Digital Sanskrit Buddhist Canon

द्वात्रिंशत्तमपरिवर्तः

Technical Details


 



द्वात्रिंशत्तमपरिवर्तः।



 



सम्यगधिगतानामेव समाधीनां व्यापारकथनार्थमाह। सह प्रतिलब्धानां च सुभूत इत्यादि। पुनरप्यादरोत्पादनाय परीन्दनार्थमुपोद्धातयन्नाह। तत्र खलु पुनर्भगवानित्यादि। तदनेनापीति। यस्मादार्यसदाप्ररुदितस्यैवमर्थकारिका। तस्मादनेनापि न केवलं प्रागुक्तपर्यायेणेत्यर्थः,तथागताधिष्ठानेनेति महानुशंसत्वेन बह्वन्तरायत्वात्सहसापि लिखितुमशक्या। तस्मात्तथागतानुभावेनोपोद्धातं कृत्वैवं परीन्दनामावेदयन्नाह। तस्मात्तर्ह्यानन्देत्यादि। किं निबन्धनेयं विस्तरेण परीन्दनेति। तत्कस्य हेतोरित्याशङ्क्याह। अत्र हि प्रज्ञापारमितायामित्यादि। तदेव स्पष्टयन्नाह। तत् किं मन्यस इत्यादि। एवं संक्षिप्तविस्तररुचिसत्त्वानुग्रहेण सर्वाकारज्ञतादयः सकारित्रधर्मकायावसानाः सर्व एवाष्टौ पदार्थाः समुपजाता भवन्ति। अथवा प्रथमं सर्वाकारज्ञतादित्रिसर्वज्ञताभिलक्ष्यस्थानीयत्वेन लक्षणम्। ततो वशित्वार्थं त्रिसर्वज्ञताभावनां प्रति प्रयुज्यतेऽनेनेति त्रिसर्वज्ञताप्रयोगः सर्वाकाराभिसंबोधः। ततोऽत्यभ्यासात्प्रकर्षागमनमिति त्रिसर्वज्ञताप्रकर्षावस्थो मूर्धाभिसमयः। ततोऽधिगतवस्तुनिश्रयाय व्यस्तसमस्तविभावितार्थप्रगुणीकरणमिति त्रिसर्वज्ञतानुक्रमावस्थोऽनुपूर्वाभिसमयः। ततो विशेषगमनभावात्त्रिसर्वज्ञतानिष्ठावस्थः सम्यगेकक्षणाभिसम्बोधः। ततस्तस्य फलमिति त्रिसर्वज्ञताविपाको धर्मकायः सकारित्र इत्यमुना षट्प्रकारेणार्थसङ्ग्रहेण संक्षिप्तमध्यरुचिसत्त्वानुकम्पया पूर्ववदियं जिनजननी व्याख्येया। तथा चोक्तम्।



 



लक्षणं तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रमः।



तन्निष्ठा तद्विपाकश्चेत्यन्यः षोडार्थसङ्ग्रहः॥१॥ इति।



 



अथवाऽऽदौ सर्वाकारज्ञतादित्रिसर्वज्ञतास्वभावः प्रवृत्तिगोचरत्वाद्विषयः। स कथं प्रयुज्यत इति। तदनन्तरं सर्वाकाराभिसम्बोधादिश्चतुर्विधोऽभिसमयो हेतुस्वभावः प्रयोगः। तस्यैवं प्रयोगवतो विषयस्य किं फलमिति। तदनु धर्मकायः सकर्मफलमित्येवं त्रिविधेनार्थसङ्ग्रहेण संक्षिप्तसंक्षेपरुचिसत्त्वानुरोधेन तथैवेयं भगवती व्याख्येया। तथा चोक्तम्।



 



विषयस्त्रितयो हेतुः प्रयोगश्चतुरात्मकः।



धर्मकायः फलं कर्मेत्यन्यस्त्रेधार्थसङ्ग्रहः॥२॥ इति।



 



इदमवोचद्भगवानित्यादि। सान्निध्यमात्रतस्तस्य पुंसश्चिन्तामणेरिव निःसरन्ति यथाकामं कुद्र्यादिभ्यो देशना इति न्यायेन भव्यविनेयजनदैशिकत्वाध्यवसायादिमनन्तरोदितमखिलं प्रज्ञापारमितासूत्ररत्नतत्त्वमवोचदुक्तवान् भगवानात्तमना हृष्टचितः। यद्यपि चान्यैरार्यसुभूतिप्रभृतिभिरपि किञ्चिदुक्तम्,तत्तु भगवदाधिपत्यादेवेत्यदोषः। ते चार्यमैत्रेयप्रमुखा महाबोधिसत्त्वा विभक्तिविपरिणामेन सम्बन्धादात्तमनसो भाषितमभ्यनन्दन्निति सम्बन्धः। चकारः सवर्त्रोत्तरापेक्षया समुच्चयार्थः। तथार्यसुभूतिरप्यात्तमना वचनविपरिणामेन सम्बन्धाद्भाषितमभ्यनन्ददिति सम्बन्धः। एवमार्यशारिपुत्राद्यपेक्षया प्रत्येकं योज्यम्। देवमानुषासुरगन्धर्वैः सह वर्तत इति सदेवमानुषासुरगन्धर्वो लोकः। ननु च कोऽपरस्तद्व्यतिरिक्तो लोकोऽस्ति यस्तैः सह वर्तत इत्युच्यते। समुदायसमुदायिनोर्भेदापेक्षया तथावचनाददोषोऽयम्। अपि च सन्त्यन्येऽपि बहवः किन्नरमहोरगगरुडादय इत्यचोद्यमेतत्। एते सर्वेऽपि सद्धर्मश्रवणान्नान्यत् स्वहितं परहितं च गुरुतरमुपलब्धवन्तः,अतः प्रमोदकारणसद्भावात् संजातप्रमोदातिशयाः सन्तो भगवता भाषितं साधु भगवन् परमेश्वर करुणामयमूर्ते सुभाषितमिदं युष्माकं वचमित्यादिनाऽभ्यनन्दन्नित्यभिनन्दितवन्त इत्यर्थः॥



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां परीन्दनापरिवर्तो नाम द्वात्रिंशत्तमः॥



 



सर्वैवाधिगमार्थतत्त्वपदवी सम्यक्समुद्योतिता



संक्षिप्तादिपदाभिधानकुशलैरेवं यतो नायकैः।



सर्वस्मिन् विहितश्रमैः प्रवचने ज्ञेयो विशेषस्ततः



प्रज्ञापारमितानये पुनरयं ग्रन्थात्मकः केवलः॥



 



आर्यासङ्गमतानुसारिसुधियां निर्मत्सराणां सतां



भद्रस्यापि गुरोर्बहुश्रुतवतो वैरोचनज्ञानिनः।



सामर्थ्यादुपजातपाटवलवो भद्रोऽकरोद्भक्तितः



स्पष्टार्थां हरिसंज्ञको भगवतीमार्यामिमां सर्वशः॥



 



तथ्यातथ्यविभागयुक्तिविकलज्ञानोदयात्संवृतौ



संसारार्णवपङ्कनिमग्नमनसो जाताः सदा देहिनः।



सर्वेऽमी जननीनिबन्धनकृताद्वीजान् मयाऽप्ताच्छुभात्



सर्वाकारवरा भवन्तु नियतं कायत्रयप्रापिणः॥



 



संबुद्धैः ससुतैरियं सुविवृता माता क्क वा संस्थिता



क्वाहं धीधनसम्पदामविषयो वाचां तथाऽगोचरः।



भूयासं जड एवमेति सततं जन्मान्तरेष्वप्यह-



मभ्युह्यैव मिदं कृतं न विदुषां युक्तं समुल्लङ्घितुम्॥



 



इर्ष्याशल्यवितुद्यमानहृदयाः शक्ता न कर्तुं क्षतिं



मिथ्यामानबलार्जितश्रुततया प्रज्ञावतामग्रतः।



पातालादिव खं विदूरमसतां पुंसां सताञ्चान्तरं



तस्मादेव तथाविधान् प्रति न नः सूक्ष्मापि काचिद्व्यथा॥



 



ख्यातो यो भुवि पुण्यकीर्त्तिनिचयो विद्वज्जनालङ्कृत-



स्तस्मिन् सर्वगुणाकरे त्रिकुटुकश्रीमद्विहारे शुभे।



दानाल्लब्धमहोदयस्य करुणादेवस्य धर्मात्मनः



सानाथ्येन सुखोपधाननिलये स्थित्वा विवेकास्पदे॥



 



क्रुध्यत्कुञ्जरकुम्भपीठदलनव्यासक्त्यत्यात्मनः



पुण्याभ्यासकृताभियोगजबलात्सम्यक्समादायिनः।



राज्ये राज्यभटादिवंशपतितश्रीधर्मपालस्य वै



तत्त्वालोकविधायिनी विरचिता सत्पञ्जिकेयं मया॥



 



योऽलङ्कारोऽभिसमये तदालोकप्रकाशिका



प्रज्ञापारमिताव्याख्या समाप्तेयं शुभोदया।



न्यूनातिरेकशङ्कायां विज्ञातव्योऽधुना बुधैः



ग्रन्थस्यास्य परिच्छेदो मातुरस्याः प्रमाणतः॥



 



कृतिरियमाचार्य-हरिभद्रपादानाम्॥



 



ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।



तेषां च यो निरोध एवंवादी महाश्रमणः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project