Digital Sanskrit Buddhist Canon

कमलाकरसर्वतथागतस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Kamalākarasarvatathāgatastotram
कमलाकरसर्वतथागतस्तोत्रम्



अथ खलु कमलवने सर्वतथागतस्तवेनातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतोऽत्यस्तावीत्—



ये जिनपूर्वकाये भवन्ति ये च ध्रियन्ति दशदिशि लोके।

तान् हि जिनांश्च करोमि प्रणामं तं जिनसंघमहं प्रभिजष्ये॥ १॥



शान्तप्रशान्तविशुद्धमुनीन्द्रं स्वर्णसुवर्णप्रभासितगात्रम्।

सर्वसुरासुरसुस्वरघोषं ब्रह्मरुतस्वरगर्जितघोषम्॥ २॥



षट्पदभौंरमहीरुहकेशं नीलसुकुञ्चितकाशनिकाशम्।

शङ्खतुषारसुपाण्डरदन्तं हेमविराजितभाषितनाभम्॥ ३॥



नीलविशालविशुद्धसुनेत्रं नीलमिवोत्पलफुल्लितक्षेत्रम्।

पद्मसुवर्णविभान्तसुजिह्वं पद्मप्रभाषितपद्मसुखाभम्॥ ४॥



शङ्खमृणालनिभं सुखतार्णं दक्षिणवर्तितवेडुलितर्णम्।

सूक्ष्मनिशाकरक्षीणशशीव मात्रसुमन्त्रसरोजसुनाभम्॥ ५॥



काञ्चनकोटिसुवर्णसुनासमुन्नतमृदुतरपादपपत्रम्।

अग्रधराग्रविशिष्टनासाग्रं मृदुकरसर्वजिनं सततं तम्॥ ६॥



एकसमेकतरोममुखाग्रं बालसुरोमप्रदक्षिणवर्तम्।

नीलनिभोज्ज्वलकुण्डलजातं नीलविराजितमौलसुग्रीवम्॥ ७॥



जातसमानप्रभाषितगात्रं पूजितसर्वदशदिशि लोके।

दुःखमनन्तं प्रशमितलोकं सर्वसुखेन च तर्पितलोकम्॥ ८॥



नरकस्थासु च तिर्यग्गतिषु प्रेतसुरासुरमनुजगतीषु।

सर्वपिशाचसुखार्पितसत्त्वं सर्वप्रशान्तमपायगतीषु॥ ९॥



वर्णसुवर्णं कनकनिभासं काञ्चनतप्तप्रभासितगात्रम्।

सौम्यशशाङ्कसुविमलवक्त्रं विकसितराजितसुविमलवदनम्॥ १०॥



तरुणरुहाग्रककोमलगात्रं सिंहविवादकविक्रमनादम्।

लम्बितहस्तप्रलम्बितबाहुं मारुतप्रेरितसाललजिह्वम्॥ ११॥



व्योमप्रभोज्ज्वलमुंचितरश्मिं सूर्यमिव प्रभया प्रतपन्तम्।

निर्मलगात्रवरेभि मुनीन्द्रं सर्वप्रभासितक्षेत्रमनन्तम्॥ १२॥



चन्द्रनिशाकरभास्करजालं क्षेत्रमनन्तसहस्रगतेषु।

तेऽपि च निश्चितसर्वि बभूव बुद्धप्रभासविरोचनतायै॥ १३॥



बुद्धदिवाकरलोकप्रदीपं बुद्धदिवाकररश्मिसहस्रम्।

क्षेत्रमनन्तसहस्रगतेषु पश्यतु लोकतथागतसूर्यम्॥ १४॥



पुण्यशतानि सहस्र च कृत्वा सर्वगुणेभिरलंकृतगात्रम्।

सौरगजेन्द्रनिभं जितबाहुं विमलरक्षितमण्डितबाहुम्॥ १५॥



भूमितलोपम शालिततुल्यं सूक्ष्मरजोपममागतबुद्धाः।

सूक्ष्मरजोपम ये च भवन्ति सूक्ष्मरजोपम ये तिष्ठन्ति॥ १६॥



तांश्च जिनान् प्रकरोमि प्रणामं कायेन वाचा मनसा प्रसन्ना।

पुष्पप्रदान सुगन्धप्रदानैर्वर्णशतेन शुचिश्च स्मरामि॥ १७॥



जिह्वशतैरपि बुद्धगुणानां कल्पसहस्रशतेन हि वक्तुम्।

ये च सुनिर्वृतसाधुजिनानां सा च ललाट विचित्र अनेकैः॥ १८॥



एकजिनस्य गुणान् नहि शक्यो जिह्वसहस्रेण भाषितु किंचित्।

काममशक्ति हि सर्वजिनानां एकगुणस्य हि विस्तरवक्तुम्॥ १९॥



सर्व सदेवकुलोक्तसमूहः सर्वभवाग्र भवजलपूर्णान्।

ये जलग्रहणतु शक्यप्रमाणं नैव तु एकगुणा सुगतान्तम्॥ २०॥



वर्णितु सुस्तुतमज्जिनसर्वं कायतु वाच प्रसन्नमनेन।

प्रमेय संचित पुण्यफलाग्रं तेन च सत्त्व प्रभोतु जिनत्वम्॥ २१॥



एव तु विश्वं नरपतिबुद्धं एव करोमि नृपःप्रणिधानम्।

यत्र च कुत्र चि मभ्यभवेत जाति अनागत कल्पमनन्ता॥ २२॥



ईदृशभेरी पश्यमि स्वप्ने ईदृशनादं तत्र शृणोमि।

ईदृश जिनस्तुति कमलाकरेण जाति जरास्मर तत्र लभेयम्॥ २३॥



बुद्धगुणानि अनन्तमतुल्यं येऽपि च दुर्लभ कल्पसहस्रम्।

अनुश्रुत ये च स्वप्नगतेऽपि तेषु च देशयि दिवसगतोऽपि॥ २४॥



दुःखसमुद्र विमोचयि सत्त्वा पूरयि षडभिः पारमिताभिः।

बोधिमनुत्तर पुण्य लभेयं क्षत्रभवेत्तमभासमपत्थ्या॥ २५॥



भेरिप्रदानविपाकफलेन सर्वजिनान च संस्तुतिहेतोः।

संमुखपश्यमि शाक्यमुनीन्द्रं व्याकरणं ह्यहु तत्र लभेयम्॥ २६॥



यौ इम दारकद्वौ मम पुत्रौ कनकेन्द्र कनकप्रभाश्वरौ।

तौ उभि दारक तत्र लभेयं बोधिमनुत्तरव्याकरणं च॥ २७॥



ये पि च सत्त्व अनेकमनन्ता शरणविहीना व्यसनगताश्च।

तेषु भवेय अनागत सर्वत्राणपरायण शरणप्रदश्च॥ २८॥



दुःखसमुद्भव संक्षयकर्ता सर्वसुखस्य च आकरभंत।

कल्प अनागत बोधि चरेयं यत्तहु पूर्वं कोटि गताश्च॥ २९॥



स्वर्णप्रभासोत्तमदेशनताय पापसमुद्रं शोषतु मह्यम्।

कर्मसमुद्र विकीर्यतु मह्यं क्लेशसमुद्र विछिद्यतु मह्यम्॥ ३०॥



पुण्यसमुद्रं पूर्यतु मह्यं ज्ञानसमुद्र विशोध्यतु मह्यम्।

विमलज्ञान प्रभासवरेण काम प्रभा च भविष्यतु मह्यम्॥ ३१॥



पुण्यप्रभास विलोचनता च सर्वत्रिलोकि विशिष्ट भवेयम्।

पुण्यवरेण समन्वित नित्यं दुःखसमुद्र उत्तारयिता च॥ ३२॥



सर्वसुखस्य च सागरकल्पं कल्पमनागत बोधि चरेयम्।

यत्नत पूर्वक कोटिगताया ईदृशक्षत्रविशिष्ट त्रिलोके॥ ३३॥



श्रीसुवर्णप्रभोक्तं कमलाकरसर्वतथागतस्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project