Digital Sanskrit Buddhist Canon

काण्हपादस्य दोहाकोषः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2015
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
काण्हपादस्य दोहाकोषः

ॐ नमो वज्रधराय।।

लोअह गव्व समुव्वहइ हउँ परमत्थे पवीण।
कोडिह मज्झेँ एक्कु जइ होइ णिरञ्जण लीण।। १।।

अस्यायमर्थः। लोके गर्व्व समुद्वहति।। कोऽसौ सर्वोऽहं परमार्थप्रवीण इति एतच्च यावत् संभवन्तु युज्यते। ततो योगिकोटीनां मध्ये एकोऽपि यदि भवति निरञ्जनलीन इति। निर्गतानि अञ्जनानि रागद्वेषादिक्लेशा अस्मिन्निति निरञ्जनः सहजकायः तत्र लीनो निमग्नमना योगीन्द्रः स च मादृश इति भावः ।।

आगम वेअ पुराणेँ पण्डिआ माण वहन्ति। फ्
पक्क सिरिफले अलिअ जिम वाहेरिअ भमन्ति।। २।।

अयमर्थः। बाह्यगमादिज्ञानेन परमार्थसत्याभिमानं पण्डिता वहन्ति। एवम्भूताः सन्तः कस्मिन् किं कुर्वन्तीत्याह पक्वश्रीफलेष्वलयो भ्रमरा जिमु यथा बाह्येन गन्धानुमोदेन भ्रमन्ति तथा आगमादिज्ञानेन बाह्येन यथार्थ्य प्रतिरूद्धदृष्टित्वात् गभीरतत्त्वामृतरसं न चिन्तयन्ति इत्यर्थः। तथा चोक्तं चतुर्देवीपरिपृच्छामहायोगतन्त्रे

चतुरशीतिसाहस्त्रे धर्मस्कन्धे महामुने।
तत्त्वं वै ये न जानन्ति सर्वे ते निष्फलाय वै।।

(१४९)

एतत् साधनमाह

वोहिचिअ रअभूसिअ अक्खोहेहिँ सिट्ठओ।
पोक्खरविअ सहावसुह णिअ देहहि दिट्ठओ।। ३।।

अयमर्थः। बोधिचित्तं सांवृतस्पन्दरूपं शुक्रं रजोभूषितं तत् चित्तवज्रेणाश्लिष्टम्। किं भूतचित्तवज्रमित्याह पोक्षरो वक्ष्यमाणपद्मवृक्षः अस्य बीजं सुखस्वभावेन स्थितम्। शुद्धं तदेवं चित्तवज्रं कुत्र दृष्टमित्याह। निजशब्देन ज्ञानाधिष्ठितो निजदेहः स एव सरोवरसूत्रदृष्टमवगतम्। एतदेव स्पष्टयन्नाह

गअण णीर अमिआह पाँक मूल-वज्ज भाविअइ
अवधूइ किअ मूलणाल हंकारो वि जाअइ।। ४।।

अयमर्थः। महासुखरूपत्वात् गगनं नीरम् अमिताभो बोधिचित्तानन्ददेव पङ्कं कृत्वा मूलं नालं प्रधानकारणं भावितम्। तदेव बोधितचित्तं तेन नालपत्रषण्डादिक्रमेण निष्पादयन् तदर्थमाह। अवहेलया अनाभोगेन ल्लेशदिपापान् धुनोति इत्यवधूती। अवधूत्यवकृतं मूलं प्रधाननालं येन सा अवधूती कृतो मूलनालहेतुरिति शब्दाक्षरम् हंकारोऽपि वक्ष्यमाणेन मकरन्दाकारेण अनाहतं वज्रानङ्गाक्षररूपो वज्रधरो जात इत्यर्थः।।

(१५०)

ननु अवधूतीवान्मूलीकृतानि षण्डमृणालपत्राणि कानीत्याह-

ललणा रसणा रवि ससि तुडिअ वेण्ण वि पासे।

पत्तो-चउट्ठ चउ-मूणाल ठिअ महासुह वासे।। ५।।

अयमर्थः। वामनासापुटे प्रज्ञाचन्द्रस्वभावेन ललना स्थिता। दक्षिणनासापुटे उपायसूर्य्यस्वभावेन रसना स्थिता। द्वे षण्डे स्थिते। द्वयोः षण्डयोः वामदक्षिणयोः [ पार्श्वयोः ]। तथा च हेवज्रे -

ललना प्रज्ञास्वभावेन रसनोपायसंस्थिता।

अवधूती मध्यदेशे तु ग्राह्यग्राहकवर्ज्जिता।। इति।

ग्राह्यं ज्ञेयं ग्राहको ज्ञानं ताभ्यां वर्ज्जिता। तत्र द्वयाभिन्नमिति भावः। ज्ञेय ज्ञानयोर्जन्यजनकेभ्योः तयोर्विपर्य्यासाभावेन सत्तालाभव्युदासादित्यर्थः। शून्यातिशून्यमहाशून्यसर्व्वशून्यमिति चतुःशून्यस्वरूपेण पत्रचतुष्टयं चतुरादिस्वरूपेण चतुर्मृणालसंस्थिता। कुत्रेत्याह-महासुखं वसत्यस्मिन्निति महासुखवास उष्णीषकमलं तत्र सर्व्वशून्यालयो डाकिनीजालात्मकजालधराभिधानं मेरूगिरिशिखरमित्यर्थः।

एवंकार वीअ लइअ कुसुमिअ-अरविन्दए।

महुअर-रूएँ सुरअ-वीर जिंघइ मअरन्दए।। ६।।

एवं बीजं गृहीत्वा कुसुमितम् अरविन्दं कमलं मधुकररूपेण चित्तवज्रप्रज्ञोपाययोगात् सुरतमनवच्छिन्नमहारागरूपेण विरागदमनाद्वीरः मकरन्दं पुष्पपरमसुरत-

(१५१)

वीरतया च अच्युतं महारागं सुखं चित्तं वज्रोऽनुभवतीत्यर्थः। न त स्वयं विषयीभूय अनादिक्रमेण फलं निष्पाद्य जिघ्रन्ति। कथं दृश्यते आगमान्तरे। तथा च श्रीहेवज्रे-

स्वयं कर्त्ता स्वयं हर्त्ता स्वयं राजा स्वयं प्रभुरिति। स्वयं हर्त्तेति स्वयमेव संहाररूपः। स्वयं प्रभुरिति सर्व्वाधिपत्ययुक्तवत्। विश्वरूपमणिरिव प्रकाशस्फुरणसंहारस्वरूपः।

पञ्च महाभूआ विअ अइ समाग्गीए जइअ।
पूहवि अव तेअ गंधवह गअण सञ्जइअ।। ७।।

अयमर्थः। पञ्चमहाभूतानि पृथिवी-अपतेजो-वायु-आकाशादिपञ्चकं बीजं गृहीत्वा सामग्रया वोलकक्कोलयोगेन तदेव दर्शयन्नाह कर्कशत्वात् काठिना पृथ्वी द्रवत्वाज्जलं तेजोघर्षणात् हुतवहोऽग्निः सञ्जातः गगनात् समीरणः। सुखरूपत्वात् गगनम्। भूतपञ्चकैः परिपूर्णमिलितं शरीरमित्यर्थः। यथा च श्रीहेवज्रे-

कस्माद्भौतिकः स्कन्धः ? भगवानाह-

वोलकक्कोलयोगेन स्पर्शात् काठिन्यधर्म्मणः।
--------------------------पृथिवी तत्र जायते।।
बोधिचित्तद्रवाकारादपधातोश्च सम्भवः।
तेजो जायते घर्षणात् गमनाद्वायुः प्रकीर्त्तितम्।
सौख्यमाकाशधातुश्च पञ्चभिः परितः स्थितम्।।

अयमर्थः। तत्रेति सहजे पृथिवीधातुरूत्पद्यते। बोल वज्र कक्कोलं पद्मवज्रपद्यसंयोगेनेत्यभिप्रायः। तत्र सहजे बोधिचित्तं जायते शुक्रमुत्पद्यते। तस्य

(१५२)

चन्द्ररूपत्वादपः सम्भव उत्पाद इति। घर्षणात् तेजो जायते। वज्रपद्मघर्षणेन तेजोधातुरूत्पद्यते। गगनात् वायुः प्रकीर्त्तितः चालनरूपत्वाद्वायुधातुः प्रकीर्त्तिता । सौख्यमाकाशधातुश्च सौख्यरूपत्वात्।

गअण-समीरण-सुहवासे पञ्चेहिँ परिपूण्णए।
सअल सुरासुर एहु उअत्ति वदिए एहु सो सुण्णए।। ८।।

अयमर्थः। गगनमाकाशं समीरणो वायुः तयोः सुखवासे सुखस्थाने पञ्चभिर्महाभूतैः परिपूर्ण इति। सकलानां मनुष्यादीनां सुरासुराणां उत्पत्तिकारणं पञ्च इति। तदेव सकल सुरासुरः किम्भूत इत्याह। एतत् ज्ञानरहित्वात् वदे मूर्ख इत्यक्षरेण सम्बोधनम्। एतदेव भूतपञ्चकं स्वभावविरहात् शून्यनिस्तरङ्गश्चतुर्थः सहजरूपमित्यर्थः। तथाच

आसाद्य कोऽपि लवणं जलमेकदेशे क्षीराम्वुधिं सकलमेव परिच्छिनत्ति।
भावैकरूपमवगम्य तथैकदेशे त्रैधातुकं सकलमेव परिच्छिनत्ति।।

तथापरप्रकारः।

पृथिव्या इन्द्रियं नासिका तस्या विषयो गन्धः। पृथिव्यामेव गन्धो नान्यत्र। अपामिन्द्रियं रसना तस्या विषयो रसः नियमेन रसमेव गृह्णाति। तेजस इन्द्रियं चक्षुः तस्य विषयो रूपम्। वायोरिन्द्रियं त्वक् तस्य विषयः स्पर्शः भगलिङ्गादिस्पर्शविषयः। आकाशस्य इन्द्रियं श्रोत्रं तस्य विषयो हि शब्दः नियमेन शब्दमेव गृह्णाति नान्यत्। एतदेव स्पष्टयन्नाह -

(१५३)

खिति जल जलण पवण गअण वि माणह।
मण्डलचक्क विसअवुद्धि लइ परिमाणह।। ९।।

एतदेव भूतपञ्चकं विषयो वज्राव्जसंयोगात् तस्मिन्निति या बुद्धिः सुखचित्तं सा विषयबुद्धि तामादाय मादृगुपदेशात् पृथिव्यप्तेजोव्वाय्वाकाश पर्य्यन्तं यावत् प्रतिपद्यस्व। एतेन तत् कीदृशं भवतीत्याह -

णित्तरङ्गं सम सहजरूअ सअल-कलूस-विरहिए।
पाप-पुण्ण-रहिए कुच्छ णाहि काण्हु फुड कहिए।। १०।।

अयमर्थः। तरङ्गाभावान्निस्तरङ्गं सम निर्व्वाणं सहजरूपं सकलकलुषविरहितं विरागादि पापैर्विरहितं परित्यक्तमित्यर्थः तथा च श्रीमदादिबुद्धेन -

विरागात् [ न ] परं पापं न पुण्य सुखतः पर।
अतोऽक्षरसुखे चित्तं निवेश्यन्तु सदा नृप।।

ततश्च एतेन त्रैधातकञ्च निस्तरङ्गसहजरूपं वेदितव्यं पञ्चमहाभूत परिघटितत्वात्। तथा च श्रीहेवज्रे-

सुखं कृष्णं सुखं पीतं सुखं रक्तं सुखं सितम्।
सुखं नीलं सुखं कृष्णं सुखं सर्व्व चराचरम्।।

इत्येवंभूते महासुखं सुखाभिधानेऽपि दुःखरहितावस्थिताविति पापं रागादिदुःखं पुण्यं रागसुखं तत्रैकमपि नास्ति। तथाच श्रीसम्पूटे -

रागञ्चैव विरागञ्च वर्ज्जयित्वा पुनः स्थितः ।

स्फटञ्च कृष्णाचार्य्यकथितमेतत् [ न ] अन्यैः कथितमित्यर्थः। एतच्च ज्ञान

(१५४)

बहिर्मुखैः बहिरात्मयोजनाय। कृष्णं श्यामं कृष्णं शवलं कृच्छ्रदुःखं जातमिति दर्शयन्नाह -

वहिण्णिक्कलिआ कलिआ सुण्णासुण्ण पइट्ठ।
सुण्णासुण्ण वेणिण मज्झेँ रे वढ किम्पि ण दिट्ठ।। ११।।

अयमर्थः। बहिर्निर्गतसर्व्वभावानां शून्यत्वेनाकारचक्रमारच्य अशून्यञ्च शरीरे कल्पितयोगेन रागान्तमपि धिया प्रविश्य तदा च मूलीभूता अनयोः शून्याशून्ययोर्मध्ये रे मूढ किमपि तत्त्वं न दृष्टं न ज्ञातमित्यर्थः। एवञ्चेत् नास्त्येव किञ्चित्तत्त्वमित्याह -

सहज एक्कु पर अत्थि तहिँ फुड काण्हु परिजाणइ।
सत्थागम वहु पढइ सुणइ वढ किम्पि ण जाणइ।। १२।।

अयमर्थ। सहजमेकं परं तत्त्वमस्ति। तच्च कृष्णवज्रः परं जानाति। शास्त्राणि तर्कादीनि आगमाः क्रियाचर्य्यादिकाणि बहुविधानि पठति पाठयति शृणोति श्रावयति च किमपि [ न जानाति ] वज्रयानादिनिरूत्तरमन्त्रनयरहस्यबहिर्मुखत्वात्तत् पुनर्मत्सदृशः परं जानातीत्यर्थः।

अह ण गमइ ऊइ ण जाइ।
वेण्ण-रहिअ तसु णिच्चल ठाइ।।

(१५५)

भणइ काण्ह मण कहवि ण फुट्ठइ।
णिच्चल पवण घरिणि घरे वट्टइ।। १३।।

अधो न गच्छत्यपानवायोर्निरोधात् उर्द्ध न गच्छति प्राणवायोर्निरोधात्। द्वाभ्यामूर्द्धाधः प्राणापानाभ्यां रहितं परित्यक्तं तस्य तथारूपेण बोधिचित्तं निरस्य तिष्टतीति। तदेव दर्शयन्नाह। भणति कृष्णाचार्च्यः मन बोधिचित्तं कथमपि न स्फुटति न रूध्यति इत्यर्थः। एवभूतं बोधिचित्तं कुत्र वर्त्तत इति तदेव स्पष्ठयन्नाह -

वरगिरिकन्दर गुहिर जगु तहि सअल वि तुट्टइ।
विमल सलिल सोस जाइ जइ कालाग्नि पइट्ठइ।। १४।।

अयमर्थः। वरः श्रेष्ठोः गिरिः कङ्कालरूपो मेरूगिरिः। तथा च श्रीसम्पूटे -

स्थितः पादतले वायुः भैरवो धनुराकृतिः।
स्थितोऽस्ति कटिदेशे तु त्रिकोणोद्धरणन्तथा।।
वर्त्तुलाकाररूपोहि वरूणस्त्रिदले स्थितः।
ह्रदये पृथिवी चैव चतुरस्रा समन्ततः।।
कङ्कालदण्डरूपोहि सुमेरूर्गिरिराट् तथा। इति।

तस्य कन्दरं कुहरं तदेव पञ्चानामगोचरत्वाद् गम्भीरं तत्र किम्भवतीत्याह। तत्र नैरात्मधातुः जगत् सकलमेव उत्पन्नं स्थिरीभवति। एतेन किं स्यादित्याह। विमलं निवृत्त्या सुखरूपेण सलिले सांवृतशुक्रदवाकारेण विमलरूपं समरूपं बोधिचित्तं शोषं यात्यधः पततीत्याह। तथा च शुक्रसिद्धौ -

पतिते बोधिचित्ते तु सर्व्वसिद्धिनिधानके।
मूर्च्छिते स्कन्धविज्ञाने कुतः सिद्धिरनिन्दिता।।

(१५६)

कालाग्निश्चुत्यवस्था कृष्णप्रतिपत्प्रवेशकालप्रवृत्त हति कथमेतत्। अच्युते महारागसुखमनुभवतीत्याह -

एहु सो उद्वमेरू धरणिधर समविसम उत्तार ण पावइ।
भणइ काण्ह दुल्लक्ख दुरववाह को मणे परिभावइ।। १५।।

अयमर्थः। एषोऽयं बालयोगी दुःखेन प्राणापाननिरोधेन सर्व्वथा निश्चलमनसे निश्चलत्वेन नहि क्रमति चन्द्रमाः। एवं पूर्व्वोक्तो मेरूः तत्र समविसम इति प्राणापानयोः प्रवेशनिष्काशाभ्यां तथा चोत्तरमूर्द्धमेरूशिखरं न प्राप्नोति। अतएव भणति कृष्णवज्रः देवानामलक्षितत्वात् श्रावकादीनामसाधारणं योगिनामगोचरं परमं तत्त्वं दुरवगाहं को मनसि व्यवलोकयति।

जो संवेअइ मण रअण अहरह सहज फरन्त।
सो परू जाणइ धम्म-गइ अण्ण कि मुणइ कहन्त।। १६।।

यः संवेत्ति मनोरत्नं कुलिशाव्जसंयोगात् अच्युतिरूपं बोधिचित्तं अहर्निशं सहजस्वभावं परिस्फुटं स परमयोगीन्द्रो धर्म्मस्य यथाभूतगतिं जानाति नान्यो हीन्द्रियघर्षणलक्षणसुखाभिनिविष्टः इति अतएव आह-

पहं वहन्ते णिअमण वन्धण किअउ जेण।
तिहुअण सअल विफारिआ पुणु संहारिअ तेण।। १७।।

स्पन्दरूपं बोधिचित्तं स्थिरीकृतं येन योगीन्द्रेण त्रिभूवनं कायानन्दचित्तानन्द-

(१५७)

स्वरूपं सकलं निरवशेषं स्फूरितं मत्वा पुनः संहारितं सहजानन्दे प्रवेशितं सुखाभिधाने निवेशितम् इति भावः। अत आह -

काहिँ तथागत लभए देवी कोह-गणहि।
मण्डल-चक्कविमुक्क अच्छउँ सहज-खणेहि।। १८।।

अयमर्थः। किमर्थम्। चित्तवज्रतथागता देवी क्रोधगणे लभ्यतेति मण्दलचक्रविमुक्तः सहजक्षणे तिष्ठामिति सम्बन्धः। स्कन्धधात्वायतानाद्यः कालकायवाक्चित्तमण्डलदेवताश्चेत् महासुखोपदेशसमरसीभावं गताः तह्येतदेव महामण्डलं अतो नान्यतः पृथग्मण्डलमस्तीति तथा च गुटिकातन्त्रे -

सर्व्वाङ्गभावनातीतं कल्पनाकल्पवर्ज्जितम्।
मात्राविन्दुसमायुक्तं एतन्मण्डलमुत्तमम्।। इति।

सहजे णिच्चल जेण किअ समरसेँ णिअमण-राअ।
सिद्धो सो पुण तक्खणे णउ जरामणह भाअ।। १९।।

अयमर्थः। सहजे महासुखोपायेन निश्चलस्खलितरूपं कायानन्दाद्येकरसीभावेन बोधिचित्तं ज्ञानानन्दचतुर्थ येन योगिना कृतमिति सम्बन्ध। तदभ्यासपर्य्यन्तेन वृत्त्यागमन् तत् क्षणात् जरामरणं विहाय सिद्धो भवति। महामुद्रां करोतीत्यर्थः। तथा च श्रीसमाजे- अरूणोद्गमवेलायां सिद्ध्यन्ते नात्र संशय।

तमेवार्थ स्पष्टयन्नाह -

णिच्चल णिव्विअप्प णिव्विआर।
उअअ-अत्थमण-रहिअ सुसार।

(१५८)

अइसो सो णिव्वाण भणिज्जइ।
जहि मण माणस किम्पि ण किज्जइ।। २०।।

अयमर्थः। निश्चलं सर्व्वसंकल्पवायुभिरचलत्वात् निर्व्विकल्पं भुद्रारहित्वेन निर्व्विकारमिन्द्रियातीतत्वात् उदयान्तं गमनरहितत्वेन शरदमलमध्याह्नसन्निभम् स्वसमाकारमेतन्निर्व्वाणं भण्यते। यत्र यावन्मनश्चित्तं मनसां चतुरशीतिप्रकृतयो न किमपि क्रियते। एतादृशः स्वपरापरसंकल्पं किञ्चिदपि न जायते। तत्र प्रभास्वरज्ञानोदयसमय इत्यर्थः।

एवंकार जे वुज्झिअ ते वुज्झिअ सअल असेस।
धम्म-करण्डहो सोहु रे णिअ-पहुधर-वेस।। २१।।

अयमर्थः। एवंकार इति। शून्यताकरूणाभिन्नरूपिणी महामुद्रा इत्थं एवंकारं येन प्रतीयते तेन योगीन्द्रेण स्कन्धधात्वायतनादीनां प्रतीतमिति। सैव महामुद्रा धर्म्मकरण्डकरूपा धर्म्मकायात्। अतस्तेषां करण्डकण्ठानां सैव रसं बोधनं निजप्रभोर्वज्रधरस्य वेश आभरणं अलङ्कारः शोभनमिति यावत्। तथा च श्रीहेवज्रे -

एकाराकृति यद्दिव्यं मध्ये वंकारभूषितम्।
आलयः सव्वसौख्यानां वुद्धरत्नकरण्डकम्।।

अन्यत्राप्युक्तं-

एकारस्तु भवेत् माता वकारस्तु रताधिपः।
विन्दु चानाहतं ज्ञानं तज्जातान्यक्षराणि च।।

(१५९)

जइ पवण-गमण-दुआरे दिद ताला वि दिज्जइ।
जइ तसु घोरान्धारे मण दविहो किज्जइ।
जिण रअण उअरेँ जइ सो वरू अम्वरू छुप्पइ।
भणइ काण्ह भव भुञ्जन्ते णिव्वाणो वि सिज्झइ।। २२।।

अयमर्थः। पवनस्य गमनद्वारं तत्रार्द्ध यदिदमभेदितमभेद्यतालसंपुटीकरणं चन्द्रसूर्य्ययोर्मार्गनिरोधं दीयते। यदि तस्मिन् घोरान्धकारे मनोर्वृत्तिर्बोधिचितं तदेव महासुखप्रकाशकत्वात् दीपः क्रियते तज्जिनरत्नं अघऊर्द्धपद्मं वरगगणाख्यमवधूती स्पृशति तमालिङ्गयति। एतेन किं स्यादित्याह। भणति कृष्णवज्रः तदेवं भवं भुज्यमाने सति पञ्चकामगुणानुभवं कुर्व्याणे निर्व्वाणं महामुद्रापदं साक्षाद्भवति।

एतदेव स्पष्टयन्नाह -

जो णत्थु णिच्चल किअउ मण सो धम्मक्खर पास।
पवणहो वज्झइ तक्खणे विसआ होन्ति णिरास।। २३।।

अयमर्थः। स पुरूषो वज्राब्जयोगे निश्चलीकृत्य मनो बोधिचित्तं पूर्व्वोक्तलक्षणानाहताक्षर महामुद्रापार्श्वे पवनोऽपि प्राणावायुर्बध्यते। तत्क्षणं क्षणान्तरं नापेक्षित इत्यर्थः। अष्टादशधातुविकाररहितत्वात्। तथा च सरहपादाः -

ते धातवः क्षीणतरा बभूवुर्वायुः स्वतन्त्रो यत एष एव।
सा कामिनी कामुक [ क ] ण्टलग्ना अद्यापि किं कायसुखं सुहृन्मे।।

ननु धर्म्माक्षरमे [ तत् ] कुत्र ज्ञातव्यमिति।

(१६०)

परमविरम जहिँ वेण्णि उएक्खइ।
तहिँ धम्मक्खर मज्झे लक्खइ।।
अइस उएसे जइ फुड सिज्झइ।
पवण घरिणि तहिँ णिच्चल वज्झइ।। २४।।

अयमर्थः। परमविरमौ रागविरागौ कालविकालरूपौ द्वावुपेक्षध्वम्। तत्र धर्म्माक्षरमुक्तलक्षणं षोडशीकलारूपं मध्ये लक्षयेदिति। पूर्वोक्तज्ञानमुद्रोपदेशप्रतिपादनार्थमाह। ईदृशेन मन्त्रनयोपदेशेन यदि स्फुटमेतत् ज्ञानमुद्रा सिद्धयतिसम्पद्यते तदा किं भवतीत्याह। प्राणवायोर्गृहिण्याः तस्या ज्ञानमुद्रायाः शवरीरूपायाः स्थिरं बाध्यते निश्चलीभवतीत्यर्थः। ननु शवरी तावत् पतिता शवरः पुनः किंभूतः कुत्र वसतीत्याह।

वरगिरि-सिहर उत्तुङ्ग मुणि सवरेँ जहिँ किअ वास।
णउ सो लंघिअ पञ्चाणणेहि करिवर दुरिअ आस।। २५।।

वरगिरिः स एवं पूर्वोक्तगिरिस्थाने शिखर शृङ्ग तदेव महासुखाधारत्वात् उत्तुङ्ग महत् तत्र शवरेण वज्रधरेण भगवता कृतो वासः किंविशिष्ट इत्याह। न तल्लङ्घितो नाक्रान्तः केनेति पञ्चमण्डलात्मकप्राणपवनकरिवरस्य चित्तगजेन्द्रस्य दूरतरमिति ।

एहु सो गिरिवर कहिअ मइँ एहुसो महासुह-ठाव ।
एक्कु रअणि सहजखण लव्भइ महासुह जाव।। २६।।

(१६१)

अयमर्थः। स एव गिरिवरः कथितो मया कृष्णवज्रेण नान्येन कथितं मद्विधा अपरे कथितुं [ न ] समर्थ इति विवृत्या एतदेव महासुखस्थानं पूर्वोक्तमेव स्थली एतस्मिन्। तदेव महासुखलक्षणं निर्वाणं कुरूत यावच्चतुर्द्दशभूमीश्वरो वज्रधरपदं न लभ्यते। किम्भूतोऽसौ वज्रधर इत्याशङ्क्याह -

सव जगु काअ-वाअ-मण मिलि विफुरइ तहिसो दूरे।
सो एहु भङ्गे महासुह णिव्वाण एक्कु रे।। २७।।

अयमर्थः। सर्वे ते वैरोचनादयस्तथागता रूपादिपञ्चस्कन्धस्वरूपेण जगदाकारास्तेषां कायवाक्चित्तं पृथिव्यादिरूपेण वैरोचनादिदेव्याहि ताभिर्मिलितमेकलोलीभूतं महारागादि संबोधिलक्षणवज्रधरशरीरं क्षीरनीरन्यायेन एभिः समरसीभावः तत्रैव वज्रधरशरीरे तदेव कायवाक्चित्तादिकं जलतरङ्गन्यायेन विस्फुरति। अनेन त्रैधातुकं वज्रधरशरीरमित्यर्थः।

एक्कु ण किज्जइ मन्त ण तन्त।
णिअ घरिणी लइ केलि करन्त।।
णिअ घरे घरिणी जाव ण मज्जइ।
ताव कि पञ्चवण्ण विहरिज्जइ।। २८ ।।

अस्यायमर्थः। एकमपि न क्रियते मन्त्रो न मन्त्रजापः तन्त्रो न तन्त्रपाठ निजगृहिणी ज्ञानमुद्रा शुचित्वावभासा सद्गुरूपदेशेन तां गृहीत्वा केलि क्रीडां कुर्वता योगिना स्थेयमिति। तथावादि च -

(१६२)

केचित्तस्याभासमात्रा सुमनसि जनिता दर्शबिम्बोपमा वै।
योगीन्द्रैः सेवनीया परमजिनसुतैः सेविता या च बुद्धैः।।
सा ज्ञानार्च्चि प्रवृद्धा दहति सविषयं मारवृन्दं समस्तम्।
रागादिञ्चापि काये दहति समसुखं योगिनां वर्षयोगात्।।

एतस्यां भगवत्याम् आसक्तेन योगिना मन्त्रतन्त्रग्रहो न कर्त्तव्यमिति। निजगृहिणी महामुद्रारूपं तत्र गृहिणी सैव ज्ञानमुद्रायाः यावन्न मज्जति न लीयते तावत् किं पञ्चवर्णसंस्थानैः किं क्रियत इति। अस्या एव महामुद्रायाः फलं साधनोपायत्वं निश्चयेन दर्शयन् पुनस्तदेवाह।

एसो जप-होमे मण्डल-कम्मे।
अणुदिण अच्छासि काहिउ धम्मे।।
तो विणु तरूणि णिरन्तर णेहेँ।
वोहि कि लव्भइ एण वि देहेँ।। २९।।

अनेन बाह्यभूतेन होमेन मण्डलकर्मणा अनुदिनं तिष्ठसि किं मूढ मनसा [ मू ] ढ [ केन ] प्रकारेण। कथमेतत् सर्व्व निष्फलमिति। तया विना सदैव रागमयः तरूण्या महामुद्रया सह रतिरन्तरमनवच्छिन्नानुरागस्तेन विना किं महामुद्रा लभ्यते अनेन मनुष्यदेहेनेति। मनुष्यदेहं विहाय देहान्तरेण बोधिर्न स्यात् किं सत्यमेतत्। कुतः नरा वज्रधराकारा योषितो वज्रयोषितः इति वचनात् तस्याः फलमाह।

जेँ वुज्झिअ विरल सहजखण काहिँ वेअ-पुराण।
तेँ तुडिअ विसअ-विअप्प जगु रे असेस परिमाण।। ३०।।

(१६३)

येन प्रतीतं सदोदितं महामुद्रास्वरूपं सहजलक्षणं पूर्व्वस्मात् ख्यातमागमं तेन योगिना सकलविकल्पावशेषमनो अहंकार स्फोटितमुन्मूलितमित्यर्थः।

जेँ किअ णिच्चल मण-रअण णिअ घरिणी लइ एत्थ।
सोइ वाजिर णाहु रे मयिँ वुत्त परमत्थ।। ३१।।

अयमर्थः। येन कृतं प्रचण्डाली चालयितुमशक्यत्वात् निश्चलं मनोरत्नं बोधिचित्तं निजगृहिणी इयमेव दिव्यमुद्रा तत्रैव एवंकारे महासुखस्थाने स एव वज्री वज्रधरो नाथः कायवाक्चित्तप्रभुः। उक्तो मया कृष्णवज्रेण परमोऽकृत्रिमोऽयमर्थः। एतस्मिन्नन्यथा नास्तीत्यर्थः। एतदेव स्पष्टयन्नाह -

जिम लोण विलिज्जइ पाणिएहि तिम घरिणी लइ चित्त।
अमरस जाइ तक्खणे जइ पुणु ते सम णित्त।। ३२।।

अयमर्थः। यथा लवणं विलीयते पानीयेन तथा गृहिणी ज्ञानरूपिणी गृहीत्वा चित्तं समरसमेकलोलीभावं गच्छेत् तत्क्षण यदि पुनस्तया सुखचित्तरूपया गृहिण्या समं नित्यं अवस्थितो भवतीति एतेन युगनद्वा वज्रसत्त्वा दर्शिता इति।

इत्याचार्यपादीय-दोहाकोषमेखलाटीका समाप्ता।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project