववज्रीमुद्रां स्फोटयेद् इदम् उदीरयेत्।

ॐ सुम्भनि सुम्भनि
हुं। ॐ गृह्ण गृह्ण हुं। ॐ गृह्णापय गृह्णापय हुं।

ॐ आनय होः भगवन्
वज्रराज हुं फट्। अः अः अः अः। १०। २०। ३०। ४०।५०। ६०।७०।८०।९०। शतवारान् उच्चारयेत्।
भगवता च वज्रवातमण्डल्या च वज्रहुंकारेण रक्तवर्णज्वालाप्रभेणपूर्यमाणं चिन्तयेत्।
पुनर् अपि यद्य् आवेशो न भवति। ततो घण्टासहितां वज्रावेशसमयमुद्रां बद्ध्वा वामपादेन
तस्य दक्षिणपादं आक्रम्योपर्य् आकाशदेशे वैरोचनं श्रीवज्रहुंकारस्योपरि तस्यैवावेशनाय
क्रुद्धहुंकाररश्मिसमूहेनाक्रम्यमाणम् अधस्ताच् च वज्रवातमण्डल्या हुंकारेणोत्थाप्यमानम्
एवं पूर्वादिदिक्स्थितैर् अक्षोभ्यादिभिः। हुं त्रां हृः इति स्वबीजरश्मिव्यूहैः सम्पात्यमानं

चिन्तयंस् तम् आवेशयेत्।
हुं वज्रावेश अः शतधो च्चारयेत्।

अथ पापबहुत्वाद्
आवेशो न भवति। तदा पापस्फोटनमुद्-

 

(८५ )

रया तस्य पापानि
स्फोटवेत्। ततः।

समिद्भिर् मधुरैर्
अग्निं प्रज्वाल्य सुसमाहितः॥

निर्दहेत् सर्वपापानि
तिलहोमेन तस्य तु॥

 

ॐ सर्वपापदहनवज्राय
स्वाहा। इति दक्षिणहस्ततले कृष्णतिलैः पापप्रतिकृतिं कृत्वा हुंकारं मध्ये विचिन्त्य।
तर्जन्यंगुष्ठाभ्यां होमयेत्। ततो होमकुण्डान् निर्गत्य ज्वालाकुलैर् वज्रैस् तस्य
शरीरे पापं दह्यमानं चिन्तयेत्। ततः पुनर् वज्रावेशं तथैवं बद्ध्वावेशयेत्। नियतम्
आविशति। एवम् अपि यस्यावेशो न भवति तस्याभिषेकं न कुर्याद् इति। आविष्टस्य च पञ्चभिज्ञादिनिष्पत्तिस्
तत् क्षणाद् एव भवति। ततः समाविष्टं ज्ञात्वा पुनः। ॐ वज्रसत्त्वसत्त्वसंग्रहादिगीतिम्
उच्चार्य। क्रोधमुष्ट्या तथैव सत्त्ववज्रीमुद्रं स्फोटयेत्। स चेद् आविष्टो वज्रसत्त्वक्रोधमुद्रां

बध्नीयात्। तदाचार्येण
वज्रमुष्टिं क्रोधमुद्रां बध्नीयात्। एवम् यावत् स चेत् वज्रहासमुद्रां बध्नीयात्।

तदा वज्रधर्मक्रोधमुद्रां
बन्धयेद् इत्य् एवं सांनिध्यं कल्पयन्ति। ततस् तस्य जिह्वायां वज्रं विचिन्त्य। ब्रूहि
वज्र। इति वक्तव्यम्। ततः सर्वं कथयति। ततस् तां मालां महामण्डले क्षेपयेत्। प्रतिच्छ
वज्र होः। इति। ततो यत्र पतति सोऽस्य सिद्ध्यति। ततस् तां मालां तस्यैव शिरसि बन्धयेत्।
ॐ प्रतिगृह्ण त्वम् इमां वज्रसत्त्व महाबल। इति।

ततो मुखबन्धं मुञ्चेद्
अनेन।

ॐ वज्रसत्त्वः स्वयं
तेऽद्य चक्षूद्घाटनतत्परः॥

उद्घाटयति सर्वाक्षो
वज्रचक्षुर् अनुत्तरम्॥ इति। हे वज्र पश्य। इति। ततो महामण्डलवज्रांकुशाद् आरभ्य यावद्
वैरोचनपर्यन्तं दर्शयेत्। ततस् तिष्ठ वज्रेत्यादिना शिष्यप्रवेशमुद्रां मोक्षयेत्।

ततो बाह्यमण्डलाभ्यन्तरे
चन्द्रमण्डलं पूर्वद्वाराभिमुखं संलिख्य बाह्यतो वा शिष्यं श्रीवज्रहुंकारमुद्रया सत्त्ववज्रादिभिश्
चाधिष्ठाय महामुद्रया ततः प्रतिष्ठाप्याभिषिञ्चेत्।

 

(८६ )

 

गन्धपुष्पादिभिर्
अभ्यर्च्यार्घं दत्वा। छत्रध्वजपताकादिभिस्

तुर्यशंखनिनादितैश्
च।

ततो मालगाथाभिर्
अभिनन्द्यादौ तावद् उदकाभिषेकेन ततो मुद्राभिषेकेन मुकुटपट्टवज्राधिपतिनामाभिषेकैश्
चाभिषिञ्चेत्। पुनः पुष्पादिभिर् लास्याद्यष्टविधपूजया च पूजयेत्। शिष्येणाचार्यं वलितवज्रांजलिना
प्रणम्योत्तमां दक्षिणां दत्वा पुष्पद्यभिषेकाश् च ग्राह्या इति।

आचार्याभिषेकं तु
श्रीवज्रहुंकारमुद्रया तथैव प्रतिष्ठाप्य

यथा निर्दिष्टेषु
स्थानेषु समयमुद्राभिस् तस्य काये श्रीवज्रहुंकारादीन् न्यस्य। पुनर् अपि अनेनाष्टोत्तरशतसहस्रपरिजप्तं

विजयकलशं कृत्वा।

ॐ वज्राधिपति त्वाम्
अभिषिञ्चामि दृढो मे भव जः हुं वं होः हुं फट् इति। तत इमं चोदीरयन्। ॐ वज्राभिषिञ्च।
इति चोदकाभिषेकं वज्रमुष्टिनोदकं विजयकलशाद् गृहीत्वा दद्याद् इदं च ब्रूयात्॥

इदं ते नारकं वारि
समयातिक्रमाद् दहेत्।

समयाभिरक्षात् सिद्धिः
सिद्धं वज्रामृतोदकम्॥

वज्रघण्टां च मुद्रां
च यद्य् अमण्डलिनो वदेत्॥

हसेद् वाश्रद्धदानेन
जनसंगणिकास्थितः॥ इति।

ततः सर्वविधिम्
अनुष्ठाय नामाष्टशतेन संस्तुत्य गाथापञ्चकेनानुज्ञां दत्वोव्द्गतव्याकरणेन सर्वशिष्यान्
सर्वशिष्यान् व्याकुर्याद् इति।

अथ गुह्याभिषेको
भवति। आचार्याभिषेकार्हं प्रवेश्य सर्वमण्डलं

तु तत् कुरुष्व।
इति।

अनेककर्मसंसिद्धिं
सिद्धिं चापि यथेप्सिताम्॥

प्राप्नोति नियतं
कृत्स्नाम् अधमोत्तममध्यमाम्॥

निर्विघ्नेन परां
भूमिं किं पुनः क्षुद्रसिद्धयः॥

बुद्धत्वं बोधिसत्त्वत्वं
वज्रसत्त्वत्वम् अदुर्लभम्॥ इति।

यस्य सिद्धिर् निर्जायते
यस्य पापा महाग्रहाः॥

विघ्ना विनायकाश्
चापि मृत्यवो मारकायिकाः॥

 

(८७ )

 

नानाभयशस्त्रैस्
तीव्राः सिद्धिकर्मविधारिणः॥

ते तस्य नश्यन्ति
नापि जायन्ते च महोत्तमा॥

होमकर्मविधानेन
ध्रुवम् आशु प्रसिद्धयः॥

देवताश् च महातुष्टीं
प्रलभन्ति क्षणेन च॥

ईत्युपद्रवदोषादि
दूरं गुरुतरं भृशम्॥

नश्यन्ति तत्र देशेऽस्मिन्
व्याधिज्वरग्रहादिकम्॥

परचक्रा विनश्यन्ति
दुर्भिक्षाश् च सरौरवाः॥

देवा नागा महोत्साहाः
पालयन्ती सुखेन तु॥

चतुरश् च महाराजाः
पालयन्ति महर्द्धिकाः॥

लोकपालाः सनक्षत्रा
यख़्षाश् चापि ग्रहादिकाः॥

अथ शक्रब्रह्मादयो
देवाः प्रणिपत्य मुहुः॥

पूजां नानाविधां
कृत्वा रत्नछत्रादिभिर् वराम्॥

वज्रपाणिं जिनाधृष्टं
संस्तुवुर् मुदिताश्रयाः॥

सर्वबुद्धादिसम्बुद्धं
सर्वाज्ञानमलापहम्॥

वज्रवज्रधरो राजा
वज्रवज्रसवज्रधृक्॥

वज्रकायो महाकायो
वज्रपाणिर् नमो नमः॥

वज्रवज्राग्रवज्राग्रो
वज्रज्वालो महाज्वलः॥

वज्रावेशो महावेशो
वज्रायुधो महायुधः॥

वज्रपाणिर् महापाणिर्
वज्रवाणः सुवेधकः॥

वज्रतीक्ष्णो महातीक्ष्णो
महामहान् महोदधिः॥

वज्रपद्मो महाबोधो
बौधिबुद्धः स्वयं भुवः॥

वज्रोदारो महोदारो
वज्रमायाविशोधकः॥

वज्रहेतुर् महायक्षो
वज्रपद्मविशोधकः॥

वज्रक्रोधो महाचण्डो
वज्रारिदुष्टहा विभुः॥

वज्रभीमो महारक्षो
वज्रांकुशश् चामोघकृत्॥

वज्रवेतालो वेतालो
वज्रराक्षसभक्षकः॥

वज्रयक्षो महायक्षो
वज्रग्रहो ग्रहोत्तमः॥

भीषणो रौद्रो रुद्रो
भैरवभीकरः॥

असाध्यः साधकः साधुः
वज्रसाधुप्रहर्षकः॥

वज्रप्रीतिर् महाप्रीतिर्
वज्रायुधवशं करः॥

वज्रतेजो महातेजो
ज्वालाप्रभयमान्तकृत्॥

वज्रघोरो माहाघोरो
घनप्रभो महाघनः॥

 

(८८ )

 

आकाशसमसर्वाशः सर्वाशापरिपूरकः॥

वज्राभिषेकतत्त्वाग्रो
वज्रध्वजो गुणोदधिः॥

वज्रज्ञानं महाज्ञानं
विद्याकोटिगणार्चितः॥

हालाहलमहाकालः कोलाहलविलासकः॥

वज्रकामो महाकामः
कषायकरिनाशकः॥

वेलाचपलदोलाग्रो
विद्युज्जिह्वास्फुरद्मुखः॥

वज्रानलो प्रचण्डास्यश्
चण्डप्रद्योतद्योतकः॥

सहस्रसूर्यप्रभास्यो
लोहिताक्षो भयानकः॥

क्रोधानेकस्फरद्रश्मिर्
भुजानेकशतायुधः॥

मुखानेकसहस्रांगः
कुटिलः कुटिलांगकः॥

अनंगश् चित्तधर्मात्मा
विकल्पाशेषवर्जितः॥

अविद्याघातको ब्रह्मा
रागद्वेषमलान्तकः॥

रागो द्वेषो महामोहो
भवाभवविशोधकः॥

शान्तो दान्तो महाशुद्धो
बुद्धो बुद्धप्रबोधकः॥

बुद्धात्मा बुद्धरूपी
च वज्रसत्त्वः सुवज्रजः॥

समन्तभद्रो महाभद्रः
सर्वलक्षणलक्षितः॥

सर्वधातुमयो व्यपी
सर्ववज्रमयः शुचिः॥ इति।

येन लिखेत् पठेद्
वापि धारयेद् अर्थतः सदा॥

स्मरेत् शृणुयाद्
वापि वज्रपाणिसमो भवेत्॥ इति।

इदम् अवोचद् भगवान्
आत्तमनः।

शक्रब्रह्मादिदेवपर्षत्
सदेवमानुषासुरगन्धर्वयक्षसादिभिर् हितसुखप्राप्तये भगवतो भाषितम् अभ्यनन्दन् इति॥

आर्यसर्वदुर्गतिपरिशोधनतेजोराजस्य
तथागतस्यार्हतः सम्यक्सम्बुद्धस्य कल्पैकदेशः समाप्तः॥

 



















































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(८९ )

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project