Digital Sanskrit Buddhist Canon

बौद्ध पारिभाषिकाणि शब्दाणि

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2017
  • Proof Reader:
    Anjana Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

बौद्ध पारिभाषिकाणि शब्दाणि


अक्षरम्

निर्वाणेन तुच्छरूपेण

रहितं बिम्बं संसारेण क्षरसुखलक्षणेनातीतमनास्रवमहासुखमक्षरम्।

(से टी,पृ ७०)

अक्षोभ्यम्

किञ्चिद् ग्राह्यादिशून्यं

चेत् चित्तमक्षोभ्यमुच्यते।

(अ व सं , पृ २९ )

अचिन्त्यम्

अनाभोगं हि यज्ज्ञानं

तच्चाचिन्त्यं प्रचक्षते।

संचिन्त्य यदचिन्त्यं

वै तदचिन्त्यं भवेन्नहि॥

( अ व सं , २०,३०)

अचिन्त्यधातुः

कतमोऽसावचिन्त्यधातुः

? यो धातुर्निश्चितो न चित्तग्मनीयो न चित्तप्रमेयो न चित्तचेतनया प्रतिवेदितव्यः, असावुच्यतेऽचिन्त्यधातुः।

अथ च पुनर्भगवन् चित्तमेवाचिन्त्याधातुः। तत् कस्य हेतोः
? नह्यचित्ते चित्ते

चित्तं संविद्यते। निश्चितो हि चित्तम्
, चित्तस्य यथार्थावबोधात्।

अथ च सर्वाकारो भगवतोऽचिन्त्यधातुः। अन्यत्राप्युक्तम् -

अविकल्पितसंकल्प

अप्रतिष्ठितमानस।

अस्मृत्यमनसिकार

निरालम्ब नमोऽस्तु ते॥

चतुःप्रदीपे -

यः प्रत्ययैर्जायति

स ह्यजातो

न तस्य उत्पाद स्वभावतोऽस्ति।

यः प्रत्ययाधीन

स शून्य उक्तो

यः शून्यतां जानति

सोऽप्रमत्तः॥

(अ व सं, पृ २५)

अनुज्ञाभिषेकः

अपरिमितसत्त्वधातोर्यथाशयवशेन

संवृतिपरमार्थविभागेन परमगुह्यवज्रयानदेशनार्थमनुज्ञाभिषेको बुद्धत्वनिष्पादकः सप्तमः।

(से टी पृ २१)

अप्रतिष्ठित्निर्वाणम्

विरागाद् रागविगमादुष्णीषस्थं

यत् सौख्यं शुक्रं तत्प्रतिष्ठितम्। यत्तु वज्रमणेश्च्युतं तन्निर्वाणम्। अयं तु सुखराज

उष्णीषवज्रमण्यन्तरालव्यापित्वादप्रतिष्ठितनिर्वाणः। अत एव महारागोऽक्षरश्च प्राधान्यात्

प्रभुस्त्रैधातुकेश्वरः।
( से टी,पृ ५५)

अप्रतिष्ठितनिर्वाणाख्यमहासुखसंज्ञकः

शुद्धकायः।
(से टी पृ ५५-५६)

अभिषेकः

लौकिकलोकोत्तरसिद्धिसौधसोपानभुतानधरसंवृतिरूपान्

सप्तसेकान् व्याख्याय योगिसंवृतिभूतान् लौकिकसिद्धिसाधनान् परमार्थनुकूलांस्त्रिविधसेकान्

(कुम्भ-गुह्य-प्रज्ञाज्ञानाख्यान्) कुम्भेत्यादिनोद्दिशति।(से टी,पृ २१)

अमनसिकारः

अमनसिकार इत्यत्र

बहवो विप्रतिपन्नाः। तत्र कश्चिदाह- अपशब्दोऽयमिति
,  समासे मनस्कार इति भवितुमर्हति। तत्रोच्यते - " तत्पुरुषे कृति

बहुलम्
" इत्यत्र बहुलवचनात्, "सप्तम्या अलुक्" इत्युलुक्समासे

कृतेऽमनसिकारः
, अमनस्कारः; त्वचिसारः, त्वक्सारः; युधिष्ठिर एतानि रूपाणि सम्पद्यन्ते, अतो नायमपशब्दः।

न च प्रसज्यप्रतिषेधनञो विषयत्वादभावो वाच्यः। असूर्यम्पश्या राजदारा इत्यत्र हि न

सूर्याभावः कृतः
, किन्तु राजदाराणां यत् सूर्यदर्शनं प्रसज्यं तन्निषिद्धम्। एवमेवामनसिकारेऽपि

नञो मनसिकरणं यद् ग्राह्यग्राहकादि प्रसक्तं तन्निषिद्धम्
, न मनः। अतो न दोषः।

पर्युदासपक्षेऽपि न दोषः
, अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृश्य क्षत्रियादेरानयनं भवति, न तु विजातीयस्य

कटादेः अत्रापि निःस्वभाववेदनस्य संस्थितिः कृता। अथवा अकारप्रधानो मनसिकार इत्यत्र

शाकपार्थिवादिवन्मध्यमपदलोपी समासः।एतेन यावान् मनसिकारः सर्वमनुत्पादात्मक इत्यर्थः।

अकारस्यानुत्पादकारकत्वम्
"अकारो मुखं सर्वधर्माणामाद्यनुत्पन्नत्वात्" इत्यादिना हेवज्रे

उक्तम्। नामसंगीतौ च -

आकारः सर्ववर्णाग्रयो

महार्थः परमाक्षरः।

महाप्राणो ह्यनुत्पादो

वागुदाहारवर्जितः॥ इति।

यदि वा - अकारोऽत्र

नैरात्म्याबीजम्। तथा च हेवज्रे -
"आलेरादि नेरादि

निरात्म्या
" इति।

एतेन सर्वमनसिकारोऽनात्मकोऽस्वभाव

इत्युक्तं भवति। यदि वा -

आदिस्वरस्वभावा

सा धीति बुद्धैः प्रकल्पिता।

सैव भगवती प्रज्ञा

उत्पन्नक्रमयोगतः॥

यदि वा - अ इति

प्रभास्वरपदम्
, मनसिकार इति स्वाधिष्ठानपदम्। अश्चासौ मनसिकार्श्चेत्यमनसिकारः। एतेन

अमनसिकारपदेन अचिन्त्यप्रभास्वरस्वाधिष्ठानपदं शून्यताकरुणाभिन्न-युगनद्धाद्वयवाहिसंवेदनमापादुतं

भवतीति।
( अ व सं,पृ६०-६२)

अमृतकुण्डली

विध्नान्तकोऽमृतकुण्डलीति

तस्य दृष्टिरमृतस्थानगता ललाटगता।

(से ती पृ ३६-३७)

उपसाधनकाले तु बिम्बं

चामृतकुण्डलीम्।

( से ती,पृ ३९)

ततोऽमृतकुण्डलीबिम्बसंज्ञया

सन्ध्याभाषान्तरेण वायुरित्युक्तम्। स च पञ्चप्रकारः। तथा च समाजोत्तरे भगवानाह -

पञ्चरत्नमयं श्वासं

पञ्चबुद्धैरधिष्ठितम्।

निश्चार्य पिण्डरूपेण

नासिकाग्रे विभावयेत्॥ इति।

इह पञ्चरत्नशब्देन

रसनापञ्चमण्दलधर्मिणः पृथिव्यादिपञ्चधातवस्तन्मयं श्वासं पञ्चरत्नमयमिति सव्यनासापुटे।

तथा पञ्चबुद्धा ललनापञ्चमण्डलधर्मिणो विज्ञानादिपञ्चस्कन्धाः
, तैरधिष्ठितं श्वासं

वामनासापुट इति। निश्चार्य पिण्डरूपेणेति। इह पिण्डं सव्यापसव्यमण्डलानात्मकत्वं मध्यमायामवधूत्यां

प्राणवायोरिति। तं च प्राणवायुं निश्चार्य पिण्डरूपेण नासिकाग्रे विभावयेत्   कर्णिकातः कर्णिकामध्ये न सव्यापसव्यकमलदल इति।

एवं बिन्दुस्थाने पिण्डरूपेण निरोधितः प्राणः। तेनैव तस्य धारणोच्यते।

एवमङ्गद्वयेनोपसाधनममृतकुण्डलीबिम्बेनेति।

(से ती, पृ ४१-४२)

अवस्थात्रयम्

तत्रावस्थास्त्रयः।

हेत्ववस्था नाम बोधिचित्तात् प्रभृति बोधिमण्डनिवेदनं यावत्। फलावस्था नाम सम्यक्संबोधिज्ञानोत्पत्तौ

सर्वक्लेशगुणप्रहाणिप्राप्त्यवस्था। सत्त्वार्थक्रियावस्था नाम प्रथमधर्मचक्रप्रवर्तनात्

प्रभृति आशासनान्तर्धानं यावत्।

तत्र हेत्ववस्था

त्रिविधा - आशायावस्था
, प्रयोगावस्था, वसितावस्था चेति। तत्र आशयावस्था सत्त्वानिर्मोक्षप्रणिधानम्।

तद्धेतवश्चत्वारः । तद्यथा -

गोत्र-सन्मित्र-कारुण्य-दुःखाभीरुत्वहेतवः।

चतुर्भिः प्रत्ययैरेभिर्बोधिचित्तं

प्रजायते॥इति।

तत्र प्रयोगावस्था

द्विविधा- अधिमुक्तिचित्तस्य पारमिताः सप्त
, अधिमुक्तिचरितस्य

पारमिता दश। भूमिप्राप्तस्य चतसृभिः सम्पद्भिः सम्पन्नं चित्तमिति तदर्थं दानं शीलं

क्षान्तिर्वीयं ध्यानं प्रज्ञा उपाय इत्येताः सप्त पारमिताः। अधिमुक्तिचर्याचरितस्य

दश पारमिताः -

दानं शीलं क्षमा

वीर्यं ध्यानं प्रज्ञा उपायता।

प्रणिधानं बलं ज्ञानं  मताः पारमिता दश॥इति।

तत्र वसितावस्थाः

पञ्च-क्लेश-उपपत्ति-कर्म-उपाय-सत्त्वपरिपाकावस्थाख्याः। तत्र हेत्ववस्थास्थितेन सर्वमादिकर्म

कर्तव्यम्। फलावस्था-सत्त्वार्थक्रियावस्थास्थितस्य च शाक्यमुनेरिव अनाभोगेन आदिकर्म

प्रवर्तत इति।
(अ व सं,पृ ११-१२)

अशुभा भावना

शरीरस्य विण्मूत्रशुक्रशोणितश्लेष्मान्तान्त्रसिंहानकचिक्कणक्लमथप्लीहायकृत्प्रभृतिसमुदायरूपता।

तदुक्तम् -

इमं चर्मपुटं तावत्

स्वबुद्धो च पृथक् कुरु।

अस्थिपञ्जरतो मांसं

प्रज्ञाशस्त्रेण मोचय॥

अस्थीन्यपि पृथक्

कृत्वा पश्य मज्जानमन्ततः।

किमत्र सारमस्तीति

स्वयमेव विचारय॥इति।

(अ व सं,पृ १५)

आदिकर्म

आदिकर्म यथोद्दिष्टं

कर्तव्यं सर्वयोगिभिः।

शून्यताकरुणाभिन्नं

यद्बोधौ ज्ञानमिष्यते॥

पञ्चपारमिताः प्रोक्ता

आदिकर्मेति संज्ञया।

प्रज्ञापारमिता

चासां स्वभावो नाभिरिष्यते॥

दानं शीलं क्षमां

बीर्यं ध्यानं प्रज्ञां च सादरम्।

सततं सेवयन् धीमान्

सुखी स्वस्थोऽपि जायते॥

संभोगनिर्मिते हेतुर्दानशीलक्षमात्रयम्।

ध्यानप्रज्ञेति

धर्मस्य वीर्यं तूभययोर्मतम्॥

( अ व सं ,पृ २)

आनन्दाः

आनन्दाश्चत्वारः

- आनन्दः
, परमानन्दः, सहजानन्दः, विरमानन्दः। अन्यथा - "परमविरमयोर्मध्ये

लक्ष्यं वीक्ष्य दृढिकुरु
" इति यदुक्तम्, तत्संगतं न भवाति।

(अ व सं,पृ २३)

आश्वासः

सर्वावरणविनिर्मुक्तः

सर्वबुद्धबोधिसत्त्वसमयस्त्वमितः प्रभृति
(इति) बोधनार्थमाश्वासः।

(अ व सं, पृ ३८)

 

उपासकः

 उ  उद्युक्तो

बुद्धपूजायां उपशान्तोपशायकः।

उपकाराय सत्त्वानामुपायेनान्वितो

भवेत्॥

पा  पापानावर्जयेन्नित्यं पापिष्ठैः सह सङ्गतिम्।

     पापान्निवारयन् जन्तोः पापं सर्वत्र देशयेत्॥

   स   समारोपविनिर्मुक्तः

समाधौ सुसमाहितः।

  सर्वदा परमानन्दी सम्बोधिं साधयेद् बुधः॥

कः करोति सर्वदा

यत्नं करुणां परिपालयेत्।

  कष्टेनापि न चानिष्टं करोत्युपकृतिं पराम्॥

(अ व सं,पृ १०)

ऋद्धिः

ऋद्धिराकाशगमनादिकम्।

(से ती ,पृ ४७)

कर्म

कर्म कायवाक्चित्तचिन्ता

( अ व सं,पृ ३२)

ईर्या च कायिकं

कर्मं वाचिकं धर्मदेशना।

समादानं मनःकर्म

निर्विकल्पस्य धीमतः॥

(अ व सं,पृ ५४)

कर्ममुद्रा

कर्म कायवाक्चित्तचिन्ता।

तत्प्रधाना मुद्रा कल्पनास्वरूपा। तस्यां कर्ममुद्रायाम् -

आनन्दास्तत्र जायन्ते

क्षणभेदेन भेदिताः।

क्षणज्ञानात् सुखज्ञानमेवंकारे

प्रतिष्ठितम्॥ 

 

तस्मात् कर्ममुद्रां

प्राप्य निष्पन्दफलमुत्पद्यते। सदृशस्पन्दो निस्पन्दः।

कर्ममुद्रया कृतिमाया

कथमकृत्रिभूतं सहजाख्यं ज्ञानमुत्पद्यते। कर्माङ्गनाया आनन्दसन्दोहरत्नाकरं सरोरुहम्।

तत् स्वच्छमास्थानं बोलकक्कोलरससंयोगेन अवधूत्या संवृतिबोधिचित्तमण्यन्तर्गतं यदा भवेत्
, तदा क्षणिकनामापरं

सहजाख्यं ज्ञानमुत्पद्यते। न तत् सहजं निस्पन्दम्। तत्स्वरूपेण प्रज्ञाज्ञानानन्दत्रयं

क्षणचतुष्टयान्वितं सेके। हठयोगे च कर्ममुद्राया निष्पन्दफलमुक्तम्।

(अ व सं, पृ ३२-३३)

कर्ममुद्रया क्षरसुखावस्था।

(से टी ,पृ ६२)

 

कलशाभिषेकः

उदक-मुकुट-वज्र-घण्टा-

नाम-आचार्य-लक्षणाः षट् कलशाभिषेकाः। एषां सर्वेषां कलशव्यापारात् कलशाभिषेकसंज्ञा।

अवैवर्तिकाभिषेकाश्चैते षट्तथागतस्वभावत्वात्। तथाहि उदकाभिषेक आदर्शज्ञानात्मकोऽक्षोभ्यस्वभावः।

मुकुटाभिषेकः समताज्ञानात्मको रत्नसंभवस्वभावः। वज्राभिषेकः प्रत्यवेक्षणाज्ञानात्मकोऽमिताभस्वभावः।

अधिपत्यभिषेकः कृत्यानुष्ठानरूपोऽमोघसिद्धिस्वभावः। नामाभिषेकोऽविद्यानिरोधाद् विद्यानुगतविशुद्धधर्मधातुज्ञानात्मको

वैरोचनस्वरूपः आचार्याभिषेकस्तु अज्रज्ञानस्वभावः। अत्र च पञ्चाभिषेकाः
, पञ्चसु लोचनादिविद्याया

व्यापारात्। अत्र च अविद्यामलक्षालनायाक्षोभ्यरूपेण वज्राचार्येण वैरोचनरूपावलम्बिनि

शिष्ये सलिलाभिषेका देयः। एवं सर्वत्राहङ्कार आगामिबुद्धभावोऽचित्तोष्णीषभूतो मुकुटाभिषेकः।

वज्राभिषेकस्य विधानमुत्पश्यमानाभेद्यज्ञानबीजधानमिव विधातुम्। एवं वज्रघण्टाऽपि पूर्वाभिसन्धानेन

द्वादशाङ्गुलपरिमाणाऽघोमुखाम्भोजवज्रसमापत्तिनिःस्वभावत्वेन सर्वधर्मस्वभावं प्रतिपादयितुमभेद्यज्ञाननिगदतां

धर्मोदयस्य बोधयितुं मूर्धाधोभागे च वज्रावलीयुगलमालीनी।

अथाभिषेकमनया स्वनन्त्या

वज्रघण्टया कुर्वीत। अनुत्तराशेषधर्मबोधाद् विकारकमिह प्राधान्यख्यापनाय हेतुकताप्रतिपादनाय

च कारणभूतमपि वज्रभण्टाभिषेकमुल्लङ्ध्य प्रथमं वज्राभिषेकदानम्। सर्वधर्मा नामता इति

प्रतिपादनार्थं भविष्यन्मुनीन्द्रपदोचितनामनिदानावदानार्थं च पूर्वनामव्यपनयेन स्वदेवताकुलगोत्रानुसारेण

नामाभिषेकः। आचार्याभिषेकश्च वज्रसमय-घण्टासमय-मुद्रासमय-भव्यतानुज्ञा-व्रतव्याकरण-आश्वास्लक्षणः।

(अ व सं, पृ ३६-३८)

 

कायचतुष्टयम्

असंस्कृततथागतात्मकत्वाद्

धर्मकायः
, प्रतिभासमात्रत्वात् संभोगकायः , कल्पितनिर्माणकायत्वान्निर्माणकायः, कायत्रितयैकरसत्वात्

स्वाभाविककायः। तदुक्तम् -

असंस्कृतमनोधर्मश्चोपसम्भोगलक्षणः।

तदेव निर्मितं चित्रं

बीजः सर्वस्वभावतः॥

(अ व सं,पृ ४०)

 

अत एव धर्माणामाश्रयः

कायो धर्मकाय इत्याचक्षते।  तस्माद् युगनद्धकाय

एव धर्मकायः साम्भोगिकस्वाभाविकाभ्यां पृथग्भूतो योगिप्रत्यात्मवेद्यः।
(से टी ,पृ ५७)

क्षणाः

चत्वारः क्षणाः

- विचित्र-विपाक-विलक्षण-विमर्दाः। मध्ये विलक्षणं दत्त्वा सेके बोद्धव्यम्। हठयोगे

पुनः सहजविलक्षणयोरन्ते स्थितिर्बोद्धव्या। सेकहठयोगे चेदं निदिष्टं भगवता।

(अ व सं ,पृ ३२)

क्षान्तिः

क्षान्तिश्च क्रूरतप्तकरपत्रादिघातसहनतया।

( अ व सं, पृ ३)

 

गुहाभिषेकः

प्रज्ञाश्रद्धाक्षेत्रीकरणार्थं

समयरक्षणार्थं च समानकालोभयसम्पादितबोधिचित्तप्रदानं गुह्याभिषेकः। प्रज्ञोपायगुह्याभ्यां

दीपयत इति व्युत्पत्तिः।
( अ व सं, पृ ३८)

घण्टासमयः

चतुरशीतिधर्मस्कन्धसहस्रपरस्त्वमिति

प्रतिपादनाय घण्टासमयः।

(अ व सं, पृ ३८)

चतुर्थाभिषेकः

प्रज्ञाज्ञानलक्षितसप्ताङ्गयुक्तसाध्यं

चतुर्थार्थमित्येके। प्रज्ञाज्ञानमेव अभ्यस्यमानशरदमलगगनसंकाशं चतुर्थार्थमित्यपरे।

प्रज्ञाज्ञानमेव प्रकृतिरूपं प्रकृतिसमुत्पादात्मकं युगनद्धाद्वयवाहिवुशुद्धस्वभावं

चतुर्थार्थमित्यपरे। पक्षान्तराणि च विस्तरभयान्नोच्यन्ते।

(अ व सं, पृ ३९)

चतुर्ब्रह्माविहारः

सर्वसत्त्वेष्वेकपुत्रप्रेमाकारां

मैत्रीम्
, दुःखादुःखहेतोः संसारसागरात् समुद्धरणावाञ्छास्वभावां करुणाम्, रत्नत्रयशरणगमनात्

समुल्लसन्मनःप्रभवां मुदिताम्
, अध्यासङ्गपरिलक्षणामुपेक्षां व विभाव्य।

(अ व सं, पृ ४-५)

जगत्

शून्यताकरुणाभिन्नं

जगत्।
(अ व सं, पृ २६)

हेतुफलात्मकं भवनिर्वाणैकरसतामात्रं

जगत्।
(अ व सं, पृ ४२)

ज्ञानमुद्रा

ज्ञानमुद्रा स्वचित्तपरिकल्पिता

विश्वमातादिदेवीस्वाभावा
, पूर्वानुहुक्तेति यावत्।

(से टी,पृ ५६)

ज्ञानमुद्रया स्पन्दसुखावस्था।

स्पन्देति स्रावसाधर्म्यक्षरस्यापि संग्रहः। एते
(क्षरस्पन्दाख्ये)

सुखावस्थे साक्षात्कृते

कामरूपधात्वैश्वर्यलक्षणलौकिकसिद्धिसाधने।
(से टी,पृ ६२)

त्रिशरणगाथा

नमो बुद्धायं गुरवे

नमो धर्माय तायिने।

नम संघाय महते त्रिभ्योऽपि

सततं नमः॥

रत्नत्रयं मे शरणं

सर्वं प्रतिदिशाम्यघम्।

अनुमोदे जगत्पुण्यं

बुद्धबोधौ दघे मनः॥

आबोधेः शरणं यामि

बुद्धं धर्मं गणोत्तमम्।

बोधौ चित्तं करोम्येष

स्वपरार्थप्रसिद्धये॥

उत्पादयामि वरबोधिचित्तं

निमन्त्रयाम्यहं सर्वसत्त्वान्।

इष्टां चरिष्ये

वरबोधिचारिकां बुद्धो भवेयं जगतो हिताय॥

देशना सर्वपापानां

पुण्यानां चानुमोदना।

कृतोपवासं चरिष्यामि

आर्याष्टाङ्गिकपोषधम्॥

(अ व सं,पृ ५-६)

धर्ममुद्रा

धर्ममुद्रा धर्मधातुस्वरूपा

निष्प्रपञ्चा निर्विकल्पा अकृत्रिमा उत्पादरहिता करुणास्वभावा परमानन्दैकसुन्दरोपायभूता।

प्रवाहनित्यत्वेन सहजस्वभावायाः प्रज्ञायाः सहजोदयत्वेन भिन्ना या सा धर्ममुद्रेत्यभिधीयते।

अन्यल्लक्षणं तस्याः संकुलाज्ञानान्धकारतरणिकिरणसदृशं गुरूपदेशतस्तृणतुषमात्राभ्रान्तिशल्यवर्जितं

बोद्धव्यम्। सकलक्षितिजलपवनहुताशनैर्महाशबलितं त्रैलोक्यैकस्वभावं निस्तरङ्गशून्यतकरुणाभिन्नं

च बोद्धव्यम्। ललना
, रसना, तयोर्मध्यदेशे निवासिनी अवधूती। सैवाधिगतसकलपदार्थसहजस्वभावैकचित्तवृत्तेः

सद्गुरूपदेशतो धर्ममुद्रा
, महामुद्राया अभेदेन हेतुभूता।(अ व सं, पृ ३३-३४)

धर्मोदयः

तद्यथा भगवान् बुद्धः

संबुद्धोऽकारसंभवः॥

अकारः सर्ववर्णाग्र्यो

महार्थः परमाक्षरः।

महाप्राणो ह्यनुत्पादो

वाग्व्याहारविवर्जितः॥

सर्वैश्वर्यादिधर्माणां

बुद्धानामुदयो यतः।

स धर्मोदय आख्यातः

पुण्यज्ञानमयः परः॥

(से टी,पृ ६९-७०)

ध्यानम्

ध्यानं च सर्वस्वभावानुगतानाभोगस्वरसवाहितया।

(अ व सं, पृ ५५)

नष्टचन्द्रः

सूर्यस्य षोडशी

कला उष्णीषकमले गता नष्टचन्द्र इत्याख्यातः।
(से टी , पृ ५५)

नामाभिषेकः

ब्राह्मणादिवर्णनामेककल्कत्वाभिप्रायेणामुकवज्र

इति नामकरणान्मैत्र्यादिचतुर्ब्रह्मविहारपरिपूर्त्या सर्वकालं रागद्वेषादिविशुद्धिनिवारणत्वेनेति

नामाभिषेकः षष्ठः।
(से टी ,पृ २१)

निमित्तम्

 अपरं ज्वालादिबिन्दुपर्यन्तं षडन्यन्निमित्तं मायाजाले

समाधिपटले प्रोक्तं भगवता।  तद्यथा -

गगनोद्भवः स्वयम्भूः

प्रज्ञाज्ञानानलो महान्।

वैरोचनो महादीप्तिर्ज्ञानज्योतिर्विरोचनः॥

जगत्प्रदीपो ज्ञानोल्को

महातेजाः प्रभास्वरः।

विद्याराजोग्रमन्त्रेशो

मन्त्रराजो महार्थकृत्॥

इति गाथाद्वयेन

मायाजालेऽपरनिमित्तं भगवतोक्तं सन्ध्याभाषान्तरेण। पूर्वोक्तान्निरभ्रगगनाद् भवति प्रतिभासो

यः स गगनोद्भवः स्वयम्भूः
, सर्वविकल्परहितचित्तत्वादिति। अत्र प्रज्ञाज्ञानानल इति ज्वालाप्रतिभासः।

वैरोचनो महादीप्तिरिति चन्द्रप्रतिभासः। स एव ज्ञानज्योतिर्विरोचन इति जगत्प्रदीप इति

सूर्यप्रतिभासः। ज्ञानोल्का इति राहुप्रतिभासः। महातेजाः प्रभास्वर इति विद्युत्प्रतिभासः।

विद्याराजोग्रमन्त्रेश इति बिन्दुप्रतिभासो नीलवर्णचन्द्रमण्डलाकार इति। मन्त्रराजो

महार्थकृदिति सर्वाकारत्रैधातुकभावप्रतिभासो मायास्वप्नप्रतिभासेन तुल्यो दृश्यते योगिना

चक्षुरादीन्द्रियकरणेन।
(से टी,पृ ४०-४१)

निष्पन्दः

कर्ममुद्रां प्राप्य

निष्पन्दफलमुत्पद्यते। सदृशस्पन्दो निष्पन्दः। न तत् सहजं निष्पन्दम्
, किन्तु सहजसदृशम्।

तत्स्वरूपेण प्रज्ञाज्ञानानन्दत्रयं क्षणचतुष्टयान्वितं सेके। हठयोगे च कर्ममुद्राया

निष्पन्दफलमुक्तम्।
(अ व सं,पृ ३२-३३)

पञ्च ज्ञानानि

आदर्श-समता-प्रत्यवेक्षणा-कृत्यानुष्ठान-सुविशुद्धधर्मधातुलक्षणानि।

(अ व सं,पृ ३७)

पञ्च तथागताः

मण्डलाधिष्ठितभूभागे

चतुरस्रादिचतुर्णामन्यतममभिमतमण्डलकं कृत्वा तन्मध्ये विश्वर्णाष्टदलकमलवरटके सूर्यमण्डलोपरि

नीलंहूंकारपरिनिष्पन्नं भूस्पर्शमुद्राधरं कृष्णवर्णमक्षोभ्यम्। तदनु पूर्वदले शुक्लॐकारनिष्पन्नं

शुक्लवर्णं बोध्यङ्गीमुद्राधरं वैरोचनम्
, ततो दक्षिणदले

पीतत्रांकारजं पीतवर्ण वरदमुद्राधरं रत्नसम्भवम्
, ततः पश्चिमदले

रक्तह्रींकारसम्भूतं रक्तवर्ण समाधिमुद्राधरममिताभम्
, तत उत्तरदले श्यामखंकारजं

श्यामवर्णमभयमुद्राघरममोघसिद्धि च भावयित्वा। एते पञ्च तथागता काषायवस्त्रप्रावृताः

सोष्णीषाः शिरस्तुण्डमुण्डिताः सूर्यमण्डलस्थाः। वैरोचनः परं शशिमण्डली। ततश्चत्वारोऽक्षोभ्याभिमुखाः
, अक्षोभ्यस्तु साधकाभिमुखः।

(अ व सं,पृ ५)

पारमिता (दश)

दानं शीलं क्षमा

वीर्य ध्यानं प्रज्ञा उपायता।

प्र्णिधानं बलं

ज्ञानं मताः पारमिता दश॥

(अ व सं,पृ १२)

पूर्णः

क्लेशज्ञेयसआपत्त्यावरणवासनाया

हरणमपगम एव पुर्णशब्देन व्यपदिश्यते। न ज्ञानच्छेदो न च तस्य पुरणत्। तद्कुक्तमागमे

-

नित्योदितं तु बुद्धानां

नाविद्यादुष्टचेतसाम्।

(से टी,पृ ६२)

सरहपादैश्च -

जयति सुखराज एकः

कारणरहितः सदोदितो जगताम्।

यस्य च निगदनसमये

वचनदरिद्रो बभूव सर्वज्ञः॥

(से टी,पृ ६३)

बोधिचित्तस्य महासुखस्वभावो

यः स पूर्णा भण्यते। इयमेव योगिभिः स्थिरीकरणीया। पूर्णायामस्थिरीकृतो ह्यसौ सुखेन्दुः

पुनः पुनरुत्पद्यते नश्यति च।
(से टी,पृ  ६४)

पोषधदानम्

प्रथमं तु पोषधदानम्।

समन्वाहर भदन्ताचार्य
! अहमित्थंनामा अमुकनामा उपासको बुद्धं धर्मं संघं शरणं गच्छामि यावदाबोधिमण्डतः।

एवं स्विरपि त्रिरपि। एवं त्रिशरणगतं मां वदन्तो धारयन्त्विति। समन्वाहर आचार्य
! अहममुकनामोपासक

इमां वेलामुपादाय यावत् श्वः सूर्योदयमिहान्तरे सर्वप्राणिवधात्
, परस्वहरणात्, अब्रह्मचर्यात्, वाग्भेदादनृतात्मकदोषजननात्, पानात्, विकालाशनात्, मालावर्णकनृत्यगीतलभितात्, श्यनाशनादुच्छ्रितादद्याहं

विरतः करोम्यहं तावत्। तद्गुणैरष्टभिः पोषधगाथा।
(अ व सं,पृ ३-४)

देशना सर्वपापानां

पुण्यानां चानुमोदना।

कृतोपवासं चरिष्यामि

आर्याष्टाङ्गिकपोषधम्॥

(अ व सं,पृ ६)

प्रज्ञा

ग्राह्यग्राहकरहिता

स्वभावशून्यताधीः प्रज्ञा।
(से टी,पृ ४७)

प्रज्ञा च सर्वधर्मानुपलब्धिलक्षणाधिगमनतया।

(अ व सं,पृ ३)

तत्र ग्राह्यग्राहकाकारधारणी

बुद्धिश्चतुर्धातुपञ्चस्कन्धस्वरूपषड्विषयात्मकाङ्गनास्वभाव् प्रज्ञा।
(अ व सं, पृ ३९)

प्रज्ञा चित्रं

विपाकश्च विमर्दश्च विलक्षणम्।

अस्यास्तत्त्वमतो

विद्धि येनासि जगतो विभुः॥

प्रज्ञा भवः समश्चासौ

त्रिकायं च त्रियानकम्।

सैव चरं सुखोपायं

योगिनां तदहं परम्॥

मञ्जुवज्रो महामाया

वज्रडाकस्तथाऽपरे।

प्रज्ञैव भेदतो

भाति युक्तिः सैव जिनात्मिका॥

विज्ञायापगतं चित्तं

निरालम्बमनुत्तरम्।

शान्तं शुद्धं निराभासं

वित्तः प्रज्ञेति कीर्तिता॥

(अ व सं,पृ ५२)

प्रज्ञाज्ञानाभिषेकः

प्रज्ञाज्ञानमित्यत्र

व्युत्पत्तिद्वयम् - प्रज्ञया ज्ञानम्
, प्रज्ञैव बाह्यज्ञानम।

तत्र ग्राह्यग्राहकाकारधारणी बुद्धिश्चतुर्धातुपञ्चस्कन्धस्वरूपषड्विषयात्मकाङ्गनास्वभावा

प्रज्ञा। तस्या निमित्तभूताया बोधिचित्तज्ञानमिति पुर्वा व्युत्पत्तिः। आकारद्वयशून्या

सैव विज्ञानमित्यपरा व्युत्पत्तिः।

(अ व सं,पृ ३८-३९)

प्राणायामः

प्राणायामो नाम

ललनारसनावामदक्षिणमार्गनिरोधः। अवधूतीमध्यभागे प्राणवायोः सदा प्रवृत्तिरिति। पूरककुम्भकरेचकयोगेनावधूत्यां

ॐकारण श्वासं हूंकारेण निरोधं आःकारेण निश्वासं चन्द्रसूर्यराहुस्वभावेन कुरुते योगीति

प्राणायामाङ्गम्।
(से टी, पृ ३८-३९)

भव्यतानुज्ञा

मण्डलतत्त्वं मण्डलविशुद्धिलक्षणं

देवतातत्त्वं देवताविशुद्धिलक्षणमाचार्यपरिकर्म च मण्डलसाधनज्ञानं पञ्चप्रदीपं चामृतभक्षणं

च भव्यतातत्त्वं च नैःस्वाभाव्यम्। एषामुत्पन्नक्रमपक्षतो धर्मचक्रप्रर्वतनार्थमनुज्ञा

(भव्यतानुज्ञा)(अ व सं, पृ ३८)

भावाः

भवन्ति हेतुप्रत्ययेभ्यः

सकाशादिति भावाः स्कन्धधात्वायतनादिकाः स्थिरचलाः पदार्थाः।

(से टी,पृ ५९)

भावना

ललाटे कायभावना।

हृदि वाग्भावना। गुह्ये चित्तभावना। कायादिबिन्दूनां समाहार एकत्वं वज्रमणौ
, तत्र ज्ञानभावना

(से टी, पृ ६२)

मण्डलम्

मण्डलं सारमित्युक्तं

बोधिचित्तं महत्सुखम्।

आदानं तत् करोतीति

मण्डलं मलनं मतम्।

(हे त,२ ३ ७)

मन्त्रजापः

मन्त्रजापो नाम

प्राणसंयमः।
(से टी, पृ ४३)

महामुद्रा

महती चासौ मुद्रा

महामुद्रा। महामुद्रा निःस्वभावा ज्ञानज्ञेयाद्यावरणवर्जिता शरदमलमध्याह्नगगनसंकाशा

सकलसम्पदाधारभूता भवनिर्वाणैकस्वरूपा अनालम्बनकरुणाशरीरा महासुखैकस्वरूपा। तया महामुद्रयाऽचिन्त्यस्वरूपया

समयमुद्राख्यं फलं जायते।

(अ व सं, पृ ३४-३५)

महती चासौ मुद्रा

च महामुद्रा। महत्त्वं पुनरस्याः सर्वाकारवरोपेतत्वं न प्रादेशिकत्वम्। फलमुद्रा तु

महामुद्रा। महत्त्वं चास्याः प्रहाणमहत्त्वेनाधिगममहत्त्वेन च। तत्र प्रहाण महत्त्वं

सर्वासनसर्वविरणप्रहाणलक्षणस्वाभाविकाख्यप्रभास्वरसाक्षात्करणलक्षणम्। अधिगममहत्त्वं

तु परिशुद्धसर्ववुद्धात्मकयुगनद्धाख्यकायसाक्षात्कारस्वभावम्।
(सेटी, पृ ५६-५७)

महामुद्रया निष्पन्दाक्षरभावना

तु सर्वज्ञत्वलक्षणलोकोत्तरसिद्धिसाधनी
(से टी,पृ ६२)

मुद्रा

मुदं सुखविशेषं

रतिं ददातीति मुद्रा। मुदं परमाक्षरसुखज्ञानलक्षणां रतिं सर्वकालमादत्ते पूर्वावस्थाया

अचलनयोगेनेति मुद्रा।
(से टी ,पृ ५६)

मुद्रासमयः

स्वेष्टदेवतास्वभावस्त्वमिति

ख्यापयितुं मुद्रासमयः।
(अ व सं, पृ ३८)

युगनद्धकायः

संवृतिसत्यमेव च

परमार्थसत्यात्मकप्रभास्वरपरिशुद्धमादर्शज्ञानादिरूपवैरोचनाद्याधेयदेवतावृन्दं कूटागाराद्याधारमण्डलं

च। तदेव लोकोत्तरमण्डलतया सर्वतन्त्रराजेषु गीयते। समस्तबुद्धधर्मस्वभावतया चैतदेव

सत्यद्वयाद्वैधीभावस्वभावं युगनद्धाख्यमुच्यते। तस्माद् युगनद्धकाय एव धर्मकायः सांभोगिकस्वाभाविकाभ्यां

पृथग्भूतो योगिप्रत्यात्मवेद्यः।
(से टी,पृ ५७)

योगाङ्गचतुष्टयम्

सेवा

सेव्यते मुमुक्षुभिरभ्यस्यत

इति सेवा। धूमादिबिम्बदर्शनपर्यन्तं प्रत्याहाराङ्गं ध्यानाङ्गं च। सा खलूत्तमा सेवा

ज्ञानामृतेनैव षडङ्गयोगेनैव कर्तव्या।
(से टी,पृ ३६)

धूमादिनिमित्तभावना

सेवा।
(से टी,पृ३६)

सेवाकाले महोष्णीषबिम्बं

विभाव्य यत्नतः।

उपसाधनकाले तु बिम्बं

चामृतकुण्डलीम्॥

साधने देवताबिम्बं

भावयेद् योगतत्परः।

महासाधनकाले तु

बिम्ब बुद्धाधिपं विभुम्॥

(सेटी,पृ ३९)

अत्र सन्ध्याभाषान्तरेणोष्णीषबिम्बं

बुद्धबिम्बं त्रैधातुकमशेषतः। आकाशे धर्मोदये चित्तवज्रं प्रतिष्ठाप्य सेवाकाले प्रथमकाले

प्रत्याहारेण भावयेद् ध्यानाङ्गेन स्थिरीकुर्यादिति।

(से टी,पृ ३९)

एवं प्रत्याहारेण

ध्यानेन सेवाङ्गमुच्यते।
(से टी,पृ ४१)

 

अमृतकुण्डलीबिम्बसंज्ञया

सन्ध्याभाषान्तरेण वायुरुच्यते।  एवं बिन्दुस्थाने

पिण्डरुपेण निरोधितः प्राणः। तेनैव तस्य धारणोच्यते। एवमङ्गद्वयेनोपसाधनममृतकुण्डलीबिम्बेनेति।

तदेवोपसाधनं वज्रजाप इत्युच्यते। प्राणायामधारणोपसाधनमुच्यते।
(से टी,पृ४१-४२)

साधनम्

साधने देवताबिम्बमिति।

इह धारणाबलेन नाभिस्थां चण्डालीं ज्वलितां पश्यति योगी सर्वावरणरहितां प्रतिसेनोपमां

महामुद्रामनन्तबुद्धरश्मिमेघान् स्फारयन्तीं प्रभामण्डलविराजिताम्। तामनुस्मृतिं साधनमाह।

(से टी, पृ ४२)

महासाधनम्

धारणान्ते चण्डालीं

योगी भावयेदिति नियमः। ततस्तस्या ज्ञानार्चिषा स्कन्धधात्वायतनादीनि दग्धान्येकलोलीभवन्ति।

वामदक्षिणनाडीगतानि विज्ञानादीनि पृथिव्यादीनि च मण्डलस्वभावानि ललाटे चन्द्रमण्डले

प्रविष्टानि। ततश्चण्डाल्या ज्ञानार्चिषा चन्द्रे द्रुते सति यद् बोधिचित्तं बिन्दुरूपेणाधोगतं

कण्ठे हृदि नाभौ गुह्यकमले आनन्दपरमविरमस्वभावेन। ततो वज्रमणिं यावत् सहजानन्दस्वभावेनेति।

अथवा विचित्रविपाकविमर्दविलक्षणस्वभावेनेत्येवं षोडशकलापूर्णं मण्यन्तर्गतं यदा सुखं

ददाति भावनाबलेन।
(सुरत) सदृशमिति दृष्टान्तमात्रम्। स्वरूपतो द्वीन्द्रियजं (सुखं) कोटिसहस्रतमामपि

कलां नार्हति परमाक्षरसुखस्येति। इहाक्षरसुखावस्था या सहजानन्दरूपिणी साऽवस्था काप्यविज्ञेया

वालयोगिनाम्
, (सा) बोधिसत्त्वैः शून्यतासमाधिरित्युच्यते, न पुनर्लौकिकरूढयैव

नास्तिक्यार्थानुपातिनी। एवं षडङ्गयोगेन बुद्धत्वं योगिनां सिद्धयति।
(से टी,पृ ४२ )

योगी

योगः षडङ्गयोगो

लब्धोत्कर्षपर्यन्तः
, स योगो सेषामस्ति ते योगिनो महावज्रधरपदप्राप्ताः।

(से टी, पृ ६० )

वज्रम्

यथा अक्षोभ्यमुद्रया

ज्ञानं मौलं पृष्ठमन्यत्
, तथा वज्रसत्त्वमुद्रया विज्ञानमपि पृष्ठं मौलं वज्रमिति स्यात्। उक्तं

च वज्रशेखरे -

दृढं सामससौशीर्यमच्छेद्याभेद्यलक्षणम्।

अदाहि अविनाशि च

शून्यतावज्रमुच्यते॥
(अ व सं,पृ ३२,३७)

द्वादशाङ्गुलिपरिमाणेन

द्वादशाङ्गप्रतीत्यसमुत्पादविशुद्धया वज्रम्। अभेद्यं वज्रमिति हेवज्रे।
(अ व सं, पृ ३७)

वज्रघण्टा

वज्रघण्टाऽपि पूर्वाभिसन्धानेन

द्वादशाङ्गुलपरिमाणाऽघोमुखाम्भोजवज्रसमापत्तिनिःस्वभावत्त्वेन सर्वधर्मस्वभावं प्रतिपादयितुमभेद्यज्ञाननिगदतां

धर्मोदयस्य बोधयितुं मूर्धाधोभाते च वज्रावलीयुगलमालिनी।
( अ व सं, पृ ३७)

वज्रजापः

प्राणायाम इति वज्रजाप

इति च मध्यमाभिन्नाङ्गत्वेन जप्तव्यः।
(से टी, पृ ३३ )

तदेवोपसाधनं वज्रजाप

इत्युच्यते।
(से टी, पृ ४२)

वज्रधात्वीश्वरी

आसां (लोचना -मामकी-पाण्डरवासिनी-तारिणीनां

) मध्ये आलिस्वभावा वज्रसत्त्वस्वरूपिणी वज्रधात्वीश्वरी नायिका। इयमेव

भगवती तथता शून्यता प्रज्ञापारमिता भूतकोटिनैरात्म्येति व्यपदिश्यते।
(अ व सं, पृ ४३)

वज्रव्रताभिषेकः

रूपादिविषयचक्षुरादीन्द्रियसंशुद्धिः

प्राकृतविषयनियमेन महामुद्रासिद्धिप्रापकत्वाद् वज्रव्रताभिषेकः पञ्चमः।
(से टी, पृ २१)

वज्रसमयः

इतः प्रभृति असंस्कृतो

भेदयुगद्धवाहिबोधिधर्मसमयस्त्वमिति बोधयितुं वज्रसमयः।
(अ व सं, पृ ३८)

वज्रसत्त्वः

वज्रेण शून्यता

प्रोक्ता सत्त्वेन ज्ञानमात्रता।

तादात्म्यमनयोः

सिद्धं वज्रसत्त्वस्वभावतः॥

शून्यताकृपयोर्भेदः

प्रदीपालोकयोरिव।

शून्यताकृपयोरैक्यं

प्रदीपालोकयोरिव॥

भावेभ्यः शून्यता

नान्या न च भावोऽस्ति तां विना।

अविनाभावकमियत्

कृतकानित्ययोरिव॥

(अ व सं, पृ४८)

विश्वबिम्बम्

अन्तरालावलम्बितयाऽर्धोन्मीलितलोचनाभ्यां

शून्य आकाशे ग्राह्यग्राहकरहिते यन्नानुकल्पितं स्वप्नवद् बिम्बं योगिप्रत्यक्षं तद्विम्बं

विश्वबिम्बम्।
(से टी,पृ ४८)

वीर्यम्

वीर्यं चाष्टलोकधर्माबाधोपसहनतया

(अ व सं, पृ ३)

व्रतव्याकरणम्

बाह्यव्रतनिराकरणार्थं

वज्रव्रतसानम् पृथिव्यादिस्वभावतासूचनाय व्याकरणम्। तथा हि भुवो धरादेः स्वः स्वरूपं

भूर्भूया इति हि भूर्भुःस्वरित्यस्यार्थः।
(अ व सं, पृ ३८)

शरीरदानम्

शरीरदानं कृत्वा

चर्यां कृतवान्
, "शरीरदानां दत्त्वा च पश्चात् चर्यां समारभेत्" (हे त १  ६  १९) इति वचनात्। दानं

चत्तं च शरीरावधि
( अ व सं, पृ ३)

शान्तम्

अष्टादशधातुविकाररहितम्।

(से टी, पृ ६०)

शीलम्

कायवाक्चेतसां सर्वसत्त्वार्थाय

संवरणाच्छीलम्।
( अ व सं, पृ ३)

शुद्धम्

क्लेशमलैरसंस्पृष्टम्।

( से टी, पृ ६०)

शुद्धकायः

अप्रतिष्ठितनिर्वाणाख्यमहासुखसंज्ञकः

शुद्धकायः। महासुखसंज्ञकशुद्धकायाद् विपरीतेन यः कायबिन्दुः स तुर्यावस्थाक्षयतः शुद्धकायः।

धर्मसंभोगनिर्माणकायाः शुद्धकायात् स्फुरन्ति।
(से टी,पृ ५५-५६)

शून्यम्

प्राणिनां मरणान्ते

स्कन्धपरित्यागादुत्पत्त्यंशिकस्कन्धग्रहणाद् यदन्तरालं शून्यतालक्षणमेकं त्रिभुवनदर्शनं

तच्छून्यमित्युच्यते।
(से टी, पृ ४३)

शून्यता

सर्वाकारवरोपेतशून्यतालक्षणा

( अ व सं, पृ ४०)

षट्पारमिता

दानं गोमयमम्बुना

च सहितं शीलं च संमार्जनं

क्षान्तिः  क्षुद्रपिपीलिकापनयनं वीर्यं क्रियास्थापनम्।

ध्यानं तत्क्षणमेकचित्तकरणं

प्रज्ञा सुरेखोज्ज्वला

एताः पारमिताः षडेव

लभते कृत्वा मुनेर्मण्डलम्॥

भवति कनकवर्णः सर्वरोगैर्विमुक्तः

सुरमनुजविशिष्टश्चन्द्रवद्

दीप्तकान्तिः।

धनकनकसमृद्धो जायते

राजवंशे

सुगतवरगृहेऽस्मिन्

कायकर्माणि कृत्वा॥

( अ व सं, पृ ६)

समयमुद्रा

सम्भोगनिर्माणकायाकारस्वभावेन

स्वच्छाकारेण च सत्त्वार्थाय वज्रधरस्य हेरुकाकारेण विस्फुरणं यत् सा समयमुद्रेत्यभिधीयते।

तां च समयमुद्रां गृहीत्वा चक्राकारेण पञ्चविधं ज्ञानं पञ्चविधं परिकल्प्य आदर्श-समता-प्रत्यवेक्षणा

- कृत्यानुष्ठा -सुविशुद्धधर्मधातुभिः
, आदियोगमण्डलराजाश्रि-कर्मराजाश्रि-बिन्दुयोग-सूक्ष्मयोगैः

समयमुद्राचकं भावयन्त्याचार्याः।

(अ व सं,पृ ३५)

समाजः

समासतश्चित्तं समाजरूपीति।

समासतः सर्वधर्माणामेकाकाररूपतो यदुत महासुखाकारतश्चित्तमिति बोधिचित्तं समाजरूपीति।

धर्ममुद्रामहामुद्राभिषेकरूपं वा ज्ञानं सत् समाज इत्यभिधीयते।
( अ व सं, पृ ३५)

समारोपः

सकलकल्पनाकलङ्कानङ्किता

महामुद्राभावना समारोपः।
( से टी, पृ ४८३)

सहजम्

 

सहजं सत् सर्वं

सहजच्छायानुकारित्वात् सहजमित्यभिधीयते। सहजच्छाया सहजसदृशं ज्ञानं प्रतिपादयतीति।

सहजं प्रज्ञाज्ञानम्। अत एव प्रज्ञाज्ञानात् सहजस्योत्पत्तिर्नास्ति। यस्मात् सहजं

नाम स्वरूपं सर्वधर्माणामकृत्रिमम्
, स्वलक्षणमिति यावत्।

आचार्याः कुशलतया प्रज्ञाज्ञानमासाद्य सहजमनुभूतमिति कृत्वा सन्तोषमुत्पादयन्ति
, सन्तुष्टाश्च सन्तो

धर्ममुद्राया वार्तामपि न जानन्ति। धर्ममुद्रामजानानाः केवलया कर्ममुद्रया कृत्रिमया

कथमकृत्रिमभूतं सहजाख्यं ज्ञानमुत्पद्यते। सजातीयात् कारणात् सजातीयस्यैव कार्यस्योत्पत्तिर्भवति
, न तु विजातीयात्।

यथा शालिबीजात् शाल्यङ्कुरोत्पत्तिर्भवति
, न तु कोद्रवस्य।

तथा धर्ममुद्राया अकृत्रिमायाः सकाशादकृत्रिमं सहजमुत्पद्यते। कर्माङ्गनाया आनन्दसन्दोहरत्नाकरं

सरोरुहम्। तत् स्वच्छमास्थानं बोलकक्कोलरससंयोगेन अवधूत्या संवृतिबोधिचित्तमण्यन्तर्गतं

यदा भवेत्
, क्षणिकनामापरं सहजाख्यं ज्ञानमुत्पद्यते। (अ व सं, पृ ३२-३३)

सहजतनुः

आध्यात्मिकी विद्या

प्रज्ञापारमिता प्रकृतिप्रभास्वरा महामुद्रा सहजानन्दरूपिणी धर्मधातुनिष्पन्दपूर्णावस्था

सहजतनुरित्युच्यते।
(से टी, पृ ६९)

बिन्दुः शून्यो

भवति। स च बिदुरच्युतः सन् परमाक्षर उच्यते। परमाक्षरोऽप्यकारः। अकारसंभवः सम्यक्संबुद्धः

प्रज्ञोपायात्मको वज्रसत्त्वो नपुंसकपदं सहजकाय इत्युच्यते। स च कालचक्रो भगवान् परमाक्षरः

सुखपदम्।
(से टी, पृ ६९)

सादृश्यम्

सादृश्यं यथा दर्पणार्पितं

मुखस्य प्रतिबिम्बं मुखं न भवति। न पूर्वं सिद्धिर्नाप्यधुना सिद्धयति। तदेव मुखप्रतिबिम्बं

सादृश्यमात्रमापादयति
, तथापि लोकाः स्वमुखं दृष्टमिति ऋत्वा भ्रान्त्या सन्तुष्टा भवन्ति। ( अ व सं,पृ ३२-३३)

सिद्धिः

सिद्धिस्त्रैधातुकेश्वरत्वम्।

(सेटी,पृ ४७)

सुखम्

सिखं द्वीन्द्रियजं

तत्त्वं देवाणां रागिणां स्मृतम्।

त्रैलोक्याचारनिर्मुक्तं

बुद्धानां सुखमक्षरम्॥

हसितेक्षणादिनिर्मुक्तं

सर्वद्वन्द्वविवर्जितम्।

कार्यकारणनिर्मुक्तं

त्रैलोक्याभासमद्वयम्॥

अप्रतिष्ठं यथाऽऽकाशं

व्यापि लक्षणवर्जितम्।

उक्तं तत्परम् तत्त्वं

वज्रज्ञानमनुत्तरम्॥

अप्रतिष्ठं यथाऽऽकाशं

व्यापि लक्षणवर्जितम्।

अनिर्देश्यमरूपं

च एतत्तत्त्वस्य लक्षणम्॥

यद्विशुद्धमिवाकाशमज्ञानतिमिराकुलैः।

चन्द्रकैरिव संच्छन्नं

वस्तुभिर्वेद्यते जिनैः॥

(से टी, पृ ५८-५९)

सेकः

बाह्यवारिणेव बाह्यमलस्य

अविद्यामलक्षालनाय सिच्यतेऽनेनेति सेकः।

(अ व सं, पृ ३६)

स्वभावः

स्वभावश्चैवा[ना]द्यनुत्पन्नं न

सत्यं न मृषेति च। पञ्चाकाराणां प्रतीत्यसमुत्पन्नानां पञ्चतथागतस्वभावत्वम्
, स्वभावस्य च शून्यताकरुणाऽभिन्नत्वात्

शून्यताकरुणाऽभिन्नं जगदिति स्थितम्।

प्रतीत्यसम्भवादेव

गन्धर्वपुरवत् स्फुटम्।

न स्वभावस्थितं

विश्वं नाकाशाम्भोजसंनिभम्॥

उक्तं च हेवज्रे

-

अमी धर्मास्तु निर्वाणं

मोहात् संसाररूपिणः।

(अ व सं,पृ २६ -२७)

स्वाधिष्ठानम्

अवाधिष्ठानं नाम

संवृतेः सत्यदर्शनम्।
(से टी, पृ ४०)

मायास्वप्नगन्धर्वपुरप्रतिसेनादिवदकल्पितमशेषस्कन्धधात्वायतनादिदर्शनं

संवृतिसत्यदर्शनं स्वाधिष्ठानं चोच्यते।
(से टी, पृ ४७)

हठयोगः

इदानीं हठयोग उच्यते।

इह यदा प्रत्याहारादिभिर्बिम्बे दुष्टे सत्यप्यक्षरक्षणं नोत्पद्यतेऽयन्त्रितप्राणतया
, तदा नादाभ्यासाद्

हठेन प्राणं मध्यमायां वाहयित्वा प्रज्ञाब्जगतकुलिशमणौ बोधिचित्तबिन्दुनिरोधादक्षरक्षणं

साधयेन्निष्पन्देनेति हठयोगः। नादाभ्यासोऽत्रैवोक्तः।

(से टी, पृ ४५)

हूंकारः













































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































मध्यवृत्तेर्निरुत्तरधर्मतासूचको

हूंकारः। तस्यार्थः - ह् इति हेतुवियुक्तः
, ऊ इति ऊहापगतः, अं इति अप्रतिष्ठितसर्वधर्म

इति। 
(अ व सं,पृ ३७)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project