Digital Sanskrit Buddhist Canon

समाहिता भूमिः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June, 2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

समाहिता भूमिः

 

(0) समाहिता भूमिः
कतमा
?

 

उद्दानं

 

उद्देशस् तद्व्यवस्थानं
मनस्कारो निमित्तता

सूत्रान्तसंग्रहश्
चेति विचित्रः पश्चिमो भवेत्।

 

समाहिता भूमिः समासत
उद्देशतोऽपि
, तद्व्यवस्थानतोऽपि, मनसिकारप्र[भे]दतोऽपि, निमित्तप्रभेदतोऽपि, सूत्रान्तसंग्रहतोऽपि
वेदितव्या।

 

(1.0) उद्देशः कतमः? समासतः समाहिता
भूमिश् चतुर्विधा
, तद्यथा ध्यानं विमोक्षः समाधिः समापत्तिश् च।

 

(1.1)ध्यानं कतमत्? चत्वारि ध्यानानि: विवेकजं सवितर्कं
सविचारम्
,

समाधिजम् अवितर्कम्
अविचारम्
, निष्प्रीतिकम्, उपेक्षास्मृतिपरिशुद्धं च।

 

(1.2) विमोक्षः कतस्मः? अष्ट्[] विमोक्षाः: रूपी रूपाणि पश्यतीति
प्रथमो विमोक्षः। अध्यात्मम् अ
[रूपसं]ज्ञी बहिर्धा रूपाणि
पश्यतीति द्वितीयो विमोक्षः। शुभं व्ल्मोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीति
तृतीयो

विमोक्षः। आकाशानन्त्यायतनम्
... विज्ञानान्त्यायतनम् ...[किंच]न्यायतनम्... [नै]वसंज्ञानासंज्ञायतनम्
... संज्ञावेदयितनिरोधं कायेन साक्षात्कृत्योपसंपद्य विहरतीत्य् अष्टमो विमोक्षः।

(1.3) समाधिः कतमः? सून्यता, अप्रणिहितः, आनिमित्तः। पुनस्
त्रयः समाधयः
: सवितर्कः सविचारः, अवितर्को विचारमात्रः, अवितर्कोऽविचारः।
पुनस्

 

(p125)

 

त्रयः: परीत्तः, महद्गतः, अप्रमाणः, पुनस् त्रयः: प्रीतिसहगतः, सातसहगतः, उपेक्षासहगतः, पुनर् एकांशभावितः
समाधिः
, उभयांशभावितः समाधिः(?) पुनश् चतुःसमाधिभावनासहगतः
समाधिः। पुनर् आर्यः

पञ्चज्ञानिकः समाधिः।
पुनर् आर्यः पञ्चङ्गिकः समाधिः। पुनर् आर्य एव समाधिः सोपनिषत् सपरिष्कारः। पुनर् वज्रोपमः
समाधिः। पुनः शैक्षः समाधिः
, अशैक्षः समाधिः, नैव शैक्षो नाशैक्षः
समाधिः।

(1.4) समापत्तिः कतमा? पञ्च दर्शनसमापत्तयः, अष्टाव् अभिभ्वायतन
समापत्तयः
, दश कृत्स्नायतनसमापत्तयः, चतस्र आरूप्यसमापत्तयः,

असंज्ञासमापत्तिः, निरोधसमापत्तिश्
च।

(2.0.0) तद्व्यवस्थानं
कतमत्
?

(2.0.1) कस्मात् पुनर्
एषैव समाहिता भूमिः
, न पुनर् यापि कामधातौ चित्तैकाग्रता? यस्माद् एष समाधिर्
अविप्रतिसारप्रामोद्यप्रीतिप्रस्रब्धिसुखाभि-

 

(p126)

 

निर्हृतः, न तु कामावचरः।
न च पुनर् नास्ति कामधातौ सम्यग्धर्मोपनिध्यानम्।

(2.1.0) तत्र प्रथमं ध्यानं
प्रविवेकप्रीतिर् इत्य् उच्यते। तां साक्षात्कृत्य विहरतः पञ्च धर्माः प्रहीयन्ते
, तद्यथा कामोपसंहितं
सौमनस्यम्
,

कामोपसंहितं दौर्मनस्यम्, अकुशलोपसंहितं
सौमनस्यम्
, अकुशलोपसंहितं दौर्मनस्यम्, अकुशलोपसंहिता
चोपेक्षा। पञ्चधर्मा भावनापारिपूरिं गच्छन्ति
: प्रामोद्यम्, प्रीतिः, प्रस्रब्धिः,

सुखम्, समाधिश् च।

(2.1.1.1) कामोपसंहितं सौमनस्यं
कतमत्
? प्रतिलभ्यमानान् प्रतिलब्धान् उपभुज्यमानांश् च पञ्च कामगुणान् प्रतीत्य, दृष्टश्रुतानुभूतंश्
च तन् एवानुस्मरतो यत् सौमनस्यम्।

 

(p127)

 

(2.1.1.2) कामोपसंहितं दौर्मनस्यं
कतमत्
? तान् एव पञ्च कामगुणान् अलभमानस्य तदुपभोगं वा पुनर् अलभमानस्य ईब्धानां
वा हानिं विगमं विनाशं प्रतीत्य यद् दौर्मनस्यम्।

(2.1.1.3) अकुशलोपसंहितं
सौमनस्यं कतमत्
? यथापीहैकत्यः सहैव सुखेन सहैव सौमनस्येन प्राणातिपातिको भवति यावन् मिथ्यादृष्टिकः।

(2.1.1.4) अकुशलोपसंहितं
दौर्मनस्यं कतमत्
? यथापीहैकत्यः सहैव दुःखेन सहैव दौर्मनस्येन प्राणातिपातिको भवति यावन्
मिथ्यादृष्टिकः।

(2.1.1.5) अकुशलोपसंहितोपेक्षा
कतमा
? यथापीहैकत्यो राजा वा भवति राजमात्रो वा यो वा यस्याधिपतिर् गुरुर् वा
गुरुस्थानीयो वा
, स च स्वयं

प्राणातिपातिकं
पापं न क
[र्]ज्तु[कमो] भवति, आज्ञापुरुषैस् तु क्रियमाणम्

 

(p128)

 

अध्युपेक्षते, न प्रतिवारयति, न विनये स्थापयति, तदध्युपेक्षया
च तस्य कर्मणः क्रिया भवति
, स च तत् प्रतिसंवेदयते कर्म, न परोक्षो भवति;

[या] चोपेक्षाकुशलम्
अनुवितर्कयतोऽनुविचारयतस् तदप्रहाणाधिवासनोपसंहिता अकुशले च प्रचारे वर्तमानस्य यादुःखासुखा
वेदना।

(2.1.2.1) प्रामोद्यं कतमत्? आदिशुद्धस्य संभारभूमिं
परिशुद्धां व्यवलोकयतो यद् अविप्रतिसारपूर्विकात्तमनस्कता प्रामोद्यं सौमनस्यं

चित्तकल्यता।

(2.1.2.2) प्रीतिः कतमा? यः सम्यक्प्रयोगपूर्वको
हर्षः प्रीतिः
(?) सौमनस्यं चित्तकल्यता।

 

(p129)

 

(2.1.2.3) प्रस्रब्धिः कतमा? दौष्ठुल्यपगमात्
कायचित्तकर्मण्यता।

(2.1.2.4) सुखं कतमत्? तथा(?) कर्मण्यचित्तस्य(?) यत् कायिकचैतसिकम्
अव्यावध्यसुखं विमुक्तिसुखम्। यत्पक्ष्यं हि तद् दौष्ठुल्यम् अपगतम्
, तेभ्य उपक्लेशेभ्यो
विमुक्तिः।

(2.1.2.5) समाधिः कतमः? सम्यग् आलम्बनम्
उपनिध्यायतो यच् चेतस ऐकाग्र्यम्।

(2.1.2.6.1) अनास्रवे प्रयोगे
भगवान् पूर्वं समाधिम् आह पस्चाद् विमुक्तिम्
, निष्पन्नस्य समाधेर्
वशेन केवलं क्लेशेभ्यश् चित्तविमोचनताम् उपादाय।

 

(p130)

 

(2.1.2.6.2) सास्रवे तु प्रयोगे
पूर्वं विमुक्तिम् आह पश्चात् समाधिम्
, प्रयोगनिष्ठामनसिकारफलत्वात्
क्लेशप्रहाणस्य मौलसमाधिप्रतिलम्भताम् उपादाय।

 

(2.1.2.6.3) युगपत् समाधिं
च विमुक्तिं चाह
, तद्यथा तस्मिन्न् एव प्रयोगनिष्ठे मनसिकारे यः समाधिर् विमुक्तिसहगतस्
तदन्येषु चानन्तर्य विमुक्ति
(?) मार्गसमाधिषु।

 

(2.2.0) तत्र पञ्च निवरणानि
ध्यानसमापत्त्यावरणानि यानि ध्यानसमापत्तिकाल आवरणं कुर्वन्ति
: कामच्छन्दनिवरणं
व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सानिवरणं च।

 

(2.2.1.1) कामच्छन्दः कतमः? शुभनिमित्तम् अनुसरतः
पञ्चसु कामगुणेषु या द्रष्टुकामता यावत् स्प्रष्टुकामता
, पूर्वानुभूतान्
वा समनुस्मरतो या

वितर्कयितुकामता।

(2.2.1.2) व्यापादः कतमः? सब्रह्मचारिभ्यश्
चोदनाम् आगम्यान्यतमान्यतमं व कंचिद् अपकारं प्रतिघनिमित्तम् अनुस्मरतो यश् चेतस आघातः
, अपवकारं वा कर्तुकामस्य
तद् एव प्रतिघनिमित्तं बहुलम् अनुवितर्कयतोऽनुविचारयतो

यश् चेतस आघातः(??).

 

(p131)

 

(2.2.1.3.1) स्त्यानं कतमत्? अन्यतमान्यतमां
वा शीलादिविपत्तिम् आगम्येन्द्रियैर् अगुप्तद्वारतां वामत्राभोजितां वाजागरिकानुयुक्ततं
वासंप्रजानविहारितां वा
, प्रहाणे प्रयुक्तस्य(?) यत् सर्वक्लेशोत्पत्त्यनुकूलं
कायचित्तस्तैमित्यं कायचित्ताकर्मण्यता।

(2.2.1.3.2) मिद्धं कतमत्? चित्ताभिसंक्षेपः।

(2.2.1.3.3) स्त्यानं क्लेशोत्पत्त्या
प्रहाणप्रयोगं नाशयति
, मिद्धं पुनश्चित्ताभिसंक्षेपेन। तस्माद् उभयम् एकं निवरणम् उक्तम्। अ[कर्मण्य]तस्तैमित्यात् स्त्यानम्, अभिसंक्षेपस्तैमित्यान्
मिद्धम्। न च स्त्यानम् अन्येषां क्लेशोपक्लेशानां तथासन्नम् उत्पत्तिप्रत्ययो यथा
मिद्धस्य
; अन्यः क्लेशोप-

(p132)

 

क्लेश उत्पद्येत
वा न वोत्
[पद्]य्[], मिद्धं तावत् स्तिमितजातस्यावश्यम् उत्पद्यते।

 

(2.2.1.4.1) औद्धत्यं कलमत्? ज्ञातिवितर्कं
वा जनपदवितर्कं वामरवि तर्कं वागम्य पौराणं वा हसितक्रीडितरमितपरिचारितम् अनुस्मरतोऽनुस्मारयतो
वा य उत्पद्यते चेतसोऽव्युपशम उत्प्लावित्वम्।

 

(2.2.1.4.2) कौकृत्यं कतमत्? तान् एव ज्ञात्यादिवितर्कान्
वितर्कयतः
: कस्माद् अहं तेभ्यो ज्ञातिभ्यो(?) वियुक्तः, तं वा जनपदं न
गतः
, तं वा जनपदं

त्यक्त्वेहागतः(?), यत्रैवंरूपं खाद्यकं
खाद्यते
, पानकं पीयते, एवंरूपाश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारा  ल-

 

(p133)

 

भ्यन्ते? कस्माद् अहम् एवं
दह्रः प्रव्रजितः
? तावद् आसितो भविष्यं यावद्वृद्धावस्थात्(?)!", पौरानं वा हसितक्रीडितादि
समनुस्मरतः
:" कस्माद् अहं यस्मिन् समये कृडारतिमण्डनस्थानयोगम् अनुयुक्तेन विहर्तव्यम्, तस्मिन्

 

(p134)

समयेऽकामकानां ज्ञातीनां
साश्रुकण्ठानां रुदन्मुखानां प्रव्रजितः
?" इत्य् एवंरूपेण
प्रत्ययेन य उत्पद्यते चेतस आलेखो विलेखः कौकृत्यं विप्रतिसारः।

(2.2.1.4.3) अत एव च तुल्याधिष्ठानत्वाद्
औद्धत्यकौकृत्ययोर् एकम् औद्धत्यकौकृत्यम्वरणं

कृत्वोक्तम्।

(2.2.1.4.4) करणीयाकरणीयं वा
पुनर् यथायोगं कृतवतो वाकृतवतो वा
" कार्यं मे न कृतम्, अकार्यं मे कृतम्" इति तत्प्रथमत
उत्पन्नं कौकृत्यं स्थापयित्वा

तद् एव कौकृत्यपर्यवस्थानम्
अशक्नुवतो विनोदयितुम् उत्तरकालं यद् उत्पद्यते प्राबन्धिकश् चेतस आलेखो विलेखः कौकृत्यं
विप्रतिसार इत्य्

अयम् अपरः कौकृत्यनिवरणपर्यायः।

(2.2.1.4.5) यद् एतद् अस्थानजं
यच् च पश्चिमं कौकृत्यम्
, एतन् न तुल्याधिष्ठानम्

औद्धत्येन; अपि तु यथा तद्
उत्प्लवाकारेणाव्युपशमं करोति
, एवम्

इदम् अपि दौर्मनस्याकारेणेत्य्
अत एतद् अपि तेन सह मिश्रयित्वोक्तम्।

 

(p135)

 

(2.2.1.5) विचिकित्सा कतमा? शास्तरि काङ्क्षति
विचिकित्सति ध्रमं शिक्षाम् अनुशासनीं वाधिगमं वा। तस्यैवं काङ्क्षविचिकित्साप्राप्तस्य
तच् चित्तं न प्रस्कन्दत्य् आतप्तायानुयोगाय प्रहाणाय प्रतिसंलयनाय। अतीतं वाध्वानं
काङ्क्षतो विचिकित्सतः - यथातीतम् एवम् अनागतं प्रत्युत्पन्नम् दुःखादीनि वा सत्यानि
काङ्क्षतो विचिकित्सतो यश् चेतसो द्वैधीभावः संदेहो विमतिः काङ्क्षा।

(2.2.2.1.1) कामच्छन्दनिवरणस्याहारः
कतमः
? अस्ति शुभम्; तत्रायोनिशोमनसीकारो बहुलीकारः।

 

(p136)

 

तत्र शुभं कतमत्? यत् कामानाम् अग्र्यं
वरं प्रणीतम्
, यतो विरक्तोऽन्यतोऽपि प्रत्यवराद् विरक्तो भवति, महामल्लनिघाते
तदन्यमल्लनिघातसिद्धवत्।

 

तत् पुनः कतमत्? या स्त्रीसहगता
शुभताष्टस्थानसंगृहीत
, यैर् अष्टाभिः स्थानैः स्त्री पुरुषं बध्नाति, तद्यथा नृत्तेन, गीतेन, हसितेन, प्रेक्षितेन, वर्णेन, स्पर्शेन, आकपेन, व्रणभाङ्गेन च।

 

अयम् अनुत्पन्नस्य
कामच्छन्दस्योत्पत्तय उत्पन्नस्य च वृद्धय आहारः।

(2.2.2.1.2) अनाहारः कतमः? अस्त्य् अशुभा; तत्र योनि[शो] मनसीकारो बहुलीकारः।

 

(p137)

तत् पुनः कतमत्? तद्यथा विनीलकादि।
इमम् एव कायं पूर्नं नानाविधस्याशुचेः प्रत्यवेक्षते
; एवम् अध्यात्मं
कायम् अशुभतः प्रत्यवेक्षते। बहिर्धा पुनर् विनीलकाद्यशुभतया कायम् अशुभतः प्रत्यवेक्षते।
एतावच् चैतद् द्वयम् अशुभम्।

 

अयम् अनुत्पन्नस्य
कामच्छन्दस्यानुत्पादायोत्पन्नस्य च प्रहाणायानाहारः। तत्र मनसिकाराद् अनुत्पादः
, बहुलीकारात् प्रहाणम्।
कृष्णपक्षे तु मनसिकाराद् उत्पादः
, बहुलीकाराद् भूयोभाववृद्धिविपुलता।

(2.2.2.2.1) व्यापादस्याहारः(?) कतमः? अस्ति प्रतिघः, अस्ति प्रतिघनिमित्तम्; तत्रायोनिशोमनसिकारो
बहुलीकारः। तत्रापकारम् आगम्य चेतस आघातः प्र-

 

(p138)

 

तिघः। स एवापकारः
प्रतिघनिमित्तम् अयोनिशोमनस्कारसहितः
, तद्यथा नवस्व्
आघातवस्तुषु।

(2.2.2.2.2) अनाहारः कतमः? अस्ति मैत्री; तत्र योनिशोमनस्कारो
बहुलीकारः।

 

सा पुनः परसुखोपसंहारलक्षणा
भावनाबलसंगृहीता। प्रतिसंख्यानबलम् अप्य् अस्य नवाघातविनयसंगृहीतम् अनाहारः। येन तु
प्रहाणं भवति व्यापादनिवरणस्य
, तद् एवोक्तं सूत्रे।

 

(2.2.2.3.1) स्त्यानमिद्धनिवरणस्याहारः
कतमः
? अस्त्य् अन्धकारम्; तत्रायोनिशोमनसिकारो बहुलीकारः।

 

(2.2.2.3.2) अनाहारः कतमः? अस्त्य् आलोकः; तत्र योनिशोमनसिकारो
बहुकारः।

 

तत्रालोकस् त्रिविधः: अन्धकारप्रातिपक्षिकः, धर्मालोकः, आश्रयालोकश् च।

 

तत्रान्धकारप्रातिपक्षिको
रात्रीगतस् तद्यथा चन्द्रतारकादयः
, दिवसगतस्

तद्यथादित्यह्, तदुभयगतस् तद्यथाग्निमण्याद्यालोकः, तत्र धर्मालोको
यथापीहैकत्यो यथोद्गृहीतान् यथाचिन्तितान् यथास्पृष्टांश् च धर्मान् प्रत्यवेक्षते
बुद्धाद्यनुस्मृतिं वा भावयति। तत्राश्रयालोकस् तद्यथा स्वयंप्रभाणां

सत्त्वानाम्।

(2.2.2.3.3) तत्र प्रथमालोकप्रतिपक्षेण
त्रिविधम् अन्धकारं वेदितव्यम्
, यदुत निशान्धकारम्, मेघान्धकारम्, तिरस्करणान्धकारं
च तद्यथा गुहादिषु।

 

(p139)

 

धर्मालोकस्य प्रतिपक्षेण
त्रयस् तमस्कायः
, तथा हि तान् धर्मान् यथाभूतम् अप्रजानन्न् अतीतम् अध्वानं काङ्क्षति
विचिकित्सत्य् अनागतं प्रत्युत्पन्नं अपि
; बुद्धधर्मादिषु
च। तत्र या चाविद्या या च विचिकित्सा
, तद् उभयं तमस्काय
इत्य् उच्यते।

 

अधिगतप्रत्यवेक्षायाः
पुनः प्रतिपक्षेण स्त्यानमिद्धम् अन्धकारः
, तेन हि तद्धर्माप्रसंख्यानात्(??).

 

(2.2.2.4.1) औद्धत्यकौकृत्यनिवरणस्याहारः
कतमः
? सन्ति ज्ञातिवितर्कादयः, पौराणं च हसितक्रीडिताद्य्
अनुस्मर्ता भवति
; तत्रायोनिशोमनसिकारो बहुलीकरः।

 

(p140)

 

तत्र ज्ञातीनां
संपत्तिं वा विपत्तिं वा स्
[अं]य्[]गं वा वियोगं वागम्य

हर्षाकारा दैन्याकारा
वा योत्पद्यते चेतसोऽर्पण व्यर्पणा चेति।

 

जनपदानां तथैव संपत्त्यादीन्
आगम्य विस्तरेण जनपदवितर्कः पूर्ववत्।

 

अमरवितर्कः क्[अतम]? दह्रत्वं वृद्धत्वं
वेतरकरणीयं वा परार्थकरणीयं वागम्य हर्षदैन्याकारा या चेतसोऽर्पणेति विस्तरः।

 

हसितं नाम यथापि
कश्चिद् उद्घट्टक
(?) वादम् वा सभागत(??) वादं वागम्य दन्तविदर्शकं हसति संचग्घति
संकिलिकिलायते।

 

(p141)

 

तत्र क्रीडितं तद्यथाक्षैर्
वास्त्रेडैर्
(?) वा मणिभिर् वा, अन्यद् वा यद् एवंजातीयम्।

रमितं यान्योन्योपभोगेन
वा विषयोपभोगेन वोपभोगरतिः
, सहस्थानवासजल्पादिभिर् वा या विहाररतिः।

 

तत्र परिचारितं
तद्यथा हस्तग्रहणं वा बाहुग्रहणं वा वेणीग्रहणं वान्यतमान्यतमस्य वाङ्गजातस्यामर्शनं
परामर्शनम् आलिङ्गितं चुम्बितं प्रेक्षितम् इति
, यद् वा पुनर् अन्यद्
एवंभागीयं परिचर्याकर्म।

 

(2.2.2.4.2) अनाहारः कतमः? अस्ति शमथः; तत्र योनिशोमनसिकारो
बहुलीकारः। तत्र शमथो या नवाकारा चित्तस्थितिः शमथपक्ष्याश् च धर्माः। ते पुनर् ये
केचित् संवेजनीयाः
, तद्यथात्मविपत्तिः, परविपत्तिः, आत्मसंपत्तिः, परसंपत्तिश् च, यैश् चित्तं संविजत
उत्त्रस्यति संवेगम् आपद्यते शमेऽवतिष्ठते।

 

(p142)

 

(2.2.2.5.1) विचिकित्सानिवरणस्याहारः
कतमः
? सन्ति त्रयोऽ ध्वानः; तत्रायोनिशोमनस्त्कारो
बहुलीकारः।

 

किं न्व् अहम् अभूवम्
अतीतेऽध्वनीति विस्तरेण पूर्ववत्
: योऽयं अयोनिशोमनसिकारोऽचिन्त्यस्थानसंगृहीतः।
अचिन्त्यानि पुनः स्थानानि तद्यथात्मचिन्ता सत्त्वचिन्ता लोकचिन्ता।

 

तत्राध्यात्मम्
अधिष्ठायाध्वस्व् आत्मचिन्ता
; परम् अधिष्ठाय सत्त्वचिन्ता; सत्त्वलोकं भाजनलोकं
चाधिष्ठाय लोकचिन्ता
: शाश्वतो लोकः, अशाश्वतः, शाश्वतश्

चाशाश्वतश् च, नैव शाश्वतो नाशाश्वत
इत्य् एवमादि।

 

(2.2.2.5.2) अनाहारः कतमः? अस्तीदंप्रत्ययताप्रतीत्यसमुत्पादः; तत्र

योनिशोमनसिकारो
बहुलीकारः। तस्य धर्ममात्रं धर्महेतुमात्रं च

 

(p143)

 

दुःखमात्रं दुःखहेतुमात्रं
च पश्यतो यायोनिशोमनसिकारनिदानाविद्या
,

सा नोत्पद्यते त्रिष्व्
अध्वसु
, उत्पन्ना च प्रहीयते।

 

(2.2.2.6.1) तत्रायोनिशो मनसिकारो
योनिशश् चामनसिकारस् तद् उभयम् अभिसमस्यायोनिशोमनसिकाराद् इत्य् उच्यते।

 

(2.2.2.6.2) यो यत्र युज्यते, स तत्र ज्ञेयः; तद्यथान्धकार आलोकसंज्ञायोगेन
योनिशो मनसिकारो
(??) न त्व् अयोनिशः; एवम्(?) अन्यत्र तदन्यमनसिकारो

विद्यते(?)

 

(p144)

 

(2.3.1) तत्र प्रथमं ध्यानं
पञ्चाङ्गं द्रष्टव्यम्
: वितर्को विचारः प्रीतिसुखं चित्तैकाग्रता च। द्वितीयं चतुरङ्गम्: अध्यात्मं संप्रसादः
प्रीतिसुखं चित्तस्यैकाग्रता च। तृतीयं पञ्चाङ्गम्
: उपेक्षा स्मृतिः
संप्रजन्यं

सुखं चित्तस्यैकाग्रता
च। चतुर्थं चतुरङ्गम्
: उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिर् अदुःखासुखवेदना चित्तस्यैकाग्रता
च।

 

(2.3.2) तत्र प्रथमे ध्याने
वितर्को विचारश् चालम्बनग्रहणार्थेन
, समाधिस् त्व्

एषां संनिश्रयार्थेन, प्रीतिर् आलम्बनानुभवनार्थेन, सुखं दौष्ठुल्यापकर्षणार्थेन।
द्वितीये ध्यानेऽध्यात्मसंप्रसाद आलम्बनग्रहणार्थेन
,

समाधिर् अध्या[त्मस]ंप्रसादसंनिश्रयार्थेन; शेषं पूर्ववत्।
तृतीये ध्यान उपेक्षास्मृतिसंप्रजन्यान्य् आलम्बनग्रहणार्थेन
, समाधिस् तन्निश्रयार्थे-

 

(p145)

 

; शेषं पूर्ववत्।
चतुर्थे ध्यान उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिश् चालम्बनग्रहणार्थेन
, समाधिस् तन्निश्रयार्थेन; शेषं पूर्ववत्।

 

(2.3.3) तदन्यधर्मसद्भावेऽप्य्
एषाम् एवाङ्गत्वं प्रधानत्वाद् ध्यायिनां चोपकारित्वात्।

 

(2.3.4) केन कारणेन प्रथमं
ध्यानं सवितर्कं सविचारम्
? तथा हि तैः कामधातुं च विदूषयति प्रथमं ध्यानं समापद्यते, न च तेषु वितर्कविचारेषु

दोषं पश्यति; द्वितीये वा पुनर्
ध्याने तेषु दोषं पश्यतीति ततस् तेषां व्युपशमाद् द्वितीयं ध्यानम्
(?)। यथा हि(?) द्वितीये ध्याने
वितर्क-

 

(p146)

 

विचारव्युपशमस्
तद्दोषदर्शनात्
, एवं तृतीये ध्याने प्रीतिव्युपशमस् तद्दोषदर्शनात्। ततस् तृतीयध्यानसमापत्तिः।(?) चतुर्थे पुनर्
ध्याने सुखे

दोषद र्शनाद् उपेक्षास्मृतिपरिशुद्धितश्
च विशेषो वेदितव्यः।

 

(2.4.0) तत्रेमे ध्यानपर्यायाः, तद्यथा:

 

(2.4.1) अधिचित्तम्, चित्तपरिशुद्धिम्
अधिपतिं कृत्वा सम्यगुपनिध्यानात्।

 

(2.4.2) सुखविहारा इत्य्
अपि
, तेषु परिपूर्णसुखप्रतिसंवेदनात्। तथा हि तेषु प्रीतिसुखं प्रस्रब्धिसुखम्
उपेक्षासुखं कायिकचैतसिकं च सुखं प्रतिसंवेद्यते।

 

(p147)

 

ध्यायिभिर् एतानि
समापद्य समापद्य व्युत्थाय व्युत्थाय प्रतिसंवेद्यन्ते दृष्टधर्मसुखविहारयोगेन। तत्र
समापद्य संमुखीभूतं दृष्टधर्मसुखविहारं प्रतिसंवेदयते। तत्र व्युत्थाय एवंरूपेणाहं
सुखविहारेन व्यहार्षम् इति प्रतिसंवेदयते।

 

आरूप्यास् तु न
तथा प्रतिसंवेद्यन्ते। अतो नोक्ताः सुखविहारा इति। ते पुनर् व्युत्थाय समाख्यातव्याः।
केन कारणेन
? भवन्ति खल्व् आरण्यकस्य भिक्षोः प्रश्नस्य प्रष्टारः। सचेद् आरण्यको
भिक्षुस् तत्र प्रश्नं पृष्टो न व्याकरोति
, ततोऽस्य भवन्ति
वक्तारः
: "किं वतारण्यकस्यारण्यकत्वेन,

यत्रेदानीम्, ये शान्ता विमोक्षा
अतिक्रम्य रूपाण्य् आरूप्याः
, तत्र प्रश्नं पृष्टो न व्याकरोति" इति। अतः समाख्यानार्थं
समापत्तव्या न विहारार्थम्।

 

(2.4.3) तदङ्गनिर्वाणम्
अपि ध्यानम् उच्यते पर्यायनिर्वाणम् अपि। क्लेशानामे कदेशप्रहाणात् तेनाङ्गेन निर्वाणम्
इति कृत्वानेकान्तिकत्वाच् च। अपरिशेषस्यानिर्वाणाद् इत्य् अतः पर्यायनिर्वाणम्।

 

(2.4.4.1.1.) तत्र चत्वारि ध्यानानि
वेदनानां निःसरणवस्त्व् इत्य् उच्यते।

 

(p148)

 

तत्र दौर्मनस्यस्य
प्रथमं ध्यानं निःसरणम्
, दुःखेन्द्रियस्य द्वितीयाम्, सौमनस्येन्द्रियस्य
तृतीयम्
, सुखेन्द्रियस्य चतुर्थम्, उपेक्ष्[आया]अनिमित्तम्।

 

(2.4.4.1.2) यथोक्तं भगवता
विपरीतकसूत्रे
: तत्रोत्पन्नं भिक्षुर् दौर्म नस्येन्द्रियम् उत्पन्नम् इति यथाभूतं प्रजानातीति।
कस्याम् अवस्थायाम्
? तस्यैव प्रहाणाय प्रयुक्तो दौर्मनस्येन्द्रियेण व्यवकीर्यमाणां

चित्तसंततिं जानाति।

 

तत् खलु सहेतु सप्रत्ययं
सनिदानं साकारं ससंस्कारम् इति यथाभूतं प्रजानातीति। कथं सहेतुकं
(?) प्रजानाति? तद्बीजसंतानप्रज्ञानतः(?)। कथं सप्रत्ययम्? बीजासंगृहीतम्
आश्रयं सहायांश् च प्रजानाति।

कथं सनिदानम्? यद् वस्त्य् अधिष्ठाय
दौर्मनस्येन्द्रियम् उत्पद्यते
; तच् च यन् निमित्तं यच् चाज्ञानबीजं दौर्मनस्येन्द्रियसमुत्थापकम्।

कथं साकारम्? दैन्याकारम् एतत्" इति प्रजानाति।
कथं ससंस्कारम्
? " अयोनिशोमनसिकारसंप्रयुक्ता चेतनास्य समुत्थापकः संस्कारः" इति प्रजानाति।

 

एवं च पुनः परिज्ञाय
निःसरणे चित्तं प्रदधाति। कथं प्रदधाति
? क्लिष्टात् प्रचाराच्
चित्तं विनिवर्त्य मनस्कारभावनायां संनियोजयति। तत् पुनस् तत्रापरिशेषं निरुध्यते यावत्
पर्यादानं गच्छतीत्य् अनुशयतश् च पर्य-

 

(p149)

 

वस्थानतश् च। तत्र
लौकिकेन ध्यानेन तत्पक्ष्यं दौष्ठुल्यं प्रजहाति
, न तु बीजस्थानम्
अस्योद्धरति। तदन्यथा हि तदुद्धाराद् आयत्याम् अनुत्पत्तिर् एवास्य स्यात्। अनास्रवेण
पुनस् तद् उभयं प्रजहाति। एवं शेषेषु यथायोगं द्रष्टव्यम्।

 

(2.4.4.1.3.1) कीदृशं पुनर् दौर्मनस्येन्द्रियं
परिजानाति
? आहः क्लिष्टं वा नैष्क्रम्यच्छन्दसहगतं वा कुशलम्।

 

(2.4.4.1.3.2) दुःखेन्द्रियम्
अध्यात्माद्यधिपतेयं वा कायश्रमाधिपतेयम्
(?) अग्निदाहाद्यधिपतेयं
वा पराभिघाताद्यधिपतेयं वा वीतरागस्यापि यद् उत्पद्यते।

 

(2.4.4.1.3.3) सौमनस्येन्द्रियं
द्वितीये ध्याने द्वितीयध्यानभूमिकम्।

 

(2.4.4.1.3.4) सुखेन्द्रियं तृतीये
ध्याने तृतीयध्यानभूमिकम्।

 

(2.4.4.1.4.1) कस्मात् पुनः प्रथमे
ध्याने दुःखेन्द्रियं न प्रहीणम् इत्य् उच्यते
? तत्र तत्पक्ष्यस्य
दौष्ठुल्यस्याप्रहाणात्।

 

(2.4.4.1.4.2) केन कारणेन तद्
उपपन्नस्य ध्याने न समुदाचरत्य् अप्रहीणं अपि
? तत्सहायप्रतिभागस्य
दौर्मनस्येन्द्रियसंगृहीतस्य दुःखस्य प्रहाणात्।

 

(2.4.4.1.4.3) सचेत् पुनः प्रथमेऽपि
ध्याने तद् दुःखेन्द्रियं प्रहीयेत
, तत इह प्रथमद्वितीयध्यानसमापन्नयोर्
योगिनोर् विहारविशेषो न स्याद् वेदनाकृतः
; वेदनानिःसरणानि
च ध्यानान्य् उक्तानि
; उभयोश् च प्रीतिसुखसद्भावात्(??)

 

(p150)

 

न चास्य वितर्कविचारव्युपशमेन  कश्चिद् दौष्ठुल्यप्रहाणविशेषः कृतः स्यात्। एवम्
अन्येषाम् इन्द्रियाणां तत्पक्ष्यदौष्ठुल्यप्रहाणाद् उत्तरेषां प्रहाणं वेदितव्यम्।

 

(2.4.4.1.5) अनिमित्तं पुनर्
अत्र सूत्रेऽनिमित्तश् चेतःसमाधिर् उपद्दिस्तो भगवता तत्रोपेक्षेन्द्रियम् अपरिशेषं
निरुध्यते - अनुशयतस् तत्पक्ष्य दौष्ठुल्यसमुद्घातात्
, न तु पर्यवस्थानतस्
तत्र तस्य निरोधोऽस्ति
, अनिमित्तस्यावश्यं सवेदनत्वात्। तत्र पुनस् त्रयाणाम् अपि सुखसौमनस्योपेक्षाणां  संभवः; न चैषां वेदनेन्द्रियणाम्
अनुशयोऽस्ति। यस्य पुनः क्लेशस्य प्रहाणाद् एषां प्रहाणं भवति
, तत्पक्ष्यं दौष्ठुल्यम्
एष्
[आमनु]शय इत्य् उच्यते। उपेक्षेन्द्रियं पुनः कुतो यावद् वेदितव्यम्? चतुर्थं ध्यानम्
उपादाय यावद् भवाग्रात्।

 

(2.4.4.2.1.1) एषां पञ्चेन्द्रियाणां
निःसरणानाम् आनिमित्तपर्यन्तानां पञ्चभिर् निःसरणीयैर् धातुभिर् अन्योन्यसंग्रहो वेदितव्यः।
तत्र कामव्यापादविहिंसानां निःसरणैर् यावत्सुखेन्द्रियनिःसरणम् उक्तं भवति। रूपनिःसरणेन
चतुर्थे ध्याने यद् उपेक्षेन्द्रियम्। सत्कायनिरोधेन सकुलस्यारूप्यावचरस्योपेक्षेन्द्रियस्य।

 

(p151)

(2.4.4.2.1.2) निःसरणीया इति
कोऽर्थह्
? एषु हि स्थितो निःसृतो वेदितव्यः, तेनोच्यन्ते निःसरणीया
इति
; न तु तैस् तेषां निःसरणम्, वीतरागाणां तद्धातुनिदेशात्।

 

(2.4.4.2.1.3) यदा कमव्यापादविहिंसानां
समानकालम् एव प्रहाणं भवति तत् केन कारणेन पृथङ् निःसरणम् एसां व्यवस्थापितम्
? तुल्यकाले एषां
निःसरणे प्रतिपक्षभावनाविशेषात् त्रिविधो निःसरणव्यपदेश्ः तत्रायं प्रतिपक्षविशेषः
:यथाक्रमम् अशुभा
मैत्री करुणा च। तत्र कश्चिद् अशुभां भावयन् सर्वेभ्यो निःसरति
, कश्चिन् मैत्रीम्, कश्चित् करुणाम्
इति। अत एव च पृथङ् निःसरणोपदेशः कृतः। तदूर्ध्वं पुनर् एकजातीय एव प्रतिपक्ष इति नास्त्य्
ऊर्ध्वं भेदः।

 

(2.4.4.2.1.4.1) कथं तीव्रदृष्टिः
कामान् समौस्मरति
? आह: प्रत्यवेक्षणामनस्कारेण प्रधानवस्तुमनसिकारतश् च तीव्राभोग(?) मनसिकारतश् च।
कथं कामेषु चित्तं न प्रस्कन्दति
? तत्रानुशंसासंदर्शनतः। कथं न प्रसीदति? तत्र नन्दीसौमनस्यजातातभावतः(?)। कथं न संतिष्ठते? तत्रोपभोगरत्यारमणतः।
कथं नाधिमुच्यते
? तत्रायोनिशोनिमित्तग्राहान्-

 

(p152)

अधिमोक्षतः। कथं
प्रतिलीयते
? प्रसार्यमाणं न प्रसरति। कथं प्रतिपुटति? गृहीतम् आलम्बनं
छोरयति। कथं न प्रसार्यते
? प्रतिसंख्याय तत्रालम्बने धार्यमाणं नाभिरमते।

कथम् उपेक्षा संतिष्ठते? समावस्थावचारको
भवति। समायाम् अवस्थायां चित्तम् अवचारयति। निर्वित् कतमा
? यत् तत्रादीनवदर्शनात्
प्रतिकूलता।

तत् पुनस् त्रिविधम्: अनित्यतो दुःखतो
विपरिणामधर्मतश् च। जुगुप्सा कतमा
? यत् प्रथमादीनवदर्शनात्
प्रतिकूलता। प्रतिवानिः कतमा
? यद् द्वितीयादीनवदर्शनात्

प्रतिकूलता। प्रतिकूलता
कतमा
? यत्(?) तृतीयादीनवदर्शनात् प्रतिकूलतैव।

 

(p153)

 

(2.4.4.2.1.4.2) एतद्विपर्ययाच्
च पुनर् नैष्क्रम्यं मनसिकुर्वतः
:

प्रस्कन्दति तत्रानुशंसासंदर्शनतः।
प्रसीदति श्रद्धाभिसंप्रत्ययाभिसंप्रसादोत्पादनतः। संतिष्ठते तदालम्बनाविसरणतः। वि
[म्][च्य]ईते

क्लेशविसंयोगतस्
तत्रासंक्लिष्टप्रवर्तनतया।

 

(2.4.4.2.1.4.3) तत्र निर्विदादिषु
प्रतिकूलाकारेषु वर्तमानस्याप्रतिहतम् अस्य तच् चित्तं भवति
, उपेक्षायां पुनर्
अनाभोगम्। कथं सुगतम् अस्य तच् चित्तं

भवति? प्रयो[गनि]ष्ठे मनसिकारेऽवस्थिततया।
कथं सुभावितं भवति
?

तदन्येषां मनसिकाराणां
सुभावितत्वात्। तेन प्रहाणावस्था प्रहाणप्रयोगमार्गावस्था चोक्ता भवति। तत्र मुक्तं
पर्यवस्थानविमोक्षात्
, विमुक्तम् आलम्बननिमित्तविमोक्षात्, विप्रमुक्तम् अनुशयविमोक्षात्।

 

येऽस्य कामप्रत्यया
उत्पद्यन्त आस्रवा इति कामरागं स्थापयित्वा ये तदन्ये कामावचराः क्लेशः। विघाता ये
तन्निदाना एवोत्पद्यन्ते दुश्चरितविशेषा दण्डादानादयः
, येषां कृतोपचितत्वाद्
अपायेषूपपद्यते। परिदाहा यत् तन्निदानं कामतृष्णया खाद्यमानः परिदह्यते कायेन चित्तेन
च। उपायासा यत् तन्निदानं तद्वस्तुविपरिणामाद् उत्पद्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासाः।
मुक्तः स तेभ्यो व्युत्थितो विसंयुक्त इति पूर्ववद् यथाक्र-

 

(p154)

 

मं पर्यवस्थानालम्बनानुशयविमोक्षात्।
कथं नासौ तत्प्रत्ययां वेदनां वेदयते
? विषयान् उपलब्ध्[]कामस्योपलभमानस्य
वा समनुस्मरतो वा तेनाश्रयेण क्लिष्टवेदनासमुदाचारतः। पद्मपुटोदबिन्दुवद् अस्याश्रयो
निरुपलेप एवावतिष्ठते क्लेशैः।

 

(2.4.4.2.2) षड् इमे निःसरणीया
धातवः। ते पुनर् यथासूत्रम् एव भाविता मे मैत्री यावद् अस्मीति मे विगतम्
, अथ च पुनर् मे
विचिकित्साकथंकथाशल्यश् चित्तं पर्यादाय तिष्ठतीति। तस्मात्
"न मैत्र्यादयो व्यापादादिप्रतिपक्षः" इत्य् असद्ग्राहत्याजनार्थम्
एषां व्यवस्थानं द्रष्टव्यम्। तत्र चतुर्णां व्यापादादिवैराग्यप्रतिपक्षभेदेन व्यवस्थानं
भवति
, आनिमित्तस्य निमित्तप्रतिपक्षेणार्यविहारप्राप्तिपरीक्षायोगेन च, षष्ठस्य निष्ठागमनपरीक्षायोगेन
च।

 

अनाघातप्रवृत्तत्वान्
मैत्री व्यापादप्रतिपक्षः। परदुःखापनयनाध्याशयप्रवृत्तत्वात्

करुणा विहिंसाप्रतिपक्षः।
परसुखानुमोदनाकारप्रवृत्तत्वान्

मुदितारतिप्रतिपक्षः।
उभयोर् अध्युपेक्षकत्वाद् उपेक्षा कामरागव्यापादप्रतिपक्षः।

निमित्तविरोधत्वाद्(?) आनिमित्तं सर्वनिमित्तप्रतिपक्षः।
विगतास्मिमानस्य स्वे विमोक्षेऽधिगमे वा नास्ति कथंकथासंभव इत्य् अतोऽस्मिमानविगमस्
तत्प्रतिपक्षः।

 

(p155)

 

निःसरणम् ल्दं सर्वव्यापादानाम्
इत्य् एकांशीकरोति
:

निःसरणम् एवेदम्; अभावितत्वात् तु
व्यापादादिसमुदाचारदोषः संभवतीति।

 

(2.4.4.2.3) तत्र ये पूर्वकाः
पञ्च निःसरणीया धातवः
, तेषां पूर्वकाश् चत्वारो दिव्यविहारसंगृहीताः, पञ्चम आर्यविहारसंगृहीतः।
षण्णां
[पुनर्]

निःसरणीयानां चत्वारो
ब्राह्मविहारसंगृहीताः
, पञ्चमः षष्ठश् चार्यविहारसंगृहीताव् एव। तत्र व्यापादादिदोषसमतिक्रमो
निःसरणम्।

 

(2.4.4.3.1) तस्मिन् निःसरणे
प्रतिसर्तव्यानी
[ति प्र] त्[]सरणानि। तानि पुनश् चत्वार्य् उक्तानि भगवता: धर्मः प्रतिसरणं
न पुद्गलः। अर्थः प्रतिसरणं न व्यञ्जनम्। नीतार्थं सूत्रं प्रतिसरणं न नेयार्थम्। ज्ञानं
प्रतिसरणं

न विज्ञानम्।

 

(2.4.4.3.2) कथम् एषां व्यवस्थानं
भवति
? चतुष्प्रकारपुद्गलभेदात्: कुहकपुद्गलभेदात्
प्रथमस्य
, लोकायतिकपुद्गलभेदाद् द्वितीयस्य, स्वयंदृष्टिपरामर्शस्थायिपुद्गलभेदात्

तृतीयस्य, श्रुतपरमपुद्गलभेदाच्
चतुर्थस्य।

 

(2.4.4.3.3.1) तत्र कुहके धर्मः
प्रतिसरणं न पुद्गलः
, सांकथ्यविनिश्चयेन ज्नानाधिगम्यत्वान् नेर्यापथमात्रकेणेति। अस्यैवापरः
पर्यायः
: भग-

 

(p156)

वता पुद्गलोऽपि
देशितो धर्मोऽपि। तत्र धर्म एव प्रतिसरणं न पुद्गलो जनपदनिरुक्तेर् अनभिनिवेशात्।

 

(2.4.4.3.3.2) स पुनर् धर्मो
द्विविधः
: व्यञ्जनम् अर्थोऽपि। तत्रार्थः प्रतिसरणं न व्यञ्जनम्; न हि श्रुतपरमेण
भवितव्यम्
, अपि त्व् अर्थश् चिन्तयितव्यस् तुलयितव्य उपपरीक्षितव्य इति।

(2.4.4.3.3.3) तत्र भगवता नीतार्थम्
अपि सूत्रं देशितं नेयार्थम् अपि। तत्रार्थम् उपपरीक्षमाणस्य नीतार्थम् एव सूत्रं प्रतिसरणं
न नेयार्थम्।

 

(2.4.4.3.3.4) तत्र भगवता पुण्यनेञ्ज्योपगम्
अपि विज्ञानं देशितं सुगतिगमनाय
,

चतुर्ष्व् अप्य्
आर्यसत्येषु ज्ञानं देशितं निर्वाणगमनाय। तत्र धर्मस्यानुधर्मं प्रतिपद्यमानास्य ज्ञानं
प्रतिसरणं न विज्ञानम्।

 

(2.4.4.3.4) तत्र समासतश् चतुर्षु
कालेषु प्रणाशाद् अप्रणाशाच् च चत्वारः पुद्गला

व्यवस्थापिताः: धर्मपर्याप्तिकाले, धारणकाले, अर्थोपपरीक्षणकाले, धर्मानुधर्मप्रतिपत्तिकाले
च चत्वारि प्रतिसरणानि व्यवस्थापितानि।

(2.-) व्यवस्थानं परिसमाप्तम्।

(3.0) एषु पुनर् ध्यानादिषु
मनस्कारोऽपि वेदितव्य आलम्बनम् अपि।

(3.1.0) तत्र सप्त मौला
मनस्काराः
, अपरे चत्वारिंशन् मनस्काराः।

(3.1.1) सप्त मनस्काराः
कतमे
? तद्यथा ईक्षणप्रतिसंवेदी, आधिमोक्षिकः,

प्राविवेक्यः, रतिसंग्राहकः, मीमांसामनस्कारः, प्रयोगनिष्ठः, प्रयोगनिष्ठाफलश्
च मनस्कारः।

(3.1.2.1) चत्वारिंशन् मनस्कारः
कतमे
? धर्ममनसिकारः(?), अर्थमनसिकारः(?); कायालम्बनः, वेदनाचित्तधर्मालम्बनो
मनस्कारः
;

अधिमुक्तिमनस्कारः, तत्त्वमनस्कारः; शैक्षः, अशैक्षः, नैव

 

(p157)

 

शैक्षो नाशैक्षः; परिज्ञामनसिकारः, प्रहाणमनस्कारः, प्रहीणे मनस्कारः; सविकल्पप्रतिबिम्बालम्बनः, निर्विकल्पप्रतिबिम्बालम्बनः,

वस्तुपर्यन्तालम्बनः, कार्यपरिनिष्पत्त्यालम्बनः; अधिमुक्तिविचयमनस्कारह्, औपशमिकः, एकांशभावितः, उभय्[आंश]भावितः, सातत्यमनस्कारः, सत्कृत्यमनस्कारः; अनुलोमिकः, प्रातिपक्षिकः, प्रसदनीयः, प्रत्यवेक्षणीयः; बलवाहनः, सच्छिद्रवाहनः,

साभोगवाहनः, स्वरसवा[हनः]; विचयमनस्कारः, अध्यात्मसंपिण्डितः, आवरणविशोधनः, आश्रयनिष्पत्तिगोचरविशुद्धः; परप्रण्ल्तः, प्रत्यात्माधिग्रहः, उदारः, सर्वत्रगश् च मनस्कारः,

(3.1.2.2.1) तत्र धर्मालम्बनः
कतमः
? यः श्रुतमय्या प्रज्ञया संप्रयुक्तः।

(3.1.2.2.2) अर्थालम्बनो यश्
चिन्तामय्या भावनामय्या च प्रज्ञया संप्रयुक्तः।

(3.1.2.2.3-6) कायालम्बनो यावद्
धर्मालम्बनः स्मृत्युपस्थानप्रयुक्तस्य कायादीन् योनिशो मनसिकुर्वतो यो मनस्कारः।

(3.1.2.2.7) अधिमुक्तिमनस्कारो
यो ध्यायिनां यथेच्छं निमित्तं वस्त्व् अधिमुच्यताम्।

(3.1.2.2.8) तत्त्वमनस्कारः
स्वलक्षणतः सामान्यलक्षणतश्
(?) च योनिशो धर्मान् मनसिकुर्वतो यो मनस्कारः।

 

(p158)

 

(3.1.2.2.9) शैक्षो द्विविधः: स्वभावतः संतानतश्
च। तत्र स्वभावतो यः शैक्षस्यानास्रवो मनस्करः। संतानतः सर्व एव शैक्षस्य कुशलो मनस्कारः।

 

(3.1.2.2.10) यथा शैक्ष एवम्
अशैक्षोऽपि द्विविधो वेदितव्यः।

 

(3.1.2.2.11) नैव शैक्षो नाशैक्षः
सर्व एव लौकिको मनस्कारः।

 

(3.1.2.2.12) परिज्ङामनस्कारो
येनलम्बनं परिजानाति
, नो तु क्लेशान् प्रजहाति।

 

(3.1.2.2.13) प्रहाणमनस्कारो
येनोभयं करोति।

 

(3.1.2.2.14) प्रहीणे मनस्कारो
यः प्रहीणेषु क्लेशेषूत्तरत्र मनस्कारः।

 

(3.1.2.2.15) सविकल्पप्रतिबिम्बालम्बनो
मनस्कारो येन विकल्पशरीरालम्बनां विपश्यनां भावयति।

 

(3.1.2.2.16) निर्विकल्पप्रतिबिम्बालम्बनो
येन विकल्पशरीरालम्बनं शमथं भावयति।

 

(3.1.2.2.17) वस्तुपर्यन्तालम्बनो
येन कायवेदनाचित्तधर्माणां कायादिपर्यन्तताम् आलम्बते
: "अतः परं कायो नास्ति
यावद् धर्मा न सन्ति
" इति।

 

(3.1.2.2.18) कार्यपरिनिष्पत्त्यालम्बनो
मनस्कारो यः
"इदं मे मनसिकुर्वतः, एवं मे मनसिकुर्वत इदं चेदं च भविष्यति, इदं चेदं च निष्पत्स्यते" इति, यश् च परिशुद्ध्यालम्बनालम्बनः।

 

(3.1.2.2.19) अधिमुक्तिविचयमनस्कारो
येन तत्प्रथमतो वा धर्मान् विचिनोति शमथं वा पूर्वंगमं कृत्वा।

 

(3.1.2.2.20) औपशमिको मनस्कारो
यत् तत्प्रथमतो वाध्यात्मं चित्तं स्थापयतो
(?) विपश्यनां वा पूर्वंगमां
कृत्वा।

 

(p159)

 

(3.1.2.2.21) एकांशभावितो मनस्कारो
येनैकांशेन शमथं भावयति विपश्यनां वा।

 

(3.1.2.2.22) उभयांशभावितो मनस्कारो
येनोभयं समयुगं भावयति।

 

(3.1.2.2.23) सातत्यमनसिकारो
यः सर्वकालिको निश्छिद्रनिरन्तरवाही।

 

(3.1.2.2.24) सत्कृत्यमनसिकारो
योऽशिथिलप्रायोगिकः।

 

(3.1.2.2.ad19-24) तत्राधिमुक्तिविचयमनस्कारेण
ज्ञानदर्शनं विशोधयति
, औपशमिकेन प्रस्रब्धिं जनयति; एकांशभावितेनोभयांशभावितेन
च निवरणेभ्यश् चित्तं विमोचयति
;(?) सातत्यमनस्कारेणावन्ध्यं कालं करोति;[त्कृत्यम]नस्कारेण क्षिप्राभिज्ञताम्
आप्नोति।

 

(3.1
.2.2.25)
अनुलोमिको मनस्कारो यः क्लेशप्रहाणायानुकूलः, येनालम्बनं विदूषयति।

 

(p160)

 

(3.1.2.2.26) प्रातिपक्षिको
येन क्लेशं प्रजहाति प्रहाणम् आधारयति क्ल्
[एशे]भ्यश् च संततिं
दूरीकरोति।

 

(3.1.2.2.27) प्रसदनीयो मनस्कारो
यः षड् अनुस्मृतीर् भावयतः
, अन्यतमद् वा प्रसदनीयं वस्तु मनसिकुर्वतः।

 

(3.1.2.2.28) प्रत्यवेक्षणीयो
येन क्लेशाणां प्रहीणाप्रहीणतां
(?) परिमीमांसते, स्वं वाधिगमं प्रत्यवेक्षते
पूर्वव्यवचारितान् वा धर्मान्।

 

(3.1.2.2.29) बलवाहनो य आदिकर्मिकाणाम्
अलब्धमनस्काराणाम्।

 

(3.1.2.2.30) सच्छिद्रवाहनो
यो लब्धमनस्काराणाम् उत्तरि शिथिलप्रयोगाणां च।

 

(p161)

 

(3.1.2.2.31) साभोगवाहनस् तेषाम्
एवारब्धवीर्याणाम् अशिथिलप्रयोगाणाम्।

 

(3.1.2.2.32) स्वरसवाहनो यश्
चतुर्षु कालेषु नियतो भवति
: मनस्कारलाभकाले, मौलसमापत्तिकाले समापन्नानां च, अभिसमयकाले, अर्हत्त्वप्राप्तिकाले
प्राप्ते च।

(3.1.2.2.33) विचयमनस्कारो यो
विपश्यनापक्ष्यः।

 

(3.1.2.2.34) अध्यात्मसंपिण्डितो
यः शमथपक्ष्यः।

 

(3.1.2.2.35) आवरणविशोधनो येनास्रवान्
प्रजहाति
, दौष्ठुल्यं समुद्घातयति।

 

(3.1.2.2.36) आश्रयनिष्पत्तिगोचरविशुद्धो
येनापगतसर्वदौष्ठुल्य आश्रय आलम्बने चरतोऽपि क्लेशो न समुदाचरति।

 

(3.1.2.2.37) परप्रणीतस् तद्यथा
श्रावकाणाम्
, परतो घोषम् आगम्याध्यात्मं योनिशोमनस्कारतः।

 

(3.1.2.2.38) प्रत्यात्माधिग्रहस्
तद्यथा प्रत्येकबुद्धबोधिसत्त्वानाम् अनाचार्यकाभिसंबोधात्।

 

(3.1.2.2.39) उदारो मनस्कारस्
तद्यथा बोधिसत्त्वानां संसारदोषतन्निःसरणज्ञानां बोधिप्रणिधानगतः
(?)

 

(3.1.2.2.40) सर्वत्रगो मनस्कारस्
तद्यथा बुद्धानां भगवतां सर्वत्राविपरोक्षानावरणेज्ञानेन

संप्रयुक्तः, बोधिसत्त्वानां
च त्रिषु यानेषु कौशल्यं कुर्वतां पञ्चसु वा पुनर् विद्यास्थानेषु।

 

(3.1.3.ad1-2) तत्र लक्षणप्रतिसंवेदी
मनस्कारो धर्मालम्बनो ऽप्य् अर्थालम्बनोऽपि
; अन्ये तु षड् अर्थालम्बना
एव।

 

(3.1.3.ad3--6) कायाद्यालम्बना
मनस्काराः सर्वेषु सप्तसु वेदितव्याः।

 

(p162)

 

(3.1.3.ad7-8) लक्षणप्रतिसंवेदी, आधिमोक्षिकः, प्रयोगनिष्ठाफलश्
चाधिमुक्तितत्त्वमनस्कारसंगृहीताः
;

मीमांसामनस्कार
अधिमुक्तिमनस्कारेणैव
; शेषास् त्रयस् तत्त्वमनस्कारा एव पूर्वकं पर्यायं नि[श्रित्य(??)] । अन्यैस्(??) तु यथायोगं वेदितव्याः।

(3.1.3.ad9-11) सर्वे सप्त शैक्षा
नैवशैक्षनाशैक्षाश् च
; द्वाव् अशैक्षौ: लक्षणप्रतिसम्वेदी

यः शुद्धभूमिकः, प्रयोगनिष्ठाफलश्
च।

 

(3.1.3.ad12-14) लक्षणप्रतिसंवेदी,dhimokSikaH
miimaaMsaamanaskaarash ca parij~naamanaskaaraaH sheSaas trayaH
prahaaNamanaskaaraaH prayoganiSThaaphalaH prahiiNe.

 

प्१६३

 

३।१।३ऽद्१५-१८
savikalpapratibimbaalambana eva miimaaMsaamanaskaaraH sheSaa ubhayathaa.

vastuparyantaalambanaaH
sarva eva. kaaryapariniSpattyaalambanaaH prathamena paryaayeNa sarve dvitiiyena
prayoganiSThaaphala eva.

 

३।१।३ऽद्१९-२४
adhimuktivicayamanaskaaro yas tatprathamaH so.a saMgRRihiitaH yaH

shamathapuurvakaH
sa sarveSu. evaM prathamaupashamiko vipashyanaapuurvash ca veditavyaH.
ekaaMshobhayaaMshabhaavitaaH SaT ubhayaaMshabhaavita eva prayoganiSThaaphalaH.
saatatyamanaskaaraH satkRRityamanaskaarash ca sarveSu.

 

३।१।३ऽद्२५-२८
aanulomiko dvaabhyaaM prathamaabhyaam praatipakSikaH
praavivekyaprayoganiSThaabhyaaM saMgRRihiito ratisaMgraahakaikadeshena ca.
prasadaniiyo ratisaMgraahakasyaivaikadeshaH.
prahaaNaaprahaaNapratyavekSaNaamanaskaareNa miimaaMsaamanaskaara eva
saMgRRihitaH. prahaaNapratipakSaM nigamayyaitad uktam anyais tu yathaayogaM
veditavyam.

 

३।१।३ऽद्२९-३२
balavaahano na kenacit. sacchhidrasaabhogavaahanau yaavad ratisaMgraahakeNa.

svarasavaahanaH
prayoganiSThaatatphalaabhyaam.

 

३।१।३ऽद्३३-३६
vicayamanaskaaro lakSaNapratisaMvedinaa. adhyaatmasaMpiNDita aadhimokSikeNa.
aavaraNavishodhanaH praavivekyaratisaMgraahakamiimaamsaaprayoganiSThaiH.

aashrayaniSpattigocaravishuddhaH
prayoganiSThaaphalenaiva saMgRRihiitaH.

 

३।१।३ऽद्३७-४०परप्रणीतः
प्रत्यात्माधिग्रहश् च सर्वैः। उदारो न केनचित्। सर्वत्रगः प्रयोगनिष्ठाफलेन यः प्रथमः
; द्वितीयस् तु सर्वैः।
लक्षणप्रतिसंवेदिनो

यदि परप्रणीतः, तेन परतो घोषोऽध्यात्मं
च योनिशोमनस्कारः समाहितस्य निदानम्
; अथ प्रत्यात्माधिग्रहः, तेन पूर्वसंभार

एवास्य निदानम्।
शेषाणां पूर्व उत्तरस्य निदानम्।

 

(3.2.0) आलम्बनं कतमत्? यन् निमित्तम्।

 

(p164)

 

(3.2.1.0) निमित्तं कतमत्? तत् समासतश् चतुर्विधं
द्रष्टव्यम्
: आलम्बननिमित्तं निदाननिमित्तं परिवर्जनीयं प्रतिनिषेवनीयं च।

(3.2.1.1) आलम्बननिम्[i]त्त[M] कतमत्? ज्ञेयस्य वस्तुनो
यद् विकल्पशरीरम्।

(3.2.1.2) निदाननिमित्तं
कतमत् यः समाधिसंभारः।

 

(3.2.1.3A) परिवर्जनीयं निमित्तं
कतमत्
? तच् चतुर्विधम्: लयनिमित्तम् औद्धत्यनिमित्तं विक्षेपनिमित्तं
सङ्गनिमित्तं च।

(3.2.1.4A) [prati]निषेवणीयं निमित्तं
कतमत्
? तद् एतत्प्रतिपक्षेण वेदितव्यम्।

 

(3.2.1.3B.1) ईयनिमित्तं कतमत्? इन्द्रियैर् अगुप्तद्वारता, भोजनेऽमात्रज्ञता,

पूर्वरात्रापररात्रं
जागरिकायोगम् अननुयुक्तता
, असंप्रजानविहारिता, मोहचरितता,

स्वप्नालुकता, अनुपायज्ञता, कौसीद्यसहगतश्
छन्दो वीर्यं चित्तं मीमांसा च
, शमथानभ्यासः, शमथेऽकृतपरिजयस्यैकांशशमथमनसिकारः,

अन्धकारायितत्वं
चेतसः
, आलम्बनेऽप्रियारोहिता च।

 

(3.2.1.3B.2) औद्धत्यनिमित्तं
कतमत्
? इन्द्रियैर् अगुप्तद्वारतादयः पूर्ववच् चत्वारः, रागचरितता, अनुपशमालुकता, असंविग्नचित्तता, अनुपायज्ञता, अतिप्रग्रहसहगताश्
छन्दादयः
[पुर्व]वत्, प्रग्रहानभ्यासः, प्रग्रहेऽकृतपरिजयस्य(?) तदेकांशभावना, अन्यतमान्यतमेनौद्धत्यस्थानीयेन

धर्मेण चेतसो विक्षेपो
ज्ञातिवितर्कादिना।

 

(p165)

 

(3.2.1.3B.3) विक्षेपनिमित्तं
कतमत्
? चत्वार इन्द्रियागुप्तद्वारतादयः पूर्ववत्, वितर्कचरितता, मृद्विन्द्रियता, बह्वर्थबहुकृत्यबहुकर्मान्तता, असंविग्नचि[त्तता] , अनुपायज्ञता प्रविवेकानभ्यासः, आलम्बनेऽप्रियारोहिता, संसर्गेण प्रयोगच्छिद्रीकरणता, विक्षेपाविक्षेपपरिज्ञानवधानता
च।

 

(3.2.1.3B.4) सङ्गनिमित्तं कतमत्? चत्वार इन्द्रियागुप्तद्वारतादयः
पूर्ववत्
, मृद्विन्द्रियता, त्रृष्णाचरितता, क्लेशबहुलता, अयोनिशोमनस्कारः, अनादीनवदर्शनता, उत्तरिं चानिःसरणदर्शिता।

 

(3.2.1.4B) तेषां(?) परिवर्जनीयानां
प्रतिपक्षेण यथायोगं प्रतिनिषेवणीयानि वेदितव्यानि।

 

(3.2.2.1) अपराणि द्वात्रिंशन्
निमित्तानि
: स्वचित्तनिमित्तम्, बहिर्धानिमित्तम्, आश्रयनिमित्तम्, गोचरनिमित्तम्, मनस्कारनिमित्तम्, चित्तस्योत्पादनि-

 

(p166)

 

मित्तम्, स्थितिनिमित्तम्, स्वलक्षणनिमित्तम्, सामान्यलक्षणनिमित्तम्,

औदारिकनिमित्तम्,शान्ततानिमित्तम्(?) ,अनुभवनिमित्तम्, [विकल्प]निमित्तम्, सहानुचरम्, क्लिष्टनिमित्तम्, अक्लिष्टनिमित्तम्, सम्यक्प्रयोगनिमित्तम्, मिथ्याप्रयोगनिमित्तम्, आलोकनिमित्तम्, प्रत्यवेक्षणानिमित्तम्, भद्रकं समाधिनिमित्तम्, शमथनिमित्तम्, प्रग्रह[ni]मित्तम्, विपश्यनानिमिल्तम्, उपेक्षानिमित्तम्, समाधिनिमित्तम्, समाधिस्थितिनिमित्तम्, समाधिव्युत्थाननिमित्तम्, आयनिमित्तम्,

अपायनिमित्तम्, उपायनिमित्तम्, अभिनिर्हारनिमित्तं
च।

 

(3.2.2.2.1) स्वचित्तनिमित्तं
कतमत्
? इह भिक्षुः पूर्वम् एव चित्तसंक्लेशात् स्वचित्ते साधु च सुष्ठु च निमित्तम्
उद्गृह्णाति
: "एवं चैवं च चित्तं संक्लिश्यते वा न वा संक्लिश्यते" इति। "अयम् उपायश् चित्तलयादिषु, अयम् अलयादिषु
चतुर्षु
" इति यावत् " चित्तासङ्गाय"; संक्लिष्टे वा पुनश् चित्ते।

 

(p167)

 

(3.2.2.2.2) बहिर्धानिमित्तं
कतमत्
? यथापि तत् संक्लिष्टे चित्ते "संक्लिष्टं मे चित्तम्" इति विदित्वा बहिर्धा
निमित्तम् उद्गृह्णाति यावद् एतस्यैव संक्लेश्याप- नयनायासमुदाचाराय
, यदुतालोकनिमित्तं
वा प्रसदनीयं वा यद् वा पुनर् अन्यद् अपि।

 

(3.2.2.2.3) आश्रयनिमित्तं
कतमत्
? सर्वस्यात्मभावपर्यापन्नस्य सबीजकस्य पञ्चस्कन्धस्य यद् विकल्पशरीरम्।

 

(3.2.2.2.4) गोचरनिमित्तं कतमत्? यस्य यस्य विषयस्य
रूपादिधर्मपर्यन्तस्य विकल्पशरीरं मनसिकरोति।

 

(3.2.2.2.5) मनसिकारनिमित्तं
कतमत्
? सति तज्जे मनस्कारे तत्र तत्र विषये तज्जस्य विज्ञानस्योत्पादो भवति।
"इदम् खलु मे चित्तं मनसिकाराद् गोचरे प्रवर्तते नामनसिकारात् " इति मनसिकुर्वतो
यन् निमित्तम्।

 

(3.2.2.2.6) चित्तस्योत्पादनिमित्तं
कतमत्
? एतद् एव तावद् अनन्तरोक्तम् एकम्; द्वितीयं "संस्कारप्रत्ययं
नामरूपप्रत्ययं च चित्तम्
" इति मनसिकुर्वतो यन् निमित्तम्।

 

(3.2.2.2.7) स्थितिनिमित्तं
कतमत्
? चतस्रो विज्ञानस्थितयः: रूपोपगं विज्ञानं
तिष्ठतीति विस्तरेण यथासूत्रं मनसिकुर्वतो यन् निमित्तम्।

 

(3.2.2.2.8) स्वलक्षणनिमित्तं
कतमत्
? स्वजातिलक्षणं  वा प्रत्येकलक्षणं
वा मनसिकुर्वतो यन् निमित्तम्।

 

(p168)

 

(3.2.2.2.9) सामान्यलक्षणनिमित्तं
कतमत्
? संस्कारसामान्यलक्षणं वा सास्रवसामान्यलक्षणं वा सर्वधर्मसामान्यलक्षणं
वा मनसिकुर्वतो यन्

निमित्तम्।

 

(3.2.2.2.10) औदारिकनिमित्तं
कतमत्
? अधरां भूमिम् औदारिकतः पश्यतो यन् निमित्तम्।

 

(3.2.2.2.11) शान्तनिमित्तं
कतमत्
? ऊर्ध्वभूमिं शान्तत आकारयतो यन् निमित्तम्।

 

(3.2.2.2.12) अनुभवनिमित्तं
कतमत्
? पूर्वानुभूतान् अतीतान् संस्कारान् समनु स्मरतो यन् निमित्तम्।

 

(3.2.2.2.13) विकल्पनिमित्तं
कतमत्
? अनागतान् संस्कारान् विकल्पयतो यन् निमित्तम्।

 

(3.2.2.2.14) सहानुचरं निमित्तं
कतमत्
? प्रत्युत्पन्नान् संस्कारान् मनसिकुर्वतो यन् निमित्तम्।

 

(3.2.2.2.15) क्लिष्टनिमित्तं
कतमत्
? सरागं चित्तं सरागं चित्तम् इति मनसिकुर्वतो विस्तरेण यावद् असुविमुक्तं
चित्तम् इति मनसिकुर्वतो यन् निमित्तम्।

 

(3.2.2.2.16) अक्लिष्टनिमित्तं
कतमत्
? एतद्विपर्यायाद् अक्लिष्टनिमित्तं वेदितव्यम्।

 

(3.2.2.2.ad15-16) तत्र सरागादिप्रत्यवेक्षा
निष्क्रान्तानाम् अप्रहाणप्रयुक्तानाम्
; प्रयुक्तानां तु
संक्षिप्त
[l][ न्]आदिप्रत्यवेक्षा। तत्र सरागं यद् रागसं-

 

(p169)

 

प्रयुक्तं यद् वा
तत्पक्ष्यदौष्ठुल्यानुगतम्। एवं पर्यवस्थानानुशयाभ्यां सर्वाणि चित्तानि कीष्टानि यथायोगं
वेदितव्यानि
, पर्यवस्थानानुशयप्रतिपक्षेण वा पुनर् अकीष्टानि।

 

(3.2.2.2.17) सम्यक्प्रयोगनिमित्तं
कतमत्
? शुक्लपक्षिकं निदाननिमित्तं मनसिकुर्वतो यन् निमित्तम्।

 

(3.2.2.2.18) मिथ्याप्रयोगनिमित्तं
कतमत्
? कृष्णपाक्षिकं निदाननिमित्तं मनसिकुर्वतो यन् निमित्तम्। "एवम् इन्द्रियैर्
अगुप्तद्वारस्य विहरतो यावद्

असंप्रजानद्विहारिण
एवं चैवं च चित्तं संक्लिष्टम्
" इति मनसिकुर्वतो यन् निमित्तम्।

 

(3.2.2.2.19) आलोकनिमित्तं कतमत्? यथापीहैकत्येनान्धकारप्रातिपक्षिकाद्
धर्मालोकाद् वा साधु च सुष्ठु च निमित्तं सूद्गृहीतं भवति सुमनसिकृतं यथाधस् तथोर्ध्वम्
इत्य् एवमादि। अन्धकारनिमित्तप्रतिपक्षेणैतद्

व्यवस्थापितम्।

 

(3.2.2.2.20) प्रत्यवेक्षणानिमित्तं
कतमत्
? इह भिक्षुणा प्रत्यवेक्षणानिमित्तम् एव साधु च सुष्ठु च सूद्गृहीतं भवति, तद्यथा स्थितो
निषण्णं प्रत्यवेक्षत इति वर्तमानेन ग्राहकेणानागतग्राह्यधर्मप्रत्यवेक्षा।

 

(p170)

 

निषण्णो वा निपन्नम्
इति वर्तमानेनैव ग्राहकेणातीतग्राह्यधर्मप्रत्यवेक्षा।

पुरतो वा गच्छन्तं
पृष्ठतो गच्छन् प्रत्यवेक्षत इत्य् उत्तरोत्तरेण ग्राहकेण पूर्वक ग्राहकधर्मप्रत्यवेक्षा
; सेयं समासतो ग्राह्यग्राहकधर्मप्रत्यवेक्षा
द्विविधा परिदीपिता।

 

(3.2.2.2.21) भद्रकं समाधिनिमित्तं
कतमत्
? विनीलकादि मनसिकुर्वतो यन् निमित्तं कामरागप्रतिपक्षेण। कस्माद् एतद्
भद्रकम् इत्य् उच्यते
? सर्वेषां क्लेशानां प्रधानं रागः सर्वेषां च रागाणां सर्वदुःखसमुद्घात्यः

कामरागः; तस्य चैतत् प्रातिपक्षिकम्
आलम्बनम्। तस्माद् भद्रकम् इत्य् उच्यते।

 

(3.2.2.2.22) शमथनिमित्तं कतमत्? निर्विकल्पं प्रतिबिम्बं
मनसिकुर्वतो यन् निमित्तम्।

 

(3.2.2.2.23) प्रग्रहनिमित्तं
कतमत्
? अन्यतमान्यतमेन प्रसदनीयेनालोकनिमित्तेन वा चित्तं प्रगृह्णतो यन् निमित्तम्।

 

(3.2.2.2.24) विपश्यनानिमित्तं
कतमत्
? श्रुतमय्या चिन्तामय्या भावनामय्या च प्रज्ञया धर्मान् मनसिकुर्वतो यन्
निमित्तम्।

(3.2.2.2.25) उपेक्षानिमित्तं
कतमत्
? समप्राप्तं चित्तं कुशलपक्षेऽध्युपेक्षमाणस्य यन् निमित्तम्।

 

(3.2.2.2.26) समाधिनिमित्तं
कतमत्
? यैर् निदानालम्बननिषेवनीयैर् निमित्तैः समाधिं समापद्यते प्रतिलब्धं
वा संमुखीकरोति।

 

(p171)

 

(3.2.2.2.27) समाधिस्थितिनिमित्तं
कतमत्
? या तेषाम् एव निमित्तानां सूद्गृहीतता;

सूद्गृहीतत्वाद्
यावद् आकाङ्क्षति तावत् समापन्नस् तिष्ठति
; ये च तस्य समाधेर्
अपरिहाणीया धर्मः।

 

(3.2.2.2.28) समाधिव्युत्थाननिमित्तं
कतमत्
? यद् असमाहितभूमिकं विकल्पशरीरासंगृहीतम्।

 

(3.2.2.2.29) आयनिमित्तं कतमत्? प्रतिलब्धस्य समाधेर्
भूयोभाववृद्धिविपुलतां मनसिकुर्वतो यन् निमित्तम्।

 

(3.2.2.2.30) अपायनिमित्तं कतमत्? प्रतिलब्धस्य समाधेर्
हानिम् अपचयं तनुत्वं मनसिकुर्वतो यन् निमित्तम्।

 

(3.2.2.2.31) उपायनिमित्तं कतमत्? यो मार्गो द्वयोर्
अपि
: भूयोभाववृद्धिविपुलतागमनाय हानिगमनाय वा।

 

(3.2.2.2.32) अभिनिर्हारनिमित्तं
कतमत्
? विशालपदव्यञ्जनम् अर्थम् अभिसंक्षिपतः, अभिज्ञां वाभिनिर्हरतोऽरणाप्रतिसंवित्प्रणिधिज्ञानानि
वान्यं वा

समाधिसंनिश्रयेण
वैशेषिकं गुणं बलवैशारद्यादीनि वा
, गम्भीरं वार्थपदं
प्रज्ञया प्रतिविध्यतो यन् निमित्तम्।

 

(3.2.3) एषां पुनः सर्वेषां
निमित्तानां चतुर्भिर् मूलनिमित्तैः संग्रहो भवति।

आलम्बननिमित्तेन
सर्वेषाम्
; निदाननिमित्तेन च, पूर्वकम् उत्तरस्य निदानम् इति कृत्वोत्तरोत्तरप्रभास्वरतायै।
सम्यक्प्रयोगस् तु सर्वथा निदाननिमित्तम् एव। यथा सम्यक्प्रयोग एवं मिथ्याप्रयोगः।
एकः शुक्लपक्षस्य
,

द्वितीयः कृष्णपक्षस्य।
तत्र क्लिष्टं निमित्तं सर्वम् एव परिवर्जनीयम्। तदन्यत् प्रतिनिषेवणीयं तत्र तत्र
काले वेदितव्यम्।

 

(3.2.4) तत्र कथम् आलम्बननिमित्ते
मनसिकारं भावयति
? यद् यद् एव निमित्तं मनसिकरोति, तन् मनसिकुर्वंश्
चत्वारि कार्याणि करोति
: तम् एव मनसिकारं

 

(p172)

 

प्रतिनिषेवते, तद्विपक्षं क्लेशं
दूरीकरोति
,(?) तम् एव मनसिकारं तदन्यं वोत्तापयति यदुतायत्याम् उत्तप्ततरोत्पत्तये, प्रतिनिषेवमाणश्
च तं मनसिकारम् आलम्बनं विदूषयति
, क्लेशं प्रजहाति, प्रहाणम् आधारयति,

दूरीकरोति संततिं
क्लेशेभ्यः। एवं निमित्तालम्बनं मनस्कारं भावयति।

 

(3.3.0) चतुर्भिः कारणैः
प्रथमं ध्यानं समापद्यते यावद् भवाग्रम्
: हेतुबलेन, प्रयोगबलेन, उद्देशबलेन, उपदेशबलेन च।

 

(3.3.1.1) कथं हेतुबलेन? आसन्नसमापन्नं(?) ध्यानं समापन्नो
भवति।

 

(p173)

 

(3.3.1.2) कथं प्रयोगबलेन? अनासन्नसमापन्नोऽप्य्
अभीक्ष्णं समापद्यमानः सातत्येनाभ्यासवशत्।

 

(3.3.1.3) कथम् उद्देशबलेन? ध्यानाधिपतेया
अनेन बहवो धर्माः श्रुता भवन्ति धृता इति विस्तरः। स तान् एव धर्मान् निश्रित्यैको
व्यवकृष्टोऽप्रमत्त

आतापी प्रहितात्मा
विहरन् धर्मस्यानुधर्मं प्रतिपद्यमानो ध्यानं समापद्यते।

 

(3.3.1.4) कथम् उपदेशबलेन? आचार्यस्य वोपाध्यायस्य
वान्यतमस्यान्यतमस्य
(?) वा गुरुस्थानीयस्यान्तिकात् प्रथमस्य ध्यानस्यानुलोमिकीम् अववादानुशासनीं
प्रतिलभतेऽवशिटानां वा। स ताम् एव मनसिकुर्वन् ध्यानं समापद्यते।

 

(3.3.2) त एते चत्वारो
योगिनो हेतुबलिकः प्रयोगबलिकस् तीक्ष्नेन्द्रियो मृद्विन्द्रियश् च।

 

(3.4.0) चत्वार इमे ध्यायिनः: तृष्ण् [ओत्तर]ध्यायी दृष्ट्युत्तरध्यायी
मानोत्तरध्यायी विचिकित्सोत्तरध्यायी च।

 

(3.4.1) तृष्णोत्तरध्यायी
कतमः
? पूर्वम् एवानेन ध्यानसमापत्तेर् अनुशंसः श्रुतो भवति, निःसरणं न श्रुतं
भवति। तत्रैकांशेनानुशंससंदर्श्य्

 

(p174)

 

आतप्तान्वयात् प्रथमं
ध्यानं समापद्यते
; तथा समापन्नश् चोत्तर्य् आस्वादयति।

 

(3.4.2) दृष्ट्युत्तरध्यायी
कतमः
? इहैकत्येन स्वस्य शास्तुर् अन्तिकाच् छ्रुतं भवत्य् अन्यतो वा: "शाश्वतो लोकः" इत्य् एवमादि, "एवं शुध्यति मुच्यते; एवं प्रथमं ध्यानं
समापद्यते यावद् भवाग्रम्
" इति। स ताम् एव दृष्टिं निश्रित्यातप्तान्वयात् प्रथमं ध्यानं समापद्यते; तथा समापन्नश्
च पूर्वकम्

आत्मभावम् अनेकान्
कल्पान् समनुस्मरति। तस्यैवं भवति
: "शाश्वत आत्मा लोकश्
"। तस्मात् समाधेर् व्युत्थितः स(?) ताम् एव दृष्टिं
गाढीकरोति
, उत्तरत्र च ध्यायति प्रध्यायत्य् अवध्यायति: "अनेन शोत्स्ये मोक्ष्ये
निर्यास्यामि
" इति।

 

(3.4.3) मानोत्तरध्यायी
कतमः
? यथापीहैकत्येन श्रुतं भवति: "अमुको नामायुष्मान्
प्रथमं ध्यानं समापद्यते यावद् भवाग्रम्
" इति। श्रुत्वा
च पुनर् अस्यैवं भवति
: "स तावत् समापद्यते कस्माद् अहं न समापत्स्ये(?) " इति। स तं मानं
निश्रित्यातप्तान्वयात् प्रथमं ध्यानं समापद्यते
; तथा

समापन्नश् चोत्तरि
तेनोन्नमते। समापन्नस्य वा पुनर् एवं भवति
: "अहं अस्मि लाभी
प्रथमध्यानसमापत्तेः
, अन्ये तु न तथा।" स तम् एव मानं निश्रित्योत्तरि ध्यायति
प्रध्यायत्य् अवध्यायते।

 

(3.4.4) विचिकित्सोत्तरध्यायी
कतमः
? यथापीहैकत्यः प्रकृत्या मन्दो भवति मोमुहः। स च भवति पूर्वं शमथचरितः, ततो ध्यानं समापद्यते;

तथा समापन्नश् चोत्तरि
व्यायच्छतेऽप्राप्तस्य प्राप्तये चतुर्णाम् आर्यसत्यानाम्
[]भिसमयाय। स मन्दत्वान्
मोमुहत्वान् न शक्नोति सत्याभिसमयं कर्तुम्।

 

(p175)

 

तस्यान्येषाम् अप्य्
अधिगम उत्पद्यते काङ्क्षा
, उत्पद्यते विचिकित्सा। तां च काङ्क्षां निश्रित्योत्तरि ध्यायते प्रध्यायतेऽवध्यायते।

 

(3.5.1.1) कथम् आस्वादनासंप्रयुक्तं
ध्यानं समापद्यते
? मृद्विन्द्रियो भवति रागचरितो वा क्लेशोत्सदो वा। स प्रथमध्यानसमापत्तेर्
अनुशंसं

शृणोति विस्तरेण
यथा तृष्णोत्तरध्यायी। स उत्तरि निःसरणम् अप्रजानन्न् आस्वादयति निगमयत्य् अध्यवस्यत्य्
अध्यवसाय तिष्ठति। यच् चास्वादयति
, तस्माद् व्युत्थितो
वक्तव्यः
; येनास्वादयति, तत् समापन्नः।

 

(3.5.1.2) कथं शुद्धकं ध्यानं
समापद्यते
? मध्येन्द्रियो भवति तीक्ष्णेन्द्रियो वा, समक्लेशो मन्दरजस्को
वा। स परतः प्रथमध्यानसमापत्तेर् आस्वादम् आदीनवं च शृणोत्य् उत्तरे च निःसरणम्। स
आतप्तान्वयात् प्रथमं

ध्यानं समापद्यते।
समापद्य तम् एवादीनवं मनसिकुर्वन्न् उत्तरि च निःसरणं प्रजानन् नास्वादयति।

 

(3.5.1.3) कथम् अनास्रवं
ध्यान
[ं सम] पद्यते? यथापीहैकत्यः श्रद्धानुसारी वा भवति धर्मानुसारी वा मन्दरजस्कजातीयः।
तेन पूर्वम् एव चत्वार्य्

आर्यसत्यान्य् अभिसमितानि
भवन्ति
, अभिसमयाय वा प्रयुक्तः। स यैर् आकारैर् लिङ्गैर् निमित्तैः प्रथमं ध्यानं
समापद्यते
, स नैव तान् आकारांल्

 

(p176)

 

लिङ्गानि निमित्तानि
मनसिकरोति
, अपि तु यत् तत्र भवति रूपगतं वा यावद् विज्ञानगतं वा, तान् धर्मान् रोगादिभिर्
आकारैर् मनसिकुर्वंस् तेभ्यः संस्कारेभ्यश् चित्तम् उद्वेजयत्य् उत्त्रासयति प्रतिवारयत्य्
अमृते च धाताव् उपसंहरति। एवम् अनास्रवं समापद्यते।

 

(3.5.2.1) कथं हानभागीयं
समापद्यते
? मृद्विन्द्रियो भवति हीनाधिमुक्तिकः। स आतप्तान्वयात् प्रथमं ध्यानं
समापद्यमान एव तत्र प्रीतिं च सुखं चानुशंसं चासहमानस् तस्माद् ध्यानात् परिहीयते।
यथा यथा

समापद्यते तथा तथा
परिहीयत एव
, यावन् नेन्द्रियाण्य् उत्तापयति।

 

(3.5.2.2) कथं स्थितिभागीयं
समापद्यते
? मध्येन्द्रियो वा भवति तीक्ष्णेन्द्रियो वा। स तस्यानुशंसं श्रुत्वा
विस्तरेण यथास्वादनासंप्रयुक्तम्। स तद् आस्वादयन् न चोत्तरि निःसरति न चाधः परिहीयते।

 

(3.5.2.3) कथं विशेषभागीयं
समापद्यते
? निःसरणम् अस्यानेन श्रुतं भवति। स तया समापत्त्यासंतुष्टत्वात् तच् च
नास्वादयत्य् उत्तरि च व्यायच्छते। ततो विशेषं गच्छति।

 

(3.5.2.4) कथं निर्वेधभागीयं
समापद्यते
? सर्वत्र सत्काय आदीनवदर्शी भवति। ततोऽनास्रवं समापद्यते। सर्वं चानास्रवं
निर्वेधभागीयम् इत्य् उच्यतेऽत्यन्तनिष्ठत्वात्। तद्यथा निर्विद्धो मणिः
, निर्विद्धो घटः, निर्विद्धा

कच्छेत्य् उच्यते; यस्मात् परेण वेधो
नास्ति
, स निर्विद्ध इत्य् उच्यते; एवम् एव यस्मात्
परेण प्रतिवेधो न भवति
, तन् निर्वेधभागीयम् इत्य् उच्यते।

 

(3.5.3) कथं निरन्तरं समापद्यते? यथापीहैकत्यो लाभी
भवति प्रथमध्यानस्यापरिशुद्धस्यापर्यवदातस्य
(?) यावद् भवाग्रस्य।
सोऽनुपूर्वं प्रतिलोमं च यावद् भवाग्रं प्रथमं च ध्यानं समापद्यते।

 

(p177)

 

(3.5.4) कथं व्युत्क्रान्तं
समापद्यते
? तेषाम् एव परिशुद्धत्वात् प्रथमध्यानसमनन्तरं तृतीयं समापद्यते; तस्माद् यावद्
आकाशानन्त्यायतनम्
;

तत आकिंचन्यायतनम्।
नास्ति तृतीयात् परेण व्युत्क्रान्तकसमापत्तिर् इति विप्रकृष्टत्वात्।

एवं प्रतिलोमम्
अपि
; स्थापयित्वा तथागतं द्व्यसंख्येयनिर्यातं च बोधिसत्त्वम्, तयोर् यथाकामं
समापत्तिसंभवात्।

 

(3.6.1) कथं ध्यानानि व्यवकिरन्ति? यथाप्य् एकत्यो
लाभी भवति सास्रवानास्रवाणां ध्यानानां चतुर्णाम्। स समापत्तेर् वशितां वा प्राप्तुकामो
भवति

समापत्तिवशिताफलं
वा प्रत्यनुभवितुकामः। प्रवाहयुक्तं सास्रवम् अनास्रवं वा ध्यानम् अन्योन्यव्यवकीर्णं
समापद्यते यावत् सास्रवसमनन्तरम् अनास्रवम् अनास्रवसमनन्तरं सा
[स्]र्[अव]म्। इयता परिनिष्पत्तिर्
वेदितव्या। स यत्र यदा यावद् इच्छति
, तत्र तदा तावत्
समापद्यत इति। एषा च समापत्तिवशिता।

 

(p178)

 

(3.6.2.1) समापत्तिवशिताफलं
पुनः
: दृष्टधर्मसुखविहारोऽस्य प्रभास्वरतरो भवति, तस्य चानेनापरिहाणीयो
मार्गः प्रतिलब्धो भवति
, विमोक्षाभिभ्वायतनकृत्स्नायतनानां चाभिनिर्हाराय मार्गः परिशोधितो भवति।
सचेत् सोपधिशेषः कालं करोति
, ततः शुद्धावासान् प्रविशति।

 

(3.6.2.2) मृदुमध्याधिमात्रध्यानसमापत्तिभेदेन
सर्वत्र तिस्रो भूमयः पूर्ववत् तद्यथा सवितर्कसविचारायां भूमौ। अवितर्कं विचारमात्रं
समाधिं भावयित्वा महाब्रह्मत्वं लभ्यते।

 

(3.6.2.3) मृदुमध्याधिमात्राधिमात्रतराधिमात्रतमभावितत्वाद्
व्यवकीर्णभावितानां पञ्च शुद्धावासभूमयो निर्वृत्ताः।

 

(3.6.2.4) तत्र शुद्धकध्यानसमापत्त्या
ध्यानभूमिषूपपत्तिर् वेदितव्या नास्वादनासंप्रयुक्तेन।

उपपन्नो वा पुनः
सचेद् आस्वादयति
, तस्याश् च्यवते; अथ शुद्धकं भावयति, तत्रैव वोपपद्यतेऽधो
वा
; उत्तरि वा समापद्योर्ध्वं संचरति। इह च पूर्वं समापत्तिः, ततः पश्चात् तत्रोपपत्तिः।
तत् कस्य हेतोः
?

नावीतरागस्य तत्रोपपत्तिः; न चासमापन्नस्य
वैराग्यं पृथग्जनस्य। न चेह तत्र वा समापन्नयोः सुखविशेषो विद्यते
; आश्रयविशेषस् तु
विद्यते।

 

३। मनस्कारनिमित्तभावना
समाप्ता।

 

४।० सूत्रान्तसंग्रहः
कतमः
?

 

(4.1.1.1.0) अष्टौ विमोक्षा
रूपी रूपाणि पश्यतीत्य् एवमादयः पूर्ववत्। विमुक्तोऽधिमुच्यत इत्य् अतः सप्त विमोक्षाः।
संज्ञावेदयितविमुखीभावेनाष्टविमोक्षम् उच्यते
(?)

 

(p179)

 

(4.1.1.1.1) कथं रूपी रूपाणि
पश्यति
? कामधातौ जातो भूतः कामवैराग्यम् अनुप्राप्नोति, न च रूपवैराग्यम्।
स एवं मुक्तः
, येभ्यो मुक्तः, तान्य् एव कामावचराणि रूपाणि मनसिकरोत्य्
अधिमुच्यते सालोकाभासनिमित्तेन।

 

स द्वाभ्यां कारणाभ्यां
रूपी भवति
: यच् च कामधातौ जातो भूतः, यच् च लाभी रूपसमापत्तेः, सप्रभासं चाधिमुच्यते।

 

रूपाणि पश्यतीति
कीदृशानि पश्यति
? केन कारणेन? कामावचराणि रूपाणि भित्त्वा(?) यान्य् अभिभ्वायतनेषु
विभावितानि परीत्तानि सुवर्णदुर्वर्णानि हीनप्रणीतानि
, एवम् अधिमात्राणि
चेति विस्तरः। केन कारणेन
? वैशेषिकगुणा-

 

(p180)

 

भिनिर्हाराय प्रयोगपरिकर्मा[र्][म्], तद्यथाभिभ्वायतनकृत्स्नायतनानाम्

आर्याया ऋद्धेर्
अरणाप्रणिधिज्ञानप्रतिसंविदादिनां च। यद्य् अप्य् अयं पूर्वं तेभ्यो रूपेभ्यो वीतरागः
, न त्व् अनेन तेष्व्
अधिमुक्तिवशिता लब्धेति तल्लाभार्थं पुनः पुनर् अधिमुच्यते।

 

(4.1.1.1.2) कथम् अध्यात्मम्
अरूपसंज्ञी बहिर्धा रूपाणि पश्यत्ल्
? कामधातौ जातो भूतो
रूपवीतराग आरूप्यसमापत्तिम् असंमुखीकुर्वंस् तत्संज्ञी

चावभास निमित्तम्
अमनसिकुर्वन् बहिर्धा रूपाण्य् अधि
[मुच्य]ते। येभ्यो वीतरागः, तान्य् अस्य बहिर्धा।

 

स द्वाभ्यां कारणाभ्याम्
अध्यात्मम् अरूपसंज्ञी
: यच् चारूप्यसमापत्तेर् लाभी तां च समापत्तिम् आत्मना(?) संजानीते, यच् चाध्यात्मम्
अवभासनिमित्तं न मनसिकरोति। शेषं पूर्ववत्।

 

(4.1.1.1.3) कथं शुभं विमोक्षं
कायेन साक्षात्कृत्योपसंपद्य विहरति
? यथापीहैकत्यो लाभी
भवत्य् उपेक्षास्मृतेः परिशुद्धायाः पर्यवदातायाः। तां

च तेन निश्रित्य
शुभा भाविता भवत्य् आर्याकारपरिपूर्ण। स शुभो विमोक्षः। केन कारणेन
? त्रिभिः कारणैः: सुखदुःखव्यतिक्रमतः
सर्वेञ्जितोपरमात्

सुपरिकर्मकृतत्वाच्
च। कायेन साक्षात्कृत्वेति तेन विहारेणार्या बहुलं विहरन्ति।

 

(4.1.1.1.4) आकाशानन्त्यायतनविमोक्षो
यथापि तस्माद् वीतराग आकाशम् एवाधिमुच्यते। एवं विज्ञानानन्त्यायतनविमोक्षस् तस्माद्
वीतरागस्य तद् एवाधिमुच्यमानस्य। आकिंचन्यायतनलाभिनो विज्ञानानन्त्यायतनम् अधिमुच्यमानस्याकिंचन्यायतनविमोक्षः।
भवाग्रविमोक्षे तु नान्यान्य् अधिमुच्यते। यावत् कृत्स्नसंज्ञासंभवः
,

तावद् अधिमोक्तव्यम्।

 

(p181)

 

(4.1.1.2.1) पूर्वम् अधिमुच्य
परिकर्म कृत्वा पश्चाद् अभिभूय पश्यतीत्य् अभिभ्वायतनानि।

 

स पुनर् अभिभवः
पञ्चविधो वेदितव्यः। हीनाभिभवो यथा केनचिद् उत्कर्षात् तेन शिल्पादिना परं हीनतायां
स्थापयति। दुर्बलीकरणाभिभवस् तद्यथा बलवत्तरो दुर्बलतरं सादयति। अन्तर्धापनाभिभवस्
तद्यथा तिरस्करोति कुण्डादिना
, मन्त्रैर् वान्तर्धापयत्य् [ऋद्ध्या वा]विदूषणाभिभवस् तद्यथा
विदूष्य क्लेशं प्रजहाति। वशवर्तनाभिभवस् तद्यथा

यथाकामकारणार्थेन
स्वामी दासम् अवस्थापयति।

 

अस्मिंस् त्व् अर्थेऽन्तर्धापनाभिभवश्
च वशवर्तनाभिभवश् चाभिप्रेतः। पूर्वम् अधिमुक्तिवशिता विमोक्षेषु
, पश्चाद् अभिभववशिताभिभ्वायतनेषु।

 

(4.1.1.2.2) तत्र रूपाणि पश्यति
परीत्तानीति सत्त्वोपकरणाख्यानि। अधिमात्राणीति गृहलयनादीनि। सुवर्णानि यानि वर्णतो
मनापान्य् एकान्तशुभत्वात्। एतद्वि-

 

(p182)

 

पर्ययेण दुर्वर्णानि
हीनानि यानि शब्दगन्धरसस्प्रष्टव्यतोऽमनापानि।

एतद्विपर्ययेण प्रणीतानि।
तेषां पुनश् चतुर्विधो वर्णः सत्त्वानाम् उपकरणानां विमानानां च। अभिभूय जानातीत्य्
अन्तर्ध्
[]प्यान्तर्धाप्यालम्बनम् अधिमुच्यते। तथासंज्ञी च भवतीत्य् अभिभूतसंज्ञी।

 

(4.1.1.3.1) कृस्नायतनैर् अधिमोक्षस्य
वस्तुनः कृत्स्नम् आयतनम् अधिमुच्यते। तत्राद्वयम् इत्य् आर्यस्यात्मात्मीयभेदाभावात्।
अप्रमाणं तु सर्वेषाम्।

 

(4.1.1.3.2) केन कारणेन रूपस्प्रष्टव्याभ्याम्
आयतनाभ्याम् एतद् व्यवस्थापितम्
? अनयोः स्वपरसंतानयोः सर्वत्र च रूपिणि धातौ
संभवात्। चक्षुरादी

नि स्वासंतानिकान्य्
एव
, गन्धरसाव् अपि न स[र्वगतौ](?)। तेषां पुना रूपिणां

रूपधातुपर्यवसाना
कृत्स्नसमापत्तिः। आरूप्येषु पुनर् आकाशं सर्वगतम्। अतोऽत्र कृत्स्नायतनं व्यवस्थाप्यते।
विज्ञानस्य च कृत्स्नविषयगोचरत्वात्।

 

(p183)

 

(4.1.1.4.1) पूर्वं तावद् योग्य्
अधिमुच्यते
, ततोऽभ्भवति। ततोऽभिभववशितां लब्ध्वा पश्चात् तद् एव कृत्स्नम् आयतनं
यथाकामम् अधिमुच्यते। अत एषाम् इयम् आनुपूर्वी।

 

(4.1.1.4.2) अष्टाभी रूपकृत्स्नैः
परिशुद्धैर् आर्याम् आधिमोक्षिकीं वस्तुपरिणामिकीं च र्द्धिम् अभिनिर्हरति। स यथाधिमुच्यते
यावत् परिणामयति
, तथैव तद् भवति; शक्यं च तेन कार्यं कर्तुं सुवर्णादिना।
विज्ञानकृत्स्नेन परिशुद्धेनारणाप्रतिसंवित्प्रणिधिज्ञानादीन्य् अभिनिर्हरति। आकाशकृत्स्नेन
परिशुद्धेन यद् इच्छति तद्
(?) आकाशं करोति।

 

(4.1.1.4.3) तद्यथा कुम्भकारायस्कारसुवर्णकारा
मृत्तिकादीनि तत्प्रथमतः समायोजयन्ति
, नो तु तानि सुपरिकर्मीकृतानि
भवन्ति
, एवं विमोक्षावस्था। यथा

सुपरिकर्मकृतानि, एवम् अभिभ्वायतनावस्था।
यथा सुपरिकर्मिकृत्य यथेष्टं परिणामयन्ति
, एवं कृत्स्नायतनावस्था
द्रष्टव्या।

 

(4.1.2.1.0) त्रयः समाधयः: शून्यता, अप्रणिहितः, आनिमित्त इति।

(4.1.2.1.1.1) शून्यतासमाधिः
कतमः
? या निःसत्त्वजीवपोषपुद्गलताम् आरभ्य चित्तस्य स्थितिर् ऐकाग्र्यम्।

 

(4.1.2.1.1.2) तत्र चतुर्विधा
शुन्यता
: परीक्षाशुन्यता तद्यथा सर्वधर्माञ् शून्यान् प्रत्यवेक्षते नित्येन यावद्
आत्मनात्मीयेनेति। तत्फलशून्यता तद्यथा

 

(p184)

 

शून्याकोप्या चेतोविमुक्ती
रागादिभिः सर्वक्लेशैः। अध्यात्मशून्यता तद्यथा

शून्य आत्मभावोऽहंकारममकारास्मिमानाभिनि[वे]शैः। बहिर्धाशून्यता
तद्यथा शून्याः पञ्च कामगुणाः कामरागेण। यथोक्तं सर्वशो रूपसंज्ञानां

समतिक्रमाद् बहिर्धाशून्यतां
कायेन साक्षात्कृत्योपसंपद्य विहरामीति विस्तरः। कामगुणसंज्ञा ह्य् अत्र रूपसंज्ञा।
तत्संज्ञासमुत्थरागप्रहाणात् सा बहिर्धाशून्यतेति।

 

कदाचिद् योगी बहिर्धाशून्यतां
मनसिकरोति कदाचिद् अध्यात्मशून्यतां तत्फलशून्यतया
, कदाचिद् अध्यात्मबहिर्धाशून्यतां
परीक्षाशून्यतया
, तद्वशेन

हि तयोश् चित्तं
प्रस्कन्दति। सचेद् अध्यात्मबहिर्धाशून्यतायाम् अपि न प्रस्कन्दति
, तत आनिज्यं मनसिकरोति।
अनित्यसंज्ञा दुःखसंज्ञा वानिञ्ज्यम् इत्य् उच्यते। तथास्य मनसिकुर्वत अस्मीतीञ्जितं
न भवति
, अयम् अहम् अस्मीति विस्तरेण

चित्तम् अस्य नेञ्जते।
ततोऽस्य तयोश् चित्तं प्रस्कन्दति।

(4.1.2.1.2) अप्रणिहितश् चेतःसमाधिः
कतमः
? पञ्चोपादानस्कन्धान् अनित्यतो वा दुःखतो वा मनसिकुर्वतो या चित्तस्य
स्थितिर् ऐकाग्र्यम्।

 

(4.1.2.1.3.1) अनिमित्तः कतमः? तेषाम् एवोपादानस्कन्धानां
निरोधं शान्ततो मनसिकुर्वतो या चित्तस्य स्थितिर् ऐकाग्र्यम्।

 

(p185)

 

(4.1.2.1.3.2) यदुक्तम् आनिमित्तश्
चेतःसमाधिर् नो चावनत इति विस्तरेण।

तत्र कथं न्[आव]नतो भवति नाभिनतः
विरोधानुरोधाभ्यां विसंयुक्तत्वात्। पुनर् द्वाभ्यां कारणाभ्याम् आनिमित्तं समापद्यते
: सर्वनिमित्तानां

चामनसिकाराद् आनिमित्तस्य
च धातोर् मनसिकारात्। तत्र निमित्तान्य् अमनसिकुर्वंस् तेषु न निर्विद्यते न विदूषयति
केवलम् अनभिसंस्कारम् एव करोति। अतोऽनवनत इत्य् उच्यते। अनिमित्तं च धातुं मनसिकुर्वंस्
तत्र न सज्जते। ततोऽनभिनत इत्य् उच्यते।

 

स च समाधिर् द्विविधः: प्रायोगिकः प्रयोगफलश्
च। तत्र प्रायोगिकः प्रतिसंख्याय प्रतिसंख्याय व्यवस्थाप्यते
; अविमुक्तश् च भवति
निमित्तेभ्यः। तथा हि तस्य निमित्तानुसारि विज्ञानम् अन्तरान्तरा चित्तं पर्यादाय तिष्ठति।

तत् पुनः प्रतिसंख्याय
प्रतिसंख्याय स्थाप्यमानं फलं प्रतिगृह्णाति
, निमित्तानुसाराद्
विमुच्यते। तच् च विमुक्तं विमुक्तत्वान् न प्रतिसंख्याय स्थितं भवतीत्य् अतः सुविमुक्तम्।
प्रतिसंख्याय प्रतिसंख्याय स्थाप्यमानं पुनः स्थितत्वाद् विमुक्तं भवति
, नो तु सुविमुक्तम्।

 

आज्ञाफल आज्ञानुशंस
इति क्लेशप्रहाणदृष्टधर्मसुखविहारनिर्वर्तनात्। पुनर् निरोधोऽप्य् आज्ञा मार्गोऽपि
; ताभ्यां यथाक्रमम्
आज्ञाफल आज्ञानुशंसः। पुनः सत्याभिसमयोऽप्य् आज्ञा
, अर्हत्त्वम् अप्य्
आज्ञा। तत्र दर्शनमार्ग आज्ञाफलः
, अर्हत्त्वफल आज्ञानुशंसः।

 

(p186)

 

(4.1.2.1.4) यद् यत्र नास्ति, तत् तेन शून्यम्
इति दर्शनाच् छून्यता। यद् एवं पश्यति
, तत्रैव न प्रणिदधातीत्य्
अप्रणिहितः। सर्वसंस्कारनिमित्तापगतं पश्यतीत्य् आनिमित्तः।

 

(4.1.2.1.5) कस्मात् पुनर्
इह शूयतां पूर्वम् अह
, अन्यत्र यद् अनित्यं तद् दुःखम्, यद् दुःखं तद्
अनात्मेति पश्चाच् छुन्यताम् आह
?

 

न तावद् अनित्यदुःखदर्शनं
तथा परिशुध्यते
, येनाप्रणिधानं भवति, यावद् अनात्मसंज्ञा
न संतिष्ठते। तदनन्तरम् अप्रणिधानं भवति। अत एवोक्तम् अनित्यसंज्ञिनो ह्य्
(?) अनात्मसंज्ञा संतिष्ठत
इति विस्तरः। स तद् अनित्यम् अनात्म दृष्ट्वा न प्रणिदधाति
; अनिमित्तम् एव
प्रणिदधाति निःसरणं समन्वेषमाण इत्य् अनन्तरम् अनिम्त्त्तम् उच्यते।

 

(4.1.2.2.1) सवितर्कः सविचारः
समाधिः कतमः
? यो वितर्कविचाराभ्यां संप्रयुक्तः।

 

(p187)

 

(4.1.2.2.2) अवितर्को विचारमात्रः
समाधिः कतमः
? यो विचारमात्रसंप्रयुक्तः,

यं भावयित्वा महाब्रह्मत्वं
प्रतिलभते।

 

(4.1.2.2.3) अवितर्कोऽविचारः
समाधिः कतमः
? यो वितर्कविचारविप्रयुक्तः, यं भावयित्वा तदूर्ध्वं
यावद् भवाग्राद् उपपद्यतेऽन्यत्रानास्रवेभ्यः समाधिभ्यः। कथम् अवितर्कोऽविचारः समाधिर्
भवति
? वितर्कविचारेभ्यश्

चित्तम् अध्युपेक्ष्य
सचेद् एकरसेनाध्यात्मम् आलम्बनम् अधिमुच्य
[] एकरसेन च संप्रख्यायते।

 

(4.1.2.3.1.1) परीत्तः समाधिः
कतमः आलम्बनतो वा परीत्तः परीत्तकविषयरूपदर्शनात्
, मनसिकारतो वा परीत्तश्रद्धाच्छन्दाधिमोक्षत्वात्।

 

(4.1.2.3.1.2) महद्गतः समाधिः
कतमः
? आलम्बनतो वा महद्गतः प्रभूतरूपदर्शनात्, न त्व् अनन्त(?)दर्शनात्; मनसिकारतो वा महद्गतो(?)

 

(p188)

 

ऽधिमात्रश्रद्धाच्छन्दाधिमोक्षत्वात्, न त्व् अनन्तपर्यन्तश्रद्धाच्छन्दाधिमोक्षत्वात्।

 

(4.1.2.3.1.3) अप्रमाणः समाधिः
कतमः आलम्बनतो वानन्तापर्यन्तरूपदर्शनात्
; मनसिकारतो वानन्तापर्यन्तश्रद्धाच्छन्दाधिमोक्षत्वात्।

 

(4.1.2.3.2) तत्र महद्गतश्
चेतःसमाधिर् आभा देवा आभा देवा इत्य् एकं वृक्षमूलम् अधीमुच्यत इति विस्तरः। अप्रमाणाश्
चत्वार्य् अप्रमाणानि।

 

(4.1.2.3.3.1) आभा देवा आभा देवा
इति कथम् एकं वृक्षमूलम् अधिमुच्यते
? कामधातुं दूषयित्वा
प्रथमध्यानलाभी तत्समापत्तिपरिशोधनार्थं प्रयुक्तो भवति
; श्रुताश् चानेन
भवन्त्य् आभा देवा इति। स तेषाम् एवात्मभावालोकनिमित्तं मनसिकुर्वन्न् एकं वृक्षमूलम्
अधिमुच्यते यावत् समुद्रपर्यन्तां पृथिवीम्
, समाधेर् उत्तरोत्तराधिमात्रत्वात्।
तद्विशेषकृत उपपत्तिविशेषो भवति।

 

(4.1.2.3.3.2) कथं मनसिकारद्विमात्रता
भवति
? यो यावद् अधिमुच्यते, तस्य तावन् मनस्कारः
प्रज्ञप्यते। कथं मनस्कारद्विमात्रतां प्रतीत्य भावनाद्विमात्रता भवति
? तस्यैव मनसिकारस्य
वशेन तस्य समाधेर्

 

(p189)

 

भावनाविशेषः प्रज्ञप्यते
परिशुद्धतरतमभावात्। कथं भावनाद्विमात्रतां प्रतीत्य प्रतिप
[द्] द्वयमात्रता प्रज्ञप्यते? यथा यथा सुभाविततरः
समाधिर् भवति
, तथा तथोपपत्तिहेतुविशेषः प्रज्ञप्यते। कथं प्रतिपद्द्वयमात्रतां प्रतीत्य
पुद्गलद्वयमात्रता प्रज्ञप्यते
? तेन हेतुना

तत्रोपपन्नानां
सत्त्वानाम् उच्चनीचता हीनप्रणीतता च प्रज्ञप्यते।

 

(4.1.2.3.3.3) कः प्रथमद्वितीययोर्
ध्यानयोर् आभाविशेषः
? तद्यथा मणेर् बहिर् आभा भवति, मणिस् तु नाभा, एवं प्रथमे ध्याने
शरीराद् बहिर् आभा
,

न शरीराण्य् एव।
यथा तु प्रदीपस्य बहिर् आभा
, स च प्रदीप आभासः(?), एवं द्वितीये ध्याने
शरीरम् अप्य् आभा वेदितव्या। अत एव तत्रैकत्वकाया इत्य् उच्यन्ते।

 

(4.1.2.3.4.1) कथं चतुर्णाम्
अप्रमाणानां व्यवस्थानं भवति
? त्रिविधाः सत्त्वाः: अदुःखासुखिता दुःखिताः
सुखिताश् च। ते यथाक्रमं सुखकामा दुःखवियोगकामाः

सुखावियोगकामाश्
च। तेषां चतुर्विधेनोपसंहारेण चत्वारि

व्यवस्थाप्यन्ते: यथाक्रमं सुखोपसंहारतो
दुःखापनयनोपसंहारतः सुखावियोगानुमोदनोपसंहारतश् च त्रयाणाम्। उपेक्ष्
[] पुनस् तेषाम् एव
त्रयाणां सुखादिकामानाम् अरत्युत्कण्ठासंक्लिष्टतोपसंहारतो द्वेषासंक्लिष्टतोपसंहारतो

रागासंक्लिष्टतोपसंहारतश्
च व्यवस्थाप्यते।

 

(p190)

 

(4.1.2.3.4.2) मैत्रीसहगतेन चित्तेनेति
विस्तरः। तत्रोपकारप्रत्युपस्थानत्वान् मैत्रीसहगतम्। उपकारलक्षणं हि मित्रम्। उपकारश्
च द्विविधः
: हितोपसंहारः सुखोपसंहारश् च। तौ च सर्वैर् अप्रमाणैः परिदीपितौ। अवैरेणेत्य्
आशयाप्रदोषात्। असपत्नेनेत्य् अप्रत्यनीकभावावस्थानात्। अव्याबाधेनेत्य् अपकाराविचेष्टनात्।
विपुलेनेत्य् आलम्बनमहत्त्वात्। महद्गतेनेति हितसुखोपसंहारप्राधान्यात्। अप्रमाणेनेति
फलपरिमाणाभावाच् चतुर्महानदीतोयसंभेदवत्।

सुभावितेनेति सुपरिजितत्वात्।
कीदृशेन पुनर् मैत्रीसहगतादिना

चित्तेनेत्य् आह: अधिमुच्य स्फरित्वोपसंपद्येत्य्
अध्याशयाधिमोक्षेण व्याप्येत्य्
(?) अर्थः। उपसंपद्येति परिशोध्य पर्यवदाप्य।
विहरतीति रात्रिंदिवातिनामनयोगेन

कालातिनामनात्।

 

(4.1.2.3.4.3.0) यद् उक्तं मैत्री
भाविता शुभपरमा भवतीति विस्तरः
, किं संधायोक्तम्?

(4.1.2.3.4.3.1) एतद् अग्रं सुखानाम्, यदुत तृतीये ध्याने।तदुपसंहारपरिभाविता
मैत्री परमा भवति
; अतः शुभपरमेत्य् उच्यते।

 

(4.1.2.3.4.3.2) करुणाप्य् आकाशानन्त्यायतनोपसंहारपरिभाविता
परमा भवति। स

हि दुःखापनयनोपसंहाराभिप्रायः।
अत आरूप्येष्व् एतत् सर्वशो नास्तीति नास्ति

च्छेदनभेदनादिदुःखम्
इत्य् आकाशानन्त्यायतनम् एषाम् उपसंहरति करुणा-

 

(p191)

 

समापन्नो दुःखितानां
सत्त्वानाम्
: "यत्र साश्रयं दुःखं नास्ति, तथैते(?) भवन्तु" इति।

 

(4.1.2.3.4.3.3) मुदितासमापन्नः
पुनः सुखितानां सत्त्वानां मोदप्राप्तानां

विज्ञानान्त्यायतनम्
उपसंहरति
: "एवम् अप्रमाणं सुखम् एषां सत्त्वानां भवतु यावद् अप्रमाणं विज्ञानानन्त्यायतनम्" इति; एवं विज्ञानानन्त्यायतनोपसंहारपरिभाविता
मुदिता परमा भवति।

 

(4.1.2.3.4.3.4) अयं चानास्रवचित्तभूमिपर्यन्तः, यदुताकिंचन्यायतनम्; तच् च

परम् उपेक्षाणाम्।
अतः
" यथार्हतो भिक्षोः सर्वेषु सुखदुःखादुःखासुखप्रचारेष्व् असंक्लेशो भवति, एवम् एषां सत्त्वानां
भवतु
" इत्य् उपेक्षासमापन्नस्

तद् आकिंचन्यायतनम्
उपसंहरति
; अत आकिंचन्यायतनोपसंहारपरिभावितोपेक्षा परमा भवति।

 

(4.1.2.3.4.3.5) एतानि च सर्वाण्य्
आर्याकाराण्य् आर्य एव भावयितुं शक्नोति बोध्यङ्गसहगतानि।

 

(4.1.2.4.1.1) एकांशभावितः समाधिः
कतमः
? यत्रावभासनिमित्तं(?) वैव(?) रूपनिमित्तम् एव
वा मनसिकृत्य समापद्यते। ताभ्यां यथाक्रमम् अवभासं वा संजानीते रूपाणि वा पश्यति।

 

(p192)

 

(4.1.2.4.1.2) उभयांशभावितः समाधिः
कतमः
? यद् उभयं मनसिकृत्य समापद्यते। सोऽवभासं च संजानीते रूपाणि च पश्यति।

 

(4.1.2.4.2.1) एवम् आलोकपरिभावितस्य
समा
[धेर् एका]दशान्तराया वेदितव्या विचिकित्सादयो यथासूत्रम् एव विस्तरेण। कस्य पुनर्
एतेऽन्तरायाः
? समाधिनिमित्तस्य

द्विविधस्याप्य्
आलम्बननिमित्तस्य निदाननिमित्तस्य च
, यद् आश्रितः समाधिस्
तिष्ठति। तस्मान् निमित्ताच् च्युतस्य न तिष्ठति।

 

(4.1.2.4.2.2.1) तत्र प्रथमतोऽप्रतिसंवेदितरूपावभाससंदर्शनाद्
विचिकित्सा।

 

(4.1.2.4.2.2.2) शैथिल्ययोगाद्
अमनसिकारः
; यथा वा रूपाण्य् अद्रष्टुकामोऽक्षिणी वा निमीलयत्य् अन्यतो वा मुखं परिवर्तयति, एवम् अयं तेषु
रूपेष्व् अमनसिकारम् आपद्यते।

 

(4.1.2.4.2.2.3) इन्द्रियागुप्तद्वारतादिभिः
कायदौष्ठुल्यम्।

 

(4.1.2.4.2.2.4) अतिप्रजागराद्
अतिस्वप्नासेवनाज् जाड्यं
(?) स्त्यानमिद्धम्।

 

(4.1.2.4.2.2.5) रूपाण्य् अपश्यतोऽपरिपूर्णं
वा पश्यतस्  तदुभयार्थम् अत्याभोगं करोत्य्
अत्यवष्टब्धं मनसिकारं करोति
; अतोऽत्यारब्धं वीर्यं भवति।

 

(p193)

 

(4.1.2.4.2.2.6) अत्यारम्भदोषात्
पुनर् अतिलीनं करोति ल
[टु]किकाशकुनिपीडनवत्।

 

(4.1.2.4.2.2.7) तस्यावभासमात्रं
प्रार्थयमानस्य स

रूपदर्शनेन सहोत्पन्न
इत्य् एकम् इच्छतो द्वयलाभान् निधिमुखद्वयलाभवद् औद्बिल्यम्।

 

(4.1.2.4.2.2.8) सर्वदिक्षु सहसा
सौम्यरूपसंदर्शनाद् युगपच् छम्बितत्वम् उभयपार्श्ववर्तकोत्पतनवत्।

 

(p194)

 

(4.1.2.4.2.2.9) तस्य चरतो वा विहरतो
वा लोकचित्रिकेषु नानात्वसंज्ञा भवति। स बहिर्धासंज्ञास्य समाधेर् अन्तरायं करोति।
तेन वा पुनः समाधिनात्मानम् उत्कृष्टं पश्यन् परं च हीनम् आत्मानं संप्रगृह्णाति
; एषापि

नानात्वसंज्ञा।

 

(4.1.2.4.2.2.10) अत्यर्थं भाष्यप्रयुक्तस्यातिचिरं
वा वितर्कयतः कायः क्लाम्यति यावच्
(?) चित्तं न समाधीयत
इत्य् अतोऽत्यभिजल्पोऽन्तरायकरः।

 

(4.1.2.4.2.2.11) तदुत्पन्नेऽवभासनिमित्ते
रूपदर्शने वाध्यात्मं योगविहारं मनस्कारम् उत्सृज्य बहिर्धा प्रणिदधाति
, रूपाण्य् उपनिध्यातुम्
आरभत इत्य् एतद् अतिनिध्यायितत्वं समाधेर् अन्तरायः।

 

(p195)

 

(4.1.2.4.2.3) एते यथायोगं समाधेर्
आलम्बनान्तराया वेदितव्या निदानान्तरायाश् च
, यथाक्रमम् आलम्बननिदाननिमित्ताभ्यां
च्यावनात्। उभयनिमित्तात् केचिच्

च्यावयन्ति।

 

(4.1.2.5.1) प्रीतिसहगतः समाधिः
कतमः
? प्रथमद्वितीययोर् ध्यानयोर् यः समाधिः।

 

(4.1.2.5.2) सातसहगतः समाधिः
कतमः
? तृतीये ध्याने।

 

(4.1.2.5.3) उपेक्षासहगतः समाधिः
कतमः
? चतुर्थाद् ध्यानात् प्रभृति।

 

(4.1.2.6.1) कतमा समाधिभावना
दृष्टधर्मसुखविहाराय संवर्तते
? चतुर्णां दृष्टधर्मसुखविहाराणां प्रयोगमार्गे
या समाधिभावना
, मौलेषु चापरिशुद्धापर्यवदातेषु या समाधिभावना। अपूर्वसमापत्त्यर्थं तु
भगवता प्रथमस्य ध्यानस्य प्रयोगमार्ग उक्तः।

 

(4.1.2.6.2) कतमा समाधिभावना
ज्ञानदर्शनप्रतिलम्भाय संवर्तते
? इह

भिक्षुणालोकनिमित्तम्
एव साधु च सुष्ठु च सूद्गृहीतं भवतीति यथासूत्रम्। सैष दि
[व्यच]क्षुरभिनिर्हारप्रयोगमार्गे
द्रष्टव्या
(?). तत्र

 

(p196)

 

यद् दिव्येन चक्षुषा
रूपाणाम् आलोचनं प्रत्यक्षीभावः
, तद् दर्शनम्। यत् पुनर् जानीत इत्य् अपि
ता देवता एवंनामान एवंजात्या इति विस्तरेणाधिदेवतासूत्रम्
, इदं ज्ञानम्।

 

(4.1.2.6.3) कतमा समाधिभावना
प्रज्ञाप्रभेदाय संवर्तते
? सत्याभिसमयस्य स्रोतापत्तिफलस्य प्रयोगमार्गे या समाधिभावना प्रतिसंविदां
च।

 

(4.1.2.6.4) कतमा समाधिभावनास्रवक्षयाय
संवर्तते
? यार्हत्त्वफलस्य प्रयोगमार्गे।

 

(4.1.2.7.0) आर्यः पञ्चज्ञानिकः
समाधिः कतमः
? अयं खलु मे समाधिर् आर्यो निरामिषो निरौपधिक इति विस्तरेण यथासूत्रम्।
पञ्चाकारं ज्ञानम् अनेन परिदीपितम्
, तद्यथा स्वभावतः
पुद्गलतः परिशुद्धितः फलतः समाधिव्युत्थाननिमित्तेषु च ज्ञानम्।

 

(4.1.2.7.1) तत्रार्य इति कुशलार्यतयानास्रवार्यतया
च। निरामिष इति कुशलार्यतां ज्ञापयति
, निरौपधिक इत्य्
अनास्रवार्यताम्।

 

(4.1.2.7.2) अकापुरुषसेवित
इत्य् आर्यैर् बुद्धैस् तच्छ्रावकैश् च। विज्ञप्रशस्त इति तैर् एव। अगर्हितो विज्ञैर्
इति नित्यकालप्रशंसनात्। न यथा प्रथमं ध्या-

 

(p197)

 

नम् ऊर्ध्वगमनाभियोगार्थं
पूर्वं शान्ततः प्रशस्य पुनर् औदारिकतो विगर्ह्यते पश्चाद् इति।

 

(4.1.2.7.3) शान्त इति तद्विपक्षक्लेशोपशमात्।
प्रणीत इति स्वभूमिकक्लेशानास्वादनात्। प्रत्ल्प्रस्रब्धलब्धमार्ग इत्य् अपरिहाणीयमार्गलाभात्।
चेतस एकोतीभावाधिगत इत्य् अवितर्काविचारभूमिलाभात्।

 

(4.1.2.7.4) प्रत्युत्पन्नसुख
इति दृष्टधर्मसुखविहारत्वात्। आयत्यां सुखविपाक इति निरुपधिशेषनिर्वाणसुखावाहनात्।

 

(4.1.2.7.5) स्मृत एव समापत्स्य
इति सूद्गृहीतस्य समाधिनिमित्तस्यासंप्रमोषात्। स्मृत एव व्युत्थास्य इति सूद्गृहीतस्य
व्युत्थाननिमित्तस्यासंप्रमोषात्।

 

(4.1.2.8.0) पञ्चाङ्गिकः समाधिः
कतमः
?

 

(4.1.2.8.1.1) इह भिक्षुर् इमम्
एव कायं विवेकजेन प्रीतिसुखेनेति प्रथमध्यानभूमिकेन। तत्र प्रीत्याभिष्यन्दयति
, सुखेन परिष्यन्दयति।
परिस्फरति प्रयोगनिष्ठे मनस्कारे
, परिप्रीणयति पूर्वेषु मनस्कारेषु; तेष्व् अपि हि
प्रीतिसुखम् अन्तरान्तरोत्पद्यते
, न तु स्थिरं भवति, न परिपूर्णम् इति।

नास्य किंचिद् अपरिस्फुटं
भवति स्फरणीयम् इति प्रयोगनिष्ठाफले मनस्कारे।

 

तत्र यथा दक्षः
स्नपकोऽन्तेवासी वा
, एवं योगाचारो द्रष्टव्यः। कांस्यां वा स्थाले वा शुक्त्यां वेति कामविवेकजं
प्रीतिसुखम् आरभ्याववादानुशासनी

 

(p198)

 

द्रष्टव्या। सू[क्ष्म्]आणि स्नात्रचूर्णानीति
नैष्क्रम्यादिवितर्कास् तदनुकूला द्रष्टव्याः। परिप्रोक्ष्य स्यन्दनं वितर्कपरिशुद्धिमार्गो
द्रष्टव्यः। स्नात्रपिण्डीति कायो द्रष्टव्यः। सा स्निग्धा प्रीतियोगात्
, स्नेहानुगता सुखयोगात्; स्फुतासान्तर्बहिर्
इति निरन्तरप्रीतिसुखयोगं दर्शयति
; अप्रविसारिणीत्य्(?) अविक्षेपात्; नो च प्रघारिणीत्य्
असंक्लेशाद् अनास्वादनात्।

 

(4.1.2.8.1.2) द्वितीये दृष्टान्तविशेषणं
द्रष्टव्यम्। तत्र पर्वतस्थानीयः सवितर्कः समाधिः
; तस्योपरि संक्षेपो
द्वितीयं ध्यानम् अवितर्कम् आलम्बनैकरसाधिमोक्षात्।

अध्यात्मसंप्रसादेन
ह्रदः। उदकाक्षः पार्श्वतो य उद्भेद

उदकस्य; उदकशुल्व ऊर्ध्वंगामी
य उद्भेद उदकस्य
; ताभ्यां यथाक्रमं प्रीतिसुखे दर्शयति। अभिष्यन्दनादयः पर्यायाः पूर्ववत्।
नास्त्य् अस्फुटम् इति निरन्तरयोगात्।

 

(4.1.2.8.1.3) तृतीयेऽपि दृष्टान्तविशेषः।
तत्र यथोत्पलादीनि
, एवं निष्प्रीतिकं सुखम् तत्संप्रयुक्ताश् च धर्मा आश्रयश् च। निष्प्रीतिकोऽवितर्काविचारः

 

(p199)

 

समाधिर् उदकस्थानीयः।
प्रीतिर् औद्बिल्यकरी
; तदभावान् निमग्नकोशानीत्य् आह।

 

(4.1.2.8.1.4) चतुर्थेऽपि दृष्टान्तविशेषः।
तत्र परिशुद्धेन चित्तेनेत्य् उपेक्षास्मृतिपरिशुद्धिसंप्रयुक्तेनाधरभूमिकापक्षालसमतिक्रमात्।
पर्यवदातेनेति स्वभूमिकसंक्लेशास्वादनाभावात् कुशलेन। गृहपतिदृष्टान्तः पुनः किमर्थम्
?

 

स हि निपुणो भवत्य्
अप्रमत्तजातीयश् चिन्तकस् तुलक उपपरीक्षकः
, न चास्य कश्चिद्
अविदितो भवत्य् आयो वा व्ययो वा। एवं परिशुद्धचतुर्थध्यानलाभी निपुणो भवत्य् अप्रमादगामी
सर्वार्थसंविज्ञाने पटुः। अष्टोतेन
(?) वा नवोते न वेति
सारत्वाद् दंशमशकादीनाम् अगम्यतां दर्शयति। सशिरःपादक इति द्वाभ्यां दोषाभ्यां गम्यः
स्यात्
: वस्त्रतनुत्वान् नग्नप्रदेशत्वाद् वा;

तदुभयाभावं दर्शयति।
एवम् एव स तेन परिशुद्धेन चित्तेन स्फुटः सर्वेङ्जितानाम् अगम्यो भवति
; "क्षमो भवति शीतस्योष्णस्य
यावद् धक्काराणां पिक्काराणां परतो दुरुक्तानां शारीरिकाणां च वेदनानाम्।

 

(4.1.2.8.1.5) पञ्चमेऽपि दृष्टातन्तविशेषः।
प्रत्यवेक्षणानिमित्तम् एव साधु च सुष्ठु चेति पूर्वव्याख्यातम् एव वेदितव्यम्। त्रैयध्व्
[]कांश् च संस्कारान्

 

(p200)

 

प्रत्यवेक्षते, येन च प्रत्यवेक्षते, तद् अपि प्रत्यवेक्षत
इत्य् एष तत्र पिण्डार्थः।

 

(4.1.2.8.2.1) कतमोऽयम् आर्यः
समाधिः
? कथं पञ्चाङ्गिकं व्यवस्थानम्?

 

(4.1.2.8.2.2.1) य चतुर्षु ध्यानेष्व्
आर्याणां चित्तैकाग्रता प्रत्यवेक्षावस्थायां च
, अयम् आर्यः समाधिः।

 

(4.1.2.8.2.2.2) चतुर्णां दृष्टधर्मसुखविहाराधिकाराद्
अङ्गत्वव्यवस्थानम्। प्रतीत्यसमुत्पादप्रत्यवेक्षणाधिकाराद् अवशिष्टसंयोजनप्रहाणाय
पञ्चमस्याङ्गत्वव्यवस्थानम्। इति द्वाभ्यां कारणाभ्यां तद्व्यवस्थानं द्रष्टव्यम्।

 

(4.1.2.9.0) आर्यसम्यक्समाधिः
सोपनिषत् सपरिष्कारः कतमः
?

 

(4.1.2.9.1) तत्र कुशलानास्रवार्यतयार्यः।

 

(4.1.2.9.2) तस्य पञ्च मार्गाङ्गान्य्
उपनिषत्
: सम्यग्दृष्टिः सम्यक्संकल्पः

सम्यग्वाक् सम्यक्कर्मान्तः
सम्यगाजीवः। त्रयः परिष्काराश् च
: सम्यग्-

 

(p201)

 

दृष्टिः सम्यग्व्यायामः
सम्यक्स्मृतिश् च। तान्य् एतान्य् अभिसमस्योक्तानि भगवता
: सप्त मार्गाङ्गान्य्
आर्यस्य सम्यक्समाधेर् उपनिषद् अप्य् उच्यते
, परिष्कारा अपीति।
यथायोगं तु तानि वेदितव्यानि। तत्र पूर्वंगमानुपूर्वार्थेन

पञ्चानाम् उपनिषत्त्वम्, समाधिपरिष्कारार्थेन
त्रयः परिष्काराः।

 

(4.1.2.9.3) कथं सम्यग्दृष्टिः
पूर्वंगमा भवति
? सन्ति लोकेऽर्हन्तः सम्यग्गता इति ज्ञात्वा नैष्क्रम्ये च्छन्दम् उत्पादयति।
सम्यग्दृष्टिं प्रतिलभ्य ततः संकल्पयति नैष्क्रम्याय
: संबाधो गृहावास
इति विस्तरेण। ततः प्रव्रजितः शीलम् आजीवं च परिशोधयति। तेऽस्य भवन्ति सम्यग्वाक्कर्मान्ताजीवाः।

 

(4.1.2.9.4) तस्य चैषां सम्यग्दृष्ट्यादीनां
विपक्षिका मिथ्यादृष्ट्यादयः पञ्चाप्रहीणा भवन्ति। स एतान् एव पञ्च कुशलान् धर्मान्
निश्रित्य प्रतिष्ठाय परतो घोषान्वयाच् छ्रुतमयिं सम्यग्दृष्टिम् उत्पादयति तद्विपक्षिकधर्मप्रहाणाय
मार्गसंभारभूतां प्रत्यवेक्षणायोगेन
; श्रुतमयीं निश्रित्य
चिन्ताम-

 

(p202)

 

यीम्; चिन्तामयीं निश्रित्य
भावनामयीम् उत्पादयति। स तया सम्यग्दृष्ट्या मिथ्यादृष्टिं मिथ्यादृष्टितो यथाभूतं
प्रजानाति सम्यग्दृष्टिं च सम्यग्दृष्टितो यावत् सम्यगाजीवं परिज्ञाय मिथ्यादृष्ट्यादिप्रहाणायोत्साहं
जनयति

सम्यग्दृष्ट्याद्युपसंपदे
च।

 

येन च तद्विपक्षाणां
प्रहाणं तां चोपसंपदं तेषां धर्माणां समुदानयति
, सास्य भवति सम्यक्स्मृतिः।
सा च स्मृतिः समाधिभाग इति समाधिर् इत्य् उक्तरूपो भवति। यद् अन्तरा च मिथ्यादृष्ट्यादीन्
प्रजहाति सम्यग्दृष्ट्यादीन्

उपसंपादयति, तद् अन्तरा प्रयोगमार्गे
मिथ्याव्यायामस्मृति अपि प्रजहाति सम्यग्व्यायामस्मृती उपसंपादयति।

 

(4.1.2.9.5) तत्प्रहाणोपसंपत्समकालं
चार्यः सम्यक्समाधिः परिपूर्णो भवति।

 

(4.1.2.9.6) तत्र पूर्वंगमा
प्रज्ञधिशिले नियोजयति। यश् च परतो घोषान्वयो
[यो]न्[]शोमनस्कारो यच्
चाधिशीलं शिक्षा
, तद् उभयं निश्रित्य प्रयोगमार्गेऽधिचित्तम् अधिप्रज्ञं च शिक्षोत्पद्यते।
तत्र या सम्यक्स्मृतिः
, साधिचित्तं शिक्षा।

या सम्यग्दृष्टिः
सम्यग्व्यायामश् च
, साधिप्रज्ञं शिक्षा। तासां तिसृणां शिक्षाणाम् आर्यसम्यक्समाधिकाले परिपूरिः।

 

(p203)

 

(4.1.2.10) वज्रोपमः समाधिः
कतमः
? यः सर्वान्त्यः शैक्षः समाधिः। सोऽग्रत्वाच् छ्रेष्ठत्वात् सारत्वाद्
उपक्लेशानभिभवनीयत्वात् क्लेशानभिभवनीयत्वाच्
(??) च वज्रोपम इत्य्
उच्यते। तद्यथा वज्रं सारं सर्वमणीनाम्
, न च केनचिद् उपलिख्यते, सर्वांश् चोपलिखतीत्य्
एतद् अत्र

सारूप्यं वज्रेण।

 

(4.1.3.1.1) पञ्च दर्शनसमापत्तयः
कतमाः
? इह भिक्षुर् इमम् एव कायम् इति विस्तरेण यथासूत्रम्। दर्शनसमापन्नस्यैता
इति दर्शनसमापत्तयः। भावनाहेयविष्कम्भणप्रतिपक्षः प्रहाणप्रतिपक्षः प्रहाणप्रत्यवेक्षा
चेत्य् एतद् एतासां शरीरं समस्तं वेदितव्यम्।

 

(4.1.3.1.2) तत्र प्रथमयाशुभाप्रायोगिकं
स्मृत्युपस्थानं निश्रित्यान्तः कायस्याशुभतां

प्रत्यवेक्षते कामरागस्यासमुदाचाराय।
द्वितीयया तद् एव निश्रि-

 

(p204)

 

त्य यावदस्थिपुरुषप्रत्यवेक्षया
बहिः कायस्याशुभतां  प्रत्यवेक्षते तस्यैवासमुदाचाराय।
इयता ए सर्वाशुभा प्रत्यवेक्षिता भवति।

 

तत्राविध्याविध्येति
विनीलकादिपरीक्षाप्रकारानुपूर्व्यातिक्रम्येत्य् अर्थः। पूर्विकयाशुभयान्तः कायस्य
स्थितां वर्तमानाम् अशुभतां प्रत्यवेक्षते
, पश्चिमया

धर्मतां प्रतिविध्यति: अयम् अपि काय एवंधर्मैवंभागीति(?) विस्तरः।

 

(4.1.3.1.3) विज्ञानस्रोतः
प्रत्यवेक्षत इति तस्योदयव्ययप्रत्यवेक्षणात्। जन्मपरंपराप्रतिसंह्धितश्

च संस्कारप्रत्ययं
विज्ञानं प्रत्यवेक्षते
, क्षणपरंपराप्रतिसंधितश् च सरागं वीतरागम् इत्य् एवमादिप्रकारम् तेषां
तेषां रात्रिदिवसानाम् अत्ययात् तेषां तेषां क्षणलवमुहूर्तानाम् अनेकविधं

बहुनानाप्रकारम्
अन्यद् एवोत्पद्यतेऽन्यन् निरुध्यत इति प्रत्यवेक्षते।

 

(4.1.3.1.4) तत्रावीतरागः शैक्ष
उभयलोकप्रतिष्ठितं प्रत्यवेक्षते
, वीतरागः परलोकत एव, अर्हन् न क्वचित्।
इयम् एषां प्रहाणप्रत्यवेक्षा।

 

(4.1.3.2) अभिभ्वायतनकृत्स्नायतनसमापत्तयः
पूर्वोक्ताः।

 

(4.1.3.3.1) असंज्ञासमापत्तिः
शुभकृत्स्नवीतरागस्योपर्य् अवीतरागस्य निःसरणसंज्ञापूर्वकेण मनस्कारेण चित्तचैतसिकानां
धर्माणां निरोधः।

 

(p205)

 

(4.1.3.3.2) तं पुनः कथं समापद्यते? "संज्ञा रोगः, संज्ञा गण्डः,

संज्ञा शल्यः" इति चतुर्थध्यानसमापन्नः
संज्ञाविमुखं मनस्कारं भावयति
, उत्पन्नोत्पन्नानां संज्ञानां वैमुख्येनावतिष्ठते।
"एतच् छान्तम्,

एतत् प्रणीतम्, यदुतासंज्ञिकम्" इत्य् आसंज्ञिके
चित्तं प्रदधाति। एवं क्रमेण सर्वालम्बनविवेकाच् चित्तं निरुध्यते।

 

(4.1.3.3.3) इह चोपपन्नः समापद्यते
ए व्युत्तिष्ठते च्
[][]त्रोप पन्नः समापन्न एव भवति; संज्ञोत्पादाच्
चैषां तस्मात् स्थानाच् च्युतिर् भवति।

 

(4.1.3.4.1) निरोधसमापत्तिः
कतम
? आकिंचन्यायतनवीतरागस्य विहारसंज्ञा

पूर्वकेण मनसिकारेण
चित्तचैतसिकानां धर्माणां निरोधः।

 

(4.1.3.4.2) तां पुनः कथं समापद्यते? आकिंचन्यायतनवीतरागस्य
नैवसंज्ञानासंज्ञायतननिमित्तसमापन्नो वा निरोधानिमित्तसमापन्नो वा तत्र नैवसंज्ञानासंज्ञायतनसमापन्नस्य
तदूर्ध्वं चित्तम् अध्युपेक्षमाणस्य नैवसंज्ञानासंज्ञायतनोच्चलितम् आलम्बनसंनिरुद्धं
चित्तं

निरुध्यते। एवं
निरोधानिमित्तसमापन्नस्य।

 

(4.1.3.4.3.1) निरोधं समापद्यमानस्य
द्वौ धर्मौ बहुकरौ भवतः शमथो विपश्यना च। तत्र कतमः शमथः
? कतमा विपश्यना?

कथम् एताव् एव बहुकरौ
भवतः
? शमथोऽस्मिन्न् अर्थे ऽष्टाव् अनुपूर्वसमापत्तयः, विपश्यनार्या प्रज्ञा।
तदेकतरवैकल्यान् न समापत्तिः। उभौ भूत्वा बहुकरौ भवतः।

 

(p206)

 

(4.1.3.4.3.2) निरोधं समापद्यमानस्य
कथम् अनुपूर्वेण त्रयः संस्कारा निरुध्यन्ते
? द्वयम् इदम्: चारो विहारश् च।
तत्र चारे वर्तमानः कथाम् अपि करोति। तत्र प्रथमस्य ध्यानस्य व्यापारो वाक्संस्कारसद्भावात्।
यदा तु विहारम् आरभते
, तदा तेषां द्वितीयाद् ध्यानात् प्रभृत्य् अनुपूर्वसमापत्तेर् अनुपूर्वनिरोधः।
एवं व्युत्थानेऽपि प्रतिलोमम् उत्पत्तिर् द्रष्टव्या।

 

(4.1.3.4.3.3) निरोधं समापन्नस्य
चित्तचैतसिका निरुद्धा भवन्ति। कथं विज्ञानं कायाद् अनपक्रान्तं भवति
? तस्य हि रूपिष्व्
इन्द्रियेष्व् अपरिणतेषु प्रवृत्तिविज्ञानबीजपरिगृहीतम् आलयविज्ञानम् अनुपरतं भवत्य्
आयत्यां तदुत्पत्तिधर्मतायै।

 

(4.1.3.4.3.4) कथं निरोधं समापद्यमानस्य
नैवं भवति
: "अहं निरोधं समापद्ये" वा "व्युत्तिष्ठे" वा? समापत्तिकाले निरभिसंस्कारेण

चित्तनिरोधात्, व्युत्थानकाले
पूर्वनिरुद्धत्वाच् चित्तस्य। कथं पूर्वम् अनेन तच् चित्तं परिष्कृतं भवति
? तेन यैर् आकारलिङ्गनिमित्तैस्
तत्र समा-

 

(p207)

 

पत्तिर् व्युत्थानं
चासेवितं भवति बहुलीकृतम्
, तेषां भावितत्वात् स्वरसेन समापद्यते व्युत्तिष्ठते च।

 

(4.1.3.4.3.5) कथं निरोधाद् व्युत्थितस्
त्रीन् स्पर्शान् स्पृषति
: आनिञ्ज्यम् आकिंचन्यम् आनिमित्तम्? यद्भूयसा तस्याः
समापत्तेर् व्युत्तिष्ठमानस् त्रिविधेनालम्बनेन व्युत्तिष्ठते
: भवालम्बनेन विषयालम्बनेन
निरोधालम्बनेन च
; तैश् च व्युत्तिष्ठमानो यथाक्रमम् एव त्रीन् स्पर्शान् स्पृशति। तत्र
भवालम्बनेन व्युत्तिष्ठमानस्य न भवति चेतस इञ्जितत्वम्
: अस्मीत्य् अयम्
अहम् अस्मीति वा भविष्यामीति वेति विस्तरः। अत आनिज्यं स्पर्शं स्पृशतीत्य् उच्यते।
विषया

लम्बनेन व्युत्तिष्ठमानस्य
न रागकिंचनं भवति
, न द्वेषकिंचनं भवति, न मोहकिंचनम्।
तस्माद् आकिंचन्यं स्पर्शं स्पृशतीत्य् उच्यते। निरोधालम्बनेन

व्युत्तिष्ठमा[नः स] र्वनिमित्तानाम्
अमनसिकाराद् अनिमित्तं धातुम् आलम्बते। तस्माद् अनिमित्तं स्पर्शं स्पृशतीत्य् उच्यते।

 

(4.1._) उक्ता ध्यानविमोक्षसमाधिसमापत्तयः।

 

(4.2.1) यद् उक्तं भगवता
प्रतिसंलयनाय भिक्षवो योगम् आपद्यध्वम्
(?) अध्यात्मं चेतःशमथायेति, तत्र यद् विविक्तानि
शयनासनान्य्

 

(p208)

 

अध्यावसत्य् अरण्यगतो
वा यावन् निषीदति विस्तरेण प्रतिमुखं स्मृतिम् उपस्थाप्य
, इदं प्रतिसंलयनम्; स चायं कायव्यवकर्षः।
अध्यात्मं नवाकारा चित्तस्थितिर् अध्यात्मं चेतःशमथः
; सोऽयं चित्तव्यवकर्षः।
तत्र

प्रतिसंलयनम् अध्यात्मं
चेतःशमथम् आवहति
, अध्यात्मं चेतःशमथः पुनर् विपश्यनाम्। विपश्यना कृतपरिजयस्य धर्मेषु
यथाभूतसंप्रख्यानम् आवहति।

 

(4.2.2.1) यद् उक्तं भगवता
समाधिं भिक्षवो भावयत
, अप्रमाणाम्,

निपकाः प्रतिस्मृता
इति
, तत्र समाधिं भावयतेत्य् उद्देशं कृत्वा तस्य त्रिप्रकारभावनां दर्शयति।
तत्रप्रमाणम् इति चत्वार्य् अप्रमाणानि। निपका

इति नित्यकारिता
निपुणकारिता च नैपक्यम् इत्य् उच्यते। प्रतिस्मृता इति चतुःस्मृत्युपस्थानोपस्थितचित्ततां

परिदीपयति।

 

(4.2.2.2) कस्मात् त्रिविधो
भावनोपदेशः
? द्ये इमे संपदौ: लौकिकी लोकोत्तरा च। तत्राप्रमाणभावना ईकिकीम्
आवहति
, प्रतिस्मृतता लोकोत्तराम्, नैपक्यं पुनर्
उभयोः क्षिप्राभिज्ञताम्
; अत एव तन् मध्ये [ऽन]योर्(?) उपदिष्टम्; एतावच् च त्रयम्
उपदेष्टव्यम्। पुनर् अप्रमाणम् इति शमथमार्गं परिदीपयति
, प्रतिस्मृता इति
विपश्यनामार्गम्
, निपका इति तयोः क्षिप्रसमुदागम्[अम्]आर्गम्।

पुनः पुण्यगामिनीं
प्रतिपदं निर्वाणगामिनीं
[प्रज्ति]पदं तयोश् च क्षिप्रसंपत्तिगामिनीं प्रतिपदं परिदीपयति। पूर्वं शमथे कृतपरिजयस्योत्तरकालं

विपश्यनासहगतं समाधिं
भावयतो यथाभूतं

ज्ञेयं संख्यायते(??)

 

(p209)

 

(4.2.3.0) यद् उक्तं भगवता
: अस्ति ध्यायी समाधिकुशलो न समापत्तिकुशल इति विस्तरेण सूत्रोद्दानगाथा।

 

(4.2.3.1.1) कथं समाधिकुशलो
भवति
? शून्यतादिसमाधि[त्र]ये कुशलत्वात्।

कथं न समापत्तिकुशलः? अभिभ्वायतनकृत्स्नायतननिरोधसमापत्त्यकुशलत्वात्।

कथं समापत्तिकुशलो
भवति न समाधिकुशलः
? दशानां कृत्स्नायतनसमापत्तीनां कुशलो भवति समापत्तये व्युत्थानाय वासंज्ञासमापत्तेश्
, न तु त्रयाणां समाधीनाम्। उभयोः कुशलत्वाद् उभयकुशलः,

नोभयोः कुशलत्वान्
नोभयकुशलः। एवम् एता यथोक्ताः समाधि समापत्तयः
, यत्र यो युज्यते, तथ(?) योजयितव्याः।

 

(p210)

 

(4.2.3.1.2) पुनर् आह: समाधिकुशलो भवति।  समाधिं नामपदव्यञ्जनशो जानीते, नो तु तान्य् आकारलिङ्गनिमित्तानि
तस्याः समापत्तेः
, यैः समापदनं

भवति। कथं समापत्तिकुशलो
भवति न समाधिकुशलः
? यथापीहैकत्य एकत्यस्य समाधेर् आकारलिङ्गनिमित्तानि जानीते, यैः समापद्यते, तथा समापन्नश्

च तं समाधिं नामपदव्यञ्जनशो
न जानीते
: "इमं चेमं चाहं समाधिं समापन्नः" इति। सन्ति च तानि
समाधिशतानि सहस्राणि च
, यानि बोधिसत्त्वः

समापद्यते, न च तेषां नामपदव्यञ्जनकायाङ्
जानीते
: "इमं चेमं चाहं समाधिं समापन्नः" इति, यावन् न बुद्धात्
परमपारमिप्राप्ते
[भ्]यो

वा बोधिसत्त्वेभ्यः
शृणोति स्वयं वा पारमिप्राप्तो
(?) भवति।

 

(4.2.3.2) स्थितिः कतमा? यैर् आकारलिङ्गनिमित्तैः
समापद्यते
, तानि सूद्गृहीतानि भवन्ति। तेषां सूद्गृहीतत्वाद् यावद् आकाङ्क्षति तावत्
समापन्नस् तिष्ठति
, न च तस्मात् समाधेः परिहीयते। इति यः समापन्नस्य विहारः, य चापरिहाणिः, इयं

द्विविधा स्थितिः।

 

(4.2.3.3.1) व्युत्थानं कतमत्? यथापीहैकत्यो यैर्
आकारलिङ्गनिमित्तैः समापद्यते
, तान्य् अमनसिकृत्यासमाहितभूमिकं विकल्पशरीरासंगृहीतं

समाहितभूमिविसभागं
धर्मं मनसिकरोति।

 

(p211)

 

(4.2.3.3.2.1) स तस्मात् समाधेर्
व्युत्तिष्ठत इतिकरणीयहेतोर् वावश्यकरणीयहेतोर् वाभ्युपगमकरणीयहेतोर् वा। तत्रेतिकरणीयं
तद्यथा चीवरपात्रपरिष्कारकर्म। तत्रावश्यकरणीयम् उच्चारप्रस्रावपिण्डपातादिचर्या गुरूपस्थानं
च। तत्राभ्युपगमकरणियं यथापि कस्यचित् प्रतिज्ञातं भवति। स परस्मा
(?) अभ्युपगमेन क्वचिद्
व्याप्रियते।

 

(4.2.3.3.2.2) समापत्त्यन्तरं
वा पुनः समापत्तुकामो भवति
, ततो व्युत्तिष्ठते।

(4.2.3.4.1) तत्र कतम आकाराः? यथालम्बनम् आकारयन्
समापद्यत औदारिकशान्तरोगगण्डशल्यानित्याद्याकारा इति तत्र तत्र
(?) समाधौ य आकाराः।

 

(4.2.3.4.2) लिङ्गानि कतमानि? यदासन्नसमापन्नो(?) भवति समापत्तेः, तदा

तस्य समापत्तिलिङ्गान्य्
उत्पद्यन्ते
, यैर् असौ जानाति: "न चिराद् अहम् एवंर्[]पं चैवंरूपां च
समापत्तिं समापत्स्ये वा समापद्ये वा
" इति। योऽप्य् अस्याचार्यो
भवति
, सोऽपि तैर् जानाति: "न चिराद् अयम् एवंरूपां
चैवंरूपां च समापत्तिं समापत्स्यते
" इति।

 

(p212)

 

(4.2.3.4.3.1) निमित्तानि कतमानि? द्वे निमित्ते: आलम्बननिमित्तं
निदाननिमित्तं च।

 

(4.2.3.4.3.2.1) तत्रालम्बननिमित्तं
विकल्पशरीरम्
, येनालम्बनेन समापद्यते।

 

(4.2.3.4.3.2.2) निदाननिमित्तं
येन समाधिसंभारेण समापद्यते
, तद्यथानुलोमिक उपदेशः, समाधिसंभारोपचयः, भावनासहगतश् छन्दः, संविग्नचित्तता, विक्षेपाविक्षेपपरिज्ञावधानम्, परतश् चासंघट्टो
मनुष्याद् वामनुष्याद् वा शब्दकृतो वा व्यापारकृतो वा।

 

(4.2.3.5.1) कल्यता कतमा? सचेद् अस्य समाधिः
संस्काराभिनिगृहीतो भवति वारिवद् धृतो न
(?) धर्मताभिनिगृहीतो
न शान्तो न प्रणीतो न प्रतिप्रस्रब्धलब्धमार्गो न चेतस एकोतीभावाधिगतः
, नास्य समाधिः कयो
भवति यथासुखविहाराय। विपर्ययात् कल्यो भवति।

 

(4.2.3.5.2) कथं संस्काराभिनिगृहीतो
भवति
? प्रणिधानसहगतया चेतनया बहिर्धा चित्तं निगृह्य तस्मिन् समाधौ समवदधाति; स चास्य मनस्कारस्

तथाभूतस्य साभोगवाहनो
भवति। यथा बहिर्धा प्रसरं न ददति
,

एवं वारिवद् धृतो
भवति। कथं धर्मताभिनिगृहीतो भवति
? अधस्ताद्

औदारिकधर्मता दृष्टा
भवति
, उपरिष्टाच् छान्तधर्मता। शान्तः प्रणीतः प्रति-

 

(p213)

 

प्रस्रब्धलब्धमार्गश्
चे
[]स एकोतिभावाधिगतो यथार्यः पञ्चज्ञानिकः

समाधिः।

 

(4.2.3.6) गोचरः कतमः? यः समाधेर् विषयः, यस्मात् परेण समापन्नो

न जानीते, तद्यथा प्रथ[]ध्यानसमापन्नो द्वितीयं
ध्यानं न पश्यति। एवम् इन्द्रियपुद्गलातिक्रान्तम् अपि न जानीते।

 

(4.2.3.7) अभिनिर्हारः कतमः? विशालपदव्यञ्जनार्थाभिसङ्क्षेपो
वैशेषिकगुणाभिनिष्पादनं च।

 

(4.2.3.8.1) समाधिसांप्रेयं
कतमत्
? तद्यथा ह्र्यपत्राप्यं प्रेमगौरवं श्रद्धा योनिशोमनस्कारः स्मृतिसंप्रजन्यं
इन्द्रियसंवरः शिलसंवरोऽविप्रति
[]रादयश् च यावत्
सुखपर्यवसानाः
; यथा(?) सुखितस्य

चित्तं समाधीयते।

 

(p214)

 

(4.2.3.8.2) विपर्ययाद् असांप्रेयं
वेदितव्यम्।

 

(4.2.3.8.3) सांप्रेयासांप्रेयं
यथापि तद् एषां ह्र्यपत्राप्यादीनां केनचित् समन्वागतो भवति केनचिद् असमन्वागतः
: ह्रीमान् भवत्य्
अपत्रापी
, नो तु

प्रेमगौरवेण युक्त
इति विस्तरः।

 

(4.2.3.9.1) आयः कतमः? प्रतिलब्धस्य समाधेर्
वृद्धिः।

 

(4.2.3.9.2) अपायः कतमः? या समाधेर् हानिः।

 

(4.2.3.9.3) उपायः कतमः? यस् तदुभयगामी
मार्गः।

 

(4.2.3.10) शमथः प्रग्रह उपेक्ष
यथा शमथादिनिमित्तेषूक्तास् तथैव वेदितव्याः।

 

(4.2.4.0) अस्ति ध्यायी संपत्तिम्
एव समानां विपत्तिं प्रत्येति विस्तरेण चतुस्परिवर्तध्यायिविभङ्गसूत्रम्।

 

तत्र द्वयोः कालयोर्
विपर्यासः परिज्ञेयः
: हीयमाने च समाधौ विशेषगमने च। तत्र हानिगामी मार्गो हानिश् च विपत्तिः; विशेषगामी मार्गो
विशेषगमनं च संपत्तिः।

 

(4.2.4.1.1) कथम् अस्य भवति: "हीयते मे विवेकजं
प्रीतिसुखम्
, परिहीयते मे समाधिः " इति? इह ध्यायिनो भावनान्वयात्
तच् चित्तं शान्तप्रवणम्। इत्य्

उपेक्षानुगतत्वात्
प्रथमध्यानाद् द्वितीयध्यानसामन्तकं प्रविशति। स च

 

(p215)

 

तस्याकुशलो भवति।
स तस्याम् अवस्थायां प्रथमध्यानभूमिकं च

प्रीतिसुखं समतिक्रान्तो
भवति द्वितीयध्यानभूमिकं चासंप्राप्तः। तस्यैवं भवति
: "हीयते मे विवेकजं
प्रीतिसुखम्
"। तच् चित्तं तस्मात् प्रतिसंहरति।

तेन ध्यायिना स
विपर्यासस् तत्र परिज्ञातव्यः।

 

(4.2.4.1.2) कथं हीयमाने समाधौ
विपर्यासः परिज्ञातव्यः
? इहैकत्यो लाभी भवति प्रथमध्यानसमापत्तेर् निर्वाणम् आरभ्य संभृतसंभारश्
च भवति। स
(?) तां निर्वाणे परिपूर्णसंभारताम् आगम्य तेन हेतुना तेन

प्रत्ययेन तदावेधात्
स्वरसेन चास्यैवंरूपाः संज्ञामनसिकाराः समुदाचरन्ति
, यैः संज्ञामनसिकारैर्
यत् तत्र भवति रूपगतं वा यावद् विज्ञानगतं वा
, तद् अस्य रोगतः
ख्याति यावद् अनात्मतः ख्याति। तं च सं ज्ञामनसिकारम्

आगम्यास्य तदनन्तरं
तल् लौकिकसमापत्तिजं प्रीतिसुखं न समुदाचरति
, येन त्व् अस्यैवं
भवति
: "परिहीयते मे समापत्तिजो' नुग्रहः साश्रयः" इति।

 

(p216)

 

तस्माच् च मानसं
व्यावर्तयति। एवं हि ध्यायिना हीयमाने समाधौ विपर्यासः परिज्ञद्तव्यः।

(4.2.4.1.3) कथं हीयमाने समाधाव्
अविपर्यासः परिज्ञातव्यः
? इहैकत्यः

प्रथमध्यानसमापत्त्या
संतुष्टो भवति नोत्तरि व्यायच्छते तां चास्वादयति। स तस्य भवति कामसहगतः संज्ञामनसिकारः
, कामधातोर् आसन्नसमापन्नो
येन परिहीयते। सास्य विपत्तिः
; तां च विपत्तितः प्रत्येति। तत्र

तेनाविपर्यासः परिज्ञातव्यः।
पुनस् तया ध्यानसमापत्त्यात्मानम् उत्कर्षयति

परान् पंसयति: "अहम् अस्मि लाभी
ध्यानसमापत्तेः
, अन्ये न तथा" इति। सोऽस्य भवति कामसहगतः संज्ञामनसिकारः; यतश् च तत्पर्यवस्थानं
विवर्धयति घनीकरोति
, स तस्मात् समाधेः परिहीयते। सा चास्य विपत्तिः; तां च

विपत्तितः प्रत्येति।
पुनर् लाभी भवति ध्यानसमापत्तेः
; तेन चास्य परे संभा वयन्ति राजानो वा राजमहामात्रा
वा
, ते चैनं सत्कुर्वन्ति। स तस्मात् समाधेर्

व्युत्थितस् तत्प्रतिसंयुक्तम्
अनुवितर्कयति। सोऽस्य भवति कामसहगतः संज्ञामनसिकारः
; यतश् च तत्पर्यवस्थानं
विवर्धयति पूर्ववत्। एवं हि ध्यायिना हीयमाने समाधाव् अविपर्यासः परिज्ञातव्यः।

 

(4.2.4.1.4) द्वितीयः पुनर्
अविपर्यासः प्रथमविपर्यासविपर्ययेण वेदितव्यः।

 

(p217)

 

(4.2.4.2) (?) त एते भवन्ति विपर्यासाविपर्यासाधिष्ठाने
चत्वारः परिवर्ताः।

 

(4.2.5.0) चतुर्व्यवचारो
ध्यायी चतुर्भिर् आकारैः समाधिं व्यवचारयति
: " अयं समाधिर् हानिभागीयो
यावन् निर्वेधभागीयः
" इति। कथं पुनर् व्यवचारयति?

"अयं हीनः, अयं श्रेयान्, अयं श्रेयस्तरः, अयं श्रेयस्तमः" इति यथाक्रमम्।
कथं पुनः कृत्वा
?

(4,2.5.1) इहायं ध्यायी प्रथमाद्
ध्यानाद् व्युत्थितस् तद् ध्यानं न तावत् समापत्तुकामो भवति। स तान्य् आकारलिङ्गनिमित्तानि
न मनसिकरोति
, कामसहगताश्

च संज्ञामनसिकाराः
समुदाचरन्ति यथोक्ताः
; व्युत्थितस्यापि चानुस्मरणास्वादना भवति। तस्मिन् समये ध्यायिना समाधेर्
हीनता व्यवचारयितव्या।

 

(p218)

 

(4.2.5.2) पुनर् अपरं ध्यायी
व्युत्थितः प्रथमध्यानानुलोमिकीं धर्मदेशनां

लभते।

स च ये प्रथमस्य
ध्यानस्याकारादयः
, तेषां साधु च सुष्ठु च निमित्तं सूद्गृहीतं करोति, यथास्य प्रतिलब्धस्य
ध्यानस्य स्थितिर् भवत्य् असंप्रमोषयोगेन। इयं तदनुधर्मा स्मृतिः स्थितिभागीया। तस्मिन्

समये वेदितव्यम्: "अयं मे समाधिः श्रेयान्, तिष्ठति मे समाधिः, न हीयते, न विशेषाय, न निर्वेधाय परैति"

 

(4.2.5.3) पुनर् अपरं ध्यायी
व्युत्थितो लभते द्वितीयध्यानानुलोमां धर्मदेशनाम्। तस्य तां श्रुत्वा द्वितीयध्यानसमापत्तिमार्गसहगताः
संज्ञामनसिकाराः समुदाचरन्ति। स तस्मिन् समये व्यवचारयति
: "अयं मे

समाधिः श्रेयस्तरः, न हानाय, न स्थितये, अपि तु विशेषाय, न निर्वेधाय परैति" इति।

 

(4.2.5.4) पुनर् अयं व्युत्थितो
दुःखादिसत्यप्रतिसंयुक्तां धर्मदेशनां शृणोति। तस्य तां श्रुत्वा दुःखादिसत्यसहगताः
संज्ञामनसिकाराः समुदाचरन्ति

 

(p219)

 

निर्वेधभागीयाः।
स तस्मिन् समये व्यवचारयति
: "अयं मे समाधिः श्रेयस्तमः, न हानाय, न स्थितये, न विशेषाय, अपि तु निर्वेधाय
परैति
"

 

(4.2.6) यद् उक्तम्: चक्षुश् च भवति
रूपाणि च यावन् मनश् च धर्माश् च
, अथ च पुनर् भिक्षुर् इमान् धर्मान् सतः
संविद्यमानान् न प्रतिसंवेदयति। संज्ञि तावन् न प्रतिसंवेदयते
, प्राग् एवासंज्ञीति।

कथं पुनः कृत्वा?

 

इह भिक्षुः प्रथमं
ध्यानम् उपसंपद्य विहरति। तेन च चक्षुर् यावद् धर्मा विदूषणाभिभवेनाभिभूता
(?) भवन्ति। स न चक्षुषि
चक्षुःसंज्ञी

 

(p220)

 

भवति, संज्ञी च भवति, यावन् न धर्मेषु
धर्मसंज्ञी भवति
, संज्ञी च भवति। कथं संज्ङी भवति? चक्षुरादीनि दुःखतो
मनसिकरोति समुदयतो वा रोगादितो वा। स तान् धर्मान् स्वलक्षणेन न प्रतिसंवेदयते। एवं
यावद् आकिंचन्यायतनात्। अयं चानास्रवो मनस्कारः।

 

कथम् असंज्ञी न
प्रतिसंवेदयते
? सर्वनिमित्तानाम् अमनसिकारान् निरोधं शान्ततो मनसिकरोति। या सर्वनिमित्तापगता
संज्ञा
, सैवात्रासंज्ञाभिप्रेता, या च निरोधसमापन्नस्य
सर्वेण सर्वं संज्ञानाम् अप्रवृत्तिः।

 

(4.2.7.0) चत्वारो मार्गोद्देशाः।

 

(4.2.7.1.1) कथं तथानिषण्णो
धर्मान् विचिनोति प्रविचिनोति
? इह भिक्षुर्

लाभी भवति प्रथमध्यानादीनाम्
अदृष्टत्यश् च भवति। तेन च सद्धर्मश्रवणबाहुश्रुत्याभ्यां

कृतं(?) भवति। सोऽभिनिषीदन्न्
एव तं समाधिं

निश्रित्य दुःखादिसत्याभिसमयं
करोति। सोऽधिचित्तं निश्रित्याधिप्रज्ञे योगं करोति।

 

(p221)

 

(4.2.7.1.2) पुनर् अपरं दुःखं
यथाभूतं प्रजानाति यावन् मार्गम्
; नो तु

लाभी भवति प्रथमध्यानादीनाम्(?)। सोऽभिनिसीदन्न्
एव धर्मान् विचिनोति।
[स त]द् एवाधिप्रज्ञां निशृत्याधिचित्ते योगं करोति।

(4.2.7.1.3) तृतीया उभयोर्
लाभी भवति। तस्य शमथविपश्यने उभे मिश्रीभूते समयुगं वर्तेते।

 

(4.2.7.1.4) चतुर्थः पूर्वम्
एव लाभी भवति
(?) प्रथमध्यानदीनां; न त्व् अनेन सद्ध[र्मश्र]वणेन कृतं(?) भवति न बाहुश्रुत्येन।
स शास्तुर् अन्तिकाद् अन्यतमस्य वा गुरोर् धर्मं शृणोति सत्यानि वाधिकृत्यावशिष्टसंयोजनप्रहाणं
वा। सत्यानि वाभिसमेत्य् अर्हत्त्वं वा प्राप्नोति। सोऽधिगच्छति प्रीतिप्रामोद्यम्
उदारं क्
[]शलं नैष्क्रम्योपसंहितम्। स तेन धर्मौद्धत्याभिनिगृहीतेन चेतसा निषीदति; तथानिषण्णश् च
तच् चित्तं स्थापयति ध्यानसमापत्तिविहारतः।

 

(p222)

 

(4.2.7.2) तत्र प्रथमो मार्गोद्देशो
दर्शनमार्गाभिनिर्हारम् आरभ्य
,

द्वितीयतृतीयो भावनामार्गाभिनिर्हारम्
आरभ्य
, चतुर्थ उभयाभिनिर्हारम् आरभ्य।

 

(4.2.8.0) चत्वारि विशुद्धिप्रधानानि
विशुद्धये प्रधानानीति कृत्वा। कतमा विशुद्धिः
? कतमत् प्रधानम्? येषां शीलादीनां
प्रतिलब्धाधिगताभिनिर्हृतानां परिपूरिः
, यश् चानुग्रहः, इयं विशुद्धिः।
येन वीर्यारम्भेणापरिपूर्णं परिपूरयति
, तत् प्रधानम्।

 

(4.2.8.1) कतमा शीलपरिपूरिः
कतमोऽनुग्रहः
? इहैकत्यः शीलवान् विहरति प्रातिमोक्षसंवरसंवृतः, न त्व् आचारगोचरसंपन्नः, नाणुमात्रेष्व्
अवद्येषु

भयदर्शी। तस्य तच्
छीलम् अपरिपूर्णं भवति। यदा पुनः सर्वम् एतद् भवति
, तदा परिपूर्णं
भवति। इयं शीलपरिपूरिः। यास्य दीर्घकालाभ्यासाद् इन्द्रियैर् गुप्तद्वारस्य विहरतो
विस्तरेण यावत् तस्मिञ् शीले तन्मयता तत्प्रकृत्यवस्थायिता
, अयम् अनुग्रहः।

 

(4.2.8.2) समाधेः परिपूरिः: प्रयोगनिष्ठाफलं
यदि प्राप्नोति चतुर्थे वा ध्याने
, परिपूरिः। अर्वाग्
अपरिपूर्णो भवति। अनुग्रहः कतमः
? लब्धस्य समाधेर् योत्तरत्र परिशुद्धिः: न चास्य समाधिः
संस्काराभिनिगृहीतो
(?) भवतीति विस्तरः।

 

(4.2.8.3) कतमा दृष्टिपरिपूरिः? कतमोऽनुग्रहः? परतो घोषान्वयाद्
योनिशोमनसिकाराच् चोत्पद्यते सम्यग्दृष्टिः। तया दुःखं प्रजानाति यावन् मार्गम्
, नो तु यथाभूतम्; न तावत् परिपूर्णा
भवति सम्यग्दृष्टिः। यदा तु यथाभूतं

 

(p223)

 

प्रजानाति, तदा परिपूर्णा
भवति। अनुग्रहः पुनः
: सोऽपरेण समयेनास्रवाणां क्षयाद् इति विस्तरः।

 

(4.2.8.4) का विमुक्तेः परिपूरिः? कोऽनुग्रहः?[शै]क्षेण ज्ञानदर्शनेन
रागादिभ्यो विमुक्तिः
, सापरिपूर्णा। याशैक्षेण, सा परिपूर्णा।
अनुग्रहः। पुनः
: यथास्य चरतो यथा विहरतस् तस्माद् दृष्टधर्मसुखविहारान् न परिहाणिर् भवति।

 

(4.2.9.0) चेतोविशुद्धिप्रत्ल्पन्नकेन
भिक्षुणा कालेन कालं पञ्च निमित्तानि

मनसिकर्तव्यानीति
सूत्रम्। अधिचित्तं प्रयुक्तश् चेतोविशुद्धिप्रतिपन्नकः। तस्याकुशलाः कामादिवितर्काश्
[ज्न]त्यादिवितर्काश् चान्तराया भवन्ति।

स च त्रिविधः पुद्गलो
मृदुमध्याधिमात्रवितर्कचरितभेदात्।

 

(4.2.9.1.1) प्रथमस्यान्यनिमित्तमनसिकारात्
तद्वितर्कासमुदाचारो भवति।

 

(4.2.9.1.2) द्वितीयस्य वितर्कादीनवदर्शनाद्
अस्मृत्यमनसिकाराद् वा। कथम् अस्मृत्यमनसिकारं करोति
? अध्यात्मचित्तस्थापनादिभिः।

 

(4.2.9.1.3) तृतीयस्य पुद्गलस्य
नैव सर्वेण सर्वं प्रथमतो भवत्य् असमुदाचारः। तेन शनैर् वितर्कसंस्कारस्रंसनं
(??) कर्तव्यं यथौदारिकप्रशमनात्
क्रमेण विष्कम्भणार्थम्। तेना
[प्य् अशक्नुवन्(?) वि-

 

(p224)

 

तर्कमार्गेषु (?) वितर्कालम्]बनेषु चित्तम् उद्वेजयत्य्
उत्त्रासयति। उद्वेज्य संवेगसहगतेन चित्तेन तद्बहुलमनसिकारतया तद् वितर्कसहगतं चित्तं
संतापयत्य् अभिनिगृह्णाति।

 

(4.2.9.2) त एते त्रयाणां
पुद्गलानां पञ्चकारा भवन्ति।

 

(4.2.10.0) यद् उक्तं भगवता
पांसुधावकसूत्रे जातरूपविशुद्धिसाधर्म्येण चित्तविशोधनम्
, तत् कथं द्रष्टव्यम्?

 

(4.2.10.1.1) त्रिविधा हि जातरूपविशुद्धिः: उपक्लेशविशुद्धिः
संग्रहविशुद्धिः कर्मण्यताविशुद्धिश् च।

 

(4.2.10.1.2) तत्रोपक्लेशविशुद्धिर्
गोत्रस्थस्य जातरूपस्यौदारिकमध्यसूक्ष्मोपक्लेशापनयाद्

यावच् छुद्धा एव
सुवर्णसिकता अवशिष्टा भवन्तीति। तत्र

संग्रहविशुद्धिः
या तासां एवावर्तनसंवर्तनात्। तत्र कर्मण्यताविशुद्धिः संवर्तितस्य प्रभङ्गुरतादिदोषविशोधनात्।

 

(4.2.10.2.1) तत्र यथा जातरूपं
गोत्रस्थम्
, एवं गोत्रस्थश् चेतोविशुद्धिप्रतिपन्नको द्रष्टव्यः, यो भव्यः परिनिर्वाणायाभिनिर्विदे।
स पुनः कुत उपादाय चेतोविशुद्धिप्रतिपन्नकः
? यत उपादाय श्रद्धां
प्रतिलभते
, यया निष्क्रामति।

 

(4.2.10.2.2.0) तस्यागारिकावस्थायां
नैष्क्रम्यावस्थायां च त्रय उपक्लेशा भवन्ति
: औदारिकादयः।

 

(p225)

 

(4.2.10.2.2.1) तत्र द्वाव् आगारिकस्य
नैष्क्रम्यविबन्धं कुर्वतः
: कर्मान्ताश् चाकुशलाः, यत् कायवाग्दुश्चरितं
रतिस्थानीयम्
, दृष्टिश् च पापिका: न सन्ति लोकेऽर्हन्तः सम्यग्गता इति। सेयं
श्रद्धाप्रतिलम्भात् पूर्वं तदन्तरायकरी।

 

(4.2.10.2.2.2) कामादिवितर्का
निष्क्रान्तस्याभिरतिविबन्धाः।

 

(4.2.10.2.2.3) [ज्ञा]त्यादिवितर्का अभिरतस्य
कुशलधर्मभावनासातत्याय विबन्धाः। तेषां प्रहाणात् कुशलधर्मभावनासातत्यसंपादनाच् छुद्धं
चित्तं

भवति सवितर्कं सविचारम्, यथा शुद्धाः सुवर्णसिकता
असंवर्तिताः।

इयं चित्तस्योपक्लेशविशुद्धिर्
जातरूपसारूप्येण।

 

(4.2.10.2.3) स वितर्कविचारानां
व्युपशमाद् यावच् चतुर्थं ध्यानम् उपसंपद्य विहरतीति
, इयं चित्तस्य संग्रहविशुद्धिर्
अवितर्काविचारसमाधिसंग्रहात्
,

जातरूपस्येवावर्तनसंवर्तनात्।

(4.2.10.2.4) सचेत् समाध्ल्र्
न संस्काराभिनिगृहीतो भवतीति विस्तरेण
, इयं चित्तस्य कर्मण्यताविशुद्धिर्
अभिज्ञेयेषु धर्मेषु यथेष्टपरिणामनात्
, जातरूपस्य्[]व प्रभङ्गुरतादिदोषापनयनात्।

 

(4.2.11) पुनस् त्रीणि निमित्तानि
मनसिकर्तव्यानीत्य् उक्तम्। कालेन कालं शमथादीनि
, न त्व् एकान्तेन,  लयादिप्रतिपक्षर्थम्। तत्र शमथप्रग्रहयोर् अकृतपरिकर्मस्य
तदेकांशभावना ईयौद्धत्यनिमित्तम्। सोऽयं प्रयो-

 

(p226)

 

गमार्गः। कालेन
कालम् उपेक्षानिमित्तम् इत्य् अयं निष्पत्तिमार्गकालः। तस्याप्य् एकांशभावनात् प्रतीत्यसमुत्पादसत्यप्रविचयाकरणान्
न सम्यक् चित्तं

समाधीयत आस्रवाणां
क्षयाय
; स चानभिसमितानि सत्यानि नाभिसमेति, अभिसमितेषु वास्रवक्षयं
न प्राप्नोति। द्वाभ्यां समाधिपरिनिष्पत्तिमार्गः
,

तृतीयेन समाधिं
निश्रित्यास्रवक्षयमार्गः समासतः परिदीपितः कालेन कालं सर्वेषं मनसिकारात्।

 

(4.2.12.0) चत्वारो धर्माः
शासनसंग्रहाय संवर्तन्ते
: प्राविवेक्यं भावना भावनाफलं शासनासंभेदश् च।

 

(4.2.12.1) तत्र प्राविवेक्यम्
[]रण्यानि वृक्षमूलानि शून्यागाराणि।

 

(4.2.12.2) भावना: तत्र गतेन द्वौ
धर्मौ भावयितव्यौ
: शमथो विपश्यना च। शमथ आसेवितो विपश्यनाम् आगम्य विमुच्यत इति यथापि तल्
लाभी भवति प्रथमस्य
[ध्यान]स्य यावच् चतुर्थस्य। स तं समाधिं निश्रित्य दुःखं यथाभूतं प्रजा[ना]ति यावन् मार्गम्।
तस्य तां विपश्यनाम् आगम्य दर्शनप्रहातव्येभ्यः क्लेशेभ्यश् चित्तं विमुच्यते। कथं

विपश्यनासेविता
शमथम् आगम्य विमुच्यते
? इहैकत्यो दुःखं यथाभूतं प्रजानाति यावन् मार्गम्। सोऽधिप्रज्ञं निश्रित्य
ध्यानम् उत्पादयति। तस्य तं शमथम् आगम्य भावनाप्रहातव्येभ्यः क्लेशेभ्यश् चित्तं विमुच्यते।

 

(4.2.12.3) एवं शमथविपश्यनापरिभावितं
धातुषु विमुच्यते। तत्र दर्शनप्रहातव्यसर्वसंस्कारप्रहाणं प्रहाणधातुः। भावनाहेयप्रहानं

विरागधातुः। सर्वोपधिनिरोधो
निरोधधातुः। इदं भावनाफलम्।

 

(4.2.12.4) तत्र शासनासंभेदः
शास्तुः श्रावकाणां चार्थेनार्थः पदेन पदं व्यञ्जनेन व्यञ्जनं संस्यन्दते समेति
; न तु यथान्य-

 

(p227)

 

तीर्थिकानां नाना[ने]कभिन्नमतिकता प्रज्ञायत
इति। यदुताग्रपदैर् इति पूर्वपदैः
; यैर् एवैकः पृष्टो
भवति
, यदि तैर् एव द्वितीयः पृच्छ्येतेति;

अथैकः स्कन्धान्
आरभ्य पृष्टः स्यात्
, द्वितीयोऽन्यद् आरभ्य पृच्छ्येत, नाग्रपदैः संस्यन्दते।

 

(_) योगाचारभूमौ समाहिता
भूमिः समाप्ता।

 





















































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(p228)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project